आत्तसज्यधनुषा-... सदैव गच्छताम्

विकिपुस्तकानि तः

मूलम्
आत्तसज्यधनुषाविषुस्पृशावक्षयाशुगनिषड्गसड्गिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥२०॥

पदच्छेदः
आत्तसज्यधनुषौ इषुस्पृशौ अक्षय-आशुग-निषड्ग-सड्गिनौ । रक्षणाय मम रामलक्ष्मणौ अग्रतः पथि सदैव गच्छताम् ॥२०॥

अन्वयः
आत्तसज्यधनुषौ, इषुस्पृशौ, अक्षय-आशुग-निषड्ग-सड्गिनौ रामलक्ष्मणौ मम रक्षणाय पथि सदैव अग्रतः गच्छताम् ॥२०॥

सरलार्थः
ज्यासहितधनुषी स्वीकृतवन्तौ, बाणं स्पृशन्तौ, अक्षयबाणानां तूणीरं वहन्तौ रामलक्ष्मणौ मम रक्षार्थं मार्गे सदैव मम अग्रे चलताम्॥२०

सन्धिविग्रहः २०

सन्धिः विग्रहः सूत्रम्
आत्तसज्यधनुषाविषुस्पृशौ इषुस्पृशौ एचोऽयवायावः।६.१.७७
इषुस्पृशावक्षय इषुस्पृशौ अक्षय एचोऽयवायावः।६.१.७७
अक्षयाशुग अक्षय-आशुग अकः सवर्णे दीर्घः।६.१.९९
रामलक्ष्मणावग्रतः रामलक्ष्मणौ अग्रतः एचोऽयवायावः।६.१.७७

समासविग्रहः २१
आत्तसज्यधनुषौ
सह ज्यया वर्तते इति सज्यम्।...तेन सहेति तुल्ययोगे।२.२.२८
सज्ये धनुषी सज्यधनुषी।... विशेषणं विशेषेण बहुलम्।२.१.५७
आत्ते सज्यधनुषी याभ्यां तौ आत्तसज्यधनुषौ।... अनेकमन्यपदार्थे।२.२.२४

इषुस्पृशौ
इषुं स्पृशतः इषुस्पृशौ।... उपपदमतिङ् ।२.२.१९

अक्षयाशुगनिषड्गसड्गिनौ
आशु गच्छति इति आशुगः।...... उपपदमतिङ् ।२.२.१९
अक्षयाः च ते आशुगाः अक्षयाशुगाः।... विशेषणं विशेषेण बहुलम्।२.१.५७
अक्षयाशुगानां निषङ्गौ अक्षयाशुगनिषङ्गौ।... षष्ठी।२.२.८
अक्षयाशुगनिषङ्गस्य सङ्गिनौ अक्षयाशुग-निषङ्गसङ्गिनौ।... षष्ठी।२.२.८

रामलक्ष्मणौ
रामः च लक्ष्मणः च रामलक्ष्मणौः।... चार्थे द्वन्द्वः।२.२.२९

रामरक्षास्तोत्रम् - सान्वयं सार्थम्