आनन्दकन्द 2.8

विकिपुस्तकानि तः
Jump to navigation Jump to search

श्रीभैरवः ।

महाम्बुराशौ सरिति पर्वते काननेऽपि वा ।
रत्नानामाकरं देवि स्थानमाधेयगौरवात् ।। आक-२,८.१ ।।

तेषु रक्षोविषव्यालव्याधिदोषहराणि च ।
प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ।। आक-२,८.२ ।।

प्रदुष्टेनोपजातानि जन्तुनोपहतानि च ।
दोषैस्तान्युपचीयन्ते हीयन्ते गुणसंपदा ।। आक-२,८.३ ।।

रुब्य् > स्य्नोन्य्म्स्

माणिक्यं शोणरत्नं च रत्नराट् रविरत्नकम् ।
शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ।। आक-२,८.४ ।।

रागदृक् पद्मरागश्च रत्नं शोणोपलस्तथा ।
सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ।। आक-२,८.५ ।।

नीलगन्धिक

माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ।

रुब्य् > परीक्षा > गोओद् ॠउअलित्य्

कुशेशयदलच्छायं स्वच्छं स्निग्धं गुरु स्फुटम् ।। आक-२,८.६ ।।

वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठम् उच्यते ।
परीक्षापरिशुद्धानां रत्नानां पृथिवीभृता ।। आक-२,८.७ ।।

धारणं सर्वदा कार्यं श्रेयःश्रीकीर्तिकाङ्क्षिणा ।
ततस्तु शास्त्रतस्तेषां परीक्षादिकमुच्यते ।। आक-२,८.८ ।।

माणिक्यभेदाः

यत् सिंहलं कालपुरम् अन्ध्रं तुम्बुरुसंस्थितम् ।
क्षेत्रं चतुर्विधं तस्य माणिक्यस्य समुद्भवे ।। आक-२,८.९ ।।

सिंहले तु भवेद्रक्तं पद्मरागम् अनुत्तमम् ।
पीतं कालपुरोद्भूतं कुरुविन्दमिति स्मृतम् ।। आक-२,८.१० ।।

अशोकपल्लवच्छायम् अन्ध्रं सौगन्धिकं प्रिये ।
तुम्बुरौ छायमानीलं नीलगन्धि च कीर्तितम् ।। आक-२,८.११ ।।

मध्यमे मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ।
माणिक्यस्य गुणाः प्रोक्ताश्चत्वारो मुनिपुङ्गवैः ।। आक-२,८.१२ ।।

स्निग्धच्छाया गुरुत्वं च नैर्मल्यम् अतिरक्तता ।

माणिक्यगुणाः

माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत् ।। आक-२,८.१३ ।।

भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् ।
माणिक्यं च महापुण्यं महाभाग्यकरं परम् ।। आक-२,८.१४ ।।

सर्वभूतग्रहोन्मादविषघ्नं दोषजित्परम् ।

मुक्ता

मुक्ता सौम्या मौक्तिकं शौक्तिकेयं तारं तारा शौक्तिकं तारका च ।
अम्भःसारं शीतलं नीरजं च नक्षत्रं स्याद् इन्दुरत्नं वलक्षम् ।। आक-२,८.१५ ।।

मुक्ताफलं बिन्दुफलं च मुक्ता शौक्तेयकं शुक्तिमणिः शशिप्रियम् ।
स्वच्छं हिमं हैमवतं च शुभ्रं सुधांशुरत्नं च भसंख्यकाह्वम् ।। आक-२,८.१६ ।।

पेअर्ल् > ओरिगिन्

मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृच्छुक्तीनाम् उदराच्च मौक्तिकमणिः स्पष्टं भवेदष्टधा ।
छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिर् इतरच्छौक्तेयकं तूल्वणम् ।। आक-२,८.१७ ।।

पेअर्ल् > परीक्षा > गोओद् ॠउअलित्य्

नक्षत्राभं शुद्धमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च ।
यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि ।। आक-२,८.१८ ।।

पेअर्ल् > मेदिच्. प्रोपेर्तिएस्

मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् ।
राजयक्षपरिकोपनाशनं क्षीणवीर्यबलपुष्टिवर्धकम् ।। आक-२,८.१९ ।।

मौक्तिकं शिशिरं स्निग्धं विशदं कान्तिवर्धनम् ।। आक-२,८.२० ।।

दाहतृड्भ्रममूर्च्छासृक्पित्तज्वरविषापहम् ।
चक्षुष्यं पवनास्रपित्तविषजित् सर्वेन्द्रियाह्लादनं तृड्दाहज्वरशोकमोहशमनं शीतं श्रमघ्नं हितम् ।
धन्यं मङ्गलमायुषः स्थितिकरं सौभाग्यकान्तिप्रदं मुक्ता हारविभूषणं तद् अखिलं मूलं शशी प्रीयते ।। आक-२,८.२१ ।।

चोरल् > स्य्नोन्य्म्स्

प्रवालोऽङ्गारकमणिर्विद्रुमो ऽम्भोधिपल्लवः ।। आक-२,८.२२ ।।

भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरलतामणिः ।

चोरल् > प्लचे ओf ओरिगिन्

सेतौ सागरमध्ये या जायते वल्लरी शुभा ।। आक-२,८.२३ ।।

विद्रुमाख्या सुरक्ता सा दुर्लभा दीप्तरूपिणी ।

चोरल् > परीक्षा > गोओद् ॠउअलित्य्

पाषाणत्वं भजत्येषा पाकतः कठिना सती ।। आक-२,८.२४ ।।

प्रवालनाम तद्रक्तं वर्णसौभाग्यकान्तिदम् ।
सिद्धं स्वच्छं स्निग्धरूपं वृत्तं कान्तं समं गुरु ।। आक-२,८.२५ ।।

रङ्गगात्रं दृढं पिण्डं प्रवालं श्रेष्ठमुच्यते ।
पक्वबिंबफलाभासं जपाकुसुमसंनिभम् ।। आक-२,८.२६ ।।

शुकतुण्डसमच्छायं प्रवालम् अतिशोभनम् ।

चोरल् > परीक्षा > बद् ॠउअलित्य्

शारदाभं दलं सूक्ष्मं वक्रं रूक्षं सकोटरम् ।। आक-२,८.२७ ।।

विद्धं कृष्णं लघुतमं प्रवालं दोषकृद् भवेत् ।
गौररङ्गं जलाक्रान्तं प्रवालमशुभं त्यजेत् ।। आक-२,८.२८ ।।

चोरल् > परीक्षा > गोओद् ॠउअलित्य्

प्रवालं कोमलं स्निग्धं सुरागं विद्रुमं हितम् ।
धनधान्यकरं मेध्यं विषाहिभयनाशनम् ।। आक-२,८.२९ ।।

चोरल् > मेदिच्. प्रोपेर्तिएस्

प्रवालो मधुराम्लश्च कफपित्तादिदोषनुत् ।
वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ।। आक-२,८.३० ।।

मरकत

मरकतं रौहिणेयं गारुत्मन्तं हरिन्मणिः ।
सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजे ।। आक-२,८.३१ ।।

गरलारिर् वायवीर्यं गारुडं रुद्रसंमितम् ।
तुरुष्कविषयांभोधौ समीरारोहणाचले ।। आक-२,८.३२ ।।

तच्छायाश्यामलो देशः सो ऽभून्मरकताकरः ।
तद्विशेषान्मरकतं जातं दोषगुणान्वितम् ।। आक-२,८.३३ ।।

दोषाः सप्तविधास्तस्य गुणाः पञ्चविधाः स्मृताः ।
भवेदष्टविधा छाया मणेर्मरकतस्य च ।। आक-२,८.३४ ।।

अस्निग्धं रूक्षमित्युक्तं विस्फोटं पिटकं तथा ।
जठरं कान्तिहीनं च विच्छायं मलिनं तथा ।। आक-२,८.३५ ।।

सशर्करं सपाषाणं कर्कशं सूत्रसंयुतम् ।
कल्माषवर्णं शबलं समस्तभयदायकम् ।। आक-२,८.३६ ।।

निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुदायुतम् ।
स्निग्धं रूक्षं विनिर्मुक्तम् अरजस्कम् अरेणुकम् ।। आक-२,८.३७ ।।

सुरागं रागबहुलमिति पञ्च गुणाः स्मृताः ।
एतैर्युक्तं मरकतं सर्वपापहरं परम् ।। आक-२,८.३८ ।।

मरकतं विषघ्नं च शीतलं मधुरं रसे ।
आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ।। आक-२,८.३९ ।।

स्निग्धं मरकतं स्वच्छं सर्वदोषहरं शुभम् ।
कान्तिसौभाग्यदं मेध्यं भूतग्रहविषापहम् ।। आक-२,८.४० ।।

पुष्पराग > स्य्नोन्य्म्स्

पीतस्तु पुष्परागः पीतस्फुटिकं च पीतरत्नं च ।
पीताश्मा गुरुरत्नं पीतमणिः पुष्यरागश्च ।। आक-२,८.४१ ।।

पुष्पराग > परीक्षा > त्रुए

ईषत् पीतं पविच्छायं स्वच्छं कान्त्या मनोहरम् ।
पुष्यराग इति ख्यातं रत्नं रत्नपरीक्षकैः ।। आक-२,८.४२ ।।

पुष्पराग > परीक्षा > गोओद् ॠउअलित्य्

हेमच्छायं शिरोवृत्तं ज्योतिरङ्गारनिर्मलम् ।
पीतगात्रं गुरु स्निग्धं पुष्यरागं प्रशस्यते ।। आक-२,८.४३ ।।

पुष्पराग > परीक्षा > बद् ॠउअलित्य्

रूक्षं क्षतलघु श्वेतं कृष्णं गौरं सशर्करम् ।
मलिनं बिन्दुमद्रत्नं पुष्यरागं न शस्यते ।। आक-२,८.४४ ।।

पुष्पराग > मेदिच्. प्रोपेर्तिएस्

पुष्यरागोऽम्लशीतश्च वातजिद्दीपनः परम् ।
आयुः श्रियं च प्रज्ञां च धारणात्कुरुते नृणाम् ।। आक-२,८.४५ ।।

पुष्यरागं शुभं मेध्यं वस्तुसौभाग्यकीर्तिदम् ।
वाक्पटुत्वकरं हृद्यं विषघ्नं दोषजित्परम् ।। आक-२,८.४६ ।।

वज्र

वज्रमिन्द्रायुधं वीरं भिदुरं कुलिशं पविः ।
अभेद्यम् असिरं रत्नं दृढं भार्गवकं स्मृतम् ।। आक-२,८.४७ ।।

वज्र > परीक्षा > गोओद् ॠउअलित्य्

स्वच्छं विद्युत्प्रभं स्निग्धं सुन्दरं लघु लेखनम् ।
षडारं तीक्ष्णधारं च सुसौम्यारं श्रियं दिशेत् ।। आक-२,८.४८ ।।

वज्राकरा वज्रभेदाश्च

पौण्ड्रमतङ्गहिमाचलसौराष्ट्रसुपारकोसलकलिङ्गाः ।
पेण्णानदीतटश् चेत्यष्टौ वज्राकरा विनिर्दिष्टाः ।। आक-२,८.४९ ।।

श्यामं प्रपौण्ड्रप्रभवं किंचित् पीतं मतङ्गगिरिजातम् ।
हिमवत्सुराष्ट्रसंभवम् आताम्रं कृष्णकान्ति सौपारम् ।। आक-२,८.५० ।।

फुल्लशिरीषच्छायं कोसलजं कनककान्ति कालिङ्गम् ।
पेण्णानदीतटोद्भवम् आहुर् वज्रं सुधांशुनिभम् ।। आक-२,८.५१ ।।

कलिङ्गकोसलौ देशौ मतङ्गाद्रिहिमालयौ ।
सौराष्ट्रपौण्ड्रकौवेराकरसूपारकौ तथा ।। आक-२,८.५२ ।।

कृतादिषु युगेष्वेतौ वज्राणामाकरौ स्मृतौ ।
आकरेष्वेव वज्राणां खनिः स्रोतः प्रकीर्णकम् ।। आक-२,८.५३ ।।

समुत्पत्तिस्थलं त्रेधा निर्दिष्टं सुरनायिके ।
कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशैव च ।। आक-२,८.५४ ।।

इत्यच्छतीक्ष्णधाराग्रा वज्रस्याहुरथो गुणान् ।

वज्र > ५ दोषस्

मलो बिन्दुश्च रेखा च त्रासः काकपदं तथा ।। आक-२,८.५५ ।।

एते दोषाः समाख्याताः पञ्च वज्रेषु संस्थिताः ।
कुर्यादशोधितं वज्रं कुष्ठदाहाङ्गगौरवम् ।। आक-२,८.५६ ।।

हृत्पार्श्वपीडां पाण्डुं च ततस्तच्छुद्धिरुच्यते ।

वज्रशुद्धि

गृहीत्वाथ शुभ्रं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ।। आक-२,८.५७ ।।

महिषीशकृदालिप्य करीषाग्नौ विपाचयेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ।। आक-२,८.५८ ।।

एवं पुनः पुनः पक्वं सप्तरात्राद्विशुध्यति ।
मेघनादाशमीश्यामाशृङ्गीमदनकोद्भवैः ।। आक-२,८.५९ ।।

कुलुत्थवेतसागस्त्यसिन्धुवाराखुकर्णिकाः ।
एतेषां हयमूत्रेण कषायं साधितं पुनः ।। आक-२,८.६० ।।

जम्बीरे कुलिशं क्षिप्त्वा हयमूत्रैस्त्र्यहं पचेत् ।
डोलायन्त्रविधानेन ततः शुद्धिमवाप्नुयात् ।। आक-२,८.६१ ।।

कुलुत्थकोद्रवक्वाथैर्डोलायन्त्रे विपाचयेत् ।
व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिमाप्नुयात् ।। आक-२,८.६२ ।।

कुलत्थकोद्रवक्वाथं हयमूत्रं स्नुहीपयः ।
क्षिप्त्वा भाण्डे पचेत्तस्मिन् व्याघ्रीकन्दगतं पविम् ।। आक-२,८.६३ ।।

डोलायन्त्रे दिवारात्रं समुद्धृत्य पुनः क्षिपेत् ।
वज्रकन्दे मृदा कन्दं लिप्त्वा गजपुटे पचेत् ।। आक-२,८.६४ ।।

तत्पक्वं पाचनद्रावैः सेचितं शुद्धिमाप्नुयात् ।
व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ।। आक-२,८.६५ ।।

अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ।
वज्रीक्षीरेण वा सिञ्च्यादेवं शुद्धं तु मारयेत् ।। आक-२,८.६६ ।।

विप्रजातीयवज्रमारणम्

वक्ष्यते विप्रजात्यादेः शुद्धवज्रस्य मारणम् ।
अश्वत्थबदरीभण्डीमाक्षिकं कर्कटास्थि च ।। आक-२,८.६७ ।।

समं स्नुक्पयसा पिष्ट्वा मूषामध्ये प्रलेपयेत् ।
तन्मध्ये प्रक्षिपेद्वज्रमौषधैस्तैस्ततः परम् ।। आक-२,८.६८ ।।

वज्रमाच्छाद्य यत्नेन ततो मूषां निरोधयेत् ।
कुञ्जराख्येन पुटयेत्पुटेन महता पुनः ।। आक-२,८.६९ ।।

विप्रजातीयकं वज्रं पुटेनैकेन सिध्यति ।
करवीरं मेषशृङ्गी दरदं च ह्युदुम्बरम् ।। आक-२,८.७० ।।

अर्कदुग्धैः समं पिष्ट्वा तत्कृते गोलके क्षिपेत् ।
वज्रं क्षत्रियजातीयं पूर्ववन्मारयेद् ध्रुवम् ।। आक-२,८.७१ ।।

वैश्यजातीयवज्रमारणम्

सूरणं लशुनं शंखं शिलायां पेषयेत्समम् ।
बलामतिबलां गन्धं कच्छपास्थि च पेषयेत् ।। आक-२,८.७२ ।।

उत्तरावारुणीदुग्धैस्तत्कृते गोलके क्षिपेत् ।
वज्रं तु वैश्यजातीयं पूर्ववत्तन्मृतं भवेत् ।। आक-२,८.७३ ।।

शूद्रजातीयवज्रमारणम्

सूरणं लशुनं शङ्खं शिलां संपेषयेत्समम् ।
वटक्षीरेण तत्कॢप्ते गोलके पूर्ववत्पचेत् ।। आक-२,८.७४ ।।

वज्रं तच्छूद्रजातीयं तेन सम्यग्भवेन्मृतम् ।
स्त्रीपुंवज्रं तु पूर्वोक्तैर्म्रियते तत्तदौषधैः ।। आक-२,८.७५ ।।

चतुर्जात्यौषधैरेव मृतिर्वज्रे नपुंसके ।

वज्रमारण (१)

सामान्यः सर्ववज्राणां वक्ष्यते मारणक्रमः ।। आक-२,८.७६ ।।

शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्पुनः ।
अग्निवर्णं क्षिपेन्मूत्रे गर्दभस्य पुनः पुनः ।। आक-२,८.७७ ।।

लेपितं ध्मापितं तद्वदेवं कुर्यात्त्रिसप्तधा ।
तालकं मत्कुणैः पिष्ट्वा तस्मिन्गोले क्षिपेत्तु तम् ।। आक-२,८.७८ ।।

रुद्ध्वा मूषां धमेद्गाढं हयमूत्रे विनिक्षिपेत् ।
समुद्धृत्य पुनस्तद्वत्सप्तवारैर्मृतो भवेत् ।। आक-२,८.७९ ।।

वज्रमारण (२)

मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु ।
गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् ।। आक-२,८.८० ।।

त्रिक्षारं पञ्चलवणं मेषशृङ्गीन्द्रवारुणी ।
वज्रवल्ली मूषकर्णी बदरी कुड्मलानि च ।। आक-२,८.८१ ।।

मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणम् ।
पञ्चाङ्गं शरपुंखस्य ह्यस्थिनी खरमेषयोः ।। आक-२,८.८२ ।।

पेटारिबीजं स्त्रीपुष्पं पारावतमलं शिला ।
पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं तिमिरस्य च ।। आक-२,८.८३ ।।

धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा वाजिमूत्रकम् ।
हंसपादी वज्रकन्दं बृहतीफलसूरणम् ।। आक-२,८.८४ ।।

गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ।
एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् ।। आक-२,८.८५ ।।

तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ।
कुलुत्थकोद्रवं पिष्ट्वा हयमूत्रे विलोलयेत् ।। आक-२,८.८६ ।।

तन्मध्ये सेचयेत्तप्तां मूषापुटविनिर्गताम् ।
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।। आक-२,८.८७ ।।

आदाय तत्पुनर्वज्रं ताले मत्कुणपेषिते ।
गोलके निक्षिपेद् रुद्ध्वा मूषां तीव्रानले धमेत् ।। आक-२,८.८८ ।।

इत्येवं सप्तधा ध्मातं हयमूत्रे निषेचयेत् ।
अनेन क्रमयोगेन मृतो भवति निश्चितम् ।। आक-२,८.८९ ।।

तन्मृतं चूर्णयेत् खल्वे सिद्धयोग उदाहृतः ।

वज्रमारण (३)

भ्रामकं च मृतं ताप्यं पेटालीबीजटङ्कणम् ।। आक-२,८.९० ।।

क्षीरं चोत्तरवारुण्या गन्धकं तालकं शिला ।
चिञ्चाबीजं मेषशृङ्गी स्त्रीपुष्पं चाम्लवेतसः ।। आक-२,८.९१ ।।

पञ्चाङ्गं शरपुंखायाः शशदन्तं शिलाजतु ।
एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् ।। आक-२,८.९२ ।।

स्नुह्यर्कोत्तरवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ।
तद्गोलके क्षिपेद् वज्रं रुद्ध्वा चैतान्धमेद्दृढम् ।। आक-२,८.९३ ।।

गुडूची सैन्धवं हिङ्गु समुस्तोत्तरवारुणी ।
क्वाथैः कौलुत्थकैः पिष्ट्वा तस्मिन्क्वाथे विनिक्षिपेत् ।। आक-२,८.९४ ।।

तं वज्रं पूर्ववद्गोले कृत्वा रुद्ध्वा धमेत्तथा ।
सेचनान्तं ततः कुर्यादेकविंशतिवारकम् ।। आक-२,८.९५ ।।

तालकं मत्कुणायोगे सप्तवारं पुनर्धमेत् ।
सेचयेदश्वमूत्रेण तद् वज्रं म्रियते ध्रुवम् ।। आक-२,८.९६ ।।

वज्रमारण (४)

त्रिवर्षीयोत्थकार्पासमूलमादाय पेषयेत् ।
त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ।। आक-२,८.९७ ।।

तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।
एवं सप्तपुटैः पक्वमेकैकेन कृतं भवेत् ।। आक-२,८.९८ ।।

वज्रमारण (५)

तालकासीससौराष्ट्रीमपामार्गस्य भस्म च ।
पिष्ट्वा कौलुत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् ।। आक-२,८.९९ ।।

क्षिपेत्त्रिसप्तवाराणि म्रियते नात्र संशयः ।
वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् ।। आक-२,८.१०० ।।

तद्गोले निक्षिपेद्वज्रमन्धमूषागतं धमेत् ।
सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् ।। आक-२,८.१०१ ।।

रुद्ध्वा ध्मातः पुनः सेच्यमेवं कुर्यात् त्रिसप्तधा ।
म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ।। आक-२,८.१०२ ।।

वज्रमारण (७)

उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् ।
क्षणं पिष्ट्वा तु तद्गोलं क्षिप्त्वा तस्मिन्पचेद्दिनम् ।। आक-२,८.१०३ ।।

नृतैले गन्धतैलेन म्रियते नात्र संशयः ।

वज्रमारण (८)

भूनागं गन्धकं चाथ नारीस्तन्येन पेषयेत् ।। आक-२,८.१०४ ।।

तद्गोलस्थं पचेद्वज्रं पूर्वतैले मृतं भवेत् ।

वज्रमारण (९)

स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् ।। आक-२,८.१०५ ।।

वज्रं निरुध्य मूषां तु शुष्कां तीव्राग्निना धमेत् ।
क्षिप्तामश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् ।। आक-२,८.१०६ ।।

इत्येवं सप्तधा कुर्यात्ततस्तालकमत्कुणैः ।
पिष्ट्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च ।। आक-२,८.१०७ ।।

ध्मापितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ।

वज्रमारण (१०)

वज्रं मत्कुणरक्तेन लिप्त्वा लिप्त्वातपे क्षिपेत् ।। आक-२,८.१०८ ।।

शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि ।
विष्णुक्रान्तापेटकार्योर् द्रवैः सिञ्चेत्पुनः पुनः ।। आक-२,८.१०९ ।।

तप्तं तप्तं च तद्वज्रं शतवारैर्मृतं भवेत् ।

वज्रमारण (११)

गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा ।। आक-२,८.११० ।।

पुनः स्त्रीरजसालोड्यं तस्मिन् वज्रं सुतापितम् ।
सेचयेत्तापयेदेकविंशद्वारान्मृतं भवेत् ।। आक-२,८.१११ ।।

वज्रमारण (१२)

वज्रं नदीमहाशुक्तौ क्षिप्त्वा भाव्यं मुहुर्मुहुः ।
स्नुह्यर्कोत्तमकन्यानां द्रवेणैकेन चातपे ।। आक-२,८.११२ ।।

कृष्णककटमांसेन पेषितं वेष्टयेत्पुनः ।
भूनागस्य मृदा सम्यग्धृतं भस्मत्वमाप्नुयात् ।। आक-२,८.११३ ।।

वज्रमारण (१३)

रक्तमूलस्य मूलैश्च मेघनादस्य कुड्मलैः ।
पेषितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ।। आक-२,८.११४ ।।

वज्रमारण (१४)

मातुलुङ्गगतं वज्रं रुद्ध्वा लिम्पेन्मृदा बहिः ।
पुटे पचेत्समुद्धृत्य तद्वच्छतपुटे पचेत् ।। आक-२,८.११५ ।।

वज्रमृदूकरण (१)

नागपर्णीद्रवैर्लिप्तं तत्पत्रेणैव वेष्टितम् ।
जानुमध्ये स्थितं यामं तद् वज्रं मृदुतां व्रजेत् ।। आक-२,८.११६ ।।

वज्रमृदूकरण (२)

मातृवाहकबीजस्य मध्ये वज्रं विनिक्षिपेत् ।
जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ।। आक-२,८.११७ ।।

कुलुत्थकोद्रवक्वाथे त्रैफले वा कषायके ।
अहोरात्रात्समुद्धृत्य जम्बीरान्तः पुनः क्षिपेत् ।। आक-२,८.११८ ।।

मातृवाहकबीजे वा पचेत्प्रक्षिप्य पूर्ववत् ।
पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ।। आक-२,८.११९ ।।

बदरीवटनिम्बानामङ्कुराणि समाहरेत् ।
पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ।। आक-२,८.१२० ।।

अश्वत्थपत्रके वेष्ट्य तद्गोलं जानुमध्यगम् ।
दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितम् ।। आक-२,८.१२१ ।।

वज्रमृदूकरण (३)

पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ।। आक-२,८.१२२ ।।

नागवल्लीदलैश्चैव वेष्टितं धान्यराशिगम् ।
मासान्ते तत्समुद्धृत्य लिम्पेन्नागलताद्रवैः ।। आक-२,८.१२३ ।।

तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ।

वज्रमृदूकरण (४)

कान्तपाषाणवक्त्रं वा चूर्णं वा कान्तलोहजम् ।। आक-२,८.१२४ ।।

ससूतमम्लयोगेन दिनमेकं विमर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोद्रवैः ।। आक-२,८.१२५ ।।

पत्रैः पिष्टैः सुसंपेष्य नागवल्लीदलैस्ततः ।
वेष्टितं जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ।। आक-२,८.१२६ ।।

वज्रमृदूकरण (५)

एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् ।
मासमात्रात्समुद्धृत्य जानुमध्ये च पूर्ववत् ।। आक-२,८.१२७ ।।

कोमलं जायते वज्रं दिनान्ते नात्र संशयः ।

वज्रमृदूकरण (६)

वज्रं तित्तिरिमांसेन वेष्टितं निक्षिपेन्मुखे ।। आक-२,८.१२८ ।।

अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् ।
निखनेद्धस्तमात्रायां क्षोण्यां मासात्समुद्धरेत् ।। आक-२,८.१२९ ।।

मण्डूकं सम्पुटे रुद्ध्वा सम्यग्गजपुटे पचेत् ।
तद्वज्रं पूर्वगोलस्थं जानुमध्यगतं दिनम् ।। आक-२,८.१३० ।।

भवेद्वज्रौदनं साक्षात्पश्चादाहार्य योजयेत् ।
सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ।। आक-२,८.१३१ ।।

वज्रद्रुति

क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ।
ज्वालामुखीं चेक्षुरकं स्थलकुम्भीफलानि च ।। आक-२,८.१३२ ।।

स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलके क्षिपेत् ।
वज्रं विशोधितं सम्यग्वस्त्रे बद्ध्वा हठात्पचेत् ।। आक-२,८.१३३ ।।

डोलायन्त्रेण धान्याम्ले द्रुतं मासाष्टकाद्भवेत् ।
वज्रवल्ल्यन्तरस्थं वा कृत्वा वज्रं निरोधितम् ।। आक-२,८.१३४ ।।

अम्लभाण्डगतं सेच्यं सप्ताहाद् द्रवतां व्रजेत् ।
भस्मौदनं द्रुतिश्चेति त्रिविधं वज्रमारणम् ।। आक-२,८.१३५ ।।

रसबन्धकरं प्रोक्तं नागार्जुनपुरःसरैः ।

वज्रगुणाः

वज्रं च षड्रसोपेतं सर्वरोगापहारकम् ।। आक-२,८.१३६ ।।

सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनम् ।
वज्रं रत्नोत्तमं पुण्यं श्रीसौभाग्यविवर्धनम् ।। आक-२,८.१३७ ।।

आयुष्यं धन्यमोजस्यं यशस्यं सर्वपाप्मजित् ।
आयुर्बलं देहसौख्यं रूपं कान्तिं करोति च ।। आक-२,८.१३८ ।।

सेवितं हन्ति रोगांश्च मृतं वज्रं न संशयः ।

नील

नीलस्तु सौरिरत्नं स्यान्नीलाश्मा नीलरत्नकः ।। आक-२,८.१३९ ।।

नीलोपलस्तृणग्राही महानीलः सुनीलकः ।
इन्द्रनीलमणिस्तत्र चतुर्धा जातिभेदतः ।। आक-२,८.१४० ।।

सप्फिरे > सुब्त्य्पेस् > चस्ते

सितच्छायो भवेद्विप्रो रक्तः क्षत्रियजातिकः ।
पीतस्तु वैश्यजातिर्यो वृषलः कृष्णदीधितिः ।। आक-२,८.१४१ ।।

नीलस्य गुणदोषाः

नीलीरससमाभासा वैष्णवीपुष्पसंनिभा ।
लवलीपुष्पसङ्काशा नीलेन्दीवरसप्रभा ।। आक-२,८.१४२ ।।

अतसीपुष्पसङ्काशा चाषपक्षसमद्युतिः ।
कृष्णत्रिकर्णिकापुष्पसमानद्युतिधारिणी ।। आक-२,८.१४३ ।।

मयूरकण्ठसच्छाया शम्भोः कण्ठनिभा तथा ।
विष्णुदेहसमाभासा भृङ्गपत्रसमप्रभा ।। आक-२,८.१४४ ।।

एताश्छायाः शुभकरा इन्द्रनीलमहामणेः ।
गुरुत्वं स्निग्धकान्तित्वं सुरागं पार्श्वरञ्जनम् ।। आक-२,८.१४५ ।।

तृणग्राहित्वमित्येते गुणाः पञ्च प्रकीर्तिताः ।
न विम्लो निर्मलो गात्रो मसृणो गुरुदीप्तिकः ।। आक-२,८.१४६ ।।

तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ।
इन्द्रनीलं शुभं वर्ण्यं सर्वपापनिबर्हणम् ।। आक-२,८.१४७ ।।

आयुर्यशो बलं लक्ष्मीमारोग्यं च प्रयच्छति ।
नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः ।। आक-२,८.१४८ ।।

यो दधाति शरीरेऽस्य सौरिर् मङ्गलदो भवेत् ।

गोमेदक

गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः ।। आक-२,८.१४९ ।।

स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ।
गोमूत्राभं यन्मृदु स्निग्धमुष्णं शुद्धच्छायं गौरवं यच्च धत्ते ।
हेमारक्तं श्रीमतां योग्यमेतत् गोमेदाख्यं रत्नम् आख्याति सन्तः ।। आक-२,८.१५० ।।

मधुबिन्दुसमच्छायं गोमूत्राज्यसमप्रभम् ।। आक-२,८.१५१ ।।

हेमरक्तं गुरु स्वच्छं स्निग्धं गोमेदकं शुभम् ।
श्वेतं कृष्णं रङ्गहीनं त्रासरेखादिदूषितम् ।। आक-२,८.१५२ ।।

कर्कशं पाटलाकारं दुष्टं गोमेदकं त्यजेत् ।

गोमेदगुणाः

मेध्यं गोमेदकं रत्नं यशस्यं श्रीविवर्धनम् ।। आक-२,८.१५३ ।।

मङ्गल्यं कान्तिजननं स्निग्धं सर्वविषापहम् ।
गोमेदकोऽम्लमुष्णं च वातकोपविकारजित् ।। आक-२,८.१५४ ।।

दीपनं पाचनं चैव धृतोऽयं पापनाशनः ।

वैडूर्य

वैडूर्यं केतुरत्नं च खशब्दाङ्कुरजं तथा ।। आक-२,८.१५५ ।।

विडूरभूमिजं रत्नं प्रावृष्यं पञ्चनाम च ।
कल्पान्तकालक्षुभिताम्बुराशिनिदाहकल्पाद् दितिजेन्द्रनादात् ।
वैडूर्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिरत्नवर्यम् ।। आक-२,८.१५६ ।।

अविदूरे विडूरस्य गिरेर् उत्तुङ्गरोधसः ।। आक-२,८.१५७ ।।

कोङ्कचोलकसीमान्ते मणेस्तस्याकरः स्मृतः ।
तत्र दैत्येन्द्रनिनदं प्रति मेघसुगर्जितैः ।। आक-२,८.१५८ ।।

समुद्भवन्ति वैडूर्यमणयः प्रावृडागमे ।
सिताभ्रधूमसङ्काशमीषत्कृष्णं सितं तु यत् ।। आक-२,८.१५९ ।।

वैडूर्यं नाम तत्प्रोक्तं रत्नवर्णपरीक्षकैः ।
वेणुपत्रबिडालाक्षिशिखिकण्ठसमद्युति ।। आक-२,८.१६० ।।

स्निग्धगात्रं गुरु स्वच्छं वैडूर्यं गुणवन्मतम् ।
रेखाभिन्नं लघु स्पष्टं शिलाङ्गारककर्दमम् ।। आक-२,८.१६१ ।।

विवर्णं परुषं कृष्णं वैडूर्यं दोषवत्त्यजेत् ।

वैडूर्यलक्षण

वैडूर्यं विशदं स्निग्धं प्रीत्यायुर्बलवर्धनम् ।। आक-२,८.१६२ ।।

मङ्गल्यं धारणात्तद्धि सर्वग्रहविषापहम् ।
वैडूर्यमम्लमुष्णं च कफमारुतनाशनम् ।। आक-२,८.१६३ ।।

गुल्मशूलप्रशमनं भूषितं च शुभावहम् ।

पञ्चरत्नानि

माणिक्यं मौक्तिकं वज्रं नीलं मरकतं तथा ।। आक-२,८.१६४ ।।

पञ्चरत्नम् इति प्रोक्तं पाप्मालक्ष्मीविषापहम् ।

नवरत्नानि

गोमेदकं पुष्परागं वैडूर्यमपि विद्रुमम् ।। आक-२,८.१६५ ।।

पञ्चरत्नैः सहैतानि नवरत्नानि निर्दिशेत् ।

सूर्यकान्त

अथ भवति सूर्यकान्तः तपनमणिस्तापनश्च रविकान्तः ।
दीप्तोपलोऽग्निगर्भो ज्वलनाश्मार्कोपलश्च वसुनामा ।। आक-२,८.१६६ ।।

स्फटिक

श्वेताभ्रकसमं वर्णैर्हिमाद्रौ चन्द्रसन्निभम् ।। आक-२,८.१६७ ।।

निर्मलं च प्रभायुक्तं स्फटिकं श्रेष्ठमुच्यते ।
हिमालये सिंहले च विन्ध्ये रेवातटे तथा ।। आक-२,८.१६८ ।।

पद्मरागोद्भवे स्थाने विविधं स्फटिकं भवेत् ।
सूर्यकान्तं च तत्रैकं चन्द्रकान्तं तथापरम् ।। आक-२,८.१६९ ।।

सूर्यांशुस्पर्शमात्रेण वह्निं वमति तत्क्षणात् ।
सूर्यकान्तं तदाख्यातं स्फटिकं रत्नवेधितम् ।। आक-२,८.१७० ।।

सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनम् ।
वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ।। आक-२,८.१७१ ।।

चन्द्रकान्त

इन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा संस्रवोपलः ।
शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ।। आक-२,८.१७२ ।।

स्निग्धं श्वेतं पीतम् अत्रासमन्ताद् धत्ते चित्तं स्वस्थतां यन्मुनीनाम् ।
यच्च द्रावं याति चन्द्रांशुसङ्गे जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ।। आक-२,८.१७३ ।।

चन्द्रकान्तस् तु शिशिरः स्निग्धः पित्तास्रदाहनुत् ।
शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविषापहः ।। आक-२,८.१७४ ।।

स्फटिक

स्फटिकः सितोपलः स्याद् अमलमणिस् तारकोपलः स्वच्छः ।
शीतोष्णवीर्यम् अक्ष्णः पित्तं वातं निहन्ति शोफघ्नम् ।। आक-२,८.१७५ ।।

पुरा प्रोक्तं हि कान्तस्य मया ते लक्षणादिकम् ।
वैक्रान्तं चैव विक्रान्तं नीलवज्रं कुवज्रकम् ।। आक-२,८.१७६ ।।

गोनासं क्षुद्रकुलिशं चूर्णवज्रं च गोनसम् ।
श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ।। आक-२,८.१७७ ।।

श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि स ।
वज्राभावे तु वैक्रान्तं रसवीर्यादिके समम् ।। आक-२,८.१७८ ।।

अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ।। आक-२,८.१७९ ।।

कुलुत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।
त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः ।। आक-२,८.१८० ।।

मत्स्यतैलघृतैस्तुल्यैः कुलुत्थैः काञ्जिकान्वितैः ।
सप्ताहं दोलिकायन्त्रे व्याघ्रीकन्दगतं पचेत् ।। आक-२,८.१८१ ।।

वैक्रान्तभस्म

तप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् ।
हयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा ।। आक-२,८.१८२ ।।

ततश्चोत्तरवारुण्याः पञ्चाङ्गैर् गोलके क्षिपेत् ।
रुद्ध्वा मूषां पुटे पक्त्वा पुनरुद्धृत्य गोलके ।। आक-२,८.१८३ ।।

क्षिप्त्वा रुद्ध्वा पुटेदेवं सप्तधा भस्मतां व्रजेत् ।

वैक्रान्तसत्त्व (१)

वैक्रान्तस्य पलैकं तु पलैकं टङ्कणस्य च ।। आक-२,८.१८४ ।।

रविक्षीरे दिनं भाव्यं मर्द्यं शिग्रुद्रवैर्दिनम् ।
गुञ्जापिण्याकवह्नीनां प्रतिकर्षं वियोजयेत् ।। आक-२,८.१८५ ।।

अनेन गुलिका कृत्वा कोष्ठीयन्त्रे धमेद्दृढम् ।
शङ्खकुन्देन्दुसङ्काशं सत्वं वैक्रान्तजं भवेत् ।। आक-२,८.१८६ ।।

वैक्रान्तसत्त्व (२)

वैक्रान्तं वज्रकन्दं च समं स्नुक्पयसा सह ।
महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् ।। आक-२,८.१८७ ।।

पूर्ववद्धमनात्सत्वमिन्द्रगोपनिभं भवेत् ।

वैक्रान्तसत्त्व (३)

वन्ध्याचूर्णं सवैक्रान्तं छायायां मर्दयेत्समम् ।। आक-२,८.१८८ ।।

अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् ।

वैक्रान्तसत्त्व (४)

म्रियते ऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः ।। आक-२,८.१८९ ।।

सत्त्वपातनयोगेन मर्दितश्च वटीकृतः ।
मूषायां घटिकां ध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ।। आक-२,८.१९० ।।

वैक्रान्तद्रुति

श्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् ।
सप्ताहान्नात्र सन्देहः खरे घर्मे द्रवत्यलम् ।। आक-२,८.१९१ ।।

केतकीस्वरसं तुत्थं सैन्धवं स्वर्णपुष्पिकम् ।
इन्द्रगोपसमं युक्तं सर्वं भाण्डे विनिक्षिपेत् ।। आक-२,८.१९२ ।।

सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् ।
आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषमदापहारी ।
दीप्ताग्निकृत् पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ।। आक-२,८.१९३ ।।

राजावर्त

आवर्तमणिरावर्तो राजावर्तोऽनलाह्वयः ।। आक-२,८.१९४ ।।

राजावर्तरसस्याथ लक्षणं कथयाम्यहम् ।
वर्णेन भ्रमराभः स्याद् द्विःप्रकारः प्रकर्मतः ।। आक-२,८.१९५ ।।

एकश्चूर्णाकृतिर्ज्ञेयो द्वितीयो गोलकात्मकः ।
स्वर्णबिन्दुसमायुक्तः स्थिररागः स्थिरत्वदः ।। आक-२,८.१९६ ।।

रसदोद्भवरागस्य वर्णोत्कर्षेऽतिदक्षिणः ।
नागस्य रञ्जने श्रेष्ठस्तारे रञ्जनकर्मणि ।। आक-२,८.१९७ ।।

सर्वेषां चलरागाणां रागबन्धनकृन्मतः ।
राजावर्तो ऽल्परक्तोरुनीलिकामिश्रितप्रभः ।। आक-२,८.१९८ ।।

गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ।
निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु ।। आक-२,८.१९९ ।।

द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः ।

राजावर्तभस्म

लुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः ।। आक-२,८.२०० ।।

पुटनात् सप्तवारेण राजावर्तो मृतो भवेत् ।

राजावर्तसत्त्व

राजावर्तम् अयःपात्रे पाचयेन्माहिषैर्घृतैः ।। आक-२,८.२०१ ।।

पयोभिश्च दिनं चैकं मित्रपञ्चकमिश्रितम् ।
रजन्या पञ्चरात्रेण पिण्डीभूतं तु कारयेत् ।। आक-२,८.२०२ ।।

खादिराङ्गारयोगेन कोष्ठ्यां सत्वं विमुञ्चति ।
प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ।। आक-२,८.२०३ ।।

दीपनः पाचनो वृष्यो राजावर्तो रसायनः ।

गरुडोद्गार

सस्यको गरुडोद्गारः कालजिद् विषसारकः ।। आक-२,८.२०४ ।।

कालकूटविषं पीत्वा गरुडः सोढुमक्षमः ।
तदा निर्गत्य तच्चञ्चोर् बहुधा सस्यकोऽभवत् ।। आक-२,८.२०५ ।।

महारसः सस्यकः स्यात्प्रभाभिः पञ्चभिर्युतः ।
धवलो मेचकः पीतो हरितश्चातिलोहितः ।। आक-२,८.२०६ ।।

अतिस्थितो वीतिहोत्रः सर्वतः सर्वरूपभाक् ।
धवलो हरितश्चैव शस्यते तारकर्मणि ।। आक-२,८.२०७ ।।

लोहितो मेचकः पीतः शस्यते हेमकर्मणि ।
सस्यकः सर्वरोगघ्नो विषमृत्युभयापहः ।। आक-२,८.२०८ ।।

विमल

विमलो निर्मलः स्वच्छो विमलः स्वच्छधातुकः ।
बाणसंख्याभिधं शस्तं तारहेम द्विधाकृतः ।। आक-२,८.२०९ ।।

विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्विकः ।
तृतीयः कांस्यविमलस्तत्र कान्त्या स लक्ष्यते ।। आक-२,८.२१० ।।

वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।
मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ।। आक-२,८.२११ ।।

पूर्वो हेमक्रियासूक्तो द्वितीयो वृष्यकर्मणि ।
तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः ।। आक-२,८.२१२ ।।

विमलशुद्धि

आटरूषरसे स्विन्नो विमलो विमलो भवेत् ।
कदलीकन्दतोयेन विमलं प्रथमं पचेत् ।। आक-२,८.२१३ ।।

अम्लवेतसधान्याम्लमेषीमूत्रे ततः पचेत् ।
डोलायन्त्रे चतुर्यामं शुद्धिरेषां महोत्तमा ।। आक-२,८.२१४ ।।

कार्कोटीमेषशृङ्ग्युत्थैर् द्रवैर् जंबीरजैर् दिनम् ।
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ।। आक-२,८.२१५ ।।

विमलसत्त्व

विमलं शिग्रुतोयेन कांक्षीकासीसटङ्कणैः ।
वज्रकन्दसमायुक्तैर्भावयेत्कदलीरसैः ।। आक-२,८.२१६ ।।

मोक्षकक्षारसंयुक्तमन्धमूषागतं धमेत् ।
सत्वं चन्द्रार्कसङ्काशं पतत्यस्य न संशयः ।। आक-२,८.२१७ ।।

पेरोज

हरिताश्मा च पेरोजो विषारातिर्हरिन्मणिः ।
रसवीर्यविपाकेषु सस्यकस्य गुणानुगः ।। आक-२,८.२१८ ।।

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_2.8&oldid=3472" इत्यस्माद् प्रतिप्राप्तम्