आनन्दकन्द 1.8

विकिपुस्तकानि तः
रसायनसेवा

सूतो वज्रं सुवर्णं च कान्तलोहं तथाभ्रकम् ।
पञ्चैतान्यमृतानि स्युः कल्पितानि नृणां मया ॥ आक-१,८.१ ॥

मत्तकाशिनि यो वेत्ति सोऽपि साक्षान्महेश्वरः ।
अहं रसो रसश्चाहमावयोरन्तरं न हि ॥ आक-१,८.२ ॥

तेन युक्तास्तु वज्राद्याः सिद्धिदाः स्युर्न संशयः ।
पुरुषं रससेवार्हं वदामि शृणु पार्वति ॥ आक-१,८.३ ॥

स्त्रीक्लीबबालकानां च न हि योज्यं रसायनम् ।
बालाः पञ्चदशाब्दा ये कुमारांस्त्रिंशदब्दकाः ॥ आक-१,८.४ ॥

पञ्चाशद्वर्षदेशीया युवानः परिकीर्तिताः ।
अतः परं च स्थविराः भवेयुस्ते रसायने ॥ आक-१,८.५ ॥

यथोक्तकाले सिद्धिः स्यात्कुमारस्य रसायनात् ।
तस्माद्द्विगुणकालेन यूनः सिद्धिर्भवेद्ध्रुवम् ॥ आक-१,८.६ ॥

तस्मात्त्रिगुणकालेन वृद्धः सिद्धिमवाप्नुयात् ।
ज्ञातव्याः क्रमशो देवि ह्युत्तमो मध्यमोऽधमः ॥ आक-१,८.७ ॥

रसायनसेवाक्रमः

पूर्वम् अभ्रकमश्नीयात्ततः कान्तरसायनम् ।
अथ कान्ताभ्रकं देवि पश्चाद्धेमरसायनम् ॥ आक-१,८.८ ॥

अथाभ्रकं स्वर्णयोगं कान्तहेमरसायनम् ।
घनकान्तस्वर्णयोगं ततो वज्ररसायनम् ॥ आक-१,८.९ ॥

अथाभ्रवज्रसेवां च कान्तवज्रमतः परम् ।
घनायस्कान्तहीरं च हेमवज्रं ततो भवेत् ॥ आक-१,८.१० ॥

पश्चादभ्रस्वर्णवज्रं कान्ताष्टापदवज्रकम् ।
घनकान्तं हेमवज्रमतः पारदभक्षणम् ॥ आक-१,८.११ ॥

तथाभ्ररसयोगं स्यात्ततः कान्तरसं भवेत् ।
घनकान्तरसं देवि पश्चाद्धेमरसं भवेत् ॥ आक-१,८.१२ ॥

घनहेमरसं पश्चात्कान्तहेमरसं ततः ।
घनकान्तं हेमसूतमतो वज्ररसं भवेत् ॥ आक-१,८.१३ ॥

घनवज्ररसं देवि कान्तवज्ररसं ततः ।
घनकान्तं वज्रसूतं हेमवज्ररसं ततः ॥ आक-१,८.१४ ॥

घनहेमपवीसूतं कान्तहेमपवीरसम् ।
घनकान्तस्वर्णवज्ररसम् अस्मात्परं न हि ॥ आक-१,८.१५ ॥

उत्तरोत्तरतः सर्वे चैते सर्वगुणोत्तराः ।
रसायनानि पञ्च स्युरेकैकानि वरानने ॥ आक-१,८.१६ ॥

रसा द्विद्व्यौषधभवास्त्रित्र्यौषधभवा दश ।
चतुश्चतुर्भवाः पञ्च त्वेकः पञ्चौषधोद्भवः ॥ आक-१,८.१७ ॥

एकत्रिंशद्वरारोहे रसायनमिति प्रिये ।
घनं कान्तं हेम वज्रं पारदश्चेतरम् ॥ आक-१,८.१८ ॥

पूर्वोत्तरोत्तरगुणा भवन्ति प्राणवल्लभे ।
रसस्य क्रामणं वज्रं हेमकान्तघनं भवेत् ॥ आक-१,८.१९ ॥

वज्रसंक्रामणं हेम कान्तं व्योम भवेत्प्रिये ।
हेम्नः कान्तभवं योज्यं कान्तस्य क्रामणं घनम् ॥ आक-१,८.२० ॥

अभ्रस्य क्रामणं चाभ्रसत्त्वं सिद्धिप्रदं यतः ।
एकैकौषधसेवायां यथोक्तं क्रामणं भवेत् ॥ आक-१,८.२१ ॥

युक्तो द्वित्रिचतुःपञ्चभैषज्यैः क्रामणं न हि ।
त्रिफलामधुसर्पींषि सामान्यक्रामणं भवेत् ॥ आक-१,८.२२ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_1.8&oldid=7068" इत्यस्माद् प्रतिप्राप्तम्