सामग्री पर जाएँ

आनन्दकन्द 1.14

विकिपुस्तकानि तः
विषम्॑ विषोत्पत्तिः

श्रीभैरवी ।
श्रुतं सर्वं मया देव दिव्यं सर्वरसायनम् ।
विषोत्पत्तिं च जातिं च सेवां वद च तत्फलम् ॥ आक-१,१४.१ ॥

श्रीभैरवः ।
क्षीरोदधौ मथ्यमाने मन्थनीकृतमन्दरैः ।
सिद्धकिन्नरगुह्येन्द्रपिशाचोरगराक्षसैः ॥ आक-१,१४.२ ॥

ब्रह्माद्यैरखिलैर् देवैरेकतो दनुजाधिपैः ।
दैत्यैरन्यत्र विपुलैर्महाबलपराक्रमैः ॥ आक-१,१४.३ ॥

ततो जातानि रत्नानि कौस्तुभादीनि कामगौः ।
कल्पवृक्षो महालक्ष्मीर् ऐरावतमहागजः ॥ आक-१,१४.४ ॥

उच्चैःश्रवास्तथा चेन्दुर्धन्वन्तरिभिषग्वरः ।
अमृतं च लता दिव्या दिव्यसिद्धिप्रदायकाः ॥ आक-१,१४.५ ॥

मन्दरभ्रमणश्रान्तनागराजमुखात् ततः ।
विषज्वाला समुत्पन्ना तीव्रा लोकभयंकरी ॥ आक-१,१४.६ ॥

ममज्ज क्षीरजलधावत्यन्तमथनात्पुनः ।
कालकूटं महाक्ष्वेडं कल्पान्तयमसन्निभम् ॥ आक-१,१४.७ ॥

संवर्ताग्निप्रतीकाशं वीक्ष्य भीताः सुरास्तदा ।
ममान्तिकं समाजग्मुः स्तुवन्तो दीनमानसाः ॥ आक-१,१४.८ ॥

स्वामिन्सर्वोत्तम त्राहि शरणागतपालक ।
इत्यादि बहुधा स्तोत्रं कुर्वाणास्ते सुरासुराः ॥ आक-१,१४.९ ॥

अहं स्मितमुखं कृत्वा कालकूटं तदापिबम् ।
तत्र तत्रावशिष्टं तद्बहुधा समभूद्भुवि ॥ आक-१,१४.१० ॥

क्वचिन्मूलस्वरूपेण क्वापि त्वग्रूपतः प्रिये ।
कुत्रापि पर्णरूपेण तोयरूपेण कुत्रचित् ॥ आक-१,१४.११ ॥

एवं बहुविधं जातं तत्र तत्र विषं गतम् ।
तेषां श्रेष्ठं कन्दविषमष्टादशविषं प्रिये ॥ आक-१,१४.१२ ॥

पोइसोन् > १० किन्द्स्

क्रमाद्भेदं प्रवक्ष्यामि कालकूटं च दर्दुरम् ।
हालाहलं मेषशृङ्गं मोहदं ग्रन्थि कर्कटम् ॥ आक-१,१४.१३ ॥

रक्तशृङ्गि हरिद्रं च केसरं दशमं स्मृतम् ।
एते दशविधाः क्ष्वेडा न प्रयोज्या रसायने ॥ आक-१,१४.१४ ॥

पोइसोन् > ८ किन्द्स्

श्वेतशृङ्गी वत्सनाभं सर्षपं शृङ्गि वालुकम् ।
मुस्तकं सक्तुकं देवि चाष्टमं कर्दमं भवेत् ॥ आक-१,१४.१५ ॥

रसायने योजनीयास्त्वष्टौ भेदाः प्रकीर्तिताः ।
कालकूटं काकचञ्चुप्रभं दर्दुरसन्निभम् ॥ आक-१,१४.१६ ॥

दर्दुरं नीलवर्णं च हालाहलविषं समम् ।
मेषशृङ्गी तु मेषस्य शृङ्गाभं मोहदं पुनः ॥ आक-१,१४.१७ ॥

रक्तनीलप्रभं देवि ग्रन्थिकं ग्रन्थिसंयुतम् ।
कर्कटं कपिलाभं च रक्तशृङ्गि महाविषम् ॥ आक-१,१४.१८ ॥

कृष्णपिङ्गं च रक्ताभं हरिद्राभं हरिद्रकम् ।
केसरं पद्मकिञ्जल्कप्रभं दशविधं त्विति ॥ आक-१,१४.१९ ॥

श्वेतशृङ्गीभदन्ताभं वत्सनाभं च पाण्डुरम् ।
सर्षपाकृतिभिर्युक्तं बिन्दुभिः सर्षपं भवेत् ॥ आक-१,१४.२० ॥

शृङ्गी शृङ्गाकृतिर्ज्ञेयो वालुकं वालुकाकृति ।
मुस्ताकृतिर्मुस्तकं स्याच्छ्वेतवर्णं तु सक्तुकम् ॥ आक-१,१४.२१ ॥

मधूच्छिष्टाकृतिर्देवि कर्दमं विषमुत्तमम् ।
विषखण्डेषु भग्नेषु दृश्यन्ते येषु बिन्दवः ॥ आक-१,१४.२२ ॥

श्वेतरक्तपीतवर्णाः कृष्णा विप्रादयः क्रमात् ।
श्वेता रसायने रक्ता वश्ये पारदकर्मणि ॥ आक-१,१४.२३ ॥

क्षुद्रकर्मणि पीताः स्युः कृष्णवर्णास्तु मारणे ।
विषं युक्त्यामृतं देवि तदयुक्त्या विषं भवेत् ॥ आक-१,१४.२४ ॥

तस्माद्युक्त्या विषं सेव्यमयुक्त्या न कदाचन ।
रसाभ्रहेमकान्तानां वीर्येण सदृशं विषम् ॥ आक-१,१४.२५ ॥

विषशुद्धिः

रक्तसर्षपतैलेन लिप्ते वस्त्रे च बन्धयेत् ।
त्रिदिनान्ते समुद्धृत्य टङ्कणेन समं विषम् ॥ आक-१,१४.२६ ॥

मर्दयेच्छ्लक्ष्णचूर्णं तत्कारयेच्च विशुध्यति ।
रोगे रसायने योज्यं सिद्धिदं स्याद्वरानने ॥ आक-१,१४.२७ ॥

विषरसायनम्

शुद्धदेहो विरेकाद्यैः पथ्याशी विषभुग्भवेत् ।
क्रमेण सेवनीयं तत्सर्षपं राजसर्षपम् ॥ आक-१,१४.२८ ॥

मुद्गव्रीहियवा माषा गुञ्जामात्रं परावधिः ।
शर्करासहितं सेव्यं क्ष्वेलं तदमृतं भवेत् ॥ आक-१,१४.२९ ॥

कट्वम्ललवणास्त्याज्या व्यायामोष्णातपादयः ।
तैलसर्षपखाद्याश्च वर्ज्या विषरसायने ॥ आक-१,१४.३० ॥

गव्यं क्षीरं घृतं तक्रं स्निग्धं दधि च शर्करा ।
सेव्या स्वादुरसद्रव्या नोचेद्विकृतिकारणम् ॥ आक-१,१४.३१ ॥

विषोपद्रवास्तच्चिकित्सा च

मात्रया सेवितं क्ष्वेलम् अमृतं भवति प्रिये ।
अतिमात्रं यदि भवेदमृतं च विषायते ॥ आक-१,१४.३२ ॥

प्रमादादतिमात्रं चेत् तदा वेगा भवन्ति च ।
कष्टं प्रथमवेगे स्याद्वेपथुश्च द्वितीयके ॥ आक-१,१४.३३ ॥

तृतीये च तृषा दाहश् चतुर्थे गतिभञ्जनम् ।
फेनिलास्यः पञ्चमे स्यात्षष्ठे कन्धरभञ्जनम् ॥ आक-१,१४.३४ ॥

सप्तमे च निरुत्थानं मरणं चाष्टमे भवेत् ।
तस्माच्छीघ्रं प्रतीकारः करणीयो वरानने ॥ आक-१,१४.३५ ॥

किंचिन्मात्राधिकं क्ष्वेलं नानारोगान्करोति तत् ।
भ्रान्तिविस्मृतिशूलानि वान्त्यतीसारकं परम् ॥ आक-१,१४.३६ ॥

स्वरसादं गद्गदत्वं दाहं दृष्टिभ्रमं तथा ।
कर्णरुक्श्वासकासादीन् अन्यान् वातोद्भवान् गदान् ॥ आक-१,१४.३७ ॥

यदातिमात्रं चिह्नानि दृश्यन्ते वपुषि प्रिये ।
तदा तु टङ्कणं निष्कम् आज्यं चापि चतुर्गुणम् ॥ आक-१,१४.३८ ॥

पेयं तत्परिहारार्थं जलैर्वा तण्डुलीयकम् ।
मज्जां वा पुत्रजीवस्य फलान्निष्कं जलान्वितम् ॥ आक-१,१४.३९ ॥

तुत्थं पणद्वयोन्मेयं नृमूत्रैर् वा हरिद्रकम् ।
वचां वा देवदालीं वा सर्पाक्षीं वाथ सार्बुणीम् ॥ आक-१,१४.४० ॥

पटोलीं गिरिपर्णीं नृमूत्रैर्विषजित्पृथक् ।
लां यां वां हां चतुर्वर्णैर् गारुडं संपुटीकृतम् ॥ आक-१,१४.४१ ॥

स्तम्भस्तोभननिर्वाहनिर्विषीकरणं तथा ।
लां प्रों लां अनेन मन्त्रेण स्तम्भनम् ।
शीतजलघटम् अभिमन्त्र्य विषातुरस्य मस्तके जलं ढालयेत् ।
विषं नाक्रामति ।
यां प्रों यां अनेन स्तोभनमन्त्रेण विषातुरस्य शिखिनमन्धयेत् ।
वां प्रों वां अनेन निर्वाहमन्त्रेणार्कदण्डं वा धुत्तूरकाष्ठदण्डं वाभिमन्त्र्य विषातुरस्य सर्वाङ्गं स्पृष्ट्वा विषं निर्वाहयेत् ।
हां प्रों हां अनेन निर्विषीकरणमन्त्रेण निर्विषीकरणार्थं विषातुरस्य सर्वाङ्गं दण्डेनापामार्जयेत् स्वस्थो भवति ।
जीर्णं क्ष्वेलं शरीरे चेत्पित्तान्तं वमनं प्रिये ॥ आक-१,१४.४२ ॥

आमान्तं रेचनं कार्यं तण्डुलीयकमूलभुक् ।
सेवेत मांसं सघृतं विषदोषहरं भवेत् ॥ आक-१,१४.४३ ॥

पूर्वोक्तमात्रासेवी यो महाव्याधेर्विमुच्यते ।
देवि षण्मासयोगेन जरापलितखण्डनम् ॥ आक-१,१४.४४ ॥

संवत्सरोपयोगेन जीवेच्चन्द्रार्कतारकम् ।
हिमशीतवसन्तेषु योज्यं विषरसायनम् ॥ आक-१,१४.४५ ॥

ग्रीष्मवर्षशरत्स्वेतन्न प्रयोज्यं कदाचन ।
वातस्थविरगर्भिण्यः क्षुत्तृड्घर्माध्वपीडिताः ॥ आक-१,१४.४६ ॥

नपुंसका गदक्षीणाः पित्तक्रोधाधिकास्तथा ।
यक्ष्मिणो नैव योग्याः स्युः सदा विषरसायने ॥ आक-१,१४.४७ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_1.14&oldid=7073" इत्यस्माद् प्रतिप्राप्तम्