आगमप्रकरणे निरूपितम् ओङ्कारस्वरूपम्...।

विकिपुस्तकानि तः
Jump to navigation Jump to search

शास्त्रसङ्गतिः-
गौडपादकारिका इति वेदान्तग्रन्थः।आत्मतत्त्वप्रतिपत्तिः इति सर्वेषां वेदान्तानां प्रयोजनम्।तत्र उपायः ओङ्कारनिश्चयः।अतः अस्मिन् ग्रन्थे आगमप्रकरणे ओङ्कारनिर्णयः क्रियते।

ओङ्कारनिर्णयः सङ्क्षेपेण-
ओम् इत्येतद् अक्षरमिदं सर्वम्। - माण्डूक्योपनिषत् ।१
इति एतत् सङ्क्षेपतः ओङ्कारस्य स्वरूपम्।इदन्त्वेन निर्दिश्यमानं सर्वं भूतं भवत् भविष्यय् पदार्थजातम् ओङ्कारशब्दस्याभधेयरूपम् इत्यर्थः।अस्य सिद्धान्तस्य विस्तरेण निरूपणम् आगमप्रकरणे विद्यते।

ओङ्कारनिर्णयः विस्तरेण-
सर्वशब्देन अत्र आत्मा विवक्षितः।
सर्वं हि एतद् ब्रह्म, अयमात्मा ब्रह्म। - माण्डूक्योपनिषत् ।२
अधुना सर्वशब्दस्य अर्थः ‘आत्मा’ तथा ‘ओङ्कारः’ इति एतयोः ऐक्यं प्रतिपादनीयम्।
तत्र ओङ्कारः अभिधानम्।आत्मा अभिधेयम्।एवं तयोः अभेधेयाभिधानभावसम्बन्धः (वाच्य-वाचक-भावसम्बन्धः) अस्ति।अभिधेयः आत्मा तथा अभिधानम् ओङ्कारः इति एतयोः ऐक्यम् अभ्युपगम्यते उपासनार्थम्।
एतद् ऐक्यम् अवयवशः अपि अग्रे आगमप्रकरणे प्रतिपाद्यते।आत्मनः कल्पिताः आत्मनः चत्वारः पादाः सन्ति वैश्वानरः, तैजसः प्राज्ञः तथा तुरीयः।ओङ्कारस्य तिस्रः मात्राः सन्ति – अकारः, उकारः , मकारः च।वैश्वानर-तैजस-प्राज्ञानाम् आत्मपादानां क्रमात् अकार-उकार-मकारैः ओङ्कारमात्राभिः सह ऐक्यं प्रतिपाद्यते-
पादा मात्राः, मात्राः च पादाः ..। माण्डूक्योपनिषत् ८
इति।प्रत्येकम् ऐक्यप्रतिपादने हेतुः अपि उक्तः।ऐक्यज्ञानस्य फलमपि उक्तम्।तद्विवरणम् एवम् -

अकारः -
ओङ्कारस्य प्रथमा मात्रा अकारः।आत्मनः प्रथमः पादः वैश्वानरः।उभयोः ऐक्यम् अस्ति।तत्र सामान्यधर्मः अस्ति आप्तिः।
आप्तिः इत्युक्ते व्याप्तिः।अकारेण सर्वा वाग् व्याप्ता अस्ति।अकारो वै सर्वा वाक् इति श्रुतिः तत्र प्रमाणम्।वैश्वानरेण अपि जगद् व्याप्तम्।‘वैश्वानरस्य मूर्धैव सुतेजाः...’इति श्रुतौ वैश्वानरस्य व्यापकत्वं प्रतिपादितम्।एवं व्याप्तिः इति अकारवैश्वानरयोः सामान्यधर्मः।
अपरः अपि सामान्यधर्मः उभयोः विद्यते- आदिमत्त्वम्।अकारः अक्षराणाम् आदिः।तथैव वैश्वानरः आत्मपादानाम् आदिः।अनेन साम्येन अपि उभयोः ऐक्यं प्रतिपाद्यते।

उकारः
ओङ्कारस्य द्वितीया मात्रा उकारः।आत्मनः द्वितीयः पादः तैजसः।उभयोः ऐक्यम् अस्ति। तत्र सामान्यधर्मः अस्ति- उत्कर्षः।
अकाराद् उकारः उत्कर्षयुक्तः।तैजसः वैश्वानराद् उत्कर्षयुक्तः।अतः उभयोः उत्कर्षरूपः समानधर्मः अस्ति।
उभयतः योगः इति उभयोः अपरं सामान्यम्।उकारः एकतः अकारेण सम्बद्धः,अन्यतः मकारेण सम्बद्धः।तथैव तैजसः एकतः वैश्वानरेण सम्बद्धः, अन्यतः प्राज्ञेन सम्बद्धः।एवम् उभयसम्बन्धरूपसामान्याद् उभयोः ऐक्यमस्ति।

मकारः
ओङ्कारस्य तृतीया मात्रा मकारः।आत्मनः तृतीयः पादः तैजसः।उभयोः ऐक्यम् अस्ति। तत्र सामान्यधर्मः अस्ति- मितिः। मितिः मानम्।मकारेण अकारोकारौ मीयेते इव।ओङ्कारस्य उच्चारः यदा समाप्तः भवति, तदा अकारोकारौ मकारे प्रविशतः इव।पुनरुच्चारे तौ मकाराद् विनिर्गच्छतः इव।यवगणनाकाले यथा यवाः मानपात्रं प्रविशन्ति,पुनः विनिर्गच्छन्ति तथा अकारोकारौ मकारं प्रविशतः, पुनः विनिर्गच्छतः।अतः मकारः अकारोकारयोः मानम् इव अस्ति।
एषा मितिः प्राज्ञे अपि अस्ति।विश्वतेजसौ निद्राकाले प्राज्ञं प्रविशतः।प्रबोधकाले पुनः तस्माद् विनिर्गच्छतः।प्राज्ञः विश्वतेजसोः मानम् इव भवति। एवं मितिरूपेण समानधर्मेण उभयोः मकारप्राज्ञयोः ऐक्यम् अवगन्तव्यम्।
अपरःअपि समानधर्मः अस्ति मकारप्राज्ञयोः- अपीतिः।अपीतिः इति एकीभावः। ओङ्कारस्य उच्चारे अकारोकारौ अन्तिमे मकारे एकीभवतः इव।एवमेव विश्वतेजसौ निद्रायां प्राज्ञे एकीभवतः इव।अतः अपीतिसामान्याद् उभयोः ऐक्यं बोद्धव्यम्।

अमात्रः
यस्य मात्रा न विद्यते तादृशः ओङ्कारः अमात्रः ओङ्कारः।तस्य तुर्येण आत्मपादेन सह ऐक्यं विद्यते।यः एवं वेत्ति सः स्वेन आत्मना स्वमेव प्रविशति।न तस्य पुनर्भावोऽस्ति।

फलम्
ओङ्कारस्वरूपज्ञानस्य फलम् आगमप्रकरणे उक्तम्।
१ अकारस्य वैश्वानरेन ऐक्यं यः जानीते, सः आप्तकामः भवति, सः सर्वत्र अग्रेसरः भवति च।
२ उकारस्य तैजसेन सह अभेदं यः विजानाति, सः ज्ञानसन्ततिं पुष्णाति।तस्य कुले सर्वे ब्रह्मविदो भवन्ति।
३ मकारस्य प्राज्ञेन सह एकत्वं यो वेत्ति, सः सर्वं जगद् यथावत् जानाति (मिनोति)। सर्वस्य जगतः लयस्थानभूतः आत्मा भवति।
४ अमात्रः ओङ्कारः एव तुर्यः आत्मा इति एवं यः वेत्ति सः स्वेन आत्मना स्वमेव प्रविशति।न तस्य पुनर्भावोऽस्ति।

ओङ्कारस्य मात्रा आत्मनः पादः उभयोः सामान्यम् ऐक्यज्ञानस्य फलम्
अकारः वैश्वानरः आप्तिः, आदिमत्त्वम् सर्वकामावाप्तिः,सर्वत्र प्रथमत्वम्
उकारः तैजसः मात्रोत्कर्षः, उभयत्वम् ज्ञानसन्ततिः, ब्रह्मवित्कुलवत्त्वम्
मकारः प्राज्ञः मितिः, अपीतिः यथार्थं ज्ञानम्, जगत्कारणभावः
अमात्रः ओङ्कारः तुर्यः अव्यवहार्यत्वम् अद्वैतत्वम् अपुनर्भवः
गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः     गौडपादकारिका-लघूत्तरप्रश्नाः     गौडपादकारिका-दीर्घोत्तरप्रश्नाः