सामग्री पर जाएँ

आनन्दकन्द 1.13

विकिपुस्तकानि तः
गन्धकः

श्रीभैरवी ।
प्रणम्य शिरसा शम्भुमस्तौषीत्परमेश्वरी ।
श्रुतं तव प्रसादेन दिव्यं सर्वरसायनम् ॥ आक-१,१३.१ ॥

उत्पत्तिं गन्धकस्यापि जातिं संशोधनं तथा ।
सेवां रसायनफलं क्रमाद्ब्रूहि महेश्वर ॥ आक-१,१३.२ ॥

श्रीभैरवः ।
देवि शृणु प्रवक्ष्यामि गन्धकस्य रसायनम् ।
श्वेतद्वीपे पुरा देवि लताकल्पद्रुमोज्ज्वले ॥ आक-१,१३.३ ॥

नानामणिगणाकीर्णे नानापुष्पफलाकुले ।
सिद्धविद्याधरस्त्रीभिः किन्नर्यप्सरसां गणैः ॥ आक-१,१३.४ ॥

अनेकनिर्जरस्त्रीभिः क्रीडन्ती त्वं मदोल्लसा ।
वेणुवीणाविनोदेन वाद्यनादैर्मनोहरैः ॥ आक-१,१३.५ ॥

तालैर् झल्लरिकाढक्कानिनादैः करतालकैः ।
अत्यानन्देन देवेशि नृत्यन्ती त्वं सुरार्चिते ॥ आक-१,१३.६ ॥

तदा ऋतुमती जाता सुस्राव च रजो महत् ।
सुगन्धिना तद्रजसा त्वद्वस्त्रं रक्ततां ययौ ॥ आक-१,१३.७ ॥

विहाय तद्रक्तवस्त्रं स्नात्वा क्षीरमहोदधौ ।
अनेकामरकान्ताभिर् वृता कैलासमाव्रजः ॥ आक-१,१३.८ ॥

वायुना तद्रजोवस्त्रं क्षिप्तं क्षीरमहोदधौ ।
मग्नं तत्रैव तद्वस्त्रं चिरकालं सुरेश्वरि ॥ आक-१,१३.९ ॥

मथ्यमानान्महाम्भोधेर् अमृतेन सहोद्भवम् ।
श्लाघ्येन निजगन्धेन मोदयन्नसुरान्सुरान् ॥ आक-१,१३.१० ॥

तेनैव नाम्ना ऊचुस्ते शक्राद्याः सुरपुङ्गवाः ।
गन्धकोऽयं भवत्वस्य नाम्ना जातं तु मत्प्रिये ॥ आक-१,१३.११ ॥

चतुर्विधं शोणितं ते दिव्यं बलकरं परम् ।
समर्थोऽयं गन्धकस्तु रसबन्धे च जारणे ॥ आक-१,१३.१२ ॥

रसेन्द्रे ये गुणाः सन्ति ते गुणाः सन्ति गन्धके ।
इत्यूचुर् इन्द्रप्रमुखा हृष्टा गन्धकगन्धतः ॥ आक-१,१३.१३ ॥

तदा प्रभृति लोकेऽस्मिन्ख्यातोऽयं गन्धकः प्रिये ।
जपाकुसुमसङ्काशः क्षत्रियश्चोत्तमः प्रिये ॥ आक-१,१३.१४ ॥

पीतो वैश्यो मध्यमः स्याच्छ्वेतो विप्रोऽधमः स्मृतः ।
कृष्णवर्णो भवेच्छूद्रः प्रिये स्यादधमाधमः ॥ आक-१,१३.१५ ॥

रक्तवर्णं लोहवेधि पीतवर्णं रसायनम् ।
श्वेतवर्णं च भैषज्ये कृष्णं कुष्ठादिलेपने ॥ आक-१,१३.१६ ॥

गन्धकशुद्धिः

अथ वक्ष्ये गन्धकस्य शोधनं सिद्धिदायकम् ।
तिलपर्ण्यजमोदाश्च ब्राह्मी भृङ्गी च धुत्तुरः ॥ आक-१,१३.१७ ॥

एतेषां च रसैर् भाव्यं चूर्णितं गन्धकं दिनम् ।
कान्तपात्रे विनिक्षिप्य समांशाज्येन पाचयेत् ॥ आक-१,१३.१८ ॥

मृद्वग्निना तु तत्पक्त्वा ह्यजाक्षीरे विनिक्षिपेत् ।
गोक्षीराज्यैः किंचिदूनं स्थाल्या वक्त्रं तु बन्धयेत् ॥ आक-१,१३.१९ ॥

स्वच्छांशुकेन बद्धस्य चूर्णं तदुपरि क्षिपेत् ।
तदूर्ध्वं श्रावकं रुद्ध्वा तत्स्थाप्यं गर्तकान्तरे ॥ आक-१,१३.२० ॥

वनोत्पलैर् मृदुपुटं दत्त्वा द्रवति गन्धकम् ।
पुनश्च तिलपर्ण्याद्यैर्भावयेच्छोषयेत् त्रिधा ॥ आक-१,१३.२१ ॥

द्रावयेत्तत्समादाय मत्स्यपित्तेन सप्तधा ।
भावयेज्जालिनीबीजचूर्णैस् तत् परिपेषयेत् ॥ आक-१,१३.२२ ॥

ततो भृङ्गद्रवैर्भाव्यं सप्तकृत्वस्तपे खरे ।
जलैः प्रक्षाल्य तत् सम्यक् शोषयेत्तत्पुनः पचेत् ॥ आक-१,१३.२३ ॥

मृद्वग्निना कान्तपात्रे घृताक्ते तु क्षणं ततः ।
भृङ्गराजद्रवे क्षिप्त्वा शुद्धं तद्गन्धकं भवेत् ॥ आक-१,१३.२४ ॥

रसे रसायने योगे योज्यं सुखकरं भवेत् ।

गन्धकरसायनम्

पूर्वोक्तवद् देहशुद्धिं कुर्याद्वान्तिविरेचनैः ॥ आक-१,१३.२५ ॥

सुमुहूर्ते सुनक्षत्रे पूजयित्वा परं शिवम् ।
गणाधिपं क्षेत्रपालं श्रीगुरुं भिषजं क्रमात् ॥ आक-१,१३.२६ ॥

निष्कैकं त्रिफलाचूर्णं निष्कमेकं च गुग्गुलुम् ।
गुञ्जोन्मेयं शुद्धगन्धं लिहेदेरण्डतैलतः ॥ आक-१,१३.२७ ॥

गुञ्जावृद्धिक्रमेणैव सेव्यं तत्प्रतिवासरम् ।
दिनषोडशपर्यन्तं गुञ्जाषोडशमात्रकम् ॥ आक-१,१३.२८ ॥

तदा षोडशघस्रान्ते सेव्यं तत्प्रतिवासरम् ।
गुञ्जाषोडशिकोन्मेयम् अपूर्वं त्रिफलां परम् ॥ आक-१,१३.२९ ॥

एतस्मादधिका वृद्धिर्न कार्या सिद्धिलिप्सुना ।
एवं मासप्रयोगेण कुष्ठमष्टादशं हरेत् ॥ आक-१,१३.३० ॥

तथा प्रमेहान् गुल्मानि कासश्वासक्षयज्वरान् ।
व्रणान्भगन्दरादींश्चाशीतिवातोद्भवान्गदान् ॥ आक-१,१३.३१ ॥

मासद्वयप्रयोगेण बहुकान्तिं प्रयच्छति ।
सर्वव्याधिप्रशमनं भवेन्मासत्रयात्प्रिये ॥ आक-१,१३.३२ ॥

ततः षण्मासयोगेन वृद्धो यौवनमाप्नुयात् ।
एवमब्दप्रयोगेण सिद्धो भवति शाम्भवि ॥ आक-१,१३.३३ ॥

तन्मूत्रमलयोगेन ताम्रं काञ्चनतां व्रजेत् ।
विधिं च प्रतिषेधं च कुर्यात्पूर्वोक्तवत्सुधीः ॥ आक-१,१३.३४ ॥

रसादि पुण्यममलं यः सेवेत रसायनम् ।
स एव कृतकृत्यः स्याद्दैवतैरपि पूज्यते ॥ आक-१,१३.३५ ॥

सर्वतीर्थेषु संस्नातः सर्वव्रतफलान्वितः ।
अश्वमेधादियज्ञानां सर्वेषां फलमाप्नुयात् ॥ आक-१,१३.३६ ॥

धन्यः पुण्यतमः श्रेष्ठः श्लाघनीयो मनीषिभिः ।
स योगविज्ञः सर्वज्ञः सर्वानुग्राहकः प्रभुः ॥ आक-१,१३.३७ ॥

शुद्धः सर्वगतः शान्तः शूरः सत्वगुणोज्ज्वलः ।
तस्य देहलयो नास्ति ह्यदृश्यः शिवतां व्रजेत् ॥ आक-१,१३.३८ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_1.13&oldid=7072" इत्यस्माद् प्रतिप्राप्तम्