सामग्री पर जाएँ

आत्माधिकरणम्

विकिपुस्तकानि तः

पू.- स्तो जीवस्यापि उत्पत्तिप्रलयौ
१) जातो देवदत्त:, मृतो देवदत्त: इत्येतादृशात् लौकिकव्यपदेशात्।
२) जातकर्मादिसंस्काराणां शास्त्रविधानाच्च।
वे.- न जीवस्योत्पत्तिप्रलयौ सम्भवत:।शास्त्रफलसम्बन्धोपपत्ते: ।शरीरानुविनाशिनि जीवे सति शरीरान्तरगतेष्टप्राप्त्यनिष्टपरिहारार्थौ विधिनिषेधौ अनर्थकौ स्याताम्।जातकर्मादिसंस्कारा: शरीरस्य सन्ति यतो हि शरीरं जायते, शरीरं म्रियते।जीवापेतं वाव किलेदं म्रियते, न जीवो म्रियते।(छान्दो. ६.११.२) लौकिको य: जन्ममरणादिव्यपदेश: स: भाक्त:।

नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्य:।२.३.१७
पू.- उत्पद्यते जीव:,प्रतिज्ञानुपरोधात्।एकस्मिन्विदिते सर्वमिदं विदितं भवतीति प्रतिज्ञा।जीवो यदि ब्रह्मणो नोत्पद्यते,तर्हि एषा प्रतिज्ञा उपरुद्ध्येत।
वे.-ननु परमात्मा एव जीव: अतो न प्रतिज्ञोपरोध:।
पू.- नैतच्छक्यं, लक्षणभेदात्।अपहतपाप्मत्वादिधर्मक: परमात्मा।तद्विपरीतो जीव:।अत: परमात्मा एव जीव: इति वचनं न युक्तम्। जीवो विकार:, विभक्तत्वात्, घटादिवत्।जीव: प्रतिशरीरं भिन्न:।अत: तस्यापि प्रपञ्चोत्पत्तिकाले उत्पत्ति: भवितुमर्हति।
यथाग्ने: क्षुद्रा: विस्फुलिङ्गा व्युच्चरन्ति, एवमस्मादात्मन: सर्वे प्राणा: (बृ.२.१.२०) इति भोग्यजातस्य आत्मन: सृष्टिमुक्त्वा ‘सर्व एव आत्मनो व्युच्चरन्ति’ इति भोक्तॄणामपि आत्मन: सृष्टि: उक्ता – यथा सुदीप्तात् पावकाद् विस्फुलिङ्गा: सहस्रश: प्रभवन्ते सरूपा:।तथाक्षराद् विविधा: सोम्य भावा: प्रजायन्ते तत्र चैवापियान्ति।(मुण्ड.२.१.१) इति जीवनामुत्पत्तिप्रलयौ श्रूयेते। प्रवेशश्रुतिरपि विकारापत्त्या व्याख्यातव्या।तस्मादुत्पद्यते जीव:।
वे.-न जीव उत्पद्यते, अश्रुते:।नाना श्रुतय: प्रपञ्चोत्पत्तिप्रतिपादिका: सन्ति, न च तासु जीवस्य उत्पत्ति: श्रूयते।किं च उत्पत्तिरेव जीवस्य न सम्भवति, नित्यत्वाच्च ताभ्य: ताभ्य: श्रुतिभ्य: नित्यत्वम् अजत्वम् अविकारित्वं गम्यते।अविकृतस्य एव ब्रह्मण: जीवरूपेण ब्रह्मरूपेण चावस्थानं ताभ्य: श्रुतिभ्य: गम्यते।
पू.- काभ्य: श्रुतिभ्य:?
वे.-
१ न जीवो म्रियते।(छा. ६.११.३)
२ स वा एष महानज आत्मा अज्वरोऽमरोऽमृतोऽभयो ब्रह्म(बृ. ४.४.२२)
३ न जायते म्रियते वा विपश्चित् (कठ. २.१८)
४ अजो नित्य: शाश्वतोऽयं पुराण: (कठ. २.१८)
५ तत्सृष्ट्वा तदेवानुप्राविशत्। (तै. ९.६.१)
६ अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि।(छा. ६.३.२)
७ स एष इह प्रविष्ट आनखाग्रेभ्य: (बृ. १.४.७)
८ तत्त्वमसि।(छा. ६.८.७)
९ अहं ब्रह्मास्मि।(बृ. १.४.१०)
१० अयमात्मा ब्रह्म सर्वानुभू:।(बृ. २.५.१९)
एतादृश्य: जीवस्य नित्यत्ववादिन्य: श्रुतय:जीवस्योत्पत्तिं प्रतिबध्नन्ति।
पू. ननु जीव: विकार:, प्रविभक्तत्वात्।विकारवत्त्वाच्च उत्पद्यते जीव:।
वे.- नास्य प्रविभाग: स्वतोऽस्ति।
एको देव: सर्वभूतेषु गूढ: सर्वव्यापी सर्वभूतान्तरात्मा।(श्वेता. ६.११) इति श्रुते:।यथाकाशस्य घटादिनिमित्तक: प्रविभाग: भवति, तथा आत्मनोऽपि बुद्ध्यादिनिमित्तक: प्रविभाग: भवति।स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमय: प्राणमय: चक्षुर्मय: श्रोत्रमय: (बृ.४.४.५) क्वचिदात्मन: उत्पत्तिप्रलयश्रवणमस्ति चेदपि तदुपाधिसम्बन्धान्नेतव्यम्।
पू.- ननु जीवोऽपि नित्यश्चेत्, ब्रह्मणो नोत्पन्न:।तर्हि ब्रह्मविज्ञानेन तस्य विज्ञानं न सम्भवति। तथा सति ‘एकविज्ञानेन सर्वविज्ञानम्’ इति प्रतिज्ञा हीयते।
वे.- न प्रतिज्ञा हीयते, अविकृतस्य एव ब्रह्मणो जीवभावाभ्युपगमात्।
पू.- ब्रह्मात्मनो: लक्षणभेद: विद्यते।तेन पदार्थभेद: सिद्ध्यति।कथमुच्यते ‘एकस्य एव अपरभाव:’ इति?
वे.- लक्षणभेदोऽप्यनयो: उपाधिनिमित्त: एव।
पू.- किमत्र प्रमाणम्?
वे.- अत ऊर्ध्वं विमोक्षायैव ब्रूहि(बृ. ४.३.१५) इति प्रकृतस्य एव विज्ञानमयस्य आत्मन: सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात्।तस्माद् नात्मा उत्पद्यते, न च प्रलीयते।

 ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्  द्वितीयाध्याये तृतीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=आत्माधिकरणम्&oldid=5635" इत्यस्माद् प्रतिप्राप्तम्