आध्यानाधिकरण...

विकिपुस्तकानि तः
Jump to navigation Jump to search

आध्यानाधिकरणमारचयत।
अधिकरणसङ्गति:-
तृतीयाध्याये तृतीयपादे पूर्वस्मिन् अधिकरणे आनन्दादिधर्माणां ब्रह्मज्ञानोपायत्वमस्तीति प्रतिपादितम्। तदेव फलम् अर्थादिपरत्वप्रतिपादनस्य अस्तीति समानफलत्वसङ्गत्या इदम् अधिकरणम् आरभ्यते।
विषय:-
इन्द्रियेभ्य: परा ह्यर्था: अर्थेभ्यश्च परं मन:।मनसस्तु परा बुद्धि:.... पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति:।(कठो.३.११)
विशय:-
प्रकृतेऽर्थादीनां सर्वेषामेव परापरत्वं प्रतिपाद्यते आहोस्वित्पुरुषस्यैव केवलं सर्वेभ्य: परत्वम्?
पूर्वपक्ष:-
सर्वेषामेव अर्थादीनां परापरत्वं प्रतिपाद्यते,
१ तथा श्रुतत्वात्।
२ बहूनां प्रतिपादनेऽपि वाक्यभेददोषो न सम्भवति, बहूनां वाक्यानां प्रयोगात्।

उत्तरपक्ष:-
अत्र पुरुषस्य सर्वेभ्य: परत्वमेव प्रतिपाद्यते, नार्थादीनां परापरत्वम्
१ अर्थादीनां परापरत्वप्रतिपादने न किमपि प्रयोजनं विद्यते।
२ पुरुषस्य सर्वपरत्वम् आध्यानद्वारा मोक्षोपकारकं भवति अत: तत्सप्रयोजनमस्ति।
३ एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते इति अत्र पुरुषमुद्दिश्य प्रतिपादितम्। आत्मशब्देनात्र पुरुष एव प्रतिपाद्य: इति गम्यते।
४ तद्विष्णो: परमं पदम् इति उक्तम्। किं तत् पदम् इति आकाङ्क्षायां क्रमश: अर्थादिपरम्परया परमपुरुष: प्रतिपाद्यते।
निर्णय: -
इह पुरुष एव प्रतिपाद्य:।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=आध्यानाधिकरण...&oldid=5698" इत्यस्माद् प्रतिप्राप्तम्