सामग्री पर जाएँ

आनन्दकन्द 2.3

विकिपुस्तकानि तः

श्रीभैरवः ।

Silver > Synonyms

रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकम् ।
रजतं तप्तरूप्यं च चन्द्रभूतिस्तु रौप्यकम् ॥ आक-२,३.१ ॥

कलधौतं च सौधं च चन्द्रहासं च तारकम् ।

रजतभेदाः

सहजं खनिसंजातं कृत्रिमं च त्रिधा मतम् ॥ आक-२,३.२ ॥

रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरम् ।
कैलासाद्यद्रिसम्भूतं सहजं रजतं भवेत् ॥ आक-२,३.३ ॥

तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत् ।
हिमाचलादिकूटेषु यद्रूप्यं जायते हि तत् ॥ आक-२,३.४ ॥

खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् ।
श्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतम् ॥ आक-२,३.५ ॥

तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत् ।

ग्राह्याग्राह्यरजतस्वरूपम्

घनं स्निग्धं गुरु स्निग्धं दाहे छेदे सितं मृदु ॥ आक-२,३.६ ॥

वर्णाढ्यं चन्द्रवत्स्वच्छं दाहे छेदे समप्रभम् ।
शङ्खाभं मसृणं स्फोटरहितं रजतं शुभम् ॥ आक-२,३.७ ॥

दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु ।
स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यमष्टधा ॥ आक-२,३.८ ॥

कठिनं कृत्रिमं रूक्षं विवर्णं समलं दलम् ।
दाहे छेदे घने नष्टं मध्यमं रजतं मतम् ॥ आक-२,३.९ ॥

करोति तापं विड्भेदं क्षयं शुक्लबलायुषाम् ।
न शुद्धं न मृतं तारं तस्माच्छुद्धं च मारयेत् ॥ आक-२,३.१० ॥

रजतशुद्धि

नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति ।
तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मतीभवे ॥ आक-२,३.११ ॥

तप्तं तप्तं तारपत्रं सेचयेच्छुद्धिम् आप्नुयात् ।
पिशाचसंभवे यद्वा प्रक्षिप्तं शुद्धिमाप्नुयात् ॥ आक-२,३.१२ ॥

रजतं दोषनिर्मुक्तं नागोत्तीर्णं समाहरेत् ।
श्वेतकुम्भोद्भवे नीरे ढालयेत्सप्तवारकान् ॥ आक-२,३.१३ ॥

रजतभस्म (१, २, ३)

कुरण्डमुनिपुष्पोत्थसलिलैः संप्रमर्दयेत् ।
तारपत्राणि लिप्तानि पुटयेच्च वनोत्पलैः ॥ आक-२,३.१४ ॥

म्रियते नात्र सन्देहः लिप्तं वा रसभस्मना ।
अम्लवर्गप्रलिप्तेन पूर्ववत्पुटयोगतः ॥ आक-२,३.१५ ॥

म्रियते तालकं सूतं वङ्गमम्लेन पेषयेत् ।
तारपत्राणि संलिप्य पुटित्वा भस्मतां नयेत् ॥ आक-२,३.१६ ॥

म्रियते गन्धयोगाद्यैर् वैष्णवेन विपद्यते ।

रजतभस्म (४)

स्नुहीक्षीरैः पचेत्ताप्यं तारपत्राणि लेपयेत् ॥ आक-२,३.१७ ॥

रुद्ध्वा गजपुटे पक्त्वा पूर्वोक्तैः पाचयेत्पुनः ।
चत्वारिंशत्पुटैरेवं पचेत्तारं मृतं भवेत् ॥ आक-२,३.१८ ॥

रजतभस्म (५)

भूधात्रीं माक्षिकं तुल्यं पिप्पलीं सैन्धवाम्लकैः ।
लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटैः पचेत् ॥ आक-२,३.१९ ॥

द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः ।

रजतभस्म (६)

लिकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत् ॥ आक-२,३.२० ॥

रुद्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च ।
स्वेदयेद् वालुकायन्त्रे दिनमेकं दृढाग्निना ॥ आक-२,३.२१ ॥

स्वाङ्गशीतलतां पिष्टिं साम्लतालेन मर्दितम् ।
पुटेद्द्वादशवाराणि भस्मीभवति रूप्यकम् ॥ आक-२,३.२२ ॥

रजतभस्म (७)

माक्षिकं चूर्णलुङ्गाम्लमर्दितं पुटितं शनैः ।
त्रिंशद्वारेण तत्तारं निरुत्थं भस्म जायते ॥ आक-२,३.२३ ॥

रागः स्यात् सर्वलोहानां पुटाधिक्ये न संशयः ।

रजतभस्म (८)

तारपत्त्रं चतुर्भागा भागैकं शुद्धतालकम् ॥ आक-२,३.२४ ॥

मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ।
शोषयेदन्धयेत्तं च त्रिंशद्वनोत्पलैः पुटेत् ॥ आक-२,३.२५ ॥

चतुर्दशपुटैरेवं निरुत्थं म्रियते ध्रुवम् ।

रजतभस्म (९)

रौप्यपत्रं चतुर्भागा भागैकं मृतवङ्गकम् ॥ आक-२,३.२६ ॥

अथवा गन्धभागैकं लेप्यं जम्बीरपेषितैः ।
रुद्ध्वा त्रिभिः पुटैः पाच्यं पञ्चविंशद्वनोत्पलैः ॥ आक-२,३.२७ ॥

म्रियते नात्र सन्देहो गन्धो देयः पुनः पुनः ।

रजतभस्म (१०)

रसगन्धौ समं कृत्वा काकतुण्डस्य मूलकम् ॥ आक-२,३.२८ ॥

मर्दयेन्महिषीक्षीरैः पिष्टिं तां क्षालयेज्जलैः ।
हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके ॥ आक-२,३.२९ ॥

क्षिप्त्वा दिनैकविंशच्च तद्गर्भाद् उद्धरेत्पुनः ।
तत्पिष्ट्वा तारपत्राणि लेप्यमम्लेन केनचित् ॥ आक-२,३.३० ॥

पुटैर् विंशतिभिर् भस्म जायते नात्र संशयः ।
भस्मना ह्यम्लपिष्टेन लिम्पेत्ताम्रमयं क्षुरम् ॥ आक-२,३.३१ ॥

जायते तं मृतं विद्याद्भस्म हाटकतारयोः ।

रजतस्य गुणाः

रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं रसम् ॥ आक-२,३.३२ ॥

वयसः स्थापनं शीतं लेखनं वातपित्तजित् ।
वृष्यं रुचिकरं बल्यं जठराग्निप्रदीपनम् ॥ आक-२,३.३३ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_2.3&oldid=7085" इत्यस्माद् प्रतिप्राप्तम्