आनन्दकन्द 1.10

विकिपुस्तकानि तः
घुटिकासिद्धिः

प्रणम्य परया भक्त्या भैरवं भैरवी शिवम् ।
उवाच विनयेनेदं लोकानां हितकांक्षिणी ॥ आक-१,१०.१ ॥

श्रीभैरवी ।
देवदेव कृपामूर्ते सर्वानुग्राहक प्रभो ।
त्वत्प्रसादान्मया ज्ञातं रहस्यम् अतिदुर्लभम् ॥ आक-१,१०.२ ॥

कान्ताभ्रहेमकुलिशरसभस्म रसायनम् ।
अतः परं महादेव श्रोतुमिच्छामि भैरव ॥ आक-१,१०.३ ॥

एतैर् घनाद्यै रचितघुटिकानां रसायनम् ।
श्रुत्वा सविनयं वाक्यं भैरव्यास्त्वादिभैरवः ॥ आक-१,१०.४ ॥

स्थित्वेत्युवाच वचनं तद्वक्ष्यामि रसायनम् ।
श्रीभैरवः ।

१. सञ्जीवनी घुटिका

शृणु पार्वति यत्नेन सावधानेन साम्प्रतम् ॥ आक-१,१०.५ ॥

प्रथमं जारणं कार्यं पश्चात्पारदबन्धनम् ।
तस्माज्जारणबीजानि घनादीनां वदामि ते ॥ आक-१,१०.६ ॥

गन्धतालशिलातुत्थखर्परीहिङ्गुलामलाः ।
भूनागताप्यकासीसनृपावर्ताभ्रगैरिकम् ॥ आक-१,१०.७ ॥

कान्तत्रिक्षारवैक्रान्तास्त्वेते चूर्णसमांशकः ।
सिद्धचूर्णमिदं ख्यातं श्रेष्ठं स्याद् बीजकर्मणि ॥ आक-१,१०.८ ॥

द्वन्द्वमेलोपलिप्तायां मूषायां निक्षिपेत्प्रिये ।
कृष्णसत्वाभ्रसत्वं च द्रावयेत्समशुल्बकम् ॥ आक-१,१०.९ ॥

समित्रपञ्चकं तस्मिन्सिद्धचूर्णं मुहुर्मुहुः ।
घनाद्दशगुणं क्षेप्यं धमेद्गाढं वरानने ॥ आक-१,१०.१० ॥

घनसत्वावशिष्टं स्याद्धमनीयं च तावता ।
कालेनेदं व्योमसत्वबीजं जार्यं रसायने ॥ आक-१,१०.११ ॥

समुखे पारदे बीजं चतुःषष्ट्यंशके क्षिपेत् ।
तप्तखल्वेऽम्लवर्गेण मर्दयेद् दिवसत्रयम् ॥ आक-१,१०.१२ ॥

तं सूतं कच्छपे यन्त्रे सबिडे जारयेत्प्रिये ।
ततो द्वात्रिंशदंशं च षोडशांशं रसस्य तु ॥ आक-१,१०.१३ ॥

अष्टमांशं चतुर्थांशं द्व्यंशं चैव समांशकम् ।
पारदे जारयेदेवं क्रमाद्बीजं सुरेश्वरि ॥ आक-१,१०.१४ ॥

सूतमेवंविधं व्योमसत्वं बीजसमं प्रिये ।
तप्तखल्वेऽम्लवर्गेण मर्दयेदेकवासरम् ॥ आक-१,१०.१५ ॥

पिष्टिं पारदराजं तं जम्बीरान्तर्विनिक्षिपेत् ।
दोलायन्त्रेऽम्लयुक्ते तं विपचेत्सप्तवासरम् ॥ आक-१,१०.१६ ॥

तमादाय बलिं क्षिप्त्वा सिद्धचूर्णेन पार्वति ।
ततस्तं भूधरे यन्त्रे पचेल्लघुपुटेन च ॥ आक-१,१०.१७ ॥

यावत्कठिनतां याति तावत्कार्यं मुहुर्मुहुः ।
दोलापाकं सिद्धचूर्णलेपं भूधरके पुटम् ॥ आक-१,१०.१८ ॥

मृतसञ्जीवनी नाम्ना घुटिका सर्वसिद्धिदा ।
वक्त्रान्तरे गले मूर्ध्नि बाहौ कर्णेऽथवा वहेत् ॥ आक-१,१०.१९ ॥

हेम्ना सुवेष्टिता सम्यग्वलीपलितनाशिनी ।
वक्त्रस्था मृत्युहा वर्षाद्विषविग्रहनाशिनी ॥ आक-१,१०.२० ॥

शुद्धं गन्धं कर्षमात्रं गव्यं क्षीरं पलं पिबेत् ।
अनेन क्रमणेनैव सूतः संक्रमते तनुम् ॥ आक-१,१०.२१ ॥

२. दिव्या घुटिका

कान्तम्लेच्छमुखं रूप्यं लिप्तमूषान्तरे समम् ।
द्रावयित्वा सिद्धचूर्णं कान्ताद्दशगुणं शनैः ॥ आक-१,१०.२२ ॥

वहेन्मुहुर्मुहुर्द्राव्यं यावत्कान्तोऽवशिष्यते ।
कान्तबीजमिदं प्रोक्तं श्रेष्ठं जार्यं रसायने ॥ आक-१,१०.२३ ॥

समुखे पारदे चेदं बीजं चार्यं च पूर्ववत् ।
चतुःषष्ट्यंशकं पूर्वं समांशं तं क्रमेण वै ॥ आक-१,१०.२४ ॥

एवंविधं सूतराजं कान्तबीजं द्वयं समम् ।
मर्दयेत्तप्तखल्वे च साम्लवर्गे दिनत्रयम् ॥ आक-१,१०.२५ ॥

पिष्टीभूतं च जम्बीरे क्षिप्त्वाम्लगणपूरिते ।
दोलायन्त्रे पचेत्सम्यगेवम् आ सप्तवारकम् ॥ आक-१,१०.२६ ॥

तमादाय लिहेद्बाह्ये सिद्धचूर्णेन भैरवि ।
ततो दिव्यौषधैर्लिप्ते संपुटे भूधरे पचेत् ॥ आक-१,१०.२७ ॥

यावत्कठिनतां याति तावत्कुर्यात्क्रमेण च ।
दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ॥ आक-१,१०.२८ ॥

पुटे तौ जारयेद् दिव्यनाम्नाथ परमेश्वरि ।
वक्त्रान्तरे गले मूर्ध्नि बाहौ कर्णेऽथवा वहेत् ॥ आक-१,१०.२९ ॥

हेम्ना सुवेष्टितं धार्यं वलीपलितनाशनम् ।
पूर्ववत्फलदा पुण्या धार्या यत्नेन मानवैः ॥ आक-१,१०.३० ॥

पूर्ववत्क्रामणं कार्यं देहे संक्रमते रसः ।

३. कामेश्वरी घुटिका

समुखे पारदे व्योमकान्तबीजं च मारयेत् ॥ आक-१,१०.३१ ॥

प्रत्येकं पारदसमं पूर्ववच्च शनैः शनैः ।
चतुःषष्ट्यंशकं चादौ समांशं तं क्रमाद्रसे ॥ आक-१,१०.३२ ॥

अस्य सूतस्य तुल्यांशं कान्तबीजाभ्रबीजकम् ।
तप्तखल्वेऽम्लवर्गेण मर्दयेद्वासरत्रयम् ॥ आक-१,१०.३३ ॥

पिष्टीकृतं च जम्बीरे क्षिप्त्वा दोलागतं पचेत् ।
पुनरादाय तां पिष्टिं सिद्धचूर्णेन लेपयेत् ॥ आक-१,१०.३४ ॥

दिव्यौषधिगणैर्लिप्ते संपुटे भूधरे पचेत् ।
यदा कठिनतां याति द्विधा कुर्यात्क्रमेण तु ॥ आक-१,१०.३५ ॥

दोलास्वेदं चूर्णलेपं कृत्वा भूधरपाचनम् ।
कामेश्वरीयं घुटिका वक्त्रस्था सर्वसिद्धिदा ॥ आक-१,१०.३६ ॥

पूर्ववत्क्रामणं कार्यं रसेन्द्रः क्रामते तनुम् ।

४. हेमसुन्दरी घुटिका

स्वर्णं रूप्यं म्लेच्छमुखं कान्तसत्वाभ्रसत्वकम् ॥ आक-१,१०.३७ ॥

द्वन्द्वमेलोपलिप्तायां मूषायां तद्विनिक्षिपेत् ।
तस्मिन्द्रुते सिद्धचूर्णं स्वर्णाद्दशगुणं क्षिपेत् ॥ आक-१,१०.३८ ॥

यावत्स्वर्णावशेषं स्यात्तावद्द्राव्यं शनैः शनैः ।
हेमबीजम् इदं ख्यातं श्रेष्ठं रसरसायने ॥ आक-१,१०.३९ ॥

समुखे पारदे देवि बीजं रससमं क्रमात् ।
जारयेत् पूर्ववद्देवि चतुःषष्ट्यंशकादिकम् ॥ आक-१,१०.४० ॥

एतद्रसं हेमबीजं समं खल्वे च तापिते ।
मर्दयेद् अम्लवर्गेण त्र्यहात् पिष्टिर् भवेद्रसः ॥ आक-१,१०.४१ ॥

पिष्टिं जम्बीरजां कृत्वा दोलायन्त्रेऽम्लपूरिते ।
षडहं पाचयेद्देवि सिद्धचूर्णप्रलेपनम् ॥ आक-१,१०.४२ ॥

तथा संपुटलेपं च तथा भूधरपाचनम् ।
यावत् कठिनतां याति तावत्कुर्याच्च पूर्ववत् ॥ आक-१,१०.४३ ॥

इयं तु घुटिका दिव्या विख्याता हेमसुन्दरी ।
वक्त्रस्था सिद्धिदा न्ःणां जरामृत्युविषापहा ॥ आक-१,१०.४४ ॥

पूर्ववत् क्रामणं कार्यं सूतः संक्रमते पुनः ।

५. मदनसुन्दरी घुटिका

मुखीकृते रसे व्योमबीजं हाटकबीजकम् ॥ आक-१,१०.४५ ॥

समं समं क्रमाज्जार्यं चतुःषष्ट्यंशकादिकम् ।
इत्येवं जारितं सूतं बीजं गगनरुक्मयोः ॥ आक-१,१०.४६ ॥

मर्दयेत् पारदसमं तप्तखल्वेऽम्लवर्गतः ।
त्रिदिनाज्जायते पिष्टिः पुनर् जम्बीरगाम् कुरु ॥ आक-१,१०.४७ ॥

दोलायन्त्रेऽम्लभरिते पचेत्तां सप्तवासरम् ।
लेपनं सिद्धचूर्णस्य तथा संपुटलेपनम् ॥ आक-१,१०.४८ ॥

तथा भूधरपाकश्च यावत्कठिनतां व्रजेत् ।
सिद्धिदा घुटिका ह्येषा नाम्ना मदनसुन्दरी ॥ आक-१,१०.४९ ॥

आस्यान्तरस्थिता कुर्यात् सर्वसिद्धीश् चिरायुषः ।
व्यालव्याघ्रगजादीनां राज्ञां वश्यं स्त्रियामपि ॥ आक-१,१०.५० ॥

पूर्ववत् क्रामणं कार्यं कायम् आक-रामते रसः ।

६. खेचरी घुटिका

मुखीकृते रसे कान्तहेमबीजं समं समम् ॥ आक-१,१०.५१ ॥

रसोन्मिते पृथक् जार्यं चतुःषष्ट्यंशकादिकम् ।
इत्थं जीर्णं रसं बीजं कान्तहेम्नो रसोन्मितम् ॥ आक-१,१०.५२ ॥

पूर्ववत् पिष्टिकां कृत्वा दोलायन्त्रे च पाचनम् ।
यावत् कठिनतां याति तावत् कार्यं मुहुर्मुहुः ॥ आक-१,१०.५३ ॥

घुटिका जायते नाम्ना खेचरी सर्वसिद्धिदा ।
पूर्ववत् क्रामणं कार्यं सुगन्धं गोपयः पिबेत् ॥ आक-१,१०.५४ ॥

तेन संक्रमते देहं घुटिकान्तर्गतो रसः ।

७. वज्रेश्वरी घुटिका

समुखे पारदे व्योमकान्तहेम्नां समं समम् ॥ आक-१,१०.५५ ॥

बीजं पृथक्पृथक् जार्यं चतुःषष्ट्यंशकादिकम् ।
इत्थंभूतस्य सूतस्य समं व्योमादिबीजकम् ॥ आक-१,१०.५६ ॥

त्रयं तापितखल्वेन त्र्यहमम्लेन मर्दयेत् ।
स सूतः पिष्टिम् आप्नोति तां पिष्टिं पूर्ववत्प्रिये ॥ आक-१,१०.५७ ॥

दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ।
यावत्कठिनतां याति तावत्कार्यम् अतन्द्रितैः ॥ आक-१,१०.५८ ॥

वज्रेश्वरीति घुटिका वक्त्रस्था सर्वसिद्धिदा ।
पूर्ववत्क्रामणं कार्यं गात्रं व्याप्नोति पारदः ॥ आक-१,१०.५९ ॥

८. महावज्रेश्वरी घुटिका

शुद्धं स्वर्णं वज्रभस्म लोहचूर्णाभ्रसत्वकम् ।
एतच्चतुःसमं नागं मूषायां चान्ध्रितं धमेत् ॥ आक-१,१०.६० ॥

द्वन्द्वमेलोपलिप्तायां पुनरादाय तं प्रिये ।
एकीभूतं च मूषायां प्रकटं च धमेत्पुनः ॥ आक-१,१०.६१ ॥

धौतसत्त्वं माक्षिकं च स्वल्पं स्वल्पं मुहुः क्षिपेत् ।
वज्रहेमावशेषं तु यावत्स्यात् तत उद्धरेत् ॥ आक-१,१०.६२ ॥

एतस्मिन् व्योमसत्वायश्चूर्णनागांश्च पूर्ववत् ।
द्वन्द्वमेलोपलिप्तायाम् अन्ध्रयित्वा दृढं धमेत् ॥ आक-१,१०.६३ ॥

एकीभूतं समादाय मूषायां प्रकटं धमेत् ।
हेमवज्रावशेषं स्याद् यावत् तत् पुनराहरेत् ॥ आक-१,१०.६४ ॥

व्योमसत्वम् अयश्चूर्णं नागं वाह्यं पुनः पुनः ।
पूर्ववत् क्रमयोगेन माक्षिकं धौतसत्त्वकम् ॥ आक-१,१०.६५ ॥

मुहुः क्षिप्य धमेत्तं तु बाह्यमेवं तु षड्गुणम् ।
वज्रबीजमिदं श्रेष्ठं जार्यं रसरसायने ॥ आक-१,१०.६६ ॥

समुखे पारदे जार्यं वज्रबीजं रसोन्मितम् ।
चतुःषष्ट्यंशकाद्यं च क्रमात् संक्रामयेत् प्रिये ॥ आक-१,१०.६७ ॥

इत्थं जारितसूतस्य समं कुलिशबीजकम् ।
तप्तखल्वेऽम्लवर्गेण मर्दयेद् दिवसत्रयम् ॥ आक-१,१०.६८ ॥

स पिष्टिर् जायते सूतस्तां पिष्टीं च समाहरेत् ।
दोलापाकः सिद्धचूर्णलेपः सम्पुटभूधरम् ॥ आक-१,१०.६९ ॥

कुर्वीत पूर्ववत् सर्वं यावत् कठिनतां व्रजेत् ।
महावज्रेश्वरी नाम्ना घुटिका सिद्धिदायिनी ॥ आक-१,१०.७० ॥

वक्त्रस्था क्रामणं कार्यं पूर्ववत् क्रामते रसः ।

९. वज्रखेचरी घुटिका

मुखीकृते रसे व्योमवज्रबीजं रसोन्मितम् ॥ आक-१,१०.७१ ॥

पृथक् पृथक् जारणीयं चतुःषष्ट्यंशकादिकम् ।
अमुष्य जीर्णसूतस्य समं वज्राभ्रबीजकम् ॥ आक-१,१०.७२ ॥

तप्तखल्वेऽम्लवर्गेण त्रिदिनं मर्दयेद्दृढम् ।
स रसो जायते पिष्टिस्तां पुनः पूर्ववत्प्रिये ॥ आक-१,१०.७३ ॥

दोलास्वेदं सिद्धचूर्णलेपं भूधरपाचनम् ।
यावत् कठिनतां यति तावद् एवं मुहुर्मुहुः ॥ आक-१,१०.७४ ॥

घुटिका जायते दिव्या नाम्नेयं वज्रखेचरी ।
वक्त्रस्था सिद्धिदा नृणां पूर्ववत् क्रामणं प्रिये ॥ आक-१,१०.७५ ॥

१०. कालविध्वंसिनी घुटिका

मुखीकृते रसे कान्तवज्रबीजं रसोन्मितम् ।
पृथक्पृथग् जारणीयं चतुःषष्ट्यंशकादिकम् ॥ आक-१,१०.७६ ॥

अस्य जीर्णस्य सूतस्य समं कुलिशकान्तयोः ।
बीजं संतप्तखल्वे ऽम्लवर्गे मर्द्यं दिनत्रयम् ॥ आक-१,१०.७७ ॥

पिष्टिर् भवत्येष सूतः पिष्टिं तां पुनराहरेत् ।
दोलास्वेदः सिद्धचूर्णलेपः संपुटभूधरम् ॥ आक-१,१०.७८ ॥

यावत् कठिनतां याति तावदेवं मुहुर्मुहुः ।
कालविध्वंसिनी नाम्ना घुटिका जायते शुभा ॥ आक-१,१०.७९ ॥

मुखस्था सिद्धिदा दिव्या पूर्ववत् क्रामणं पिबेत् ।

११. गगनेश्वरी घुटिका

मुखीकृते सूतराजे वज्रकान्ताभ्रबीजकम् ॥ आक-१,१०.८० ॥

पृथक्पृथक्सूतराजे चतुःषष्ट्यंशकादिकम् ।
रसस्य तस्य सदृशं वज्रबीजाभ्रबीजकम् ॥ आक-१,१०.८१ ॥

तप्तखल्वेऽम्लवर्गेण त्र्यहात् पिष्टिः सुमर्दनात् ।
दोलापाकः सिद्धचूर्णलेपः संपुटभूधरम् ॥ आक-१,१०.८२ ॥

यावत् कठिनतां याति तावत् कुर्यान्मुहुर्मुहुः ।
गगनेश्वरीयं घुटिका वक्त्रस्था सर्वसिद्धिदा ॥ आक-१,१०.८३ ॥

पूर्ववत् क्रामणं कार्यं देहे क्रामति सूतकः ।

१२. वज्रघण्टेश्वरी घुटिका

मुखीकृते सूतराजे बीजं वज्रसुवर्णयोः ॥ आक-१,१०.८४ ॥

पृथक्पृथक्समं जार्यं चतुःषष्ट्यंशकादिकम् ।
अस्य सूतस्य सदृशं हेम्नो वज्रस्य बीजकम् ॥ आक-१,१०.८५ ॥

तप्तखल्वेऽम्लवर्गेण त्र्यहात् पिष्टिर् भवेद्रसः ।
तां पिष्टिं पुनरादाय पूर्ववत् परिकल्पयेत् ॥ आक-१,१०.८६ ॥

दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ।
यावत् कठिनतां याति तावत् कुर्यान्मुहुर्मुहुः ॥ आक-१,१०.८७ ॥

वज्रघण्टेश्वरी ह्येषा घुटिका सिद्धिदायिनी ।
मुखस्था सिद्धिदा दिव्या पूर्वोक्तं क्रामणं पिबेत् ॥ आक-१,१०.८८ ॥

१३. वज्रभैरवी घुटिका

मुखीकृते सूतराजे हेमवज्राभ्रबीजकम् ।
पृथक्पृथक्समं जार्यं चतुःषष्ट्यंशकादिकम् ॥ आक-१,१०.८९ ॥

अस्य सूतस्य सदृशं हेमवज्राभ्रबीजकम् ।
मर्दयेद् अम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥ आक-१,१०.९० ॥

पिष्टिर्भवेत् पुनस्तां च समादाय ततः प्रिये ।
दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ॥ आक-१,१०.९१ ॥

यावत् कठिनतामेति तावत्कार्यं मुहुर्मुहुः ।
घुटिका जायते दिव्या नाम्नेयं वज्रभैरवी ॥ आक-१,१०.९२ ॥

मुखस्थिता सिद्धकरी क्रामणं पूर्ववत्प्रिये ।

१४. त्रिपुरभैरवी घुटिका

मुखीकृते रसे कान्तवज्रहाटकबीजकम् ॥ आक-१,१०.९३ ॥

जार्यं पृथक्सूतसमं चतुःषष्ट्यंशकादिकम् ।
जीर्णसूतसमं कान्तवज्रकाञ्चनबीजकम् ॥ आक-१,१०.९४ ॥

तप्तखल्वेऽम्लवर्गेण मर्दयेद्दिवसत्रयम् ।
जायते पारदः पिष्टिः पूर्ववत्तां समाहरेत् ॥ आक-१,१०.९५ ॥

दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ।
यावत् कठिनताम् एति तावत्कार्यं मुहुर्मुहुः ॥ आक-१,१०.९६ ॥

घुटिका जायते दिव्या नाम्ना त्रिपुरभैरवी ।
मुखस्था सिद्धिदा ह्येषा पूर्ववत् क्रामणं प्रिये ॥ आक-१,१०.९७ ॥

१५. महाभैरवी घुटिका

मुखीकृते रसे कान्तवज्राभ्रस्वर्णबीजकम् ।
पृथक्सूतसमं जार्यं चतुःषष्ट्यंशकादिकम् ॥ आक-१,१०.९८ ॥

अस्य सूतस्य जीर्णस्य समं व्योमादिबीजकम् ।
मर्दयेद् अम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥ आक-१,१०.९९ ॥

पिष्टिर् भवति सूतेन्द्रस्तां पिष्टिं पुनराहरेत् ।
दोलापाकं सिद्धचूर्णलेपं संपुटभूधरे ॥ आक-१,१०.१०० ॥

यावत् कठिनतामेति तावत्कार्यं मुहुर्मुहुः ।
नाम्ना महाभैरवीयं घुटिका सर्वसिद्धिदा ॥ आक-१,१०.१०१ ॥

धारयेन्मुखमध्ये तत् पूर्ववत् क्रामणं पिबेत् ।

क्रामणानि

त्रिफला मुसली मुण्डी भृङ्गराजश्च वाकुची ॥ आक-१,१०.१०२ ॥

नीली कन्या काकमाची हयगन्धा शतावरी ।
उत्तरा वारुणी देवदाली चित्रा पुनर्नवा ॥ आक-१,१०.१०३ ॥

निर्गुण्डी सहदेवी च रुदन्ती गजकर्णिका ।
भूतावरातभल्लातकाकतुण्डामृतालताः ॥ आक-१,१०.१०४ ॥

पलाशः कुक्कुरूटश्च धात्रीफलरसः पयः ।
पलाशबीजकं तैलं घृतं मधु शिवाम्बु च ॥ आक-१,१०.१०५ ॥

बिल्वमज्जा च तैलं च तैलं ज्योतिष्मतीभवम् ।
एतानि क्रामणार्हाणि चौषधानि भवन्ति हि ॥ आक-१,१०.१०६ ॥

एते चाष्टार्धगदिताः क्रामणार्थे प्रयोगतः ।
रसभस्मप्रयोगे च घुटिकानां रसायने ॥ आक-१,१०.१०७ ॥

पञ्चदशघुटिकाफलम्

प्रिये पञ्चदशानां च घुटिकानां फलं शृणु ।
अभ्रबीजेन रचितघुटिका रससंयुता ॥ आक-१,१०.१०८ ॥

मुखस्थिता द्वादशाब्दं सर्वरोगविनाशनी ।
स जीवेद्वत्सरशतं पुमांश्च परमेश्वरि ॥ आक-१,१०.१०९ ॥

कान्तबीजेन रचिता घुटिका रससंयुता ।
आस्यस्था सर्वरोगघ्नी द्वादशाब्दं वरानने ॥ आक-१,१०.११० ॥

धातुदार्ढ्यप्रजननी सहस्रायुष्यदायिनी ।
कान्ताभ्रबीजरचिता रसयुग्घुटिका शुभा ॥ आक-१,१०.१११ ॥

द्वादशाब्दं मुखान्तस्था जरामयविनाशिनी ।
अयुतायुष्यदा दिव्या महाबलविवर्धिनी ॥ आक-१,१०.११२ ॥

हेमबीजयुता सूतघुटिका मुखमध्यगा ।
आ द्वादशाब्दं देहस्य वलीपलितरोगहा ॥ आक-१,१०.११३ ॥

आयुष्यप्रदा पुण्या नागायुतबलप्रदा ।
हेमाभ्रबीजघटिता घुटिका युक्तपारदा ॥ आक-१,१०.११४ ॥

वक्त्रास्थितार्कसंख्याब्दं दशलक्षाब्दजीवदा ।
दिव्यबुद्धिप्रजननी दिव्यसत्वप्रदायिनी ॥ आक-१,१०.११५ ॥

कान्तकाञ्चनबीजाभ्यां ससूता घुटिका कृता ।
द्वादशाब्दं मुखान्ता कोट्यायुष्यविवर्धिनी ॥ आक-१,१०.११६ ॥

महातेजःप्रजननी बिलनिध्यादिदर्शिनी ।
कान्ताभ्रहेमघटिता घुटिका रससंयुता ॥ आक-१,१०.११७ ॥

मुखस्था द्वादशाब्दान्ताद् दशकोट्यब्दजीवदा ।
हालाहलादिसंवर्तखेचरत्वप्रदायिनी ॥ आक-१,१०.११८ ॥

निर्मुक्तवज्रबीजेन रसयुग्घुटिका शुभा ।
मुखस्था द्वादशाब्दान्तं सर्वलोकगतिप्रदा ॥ आक-१,१०.११९ ॥

यावद्भूमिः स्थिरतरा तावदायुःप्रवर्धिनी ।
तरुणः सर्वदा कामः कान्तानां सुरतक्षमः ॥ आक-१,१०.१२० ॥

वज्राभ्रबीजरचिता घुटिका रसगर्भिता ।
घुटिका रससंख्याब्दं मुखस्था सर्वसिद्धिदा ॥ आक-१,१०.१२१ ॥

ब्रह्मायुष्यप्रदा पुंसां जगत् सृष्टुं क्रमात् प्रभुः ।
पूज्यते ब्रह्मवद्देवैर् वेदवेदाङ्गपारगः ॥ आक-१,१०.१२२ ॥

सरस्वत्या च सावित्र्या सेव्यते सर्वलोकगः ।
अष्टाभिः सिद्धिभिर् युक्तो ह्यणिमादिभिर् ईश्वरि ॥ आक-१,१०.१२३ ॥

वज्रकाञ्चनबीजेन ससूता घुटिका कृता ।
मुखस्था द्वादशाब्दान्तं विष्ण्वायुष्यप्रदा नृणाम् ॥ आक-१,१०.१२४ ॥

स च विष्णुत्वमाप्नोति विष्णुवत् पालितुं क्षमः ।
सेव्यते सनकाद्यैश्च श्रिया युक्तो महाबलः ॥ आक-१,१०.१२५ ॥

स्वेच्छागतिर् महेन्द्राद्यैर् निर्जरैः सेव्यते सदा ।
हेमाभ्रवज्रबीजेन रचिता घुटिका प्रिये ॥ आक-१,१०.१२६ ॥

सपारदा मुखान्तःस्था द्वादशाब्दं वरानने ।
रुद्रायुष्प्रदा न्ःणां रुद्रत्वं सा ददाति हि ॥ आक-१,१०.१२७ ॥

संहर्ता रुद्रवल्लोकं विष्ण्विन्द्राद्यैश्च सेव्यते ।
अणिमाद्यैश्च सहितः सर्वज्ञः सर्वलोकगः ॥ आक-१,१०.१२८ ॥

सेव्यते प्रमथश्रेष्ठैर् दिव्यशक्त्या समन्वितः ।
योगीन्द्रैर् ध्यायते धीरो महातेजा महाबलः ॥ आक-१,१०.१२९ ॥

कान्तकाञ्चनवज्राणां बीजैः सूतयुता कृता ।
घुटिका भानुसंख्याब्दं मुखस्था सिद्धिदा नृणाम् ॥ आक-१,१०.१३० ॥

ईश्वरायुष्यमाप्नोति खेचरत्वं च मानवः ।
तिरोधत्ते स्वयं लोकाद्ब्रह्मेन्द्राद्यभिवन्दितः ॥ आक-१,१०.१३१ ॥

कोटिसूर्यप्रतीकाशो महामारुतसत्त्ववान् ।
महाकल्पान्तकालेऽपि विनाशं न व्रजेद्ध्रुवम् ॥ आक-१,१०.१३२ ॥

योगक्रीडानुषक्तात्मा ध्यायते योगवित्तमैः ।
कान्ताभ्रहेमवज्राणां कृता बीजै रसात्मिका ॥ आक-१,१०.१३३ ॥

घुटिका रविसंख्याब्दवक्त्रस्था यस्य भैरवि ।
सदाशिवायुः स भवेत् सर्वानुग्राहकः प्रभुः ॥ आक-१,१०.१३४ ॥

सदाशिवत्वम् आप्नोति देवानामधिपस्तथा ।
वह्नौ वह्निर् जले वारि मारुते मारुतात्मकः ॥ आक-१,१०.१३५ ॥

पृथिव्यां पृथिवीरूपः शून्ये शून्यात्मको भवेत् ।
तस्याक्षिणीन्दुवह्न्यर्का ब्रह्मेन्द्राद्याश्च सेवकाः ॥ आक-१,१०.१३६ ॥

गायका नारदाद्याश्च नर्तक्यश्चाप्सरोऽङ्गनाः ।
तदाज्ञयैव ब्रह्मेन्द्राः सृष्टिस्थितिविनाशकाः ॥ आक-१,१०.१३७ ॥

सच्चिदानन्दकः शक्तः सर्वगः सर्वविच्छिवः ।
पराशक्तियुतः पुण्यो निर्मायो निष्कलः परम् ॥ आक-१,१०.१३८ ॥

एवं गुणाः प्रकथिता घुटिकानां मया प्रिये ।
शस्त्रस्तम्भकरश्चासां सर्वासाम् अपि विद्यते ॥ आक-१,१०.१३९ ॥

रसायनस्य सर्वस्य सिद्धिदोऽयं महेश्वरि ।

घुटिकासिद्धौ मन्त्रप्रयोगः

वक्ष्यते मन्त्रराजोऽयं सर्वसिद्धिप्रदायकः ॥ आक-१,१०.१४० ॥

ऐं ह्रीं श्रीं क्लीं सौः अमृतेश्वरभैरव अमृतं कुरु अमृतेश्वरभैरवाय हुं ।
सौः क्लीं श्रीं ह्रीं ऐं हुं फट् स्वाहा ।
सौः क्लीं श्रीं ह्रीं ऐं ।
पुमाननेन मन्त्रेण शीघ्रं सिद्धिमवाप्नुयात् ॥ आक-१,१०.१४१ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_1.10&oldid=7070" इत्यस्माद् प्रतिप्राप्तम्