सामग्री पर जाएँ

आनन्दकन्द 2.4

विकिपुस्तकानि तः

श्रीभैरवः ।

ताम्र

ताम्रं म्लेच्छमुखं शुल्बं तपनेष्टमुदुम्बरम् ।
त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियम् ॥ आक-२,४.१ ॥

रक्तं नैपालकं चैव रक्तधातुः करेन्दुधा ।
म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमम् ॥ आक-२,४.२ ॥

नेपालाद् अन्यखन्युत्थं म्लेच्छमित्यभिधीयते ।
सुस्निग्धं मृदुलं शोणं घनघातक्षयं गुरु ॥ आक-२,४.३ ॥

निर्विकारं गुरु श्रेष्ठं ताम्रं नेपालमुच्यते ।
सितकृष्णारुणच्छायं वामभेदि कठोरकम् ॥ आक-२,४.४ ॥

क्षालितं च पुनः कृष्णम् एतन्म्लेच्छकताम्रकम् ।
पाण्डुरं कृष्णशोणं च लघु स्फुटनसंयुतम् ॥ आक-२,४.५ ॥

रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि ।
उत्क्लेदमोहभ्रमदाहभेदाः ताम्रस्य दोषाः खलु दुर्धरास्ते ।
विशोधनात् तद्विगतस्वदोषं सुधासमं स्याद्रसवीर्यपाके ॥ आक-२,४.६ ॥

वान्तिमूर्च्छाभ्रमोन्मादनानारुक्कुष्ठशूलकृत् ॥ आक-२,४.७ ॥

आयुःकान्तिबलभ्रंशकरं धातुप्रदूषणम् ।
नु शुद्धं न मृतं ताम्रं तेन संशोध्य मारयेत् ॥ आक-२,४.८ ॥

ताम्रशुद्धि

ताम्रं क्षाराम्लसंयुक्तं द्रावितं तप्तगैरिकम् ।
निक्षिप्तं महिषीतक्रछगणे सप्तवारकम् ॥ आक-२,४.९ ॥

पञ्चदोषविनिर्मुक्तं सप्तवारेण जायते ।
ताम्रनिर्दलपत्त्राणि लिप्त्वा निम्बवसिन्धुना ॥ आक-२,४.१० ॥

ध्मात्वा सौवीरके क्षेपाद्विशुध्यत्यष्टवारतः ।
निम्ब्वम्बुपटुलिप्तानि तापितान्यष्टवारकम् ॥ आक-२,४.११ ॥

विशुध्यन्त्यर्कपत्राणि निर्गुण्डीरसमर्दनात् ।
कुमारीपत्रमध्ये तु शुल्वपत्रं निवेशितम् ॥ आक-२,४.१२ ॥

पुटितं दोषनिर्मुक्तं पाण्डुरं च प्रजायते ।
इत्थं विशोधितं ताम्रं सर्वदोषविवर्जितम् ॥ आक-२,४.१३ ॥

भवेद्रसायनकरं देहलोहकरं परम् ।
इमां शुद्धिं विजानीयाच्छिवो वा नन्दिकेश्वरः ॥ आक-२,४.१४ ॥

बलिना निहतं ताम्रं सप्तवारं समुत्थितम् ।
सर्वदोषविनिर्मुक्तं भवेदमृतसन्निभम् ॥ आक-२,४.१५ ॥

स्नुह्यर्कक्षीरलवणकाञ्जिकैस् ताम्रपत्रकम् ।
लिप्त्वा प्रताप्य निर्गुण्डीरसैः सिञ्च्यात् पुनः पुनः ॥ आक-२,४.१६ ॥

वारान् द्वादशतः शुद्धं लेपात्तापाच्च सेचनात् ।
खटिकां लवणं तक्रैरारनालैश्च पेषयेत् ॥ आक-२,४.१७ ॥

तेन लिप्तं ताम्रपत्रं तप्तं तप्तं निषेचयेत् ।
षड्वारम् अम्लतक्रान्तर् निर्गुण्ड्याश्च विशुद्धये ॥ आक-२,४.१८ ॥

तप्तानि ताम्रपत्राणि सेचयेत्तिक्तकारसैः ।
लिप्त्वाम्लतक्रलवणकाञ्जिकेन पुनः पुनः ॥ आक-२,४.१९ ॥

तप्तं तप्तं त्रिधा सिञ्च्याच्छुद्धिमायाति निश्चयम् ।
गोमूत्रेण पचेद्यामं ताम्रपात्रं दृढाग्निना ॥ आक-२,४.२० ॥

शुध्यते नात्र सन्देहो मारणं चाप्यथोच्यते ।

ताम्रभस्म (१)

गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् ॥ आक-२,४.२१ ॥

कण्टवेधीकृतं पत्रमन्धयित्वा पुटे पचेत् ।
उद्धृत्य चूर्णयेत्तस्मिन्पादांशं गन्धकं क्षिपेत् ॥ आक-२,४.२२ ॥

जम्बीरैर् आरनालैर् वा मृगदूर्वाथवा द्रवैः ।
पिष्ट्वा पिष्ट्वा पचेद्रुद्धं सगन्धं च चतुष्पुटैः ॥ आक-२,४.२३ ॥

मातुलुङ्गद्रवैः पिष्ट्वा पुटमेकं प्रदापयेत् ।
सितशर्करयाप्येकं पुटं देयं मृतं भवेत् ॥ आक-२,४.२४ ॥

ताम्रभस्म (२)

पाषाणभेदिमत्स्याक्षीद्रवैर् द्विगुणगन्धकम् ।
ताम्रस्य लेपयेत् पिष्टिं रुद्ध्वा गजपुटे पचेत् ॥ आक-२,४.२५ ॥

समांशेन पुनर्गन्धं दत्त्वा द्रावैश्च लोलयेत् ।
एवं सप्तपुटैः पक्वं ताम्रभस्म भवेद् ध्रुवम् ॥ आक-२,४.२६ ॥

ताम्रभस्म (३)

ताम्रस्य त्रिगुणं सूतं जम्बीराम्लेन मर्दयेत् ।
आदौ मूषान्तरे क्षिप्त्वा धुत्तूरस्य तु पत्रकम् ॥ आक-२,४.२७ ॥

तत्पृष्ठे ताम्रतुल्यं च गन्धकं चूर्णितं क्षिपेत् ।
तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं च गन्धकम् ॥ आक-२,४.२८ ॥

आच्छाद्य धूर्तपत्रैस्तु रुद्ध्वा गजपुटे पचेत् ।
स्वाङ्गशीतं ततश्चूर्णं मृतं भवति निश्चितम् ॥ आक-२,४.२९ ॥

ताम्रभस्म (४)

किंचिद्गन्धेन वाम्लेन क्षालयेत्ताम्रपत्रकम् ।
ताम्रपादेन सूतेन सार्द्रं पत्रं प्रलेपयेत् ॥ आक-२,४.३० ॥

ताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः ।
लिप्त्वा ह्यधोर्ध्वगं देया सुपिष्टा चाम्लपर्णिका ॥ आक-२,४.३१ ॥

तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्ल्यां विपाचयेत् ।
यामैकं ताम्रपाकेन भस्मीभवति निश्चितम् ॥ आक-२,४.३२ ॥

ताम्रभस्म (५)

सूतमेकं द्विधा गन्धं यामं कन्या विमर्दयेत् ।
द्वयोस् तुल्ये ताम्रपत्रे स्थाल्या गर्भे निरोधयेत् ॥ आक-२,४.३३ ॥

सम्यङ्मृल्लवणैः सन्धिं पार्श्वे भस्म निधापयेत् ।
चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयम् ॥ आक-२,४.३४ ॥

जलं पुनः पुनर्देयं स्वाङ्गशीतं विचूर्णयेत् ।
म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ॥ आक-२,४.३५ ॥

ताम्रभस्म (६)

जीर्णं ताम्रं समादाय तत्र चैतान्विनिक्षिपेत् ।
वङ्गं घोषं गजं तीक्ष्णसारं कान्तं च षट् समान् ॥ आक-२,४.३६ ॥

प्रत्येकं ताम्रमानेन सर्वानेकत्र धामयेत् ।
वङ्कनालेन तावत्तद्यावदर्कोऽवशिष्यते ॥ आक-२,४.३७ ॥

तमर्कं ढालयेत्पूर्वं निर्गुण्डीसलिलान्तरे ।
सप्तवारांश्च तन्मूलचूर्णमर्के प्रवापयेत् ॥ आक-२,४.३८ ॥

तेन ताम्रेण कुर्वीत वटिकामव्रणां शुभाम् ।
द्विगुणं गन्धकं लिप्त्वा बलेस्त्र्यंशं च पारदम् ॥ आक-२,४.३९ ॥

शुद्धं हिङ्गुलजं वापि मर्दयेद्बीजपूरकैः ।
जम्बीरजैर्वा लिकुचनीरैः सम्यक् प्रमर्दयेत् ॥ आक-२,४.४० ॥

त्रिदिनं तद्विशोष्याथ भाण्डान्तस्तन्निवेशयेत् ।
उपरिष्टात्ताम्रघटीम् अधोवक्त्रां निधाय च ॥ आक-२,४.४१ ॥

दृढं विलेपयेत्पश्चात् कटोरीं मृण्मयीं क्षिपेत् ।
अतिप्रयत्नाल्लिम्पेत् तां यथा वारा न भिद्यते ॥ आक-२,४.४२ ॥

अधिचुल्लि ततो दत्त्वा पूरयित्वा जलैरधः ।
प्रज्वालयेद्वीतिहोत्रं मृदुमध्योत्तमक्रमात् ॥ आक-२,४.४३ ॥

दिनानि षट् समादाय स्वाङ्गशीतं तु पात्रकम् ।
निर्भिद्य शुल्वं गृह्णीत मृतं सूतेन यत्नतः ॥ आक-२,४.४४ ॥

ततः खल्वे विचूर्ण्यैतद् यथेष्टं विनियोजयेत् ।

ताम्रभस्मशुद्धिः

नानाविधं मृतं ताम्रं शुद्ध्यर्थं भागपञ्चकम् ॥ आक-२,४.४५ ॥

भागैकं श्वेतकाचं च भागं श्वेतं च टङ्कणम् ।
मूषायां मिश्रितं क्षिप्त्वा भागैकं चाभ्रपत्रकम् ॥ आक-२,४.४६ ॥

ऊर्ध्वं दत्त्वा निरुध्याथ ध्माते ग्राह्यं सुशीतलम् ।
निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत् ॥ आक-२,४.४७ ॥

अथवा मारितं ताम्रम् अम्लेनैकेन मर्दयेत् ।
तद्गोलं सूरणस्यान्तः रुद्ध्वा सर्वत्र लेपयेत् ॥ आक-२,४.४८ ॥

शुष्कं गजपुटे पच्यात्सर्वदोषहरं भवेत् ।
वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन ॥ आक-२,४.४९ ॥

ताम्रभस्म (७)

विलिप्य लिकुचद्रावपिष्टगन्धाश्मपङ्कतः ।
ताम्रपत्राणि संछाद्य स्थालीमध्ये निरुध्य च ॥ आक-२,४.५० ॥

याममात्रं पचेत्सम्यक् शीतान्याकृष्य चूर्णयेत् ।
तद्भस्म वल्लमात्रं हि ताम्बूलीदलवेष्टितम् ॥ आक-२,४.५१ ॥

भक्षितं वामयित्वाथ रेचयित्वा द्वियामतः ।
ज्वरं विनाशयेन्न्ःणां शूलाध्मानसमन्वितम् ॥ आक-२,४.५२ ॥

विषं गरं च वेगेन वामयत्येव निश्चितम् ।
पथ्यमत्र प्रदातव्यं गव्यं तक्रं च भक्तकम् ॥ आक-२,४.५३ ॥

अतिरेकेऽतिवान्तौ च समोहे चातिमात्रके ।
तत्तदौचित्ययोगेन कुर्याच्छीतां प्रतिक्रियाम् ॥ आक-२,४.५४ ॥

अतिवान्तौ भजेद् भ्रष्टम् इक्षुदण्डं सुशीतलम् ।
यद्वा बिल्वभवं क्वाथं सितया सह पाचयेत् ॥ आक-२,४.५५ ॥

बर्बूरत्वग्रसः पेयो विरेके तक्रसंयुतः ।

ताम्रभस्म (८)

शुल्बतुल्येन सूतेन बलिना तत्समेन च ॥ आक-२,४.५६ ॥

तदर्धांशेन तालेन शिलया च तदर्धया ।
विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभाम् ॥ आक-२,४.५७ ॥

यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ।
कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् ॥ आक-२,४.५८ ॥

प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं विचूर्णयेत् ।
तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं सल्लीढं परिणामशूलमुदरं शूलं च पाण्डुज्वरम् ।
गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद्ध्रुवमिदं सर्वामयध्वंसनम् ॥ आक-२,४.५९ ॥

ताम्रं तिक्तकषायकं च मधुरं पाकेऽथ वीर्योष्णकं कोष्णं पित्तकफापहं जठररुक्कुष्ठामजूर्त्यन्तकृत् ।
ऊर्ध्वाधःपरिशोधनं च विषहृत्स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनम् ॥ आक-२,४.६० ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_2.4&oldid=7084" इत्यस्माद् प्रतिप्राप्तम्