आनन्दकन्द 1.21

विकिपुस्तकानि तः
Jump to navigation Jump to search
योगसिद्धिदकुटीनिर्माणविधिः

श्रीभैरवी ।
कुटी प्रोक्ता त्वया पूर्वं कथं कार्या च कीदृशी ।
तत्र कालं कियच्छंभो वस्तव्यं ब्रूहि मे प्रभो ।। आक-१,२१.१ ।।

श्रीभैरवः ।
वक्ष्यामि तां कुटीं सम्यक् शृणु त्रिपुरसुन्दरि ।
मेदिनीम् उन्नतीकृत्य पुनस्तां सुहृदं प्रिये ।। आक-१,२१.२ ।।

स्तंभांश्च क्रमशः षट् षट् पङ्क्तिशः स्थापयेदृजून् ।
तुला उपरि चारोप्य दारूणि सुदृढानि च ।। आक-१,२१.३ ।।

स्थापयेदिष्टकाः पश्चात्सुधया सान्द्रमालिपेत् ।
परितो वलभिं कृत्वा भित्तिं त्रिवलयां शुभाम् ।। आक-१,२१.४ ।।

कुर्यात्कुटीं च तन्मध्ये तृतीयावरणैः पुनः ।
निखनेच्चतुरश्रं च दशप्रादेशमात्रकम् ।। आक-१,२१.५ ।।

पञ्चप्रादेशमात्रे च त्वधोनिम्नं तथोर्ध्वतः ।
एवं दशवितस्त्याभिर् अचिन्त्यां तां मनोहराम् ।। आक-१,२१.६ ।।

प्राग्द्वारं बाह्यवलये द्वितीये वलये शिवे ।
याम्यद्वारं तृतीये तु प्रत्यग्द्वारं विधीयते ।। आक-१,२१.७ ।।

द्वाराणां च प्रमाणं हि वितस्तिद्वयमुच्यते ।
सकवाटं प्रतिद्वारमच्छिद्रं चार्गलान्वितम् ।। आक-१,२१.८ ।।

सुधाप्रलेपितं कुर्याद्भित्तिं श्लक्ष्णतरं स्थलम् ।
दक्षिणे चोत्तरे चैव कुट्यन्तर्वेदिकाद्वयम् ।। आक-१,२१.९ ।।

सार्धत्रयं वितस्तीनां विशालं चायतं दश ।
प्रादेशमात्रम् उत्सेधं मध्यं प्रादेशिकत्रयम् ।। आक-१,२१.१० ।।

तत्र गोमयसम्भूतं भस्म वस्त्रेण गालितम् ।
पूरयेच्च कुटीभित्तौ चित्रं बहु सुविस्तरम् ।। आक-१,२१.११ ।।

भैरवं कालमेघाभं ज्वलदूर्ध्वशिरोरुहम् ।
फालाक्षं वक्रदंष्ट्रं च नागकुण्डलमण्डितम् ।। आक-१,२१.१२ ।।

नागयज्ञोपवीतं च किङ्किणीमुण्डमालिनम् ।
दिगम्बरं तु काकोटीभूषिताङ्घ्रिशिरोरुहम् ।। आक-१,२१.१३ ।।

हारकेयूरकटकमुद्रिकादिविभूषितम् ।
दशहस्तं च डमरुमङ्कुशं खड्गशूलकम् ।। आक-१,२१.१४ ।।

वरदं सव्यहस्ताब्जैर् नागं पाशं च घण्टिकाम् ।
मधुपत्रं भयहरं बिभ्राणं वामबाहुभिः ।। आक-१,२१.१५ ।।

कृष्णाङ्गरागमालाढ्यं सर्वव्याधिविनाशनम् ।
व्याधिभूताहिशत्रुघ्नं क्ष्वेलादिभयनाशनम् ।। आक-१,२१.१६ ।।

ततो मृत्युञ्जयं शान्तं वटुकं विलिखेत्प्रिये ।
पारदेन्दुहिमश्वेतं बालं द्विभुजशोभितम् ।। आक-१,२१.१७ ।।

किङ्किणीमालया बद्धकर्णनूपुरशोभितम् ।
बालं कुण्डलसच्छोभं त्रिनेत्रं नग्नरूपिणम् ।। आक-१,२१.१८ ।।

श्वेतमाल्यानुलेपं च पूर्णपात्रं च वामतः ।
दण्डं दक्षिणहस्तेन दधानं मृत्युनाशनम् ।। आक-१,२१.१९ ।।

मायाबीजं च वटुकं ह्येनं प्रथममुच्चरेत् ।
आपदुद्धारणायेति लिखेत्पञ्चाक्षरद्वयम् ।। आक-१,२१.२० ।।

वटुकायेति मायां च वटुकस्य मनुः स्मृतः ।
मूर्तिद्वयोरयं मन्त्रः कथितः सुरवन्दिते ।। आक-१,२१.२१ ।।

मन्त्रस्यास्य च यद्यन्त्रं तद्यन्त्रं तत्र संलिखेत् ।
रमां च भुवनेशीं च कामं चिन्तामणिं क्रमात् ।। आक-१,२१.२२ ।।

कर्णिकायां लिखेत्पूर्वं वटुकायेति वीप्सितम् ।
अष्टपत्रे लिखेच्छेषाण्यक्षराण्यष्टपत्रके ।। आक-१,२१.२३ ।।

बहिः षोडशपत्रेषु विलिखेत्षोडश स्वरान् ।
द्वात्रिंशद्दलके कादिसान्तद्वात्रिंशदक्षरान् ।। आक-१,२१.२४ ।।

अन्ये दले हलक्षांश्च विलिखेद्भूपुरं बहिः ।
आपदुद्धारणं यन्त्रमपमृत्युनिवारणम् ।। आक-१,२१.२५ ।।

रक्षाकरं ग्रहार्तानां सर्वेषां प्राणिनामपि ।
स्त्रीवश्यं राजवश्यं च पुंवश्यं पशुवश्यकम् ।। आक-१,२१.२६ ।।

नानासिद्धिप्रदं नित्यं सर्वरोगविषापहम् ।
हारकेयूररुचिरं कान्त्या विश्वविमोहनम् ।। आक-१,२१.२७ ।।

महामृत्युञ्जयं देवं भावयेन्मृत्युजिद्भवेत् ।
एवं द्वितीयवर्गस्य तृतीयं पञ्चमेन च ।। आक-१,२१.२८ ।।

स्वरेण बिन्दुना युक्तं सोन्तं साध्यपदं ततः ।
रक्षशब्दयुगं पश्चात्पूर्वं बीजत्रयं पुनः ।। आक-१,२१.२९ ।।

प्रतिलोमं समुच्चार्य मन्त्रं मृत्युञ्जयं जपेत् ।
तारं मध्ये ससाध्याख्यं दिग्दले भं समालिखेत् ।। आक-१,२१.३० ।।

आग्नेयादिदलेष्वन्त्यमक्षरं क्रमशो लिखेत् ।
बाह्ये भूपुरमालिख्य दिक्षु सान्द्रं समालिखेत् ।। आक-१,२१.३१ ।।

चतुष्कोणे ठकारं च यन्त्रं मृत्युञ्जयात्मकम् ।
अपमृत्युज्वरव्याधिक्ष्वेलमोहविनाशनम् ।। आक-१,२१.३२ ।।

तत्र चिन्तामणिं देवं चिन्तितार्थप्रदं लिखेत् ।
नीलप्रवालरुचिरं त्रिणेत्रं रुचिराननम् ।। आक-१,२१.३३ ।।

पाशारुणोत्पलं वामे दक्षे शूलकपालकौ ।
दधानम् इन्दुमकुटं ध्यायेदर्धाम्बिकेश्वरम् ।। आक-१,२१.३४ ।।

वह्निप्रथमवर्गादिषमरेफाः क्रमात्ततः ।
प्राणसद्यान्तसहितः षष्ठस्वरसबिन्दुकः ।। आक-१,२१.३५ ।।

इदं चिन्तामणेर् मन्त्रं चिन्तितार्थप्रदं शुभम् ।
षोडशस्वरसंवीतं चिन्तामणिमभीष्टदम् ।। आक-१,२१.३६ ।।

ठकारावेष्टितं कुर्याज्ज्वरापस्मृतिमृत्युहम् ।
ततश्च शारदादेवीम् आलिखेत् सिद्धिदायिनीम् ।। आक-१,२१.३७ ।।

शङ्खकुन्देन्दुधवलां मकुटेन्दुकलाधराम् ।
सुधाकुम्भं वराक्षस्रक्संविन्मुद्रां करांबुजैः ।। आक-१,२१.३८ ।।

बिभ्राणां श्वेतवसनां मौक्तिकाभरणोज्ज्वलाम् ।
वाग्बीजं भुवनेशीं च वदवाक्यद्वयं ततः ।। आक-१,२१.३९ ।।

वाग्वादिनीं ससम्बुद्धिम् अग्निपत्नीं समुच्चरेत् ।
एष श्रीमातृकामन्त्रः प्रोक्तः सारस्वतप्रदः ।। आक-१,२१.४० ।।

आदिबीजद्वयं हित्वा शेषं पूर्ववद् उच्चरेत् ।
दशार्णशारदामन्त्रो वाग्विलासप्रदायकः ।। आक-१,२१.४१ ।।

वियद्वर्णसुकारं च सद्यान्तं सविसर्गकम् ।
कर्णिकायां लिखेत्पूर्वं किञ्जल्केषु स्वरानपि ।। आक-१,२१.४२ ।।

अष्टच्छदेष्व् अष्टवर्गान्य् अशहाद्यैः परैस्त्रिभिः ।
काद्यैश्च पञ्चभिर्वर्णैरष्टवर्गाः समीरिताः ।। आक-१,२१.४३ ।।

लिखेद्भूपुरकोणेषु ठकारान्दिक्षु विन्यसेत् ।
इदं हि मातृकायन्त्रं विषमृत्युगदापहम् ।। आक-१,२१.४४ ।।

अघोरं विलिखेद्देवि नीलजीमूतसन्निभम् ।
क्रूरदंष्ट्रं त्रिणेत्रं च नागेन्द्राष्टविभूषितम् ।। आक-१,२१.४५ ।।

रक्ताङ्गरागवसनं रक्तमालाविराजितम् ।
परश्वथुं च डमरुं खड्गं खेटम् इषुं धनुः ।। आक-१,२१.४६ ।।

त्रिशूलं पूर्णपात्रं च बिभ्राणं चाष्टबाहुभिः ।
भुवनेशीं स्फुरद्वन्द्वं ततः प्रस्फुरवीप्सितम् ।। आक-१,२१.४७ ।।

घोरं ततोऽघोरतरं तनुरूपं चटद्वयम् ।
प्रकटद्विगुणं चैव कहशब्दयुगं ततः ।। आक-१,२१.४८ ।।

वमशब्दद्वयं देवि बन्धशब्दं च वीप्सितम् ।
घातयद्वितयं देवि कवचं च फडन्तकम् ।। आक-१,२१.४९ ।।

एकोत्तरोऽयं पञ्चाशदर्णो ऽघोरः स्मृतो मनुः ।
वश्यार्थं तप्तहेमाभं पूर्वोक्ताकृतिसंयुतम् ।। आक-१,२१.५० ।।

मुक्तौ मृत्युञ्जयार्थे तु श्वेतं पूर्वोक्तविग्रहम् ।
सर्वार्थसिद्धिदं शान्तमघोरास्त्रं लिखेत्प्रिये ।। आक-१,२१.५१ ।।

मायाबीजं ससाध्यं स्यान्मध्ये च स्वरसंयुतम् ।
तद्बहिःकेसरेष्वेवं विलिखेदष्टवर्गकम् ।। आक-१,२१.५२ ।।

ततस्त्वष्टदले मन्त्रवर्णान्गुणमितान् लिखेत् ।
अग्रशेषेषु तद्वत् तत्षट्कोणे कवचास्त्रकौ ।। आक-१,२१.५३ ।।

तद्बहिर्भूपुरं लेख्यम् एनदाघोरयन्त्रकम् ।
स्फुरद्वयावृतं मध्ये शक्तिबीजं लिखेत्ततः ।। आक-१,२१.५४ ।।

षट्कोणे प्रस्फुरयुगं ततश्चाष्टदले क्रमात् ।
षड्भिश्चतुर्भिर्वेदैश्च रसैर्वस्त्रैश्च गोपदैः ।। आक-१,२१.५५ ।।

ऋतुभिः शिष्टमन्त्रार्णैर् अमीभिर् विलिखेत्ततः ।
षट्कोणे वह्निचास्त्राभ्याम् उद्धृतं वीतकोणकम् ।। आक-१,२१.५६ ।।

भूपुरेणावृतं यन्त्रमघोरं विलिखेत्प्रिये ।
व्यालारिचोरक्षुद्रापस्मारभूतग्रहापहम् ।। आक-१,२१.५७ ।।

अथो महागणपतिं लिखेद्विद्रुमसन्निभम् ।
कोटीरचन्द्रशकलं गजास्यं लोचनत्रयम् ।। आक-१,२१.५८ ।।

तुन्दिलं रक्तवसनं रक्तमालानुलेपनम् ।
दशदोर्दण्डसुभगं वामोरुस्थितयोषितम् ।। आक-१,२१.५९ ।।

हारकेयूरकटकमुद्रिकाकुण्डलोज्ज्वलम् ।
फलपूरं गदाम् इक्षुकोदण्डं च त्रिशूलकम् ।। आक-१,२१.६० ।।

चक्रं सरसिजं पाशमुत्पलं शालिमञ्जरीम् ।
स्वदन्ततुण्डया रत्नकलशं दशभिः करैः ।। आक-१,२१.६१ ।।

बिभ्राणं पद्मकरया वामोरुस्थितया श्रिया ।
आलिङ्गितं भक्तलोकचिन्तितार्थसुरद्रुमम् ।। आक-१,२१.६२ ।।

प्रणवं कमलां मायां कामराजं वसुंधराम् ।
क्रमाद्गणपतेर्बीजं महागणपतिं ततः ।। आक-१,२१.६३ ।।

चतुर्थ्यन्तं ससंबुद्धिं वरं च वरदं तथा ।
ततः सर्वजनं मे च वशमानय शब्दकम् ।। आक-१,२१.६४ ।।

अग्निपत्नीं समालिख्य चाष्टाविंशतिवर्णकम् ।
मन्त्रं महागणपतेर् मृत्युदारिद्र्यनाशनम् ।। आक-१,२१.६५ ।।

त्रिकोणे बीजमालिख्य सतारे च गणेशितुः ।
दिक्षु श्रीशक्तिमदनभूबीजानि बहिर्लिखेत् ।। आक-१,२१.६६ ।।

षट्कोणे बीजषट्कं च तत्संधिष्वङ्गमन्त्रकम् ।
ततोऽष्टदलमध्येषु मन्त्राणि गणशो लिखेत् ।। आक-१,२१.६७ ।।

अन्त्याक्षरे चान्त्यदले मातृकामनुलोमतः ।
लेखे च प्रतिलोमेनाङ्कुशपाशावृतं ततः ।। आक-१,२१.६८ ।।

भूमन्दिरेण सुभगं यन्त्रं गणपतेः शुभम् ।
गजान्तं श्रीपदं दिव्यमायुष्यारोग्यवर्धनम् ।। आक-१,२१.६९ ।।

एतानि यन्त्रजालानि कुट्यन्तर्देवता लिखेत् ।
कुटीभित्तिबहिर्भागे भैरवं वर्णमालिखेत् ।। आक-१,२१.७० ।।

असिताङ्गं रुरुं चण्डं क्रोधमुन्मत्तभैरवम् ।
कपालिनं भीषणं च संहारं भैरवं क्रमात् ।। आक-१,२१.७१ ।।

द्वितीयावरणस्यान्तर् भित्तावेकादश क्रमात् ।
रुद्रांस्त्रिलोचनांश्चन्द्रकलाजूटजटान् लिखेत् ।। आक-१,२१.७२ ।।

तद्बाह्ये नव नाथांश्च नव सिद्धांश्च षोडश ।
सनत्कुमारसनकसनन्दादीन् लिखेत्ततः ।। आक-१,२१.७३ ।।

तृतीयावरणस्यान्तर् भित्तौ ब्राह्म्यादिमातरः ।
चतुःषष्टिश्च योगिन्यो लेखनीया यथाविधि ।। आक-१,२१.७४ ।।

तद्भित्तिबाह्ये देवेन्द्रमुखा दिक्पतयः क्रमात् ।
ग्रहाश्च चन्द्रसूर्याद्या अश्विन्याद्याश्च तारकाः ।। आक-१,२१.७५ ।।

मेषाद्या राशयो लेख्याः सालङ्काराश्च सायुधाः ।
कुटीद्वारविपार्श्वे च गणेशं भैरवं लिखेत् ।। आक-१,२१.७६ ।।

द्वितीयावरणद्वारपार्श्वे द्वौ शङ्खपद्मकौ ।
गरुत्मन्तं हनूमन्तं तृतीयावरणस्य च ।। आक-१,२१.७७ ।।

द्वारस्य पार्श्वयोर्देवि विलिखेद्भयभञ्जनौ ।
यस्मिन्देशे कुटी दिव्या कल्पिता योगिसत्तमैः ।। आक-१,२१.७८ ।।

देशो धन्यतरः श्लाघ्यः पुण्यक्षेत्रं च पावनम् ।
तत्रत्याश्च प्रजा धन्याः स्फीतार्थाः पुण्यकर्मिणः ।। आक-१,२१.७९ ।।

राष्ट्रं सुभिक्षम् आरोग्यम् अनामयसुखावहम् ।
ईतिहीनं कालवृष्टिसहितं धान्यसङ्कुलम् ।। आक-१,२१.८० ।।

तस्करोपद्रवव्याघ्रसर्पादिभयवर्जितम् ।
तत्र तीर्थानि सर्वाणि गङ्गादीनि वसन्ति च ।। आक-१,२१.८१ ।।

इन्द्रादयोऽपि विबुधाः सूर्यचन्द्रादयो ग्रहाः ।
योगिन्यो भैरवाः सिद्धा गणेशगुहमातरः ।। आक-१,२१.८२ ।।

तत्रस्थस्य महीपस्य जयार्थावाप्तिरायुषः ।
सम्भवेच्चक्रवर्तित्वं पुनर्नित्योत्सवोज्ज्वलम् ।। आक-१,२१.८३ ।।

वन्ध्यानां पुत्रसम्पत्तिः कुटीसंदर्शनाद्भवेत् ।
कुष्ठापस्मारभूतादिमहाव्याधिविनाशनम् ।। आक-१,२१.८४ ।।

कुटीगता भवेयुस्ते ये सेवन्ते रसायनम् ।
सिद्धिं यान्ति सुखेनैव देवानामपि दुर्लभाम् ।। आक-१,२१.८५ ।।

अमरीकल्पः

देवि चित्रं प्रवक्ष्यामि दिव्यं गुह्यतमं शिवम् ।
अमरीकल्पमनघं सुलभं निजदेहजम् ।। आक-१,२१.८६ ।।

अणिमाद्यष्टकैश्वर्यदेहलोहादिसिद्धिदम् ।
वमनादिविशुद्धाङ्गो लवणाम्लविवर्जितः ।। आक-१,२१.८७ ।।

कुटीगतस्तु देवेशि शिवतोयमुदारधीः ।
स्थूलस्य कतकस्यैव दारुणा पानपात्रकम् ।। आक-१,२१.८८ ।।

कुर्याच्च त्रिफलां पिष्ट्वा लेपयेच्चषकान्तरे ।
कर्षं शिवाम्बुना रात्रौ पात्रं चाधोमुखं प्रिये ।। आक-१,२१.८९ ।।

स्थापयित्वा पुनः प्रातराद्यन्तं प्रस्रवं त्यजेत् ।
मध्यधाराश्च तत्पात्रे क्षिपेत्तत्त्रिफलां ततः ।। आक-१,२१.९० ।।

लोडयेदमरीयुक्तं पिबेत्प्रागाननः सदा ।
इष्टदेवान्गुरून्वृद्धान् नत्वार्चितगणेश्वरः ।। आक-१,२१.९१ ।।

मिताहारो युक्तचेष्टो वातातपविवर्जितः ।
एकमण्डलमात्रेण बाह्यान्तः शुचिभाग् भवेत् ।। आक-१,२१.९२ ।।

मण्डलेन द्वितीयेन सर्वकुष्ठविनाशनम् ।
मण्डलेन तृतीयेन चतुर्विधविषापहम् ।। आक-१,२१.९३ ।।

मण्डलेन चतुर्थेन नालिकेराम्बुवद् भवेत् ।
आत्मतोयं पञ्चमेन मलदौर्गन्ध्यनाशनम् ।। आक-१,२१.९४ ।।

षष्ठमण्डलयोगेन देहदौर्गन्ध्यनाशनम् ।
सप्तमण्डलयोगेन भवेदिन्द्रियपाटवम् ।। आक-१,२१.९५ ।।

ततोऽष्टमे मण्डले तु रजनीचूर्णकर्षयुक् ।
सेवेत शिवतोयं च यावद्द्विः सप्तमण्डलम् ।। आक-१,२१.९६ ।।

वलीपलितहीनः स्यान्महाविषभयोज्झितः ।
मण्डले पञ्चदशके कर्षांशौ शृङ्गगन्धकौ ।। आक-१,२१.९७ ।।

शिवतोयेन सम्मिश्रं प्रपिबेदेकविंशतिम् ।
मण्डलं च तदन्ते स्यात्सिद्धिभाग्देहलोहयोः ।। आक-१,२१.९८ ।।

द्वाविंशन्मण्डले देवि चाभ्रकं वरया युतम् ।
एवं भजेद्यमी यावदष्टाविंशतिमण्डलम् ।। आक-१,२१.९९ ।।

मत्तहस्तिबलोपेतो गृध्रदृष्टिरनामयः ।
एकोनत्रिंशति प्राप्ते मण्डले वरया युताम् ।। आक-१,२१.१०० ।।

सकान्तचूर्णविमलां गोधामपि पिबेत् प्रिये ।
पञ्चत्रिंशन्मण्डलान्तं वज्रकायो भवेन्नरः ।। आक-१,२१.१०१ ।।

षट्त्रिंशन्मण्डलादि स्वर्णधात्रीरजोऽन्वितम् ।
आत्मगोधान्वितं पेयं तत्तु यावद्द्व्यधिकम् ।। आक-१,२१.१०२ ।।

चत्वारिंशन्मण्डलान्तं सशरीरः खगो भवेत् ।
त्रिचत्वारिंशन्मण्डले तु प्राप्ते पारदसंयुतम् ।। आक-१,२१.१०३ ।।

वरायुतं पिबेद् ऊनपञ्चाशन्मण्डलावधिः ।
अणिमादिगुणोपेतो वज्रकायश्च खेचरः ।। आक-१,२१.१०४ ।।

सिद्धैर् युक्तो निरातङ्को निरपायो निरञ्जनः ।
यदृच्छया सर्वलोके विहरत्येव सर्वदा ।। आक-१,२१.१०५ ।।

आरभ्य प्रथमं देवि मण्डलान्नित्यमाचरेत् ।
आत्मतोयेन धुत्तूररसेन परिलोडयेत् ।। आक-१,२१.१०६ ।।

भस्म तेनैव सर्वाङ्गमसकृत्परिमर्दयेत् ।
अन्यकालसमायातम् आत्मतोयं विशेषतः ।। आक-१,२१.१०७ ।।

मूर्ध्नि नासापुटे कर्णे दृशि पादकरद्वये ।
शीलयेत्सततं देवि शुद्धदेहो भवेन्नरः ।। आक-१,२१.१०८ ।।

कदाचिदप्यात्मगोधां भूमौ न विसृजेत्प्रिये ।
अमरीसेविनः पुंसः शिवतोयेन जायते ।। आक-१,२१.१०९ ।।

सर्वलोहं च कनकं दिव्यं मनुजदुर्लभम् ।
विजयासहितां गोधां प्रतिवासरमापिबेत् ।। आक-१,२१.११० ।।

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_1.21&oldid=3462" इत्यस्माद् प्रतिप्राप्तम्