आनन्दकन्द 2.10

विकिपुस्तकानि तः

श्रीभैरवः ।

हिमजा

हिमजा काञ्चनक्षीरी यवचिञ्चा महाद्रिजा ।
हिमावती पीतदुग्धा रेचनी पटुपर्णिका ॥ आक-२,१०.१ ॥

तद्दुग्धं हेमकङ्कुष्ठं पुलकं रेचनं तथा ।
तेजोवती बहुरसा कनकप्रभान्या तीक्ष्णाग्निगर्भा सुरवल्लरी च ॥ आक-२,१०.२ ॥

हिमजा कटुका तिक्ता रेचनी सर्ववातनुत् ।
कृमिशोषोदरघ्नी च पित्तज्वरहरा तु सा ॥ आक-२,१०.३ ॥

कारवी

कारवी कारवल्ली च कषायोष्णा कफापहा ।
कासश्वासहरा बल्या ज्ञेया रसनियामिका ॥ आक-२,१०.४ ॥

कटुतुम्बी

कटुतुम्बी कटुफला राजपुत्री महत्फला ।
कटुतुम्बी कटुस्तिक्ता वान्तिकृच्छ्वासवान्तिजित् ॥ आक-२,१०.५ ॥

कासघ्नी शोधनी शोफव्रणशूलविषापहा ।
तिक्ततुम्बी तु तिक्ता स्यात्कटुका कटुतुम्बिका ॥ आक-२,१०.६ ॥

तुम्बी च कटुतिक्तादितुम्बीपर्यायगा स्मृता ।

ज्योतिष्मती

ज्योतिष्मती नाम लतानलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला ।
दीप्या च मेध्या मतिदा च दुर्जरा सारस्वती स्यादमृतार्कसंख्या ॥ आक-२,१०.७ ॥

लिङ्गिनी

लिङ्गिनी बहुपुत्री स्यादीश्वरी शैववल्लरी ॥ आक-२,१०.८ ॥

स्वयम्भूर् लिङ्गसम्भूता लैङ्गी चित्रफलान्विता ।
अयःस्तम्भकरी लिङ्गबीजा च शिववल्लरी ॥ आक-२,१०.९ ॥

लिङ्गिनी कटुरूक्षा च दुर्गन्धा च रसायनी ।
सर्वसिद्धिकरी दिव्या रसराजनियामिका ॥ आक-२,१०.१० ॥

पातालगरुडी

पातालगरुडी तार्क्षी सौवर्णी गरुडी तथा ।
वत्सादनी दीर्घकाण्डा दृढकाण्डा महाबला ॥ आक-२,१०.११ ॥

दीर्घवल्ली दृढलता दर्शनामानि पार्वति ।
सर्ववश्यकरी सैषा सर्पादिविषनाशनी ॥ आक-२,१०.१२ ॥

गिरिकर्णी

गिरिकर्णी च कटभी गर्दभी दधिपुष्पिका ।
सितपुष्पी विषघ्नी च श्वेताश्वखुरपुष्पिका ॥ आक-२,१०.१३ ॥

गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी ।
चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा ॥ आक-२,१०.१४ ॥

नीलपुष्पा महानीला स्यान्नीलगिरिकर्णिका ।
नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री ।
प्रतर्दिकोन्मादमदश्रमार्तिश्वासार्तिहा स्याद्विषहारिणी च ॥ आक-२,१०.१५ ॥

आखुकर्णी

आखुकर्णी भूमिचरा द्रवन्ती बहुपादिका ॥ आक-२,१०.१६ ॥

सुतश्रेणी द्रवन्ती च न्यग्रोधा माक्षिकाह्वया ।
चित्रा मूषकपुच्छी च प्रत्यक्श्रेणी च शबरी ॥ आक-२,१०.१७ ॥

सुतश्रेणी च चक्षुष्या कटुकाखुविषापहा ।
व्रणदोषहरा चैव नेत्रामयविनाशिनी ॥ आक-२,१०.१८ ॥

कृष्णिका बहुपर्णी च प्रत्यक्शोणी च शबरी ।
पूतिपर्णी शिवा चाखुकर्णवत् पर्वशालिनी ॥ आक-२,१०.१९ ॥

आखुकर्णी कटूष्णा च कफपित्तहरा सरा ।
आनाहशूलजूर्त्यर्तिनाशनी पाचनी परा ॥ आक-२,१०.२० ॥

वाराही

वाराही स्यात् सूकरी क्रोडकन्या गृष्टिर्विष्वक्सेनकान्ता कुमारी ।
कौमारी स्याद् ब्रह्मपत्त्री त्रिनेत्रा क्रौडीकन्या गृष्टिका माधवेष्टा ॥ आक-२,१०.२१ ॥

वाराही तिक्तकटुका विषपित्तकफापहा ।
कुष्ठमेहकृमिहरा वृष्या बल्या रसायनी ॥ आक-२,१०.२२ ॥

देवदाली

देवदाली त्रिधा प्रोक्ता श्वेता कृष्णा च पीतला ।
सा श्वेता व्याधिशमनी कृष्णा पीता रसायने ॥ आक-२,१०.२३ ॥

देवदाली कोशफला दाली लोमशपत्त्रिका ।
कृष्णबीजा कटुफला वृत्तकोशाम्लवल्लरी ॥ आक-२,१०.२४ ॥

जीमूतं कण्टकफला वेणी चाखुविषापहा ।
तुरङ्गिका जालफला गरारिः सारमूषिका ॥ आक-२,१०.२५ ॥

देवदाली तु तीक्ष्णोष्णा कटुः पाण्डुकफापहा ।
दुर्नामश्वासकासघ्नी कामिलालूतिकापहा ॥ आक-२,१०.२६ ॥

सर्वलोहद्रुतिकरा पीनसाहिविषापहा ।

ऐन्द्री

ऐन्द्रीन्द्रवारुण्यरुणा मृगादिनी गवादनी क्षुद्रसहेन्द्रचिद्भटा ।
सूर्या विषघ्नी रुणकर्णिकामरा सुपर्णिका स्यात् फलतारका च ॥ आक-२,१०.२७ ॥

वृषभाक्षी गवाक्षी च पीतपुष्पेन्द्रवल्लरी ॥ आक-२,१०.२८ ॥

हेमपुष्पी क्षुद्रफला वारुणी बालकप्रिया ।
रक्तोर्वारुर्विषलता चक्रवल्ली विषापहा ॥ आक-२,१०.२९ ॥

अमृता च विशाला च ज्ञेयोनत्रिंशदाह्वया ।
इन्द्रवारुणिका तिक्ता कटुः शीता च रेचनी ॥ आक-२,१०.३० ॥

गुल्मपित्तोदरश्लेष्मकृमिकुष्ठज्वरापहा ।
महेन्द्रवारुणी रम्या चक्रवल्ली महाफला ॥ आक-२,१०.३१ ॥

सा महेन्द्री वृत्तफला त्रपुसी त्रपुसा तथा ।
आत्मरक्षा विशाला च दीर्घवल्ली महाफला ॥ आक-२,१०.३२ ॥

स्याद्बृहद्वारुणी सौम्या नामान्यस्याश्चतुर्दश ।
माहेन्द्रवारुणी ज्ञेया पूर्वोक्ता गुणवाहिनी ॥ आक-२,१०.३३ ॥

रसे वीर्ये विपाके च किंचिदेषा गुणाधिका ।

गोजिह्वा

गोजिह्वा क्षुरपत्त्री स्याद् अधःपुष्पा त्वधोमुखी ॥ आक-२,१०.३४ ॥

गोजिह्वा कटुका तीव्रा शीतला पित्तनाशिनी ।
व्रणप्रशमनी चैव सप्तदन्तविषापनुत् ॥ आक-२,१०.३५ ॥

काकतुण्डी

काकतुण्डी काकनासा काकसिंही च रक्तला ।
काकदन्ती काकपीलुर् वृत्तरक्तफला तथा ॥ आक-२,१०.३६ ॥

काकप्राणा वल्कशल्या कृष्णबीजा च रञ्जकी ।
काकतुण्डी च मधुरा शिशिरा पित्तहारिणी ॥ आक-२,१०.३७ ॥

रसायनी दार्ढ्यकरी विशेषात् पलितापहा ।

रक्तपादी

रक्तपादी शमीपत्त्रपत्त्रा खदिरपत्त्रिका ॥ आक-२,१०.३८ ॥

संकोचनी समङ्गा च नमस्कारी प्रसारणी ।
लज्जालुः सप्तपर्णी स्यात्खदिरी मण्डमालिका ॥ आक-२,१०.३९ ॥

रक्तमूला ताम्रमूला स्वगुप्ताञ्जलिकारिका ।
लज्जालुश्च कटुः शीता पित्तातीसारनाशिनी ॥ आक-२,१०.४० ॥

शोफदाहज्वरश्वासव्रणकुष्ठकफार्तिनुत् ।
लज्जालुर्वैपरीत्याह्वः कटुरुष्णः कफामनुत् ॥ आक-२,१०.४१ ॥

रसे नियामके ऽत्यन्तं नानाविज्ञानकारकः ।

पुनर्नवा

पुनर्नवा त्रिधा प्रोक्ता श्वेता रक्ता च मेचका ॥ आक-२,१०.४२ ॥

पुनर्नवा विषहरा कठिल्ला नेत्ररोगहा ।
पृथ्वीका सितवर्षाभूर् दीर्घपत्त्रा सिताङ्गका ॥ आक-२,१०.४३ ॥

श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा ।
कासहृद्रोगशूलास्रपाण्डुशोफानिलार्तिनुत् ॥ आक-२,१०.४४ ॥

पुनर्नवान्या रक्ताख्या कृतमण्डलपत्त्रिका ।
वैशाखी रक्तसर्वाङ्गा शोफघ्नी विषहा परा ॥ आक-२,१०.४५ ॥

पुनर्नवो नवो नव्या प्रावृषेण्या च सारिणी ।
रक्ता पुनर्नवा तिक्ता सारणी शोफनाशिनी ॥ आक-२,१०.४६ ॥

रक्तप्रदरदोषघ्नी पाण्डुपित्तप्रमर्दनी ।
श्यामाख्या नीलवर्षाभूर् दीर्घपत्त्रा पुनर्नवा ॥ आक-२,१०.४७ ॥

नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी ।
हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा ॥ आक-२,१०.४८ ॥

अत्यम्लपर्णी

अत्यम्लपर्णी तीक्ष्णाम्ला कण्डूला वल्लिसारसा ।
वनस्थारण्यवासी च कन्दाढ्या कर्कशच्छदा ॥ आक-२,१०.४९ ॥

अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशिनी ।
वातहृद्दीपनी रुच्या गुल्मश्लेष्मामयापहा ॥ आक-२,१०.५० ॥

कर्कोटकी

कार्कोटकी द्विधा वन्ध्या श्रेष्ठान्या फलमारिणी ।
मृदुकण्टकिनी वृत्तफला सा वनवासिनी ॥ आक-२,१०.५१ ॥

वन्ध्या देवी वन्ध्यकार्कोटकी स्यान्नागारातिर् नागहन्त्री मनोज्ञा ।
पथ्या दिव्या पुत्रदात्री त्रिकन्दा श्रीकन्दा सा कन्दवल्ली विषघ्नी ॥ आक-२,१०.५२ ॥

योगीश्वरी व्याघ्रपादी कन्या स्यात्षोडशाह्वया ।
वन्ध्या कर्कोटकी तिक्ता कटूष्णा च कफापहा ॥ आक-२,१०.५३ ॥

स्थावरादिविषघ्नी स्याद्रसबन्धे रसायने ।

शरपुङ्खा

शराभिधानपुङ्खा स्याच्छरपुङ्खीति कथ्यते ॥ आक-२,१०.५४ ॥

शरपुङ्खी त्रिधा श्वेता रक्ता कृष्णा च कण्टका ।
श्वेताप्येषा गुणाढ्या स्यात्प्रयोगे च रसायने ॥ आक-२,१०.५५ ॥

अन्या तु कण्टपुङ्खा स्यात् कण्टसायकपुङ्खिका ।
कण्टस्पृशेव कुण्डी कण्टकशरपुङ्खमूलनिर्यूहः ॥ आक-२,१०.५६ ॥

तूर्णम् अजीर्णविषूचीमहापरतिकृशानुकार्श्यं च ।
सर्वाश्च शरपुङ्खास्तु कटूष्णाः कफवातहाः ॥ आक-२,१०.५७ ॥

अजीर्णशूलकृमिहा ग्रहणीशमनाः परम् ।

भृङ्गराज

मार्कवो भृङ्गराजः स्याद् भृङ्गाह्वः केशरञ्जकः ॥ आक-२,१०.५८ ॥

पितृप्रियो ब्रह्मपत्त्री केश्यः कुन्तलवर्धनः ।
पीतोऽन्यः स्वर्णभृङ्गारो हरिवासो हरप्रियः ॥ आक-२,१०.५९ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_2.10&oldid=7078" इत्यस्माद् प्रतिप्राप्तम्