अ...

विकिपुस्तकानि तः
Jump to navigation Jump to search

अतीन्द्रियत्वम् =
इन्द्रियाग्राह्यत्वम्। इन्द्रियजन्यप्रत्यक्षाविषयत्वम्
यथा मनः अतीन्द्रियम्, इन्द्रियाग्राह्यम्, इन्द्रियजन्यप्रत्यक्षाविषयं वा।

अत्यन्ताभावः =
रहितत्वम्। शून्यत्वम् ।
यथा भूतले घटात्यन्ताभावः , घटरहितत्वं ,घटशून्यत्वं वा ।
यथा पुरुषे स्तन्यात्यन्ताभावः, स्तन्यरहितत्वं. स्तन्यशून्यत्वं वा

अधिकरणता =
अधिकरणत्वम्। आधारता।अधारत्वम्।आश्रयता।आश्रयत्वम्।
यथा ’भूतले घटः ’ इत्यत्र भूतले अधिकरणता अधिकरणत्वम्, आधारता, आधारत्वम् , आश्रयता , आश्रयत्वं वा।
यथा रक्ते पित्तम् इत्यत्र रक्ते अधिकरणता अधिकरणत्वम्, आधारता, आधारत्वम् , आश्रयता , आश्रयत्वं वा।

अधिकरणत्वम् =
अधिकरणता। आधारता।अधारत्वम्।आश्रयता।आश्रयत्वम्।
यथा ’भूतले घटः ’ इत्यत्र भूतले अधिकरणत्वम्, अधिकरणता अधारता, आधारत्वम् , आश्रयता , आश्रयत्वं वा।
यथा रक्ते पित्तम् इत्यत्र रक्ते अधिकरणत्वम्, अधिकरणता अधारता, आधारत्वम् , आश्रयता , आश्रयत्वं वा।

अध्यक्षम् =
प्रत्यक्षम्।अपरोक्षम्।साक्षात्कारः।उपलब्धिः।उपलम्भः
यथा स्फीतालोकवर्तिनः घटस्य अध्यक्षं, प्रत्यक्षम्, अपरोक्षं, साक्षात्कारः,उपलब्धिः, उपलम्भः वा चक्षुषा भवति।
व्रणगतपूयगन्धस्य अध्यक्षं प्रत्यक्षम् अपरोक्षं, साक्षात्कारः उपलब्धिः उपलम्भः वा घ्रानेन्द्रियेण भवति।

अनन्तत्वम् =
ध्वंसाप्रतियोगित्वम्।नाशाप्रतियोगित्वम्।ध्वंसशून्यत्वम्।नाशशून्यत्वम्।
यथा आत्मनि अनन्तत्वं, ध्वंसाप्रतियोगित्वं, नाशाप्रतियोगित्वं, ध्वंसशून्यत्वं
नाशशून्यत्वं वा विद्यते।

अनादित्वम् =
उत्पत्तिशून्यत्वम्।प्रागभाव-अप्रतियोगित्वम्।
यथा आत्मनि अनादित्वम्, उत्पत्तिशून्यत्वं,, प्रागभाव-अप्रतियोगित्वं वा विद्यते।

अनुमा =
अनुमितिः।
यथा पर्वतस्थेन धूमेन अग्नेः अनुमा अनुमितिः वा भवति।
यथा व्यायामशक्त्या बलस्य अनुमा अनुमितिः वा भवति।

अनुमानम् =
व्याप्तिज्ञानम्।
यथा पर्वतस्थहः वन्हिः अनुमानेन, व्याप्तिज्ञानेन वा गृह्यते।
यथा देहबलम् अनुमानेन व्याप्तिज्ञानेन वा गृह्यते।

अनुमितत्वम् =
अनुमिनिविषयत्वम्।
यथा वह्नौ अनुमितत्वम् अनुमितिविषयत्वं वा विद्यते।
यथा बलं व्यायामशक्त्या परीक्षेत इति वचनात् बले अनुमितत्वम्, अनुमिति-विषयत्वं वा विद्यते।

अनुमितिः =
अनुमा।
पर्वतस्थेन धूमेन अग्नेः अनुमितिः अनुमा वा भवति।
व्यायामशक्त्या बलस्य अनुमितिः अनुमा वा भवति।

अनुमिनिविषयत्वम् =
अनुमितत्वम्।
यथा वह्नौ अनुमितिविषयत्वम्, अनुमितत्वं वा विद्यते।
यथा बलं व्यायामशक्त्या परीक्षेत इति वचनात् बले अनुमितिविषयत्वम्, अनुमितत्वं वा विद्यते।

अनैकान्तिकः =
सव्यभिचारः।व्यभिचारी।
यथा पर्वतो वह्निमान, पार्थिवत्वात् इत्यनुमाने पार्थिवत्वम् इति हेतुः अनैकान्तिकः,सव्यभिचारः, व्यभिचारी वा।
यथा अयं कामली, पीतमूत्रवत्त्वात् इत्यनुमाने पीतमूत्रवत्त्वम इति हेतुः अनैकान्तिकः,सव्यभिचारः, व्यभिचारी वा।

अन्यत्वम् =
अन्योन्याभावः।इतरत्वम्।भिन्नत्वम्।भेदः।भेदवत्वम्।
यथा घटे पटान्यत्वं,पट-अन्योन्याभावः, पटेतरत्वं, पटभिन्नत्वं, पटभेदः, पटभेदवत्वं वा ।
यथा पित्ते रक्तान्यत्व. रक्तान्योन्याभावः, रक्तेतरत्वं, रक्तभिन्नत्वं, रक्तभेदः, रक्तभेदवत्त्वं वा।

अन्योन्याभावः =
अन्यत्वम्।इतरत्वम् । भिन्नत्वम्। भेदः।भेदवत्वम्।
यथा घटे पट-अन्योन्याभावः पटान्यत्वं, , पटेतरत्वं, पटभिन्नत्वं, पटभेदः, पटभेदवत्वं वा वर्तते।
यथा पित्ते रक्तान्योन्याभावः,रक्तान्यत्वं. रक्तेतरत्वं, रक्तभिन्नत्वं, रक्तभेदः, रक्तभेदवत्त्वं वा वर्तते।

अन्वयदृष्टान्तः =
अन्वयि-उदाहरणम्।सपक्षः।
यथा यत्र धूमस्तत्राग्निः इति व्याप्तौ महानसः अन्वयदृष्टान्तः,अन्वयि-उदाहरणं , सपक्षः वा ।
यथा यत्र व्यायामशक्तिः तत्र बलम् इति व्याप्तौ बलवान् भीमसेनः अन्वयदृष्टान्तः, अन्वयि-उदाहरणं , सपक्षः वा ।

अन्वयबोधः =
शाब्दबोधः।शाब्दज्ञानम्।शाब्दबुद्धिः।वाक्यार्थबोधः।वाक्यार्थज्ञानम्।
यथा ‘चैत्रः पचति’ इति वाक्यात् ‘पाकानुकूलकृत्याश्रयः चैत्रः’ इति वाक्यार्थज्ञानं शाब्दबोधः, शाब्दज्ञानं, शाब्दबुद्धिः, अन्वयबोधः, वाक्यार्थबोधः, वा भवति।
यथा ‘न नक्तं दधि भुञ्जीत’ इति वचनात् ‘ निशाकालावच्छिन्न-दधिविषयक-भक्षणव्यापारनिष्ठ-निषिद्धताबोधनानुकूलव्यापारवान् ग्रन्थकारः’ इति वाक्यार्थबोधः, शाब्दबोधः, शाब्दज्ञानं,शाब्दबुद्धिः, अन्वयबोधः, वाक्यार्थज्ञानं वा भवति।

अपरोक्षज्ञानविषयः =
प्रत्यक्षः।प्रत्यक्षज्ञानविषयः।साक्षात्कृतः।साक्षात्कारविषयः।उपलब्धः।उपलब्धि-विषयः।
स्फीतालोकवर्ती घटः अपरोक्षज्ञानविषयः प्रत्यक्षः प्रत्यक्षज्ञानविषयः साक्षात्कृतः साक्षात्कारविषयः उपलब्धः उपलब्धिविषयः वा अस्ति।
देहसन्तापः अपरोक्षज्ञानविषयः प्रत्यक्षः, प्रत्यक्षज्ञानविषयः, साक्षात्कृतः, साक्षात्कारविषयः, उपलब्धः, उपलब्धिविषयः वा अस्ति।

अपरोक्षम् =
प्रत्यक्षम्।साक्षात्कारः।उपलब्धिः।अध्यक्षम्।उपलम्भः।
यथा स्फीतालोकवर्तिनः घटस्य अपरोक्षं, प्रत्यक्षं, साक्षात्कारः,उपलब्धिः, अध्यक्षम् उपलम्भः, वा चक्षुषा भवति।
यथा व्रणगतपूयगन्धस्य अपरोक्षं, प्रत्यक्षं, साक्षात्कारः, उपलब्धिः, अध्यक्षम्, उपलम्भः वा घ्राणेन्द्रियेण भवति।

अप्रमा =
अयथार्थानुभवः। भ्रमः।
यथा रज्ज्वां सर्पज्ञानम् अप्रमा, अयथार्थनुभवः, भ्रमः वा ।
यथा अपक्वव्रणशोथे पाकज्ञानम् अप्रमा, अयथार्थनुभवः, भ्रमः वा ।

अभावः =
व्यतिरेकः
य़था भूतले घटस्य अभावः व्यतिरेकः वा।
यथा पित्ते शीतगुणस्य अभावः व्यतिरेकः वा।

अभावनिरूपितत्वम् =
अभावीयम्।
घटस्य अभावः इत्यत्र घटे या प्रतियोगिता. सा अभावनिरूपितप्रतियोगिता, अभावीयप्रतियोगिता वा।
ज्वरमुक्ते पुरुषे ज्वराभावः वर्तते।अत्र ज्वरे या अभावस्य प्रतियोगिता, सा अभावनिरूपित-प्रतियोगिता, अभावीयप्रतियोगिता वा।

अभावाभावत्वम् =
प्रतियोगित्वम्।
भूतले विद्यमाने घटे घटाभावाभावः घटाभावप्रतियोगित्वं वा विद्यते।
गोदुग्धे रसायनत्वाभावाभावः रसायनत्वाभाव-प्रतियोगित्वं वा विद्यते।

अभावीयत्वम् =
अभावनिरूपितत्वम्।
घटस्य अभावः इत्यत्र घटे या प्रतियोगिता सा अभावीयप्रतियोगिता, अभावनिरूपितप्रतियोगिता वा।
ज्वरमुक्ते पुरुषे ज्वराभावः वर्तते।अत्र ज्वरे या अभावस्य प्रतियोगिता, सा अभावीय-प्रतियोगिता, अभावनिरूपितप्रतियोगिता वा।

अभिधा =
ईश्वरसङ्केतः।ईश्वरेच्छा।शक्तिः।
‘भूः इति पदात् भूमिरिति अर्थः बोद्धव्यः’ इति अभिधा, ईश्वरसङ्केतः, ईश्वरेच्छा, शक्तिः, वा।

अभिधेयः =
ज्ञेयः। पदार्थः। प्रमेयम्।
यथा घटः अभिधेयः, ज्ञेयः, पदार्थः प्रमेयं वा।
यथा कफः अभिधेयः, ज्ञेयः, पदार्थः प्रमेयं वा।

अभिधेयत्वम् =
वाच्यत्वम्
यथा घटः अभिधेयः, वाच्यः वा।
यथा वातः अभिधेयः, वाच्यः वा।

अभेदसम्बन्धः =
तादात्म्यसम्बन्धः।
घटकलशयोः तादात्म्यसम्बन्धः अभेदसम्बन्धः वा।
रक्तासृजोः तादात्म्यसम्बन्धः अभेदसम्बन्धः वा।

अयथार्थानुभवः =
अप्रमा।भ्रमः।
यथा रज्ज्वां सर्पज्ञानम् अयथार्थनुभवः, अप्रमा, भ्रमः वा ।
यथा अपक्वव्रणशोथे पाकज्ञानम् अयथार्थनुभवः, अप्रमा, भ्रमः वा ।

असद्धेतुः =
दुष्टहेतुः।हेत्वाभासः।
‘पर्वतो वह्निमान् पार्थिवत्वात्’ इत्यनुमाने पार्थिवत्वमिति असद्धेतुः, दुष्टहेतुः, हेत्वाभासः वा।
‘देवदत्तः तीक्ष्णाग्निः बहुभोजनत्वात्’ इति अनुमाने बहुभोजनत्वम् इति असद्धेतुः, दुष्टहेतुः, हेत्वाभासः वा।

असाधारणधर्मः =
लक्षणम्।
गन्धः इति पृथिव्याः असाधारणधर्मः, लक्षणं वा।
इतिकर्तव्यताविशिष्ट-रोगोत्पत्तिकारणम् इति हेतोः असाधारणधर्मः, लक्षणं वा।

असामानाधिकरण्यम् =
वैयधिकरण्यम्।विरोधः।विरुद्धत्वम्।एकाधिकरणवृत्तित्वाभावः।एकाधिकरण-अवृत्तित्वम्। व्यधिकरणत्वम्।भिन्नाधिकरणत्वम्।
शीतस्पर्शोष्णस्पर्शयोः असामानाधिकरण्यं, वैयधिकरण्यं, विरोधः, विरुद्धत्वम्, एकाधिकरण-वृत्तित्वाभावः, एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं.भिन्नाधिकरणत्वं वा विद्यते।
समविषमाग्न्योः असामानाधिकरण्यं, वैयधिकरण्यं, विरोधः, विरुद्धत्वम्,एकाधिकरणवृत्तित्वाभावः,एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं, भिन्नाधिकरणत्वं वा विद्यते।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः
"https://sa.wikibooks.org/w/index.php?title=अ...&oldid=6450" इत्यस्माद् प्रतिप्राप्तम्