आनन्दकन्द 1.25

विकिपुस्तकानि तः
Jump to navigation Jump to search
परिभाषा

परिभाषां प्रवक्ष्यामि शृणु त्वं सावधानतः ।

वैद्यभागः

अर्धं सिद्धरसं देवि त्रिष्वेकं हेमभस्म च ।। आक-१,२५.१ ।।

पादांशकं रूप्यभस्म षष्ठांशं ताम्रभस्म च ।
अष्टमांशं हि कान्ताभ्रं कलांशं नवरत्नकम् ।। आक-१,२५.२ ।।

रसेश्वरं समुद्दिश्य रसवैद्याय धीमते ।
रसाचार्याय सिद्धाय दद्यादिष्टार्थसिद्धये ।। आक-१,२५.३ ।।

कज्जली पङ्करसश्च

धातुभिर्गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः ।
सुश्लक्ष्णः कज्जलाभोऽसौ कज्जली साभिधीयते ।। आक-१,२५.४ ।।

सद्रवे मर्दितः सोऽपि इति पाकरसः स्मृतः ।

पिष्टी

अर्कांशतुल्याद्रसतोऽथ गन्धान्निष्कार्धतुल्यात्त्रुटिशोऽपि खल्वे ।
अर्कातपे तीव्रतरे विमर्द्यात्पिष्टिर्भवेत्सा नवनीतरूपा ।। आक-१,२५.५ ।।

खल्वे विमर्द्य गन्धेन दुग्धेन सह पारदम् ।। आक-१,२५.६ ।।

पेषणात्पिष्टितां याति सा पिष्टीति मता परैः ।

पातनपिष्टी

चतुर्थांशसुवर्णेन रसेन कृतपिष्टिका ।। आक-१,२५.७ ।।

भवेत्पातनपिष्टी सा तथा रूप्यादिभिः कृता ।

हेमपिष्टी तारपिष्टी च

रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ।। आक-१,२५.८ ।।

समुत्थितं च बहुशः सा कृष्टी हेमतारयोः ।
कृष्टीं क्षिप्त्वा सुवर्णान्ते न वर्णो हीयते तया ।। आक-१,२५.९ ।।

स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् ।

लोहकम्

ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः ।। आक-१,२५.१० ।।

सगन्धे लिकुचद्रावे निर्गतं वरलोहकम् ।

हेमरक्ती ताररक्ती च

तेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृता ।। आक-१,२५.११ ।।

निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।
तारस्य रञ्जनी चापि बीजरागविधायिनी ।। आक-१,२५.१२ ।।

एवमेव प्रकर्तव्या ताररक्ती मनोहरा ।
रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी ।। आक-१,२५.१३ ।।

चन्द्रानलदलम्

मृतेन वा बद्धरसेन वान्यलोहेन वा साधितमन्यलोहम् ।
सितं हि पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम् ।। आक-१,२५.१४ ।।

आभासमृतबन्धेन रसेन सह योजितम् ।
साधितं वान्यलोहेन सितं पीतं हि तद्दलम् ।। आक-१,२५.१५ ।।

अयोनागम्

ताप्येन निहतं कान्तं सप्तवारं समुत्थितम् ।
तद्द्वयं द्विपलं वाथ ताम्रभस्म पलद्वयम् ।। आक-१,२५.१६ ।।

सर्वं निक्षिप्य मूषायां सप्तवारं धमेद्दृढम् ।
तदयोनागमित्युक्तं साधकं देहलोहयोः ।। आक-१,२५.१७ ।।

रसेन सारणायन्त्रे तदीया गुलिका कृता ।
सा धृता वदने हन्ति मेहरोगानशेषतः ।। आक-१,२५.१८ ।।

कुरुते दन्तदार्ढ्यं च दृशौ गृध्रदृशाविव ।
तथान्यान् क्षेत्रजान्रोगान् रोगाञ् जत्रूर्ध्वसंभवान् ।। आक-१,२५.१९ ।।

शुल्वनागम्

माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् ।
तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम् ।। आक-१,२५.२० ।।

नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् ।
इति संसिद्धमेतद्धि शुल्बनागं प्रकीर्तितम् ।। आक-१,२५.२१ ।।

साधितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् ।
निहन्ति मासमात्रेण मेहव्यूहमशेषतः ।। आक-१,२५.२२ ।।

पथ्याशनस्य वर्षेण पलितं वलिभिः सह ।
गृध्रदृष्टिर् लसद्दृष्टिः सर्वारोग्यसमन्वितः ।। आक-१,२५.२३ ।।

पिञ्जरी

लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।
पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते ।। आक-१,२५.२४ ।।

चन्द्रार्कम्

भागाः षोडश तारस्य तथा द्वादश भास्वतः ।
एकत्रावर्तितास्ते तु चन्द्रार्कमिति कथ्यते ।। आक-१,२५.२५ ।।

निर्वापहणम्

धार्यलोहे ऽन्यलोहश्चेत्प्रक्षिप्तो वङ्कनालतः ।
निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु ।। आक-१,२५.२६ ।।

क्षिपेन्निर्वाहणं द्रव्ये निर्वाह्ये समभागिकम् ।
आवाप्यं वापनीयं च भागे दृष्टे च दृष्टवत् ।। आक-१,२५.२७ ।।

वार्तितर (डेf.)

मृतं तरति यत्तोये लोहं वारितरं हि तत् ।

रेखापूर्ण (डेf.)

अङ्गुष्ठतर्जनीघृष्टं यत्तद्रेखान्तरे विशेत् ।। आक-१,२५.२८ ।।

मृतं लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ।

निरुत्थभस्मलक्षणम्

गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम् ।। आक-१,२५.२९ ।।

न याति प्रकृतिं ध्मानादपुनर्भवमुच्यते ।

निरुत्थ

लोहेन सह संयुक्तं ध्मातं रूप्येण चेल् लिहेत् ।। आक-१,२५.३० ।।

तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् ।
एवं रूप्यं सताम्रं चेद्ध्मातं ताम्रे लगेन्न हि ।। आक-१,२५.३१ ।।

तदा निरुत्थं मन्तव्यं रजतं च भिषग्वरैः ।

बीजम्

निर्वाहणविशेषेण तद्वद्वर्णं भवेद्यदा ।। आक-१,२५.३२ ।।

मृदुलं चित्रसङ्काशं तद् बीजमिति कथ्यते ।

उत्तारणम्

इदमेव हि निर्दिष्टं वैद्यैरुत्तारणं खलु ।। आक-१,२५.३३ ।।

संसृष्टलोहयोरेकलोहस्य परिनाशनम् ।

ताडनम्

प्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतम् ।। आक-१,२५.३४ ।।

धान्याभ्रम्

चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ।। आक-१,२५.३५ ।।

सत्त्वम्

क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।
यस्ततो निर्गतः सारः सत्त्वम् इत्यभिधीयते ।। आक-१,२५.३६ ।।

एककोलीसकः

कोष्ठिकाशिखरापूर्णैः कोकिलाध्मानयोगतः ।
मूषाकर्णम् अनुप्राप्तैर् एककोलीशको मतः ।। आक-१,२५.३७ ।।

स्वेदनाद्यर्हाः कोकिलाः

शिखित्राः पावकोच्छिष्टा मृताङ्गाराश्च कोकिलाः ।
कृष्णाङ्गाः कोकिलाश्चेति पर्यायास्ते परस्परम् ।। आक-१,२५.३८ ।।

छर्चोअल् > wओओद्

द्रावणे सत्त्वपाते च माधूकाः खादिराः शुभाः ।
दुर्द्रावे वंशजापेस्तु स्वेदने बादराः शुभाः ।। आक-१,२५.३९ ।।

हिङ्गुलाकृष्टरसः

विद्याधराख्ययन्त्रस्थाद् आर्द्रकद्रवमर्दितात् ।
समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते ।। आक-१,२५.४० ।।

घोषाकृष्टं वङ्गम्

स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् ।
मुक्तवङ्गं हि तत्ताम्रं घोषाकृष्टमुदाहृतम् ।। आक-१,२५.४१ ।।

गुह्यनागम्

पलविंशति नागस्य शुद्धस्य कृतचक्रिकम् ।
रूपिकादुग्धसम्पिष्टशिलायां परिलेपितम् ।। आक-१,२५.४२ ।।

शरावसंपुटे रुद्ध्वा पचेत् क्रोडपुटेन ताम् ।
तावद्वारं पचेद्यत्नाद्यावद्भस्म प्रजायते ।। आक-१,२५.४३ ।।

गुडगुग्गुलुगुञ्जाज्यटङ्कणैः परिमर्द्य तम् ।
मूषामध्ये निरुध्याथ ध्मानादुत्थापितं पुनः ।। आक-१,२५.४४ ।।

चक्रीं तेन पुनः कृत्वा पलप्रमितपारदैः ।
लिप्त्वा लिम्पेत्सितार्कस्य पयसा शिलयापि च ।। आक-१,२५.४५ ।।

पचेद्गजपुटैरेवं वाराणां खलु विंशतिः ।
पुटे पुटे च नागस्य कुर्यादुत्थापनं खलु ।। आक-१,२५.४६ ।।

नीलज्योतिर्द्रवैः सम्यग्दशवाराणि ढालयेत् ।
इति सिद्धं हि तत् सीसं कर्षमात्रावशेषितम् ।। आक-१,२५.४७ ।।

गुह्यनागाख्यया प्रोक्तं श्रेष्ठं रसरसायने ।
निष्कमात्रं तु नागेऽस्मिन् लोहाख्ये या द्रुते सति ।। आक-१,२५.४८ ।।

स्वतो लक्षगुणां हैमीं शलाकां ग्रसते ध्रुवम् ।
लगेत्तैलप्रतप्तं तत्स्वर्णमुद्गिरति ध्रुवम् ।। आक-१,२५.४९ ।।

गुह्यनागोऽयमुद्दिष्टः शक्तिस्वच्छन्दभैरवः ।

वरनागम्

तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् ।। आक-१,२५.५० ।।

मृदु कृष्णं द्रुतद्रावं वरनागं तदुच्यते ।

उत्थापनम्

मृतस्य पुनरुद्भूतिः सा प्रोक्तोत्थापनाख्यया ।। आक-१,२५.५१ ।।

ढालनम्

द्रुतद्रव्यस्य निक्षेपो द्रवे तत् ढालनं मतम् ।

चपलः

त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् ।। आक-१,२५.५२ ।।

विमृद्य पुटयेत् तावद् यावत् कर्षावशेषकम् ।
न तत्पुटसहस्रेण क्षयमायाति सर्वदा ।। आक-१,२५.५३ ।।

चपलोऽयं समादिष्टो वार्तिकैर्नागसम्भवः ।
इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः ।। आक-१,२५.५४ ।।

तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ।
स रसो धातुवादेषु शस्यते न रसायने ।। आक-१,२५.५५ ।।

अयं हि कर्पणाख्येन लोकनाथेन कीर्तितः ।
भ्रामकाश्मरजः सूक्ष्मं पञ्चमांशसमन्वितम् ।। आक-१,२५.५६ ।।

कुमारीमूलतोयेन मर्दयेदेकवासरम् ।
शार्ङ्गेरीस्वरसे वापि दिनमेकमनारतम् ।। आक-१,२५.५७ ।।

एवं भूनागधौतं च मर्दयेद्दिवसद्वयम् ।
अथैकपलनागेन तावता त्रपुणापि च ।। आक-१,२५.५८ ।।

दशनिष्करसेन्द्रेण श्लक्ष्णपिष्टं समाचरेत् ।
योजयित्वाद्यकल्केन यथापूर्वं विमर्दयेत् ।। आक-१,२५.५९ ।।

ततः शाणरसेन्द्रेण सत्त्वेन रसकस्य च ।
पिष्टीं कृत्वा तु पूर्वेण पूर्वकल्कैश्च योजयेत् ।। आक-१,२५.६० ।।

अथ प्रक्षाल्य सोष्णेन काञ्जिकेन प्रशोषयेत् ।
पलार्धं शुद्धसस्येन अष्टगुञ्जारसेन च ।। आक-१,२५.६१ ।।

विमर्द्य काञ्जिकैः कुर्यान्मरिचप्रमिता वटीः ।
निरुध्य वज्रमूषायां सन्धिबन्धं विधाय च ।। आक-१,२५.६२ ।।

शिखित्रैर् नवभिः सम्यग्भस्त्राभ्यां प्रधमेत्खलु ।
ततो मूषागतं सत्त्वं समादाय समन्ततः ।। आक-१,२५.६३ ।।

धमेत्प्रकटमूषायां वङ्कनालेन शोधयेत् ।
दशशाणं हि तत्सत्वं भस्मना लवणेन च ।। आक-१,२५.६४ ।।

सकाञ्जिकेन संपेष्य पुटयोगेन शोधयेत् ।
त्रिनिष्कप्रमिते तस्मिन्पूर्वप्रोक्तेन भस्मना ।। आक-१,२५.६५ ।।

अशीतिगुणितं नागं ध्मात्वा निर्वाहयेत् खलु ।
इयता पूर्वसूतोऽसौ क्षीयते न कथंचन ।। आक-१,२५.६६ ।।

चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ।
अनेनापि रसः शीघ्रं पूर्ववद् बध्यते सुखम् ।। आक-१,२५.६७ ।।

कारवल्लीजटाचूर्णैर्दशधा पुटितो हि सः ।
भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः ।। आक-१,२५.६८ ।।

सुखं प्रकटमूषायां भवेच् चातिगुणोत्तरः ।
जीर्णग्रासो रसो ह्येषां देहलोहकरो भवेत् ।। आक-१,२५.६९ ।।

भूनागधौतम्

भूभुजङ्गशकृत्तोयैः प्रक्षाल्यापहृतं मलम् ।
कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः ।। आक-१,२५.७० ।।

द्वन्द्वानम्

द्रव्ययोर्मेलनं ध्मानाद् द्वंद्वानं परिकीर्तितम् ।

भञ्जनी

भागाद्रूप्याधिके क्षेपमनुवर्णसवर्णकम् ।। आक-१,२५.७१ ।।

दलैर्वा वर्णिकाग्रासो भञ्जनी वादिनिर्मिता ।

फुल्लिका

पतङ्गीकल्कतो जाता लोहे तारत्वहेमता ।। आक-१,२५.७२ ।।

दिनानि कतिचित् स्थित्वा यात्यसौ फुल्लिका मता ।

पतङ्गीरागः

रञ्जितार्धरसाल्लोहादन्यद्वा चिरकालतः ।। आक-१,२५.७३ ।।

विनिर्याति स निर्दिष्टः पतङ्गीरागसंज्ञकः ।

आवापः

द्रुते द्रव्यान्तरक्षेपाल्लोहाद्यैः क्रियते हि यः ।। आक-१,२५.७४ ।।

स आवापः प्रतीवापस्तदेवाच्छादनं मतम् ।

अभिषेकः

द्रुते वह्निस्थिते लोहे विरम्याष्टनिमेषकम् ।। आक-१,२५.७५ ।।

सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः ।
नागं वा वङ्गं वा प्रद्राव्य निषेचयेच्छतं वारान् ।। आक-१,२५.७६ ।।

उक्तद्रव्ये तद्द्रवताडनमेतद्धि सोऽभिषेकस्तु ।

निर्वाप

तप्तस्याप्सु परिक्षेपो निर्वापस्तपनं च तत् ।। आक-१,२५.७७ ।।

प्रतिवाप्यादिकं कार्यं द्रुतलोहे सुनिर्मले ।

शुद्धावर्तः

यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ।। आक-१,२५.७८ ।।

शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ।

रेखावर्तः

द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा ।। आक-१,२५.७९ ।।

द्रवस्योन्मुखता सेयं रेखावर्तः स कथ्यते ।

स्वाङ्गशीतं वह्नि(बहिः)शीतं च

वह्निस्थमेव शीतं यत्तदुक्तं स्वाङ्गशीतलम् ।। आक-१,२५.८० ।।

अग्नेराकृष्टशीतं यद्वह्निशीतं तदीरितम् ।

स्वेदनम्

क्षाराम्लैर् औषधैर्वापि डोलायन्त्रे स्थितस्य हि ।। आक-१,२५.८१ ।।

पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ।

मर्दनम्

उद्दिष्टैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ।। आक-१,२५.८२ ।।

पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् ।

मूर्छनम्

मर्दनादिष्टभैषज्यैर् नष्टपिष्टित्वकारकम् ।। आक-१,२५.८३ ।।

तन्मूर्च्छनं हि वार्यद्रिभूजकञ्चुकनाशनम् ।

नष्टपिष्टिः

स्वरूपस्य विनाशेन पिष्टित्वापादनं हि यत् ।। आक-१,२५.८४ ।।

विवृद्धिर् जितसूतेन नष्टपिष्टिः स उच्यते ।

उत्थापनम्

स्वेदतापादियोगेन स्वरूपापादनं पुनः ।। आक-१,२५.८५ ।।

तदुत्थापनमित्युक्तं मूर्च्छाव्यापत्तिनाशनम् ।

पातनम्

उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् ।
निर्यापनं पातनसंज्ञयोक्तं वङ्गाहिसंपर्कजकञ्चुकघ्नम् ।। आक-१,२५.८६ ।।

रोधनम्

जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् ।। आक-१,२५.८७ ।।

स्थितिराप्यायिनी कुम्भे योऽसौ रोधनमुच्यते ।

नियमनम्

रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ।। आक-१,२५.८८ ।।

क्रियते यो घटे स्वेदः प्रोक्तं नियमनं हि तत् ।

दीपनम्

धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यतः ।। आक-१,२५.८९ ।।

ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ।

ग्रासमानम्

इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः ।। आक-१,२५.९० ।।

इयतीत्युच्यते योऽसौ ग्रासमानमितीरितम् ।

जारणा

ग्रासस्य चारणं गर्भद्रावणं जारणं तथा ।। आक-१,२५.९१ ।।

इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः ।
ग्रासः पिण्डः परीणामस्तिस्रश्चाख्याः पराः पुनः ।। आक-१,२५.९२ ।।

समुखा निर्मुखा चेति जारणा द्विविधा मता ।
निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः ।। आक-१,२५.९३ ।।

समुखजारणा

शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ।
चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ।। आक-१,२५.९४ ।।

एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् ।
कठिनान्यपि लोहानि क्षमो भवति भक्षितुम् ।। आक-१,२५.९५ ।।

इयं हि समुखी प्रोक्ता जारणामृतजारणा ।

निर्मुखचारणा

दिव्यौषधिसमायोगात् स्थितः प्रकटकोष्ठिषु ।। आक-१,२५.९६ ।।

भुङ्क्ते निखिललोहाद्यान्योऽसौ राक्षसवक्त्रवान् ।

चारणा

रसस्य जठरे ग्रासक्षेपणं चारणा मता ।। आक-१,२५.९७ ।।

गर्भद्रुतिः

ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता ।

बाह्यद्रुतिः

बहिरेव द्रुतीकृत्य घनसत्वादिकं खलु ।। आक-१,२५.९८ ।।

जारणाय रसेन्द्रस्य सा बाह्यद्रुतिर् उच्यते ।

द्रुति (सुब्स्तन्चे)

निर्लेपित्वं द्रवत्वं च तेजस्त्वं लघुता तथा ।। आक-१,२५.९९ ।।

असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ।

द्रुति (प्रोचेस्स्)

औषधाज्यादियोगेन लोहधात्वादिकं सदा ।। आक-१,२५.१०० ।।

उत्तिष्ठते द्रवाकारा सा द्रुतिः परिकीर्तिता ।

जारणा

द्रुतग्रासपरीणामो बिडयन्त्रादियोगतः ।। आक-१,२५.१०१ ।।

जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ।

विडम्

क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैः सपटुभिस्तथा ।। आक-१,२५.१०२ ।।

रसग्रासस्य जीर्णार्थं तद्बिडं परिकीर्तितम् ।

रञ्जनम्

संसिद्धबीजसत्त्वादिजारणेन रसस्य हि ।। आक-१,२५.१०३ ।।

पीतादिरागजननं रञ्जनं समुदीरितम् ।

सारणा

सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् ।। आक-१,२५.१०४ ।।

वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता ।

वेधः

व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु ।। आक-१,२५.१०५ ।।

वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ।

वेधभेदाः

लेपः क्षेपश्च कुन्तश्च शब्दाख्यो धूमसंज्ञकः ।। आक-१,२५.१०६ ।।

लेपवेधः

लेपेन कुरुते लोहं स्वर्णं वा रजतं तथा ।
लेपवेधः स विज्ञेयः पुटमत्र च सौकरम् ।। आक-१,२५.१०७ ।।

क्षेपवेधः

प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञकः ।

कुन्तवेधः

संदंशधृतसूतेन द्रुतद्रव्याहतिश्च यः ।। आक-१,२५.१०८ ।।

सुवर्णत्वादिकरणः कुन्तवेधः स उच्यते ।

धूपवेधः

वह्नौ धूमायमाने ऽन्तःप्रक्षिप्तरसधूमतः ।। आक-१,२५.१०९ ।।

स्वर्णाद्यापादनं लोहे धूमवेधः स ईरितः ।

शब्दवेधः

मुखस्थिते रसे नाल्या लोहस्य धमनात्खलु ।। आक-१,२५.११० ।।

स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः ।

उत्पाटनम्

पिण्डद्रव्यस्य सूतेन कालुष्यादिनिवारणम् ।। आक-१,२५.१११ ।।

प्रकाशनं च वर्णस्य तदुत्पाटनमीरितम् ।

स्वेदनम्

क्षाराम्लैरौषधैः सार्धं भाण्डे रुद्ध्वातियत्नतः ।। आक-१,२५.११२ ।।

भूमौ निखन्यते यत्तत्स्वेदनं समुदीरितम् ।

संन्यासः

रसस्यौषधयुक्तस्य भाण्डे रुद्धस्य यत्नतः ।। आक-१,२५.११३ ।।

सदाग्नियुतचुल्ल्यन्तःक्षेपः संन्यास उच्यते ।

स्वेदनसंन्यासगुणाः

द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् ।। आक-१,२५.११४ ।।

गुणप्रभावजननौ शीघ्रव्याप्तिकरौ तथा ।। आक-१,२५.११५ ।।

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_1.25&oldid=3466" इत्यस्माद् प्रतिप्राप्तम्