आनन्दमयाधिकरणम्।
अधिकरणसङ्गति:
[सम्पाद्यताम्]पूर्वाधिकरणे सर्वज्ञस्य ईश्वरस्य जगत्कारणत्वं प्रस्थापितम्।सर्वे वेदान्ता: चेतनकारणवादिन: इत्यपि दर्शितम्। अधुना ब्रह्मण: द्विरूपत्वात् जायमानानां सन्देहानां विचारोऽधिक्रियते। ब्रह्मण: रूपद्वयम्- सोपाधिकं निरुपाधिकं च।नामरूपभेदोपाधिविशिष्टं सोपाधिकम्।तद्विपरीतं च सर्वोपाधिविवर्जितम्।सोपाधिकं ब्रह्म ऐश्वर्य-शक्तिविशेषयुक्तं भवति। नित्यमेकरूपमपि ब्रह्म चित्तोपाधितारतम्यविशेषाद् तारतम्यवदिव भवति।यत्र विभूत्याद्यतिशय: स स ईश्वर इत्युपास्य: भवति। एतत् सोपाधिकं विभूतिमद् ब्रह्म उपास्यत्वेन उपदिश्यते वेदान्तेषु।यच्च निरुपाधिकं ब्रह्म तद् ज्ञेयत्वेन उपदिश्यते वेदान्तेषु।एतदेव वाक्यपर्यालोचनया निर्णेतव्यं भवति किं ज्ञेयं किं चोपास्यमिति। तदर्थमिदमधिकरणमारभ्यते-
आनन्दमयोऽभ्यासात् ।१.१.१२
[सम्पाद्यताम्]पू.- तैत्तिरीयके अन्नमय: प्राणमय: मनोमय: विज्ञानमयश्च आत्मा वर्णित: तस्मिन्नेव वर्णनप्रवाहे आनन्दमय आत्मापि वर्णित:।अत्र संशयो जायते यदयमानन्दमय आत्मा प्रकृतं ब्रह्म एव आहोस्विद् अन्नमयादिवद् अमुख्य: कश्चिद् अन्य: आत्मा ? अन्नमयादिप्रवाहपतितत्वाद् अयम् अमुख्य एव आत्मा।
उ.- पर एव आत्मा आनन्दमय: भवितुमर्हति।परात्मनि एव अयम् आनन्दमय: इति शब्द: बहुधा अभ्यस्यते –
१ रसं ह्येवायं लब्ध्वानन्दी भवति ।
२ एष ह्येव आनन्दयति ।(तै.२.७)
३ सैव आनन्दस्य मीमांसा भवति।
४ एतमात्मानामुपसङ्क्रामति।
५ आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन।(तै.२.८,९)
६ आनन्दो ब्रह्मेति व्यजानात्। (तै. ३.६)
७ विज्ञानमानन्दं ब्रह्म।(बृ. ३.९.२८)
प्रवाहपतितत्वम् इति सन्निधिप्रमाणम्।अभ्यास: इति श्रुतिप्रमाणाम्।तच्च प्रमाणान्तरेभ्य: बलवत्तरं प्रमाणम्।
‘अन्योऽन्तर आत्मानन्दमय:।’ (तै.२.५) इति वचनाद् अयमानन्दमय आत्मा सर्वेषामन्तरत्वाद् मुख्य एव। सर्वस्यान्तरम् आत्मानमेव मुख्यत्वेन उपदेष्टुमिच्छति शास्त्रम्। तथापि लोकबुद्ध्यनुसारं अन्नमयं शरीरमेव आत्मानम् अनुवदति।तत: अन्तरं तत: अन्तरम् इति क्रमश: अनात्मतत्त्वमेव आत्मत्वेन बोधयति, बोधसौकर्याय। अन्ते आनन्दमयमात्मानमुपदिशति मुख्यात्मरूपेण। एवमरुन्धतीदर्शनन्यायेन बोधनात् अन्नमयादिप्रवाहपतितत्वं न दोषाय।
पू.- न। ‘तस्य प्रियमेव शिर:’ इत्यादि अस्य आनन्दमयस्य प्रियादिसंस्पर्श: विद्यते।शिरोरूप-लिङ्गप्रमाणाद् अस्य अवयवित्वं सिद्ध्यति।
उ.- नैतद् अवयवित्वं स्वाभाविकम्। विज्ञानमयोपाधिजनितं तद्।
पू.- ‘तस्यैष एव शारीर आत्मा य: पूर्वस्य’ इति सशरीरत्वं श्रूयते।तस्य पूर्वस्य विज्ञानमयस्य एव शारीर आत्मा य एष आनन्दमय इत्यर्थ:।अत: संसारी एवायमानन्दमय आत्मा , न सत्यज्ञानादिरूप: मुख्य:।
उ.- न। आनन्दमयस्य सशरीरत्वम् अन्नमयादि-शरीरपरम्परया प्रदर्श्यमानत्वात्।
विकारशब्दान्नेति चेत् न, प्राचुर्यवचनात् । १.१.१३
[सम्पाद्यताम्]पू.- न आन्नदमय: आत्मा पर: भवितुमर्हति,विकारार्थकस्य मयट्-शब्दस्य प्रयोगात्।आनन्दस्य विकार: आनन्दमय:।
उ. – न ।मयट्-प्रत्यय: प्राचुर्येऽपि भवति।तत्प्रकृतवचने मयट् (अष्टाध्यायी ५.४.२१)इति सूत्रात्।एवमानन्दप्रचुरं ब्रह्म आनन्दमयमुच्यते।
तद्धेतुव्यपदेशाच्च। १.१.१४
[सम्पाद्यताम्]उ.- प्राचुर्यार्थे मयट् इत्यस्य इतोऽपि प्रमाणमिदं यत् ब्रह्मण: आनन्दहेतुत्वेन व्यपदेश: विद्यते –
‘ एष एव हि आनन्दयति ’ इति।य: आनन्दयति स: स्वयं प्रचुरानन्द: इति सिद्धम्।तस्मात् प्राचुर्यार्थे अत्र मयट्। तेन य: आनन्दमय: ,स: पर एव आत्माभिप्रेत:, न अमुख्य:।
मान्त्रवर्णिकमेव च गीयते। १.१.१५
[सम्पाद्यताम्]उ.- ‘सत्यं ज्ञानमनन्तं ब्रह्म ’(तै. २.१) इति एतेषु मन्त्रवर्णेषु यद् ब्रह्म उक्तं तदेवात्र ‘अन्योऽन्तर आत्मा आनन्दमय:’(तै.२.५) इत्यस्मिन् ब्राह्मणे गीयते।मन्त्रब्राह्मणयोरेकार्थत्वं भवितुमर्हति।अन्यथा प्रकृतहानदोष:, अप्रकृतप्रक्रियादोष: च स्फुटौ।अत: आनन्दमय: पर एवात्मा।
नेतरोऽनुपपत्ते:। १.१.१६
[सम्पाद्यताम्]उ.-इतर: इति परेतर:।संसारी जीव: इत्यर्थ:। आनन्दमयशब्देन परेतर: जीव: ग्रहीतुं न युज्यते, उपपत्तेरभावात्। आनन्दमयं ब्रह्म प्रकृत्य श्रूयते – ‘ सोऽकामयत बहु स्यां प्रजायेयेति।स तपोऽतप्यत।स तपस्तप्त्वा इदं सर्वमसृजत्।यदिदं किञ्च।(तै.२.६)’ एतत् शरीरोत्पत्ते: पूर्वमभिध्यानं, विकाराणां स्रष्टुरव्यतिरेक:, तथा सर्वविकारसृषटि: च तदानीमेवोपपन्नं यदा अयमानन्दमय: पर: आत्मा स्वीक्रियते।अत: आनन्दमयशब्देन न जीव: उच्यते अपि तु पर एव आत्मा।
भेदव्यपदेशाच्च। १.१.१७
[सम्पाद्यताम्]उ.- आनन्दमयाधिकारे एवं व्यपदिश्यते-
॥ सप्त्मॊऽनुवाकः ॥
असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानँ स्वयमकुरुत ।तस्मात्तत्सुकृतमुच्यत इति । यद्वै तत् सुकृतम् । रसो वै सः । रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते ऽनिलयनेऽभयं प्रतिष्ठां विन्दते ।अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य । तदप्येष श्लोको भवति ॥१॥
‘ रसो वै स:।रसं ह्येवायं लब्ध्वानन्दी भवति।(तै. २.७) अत्र स: इति पर: आत्मा। स च लब्धव्य:। अयमिति जीव:। स तु लब्धा।अनयो: अत्र भेदेन व्यपदेश: कृत:।न लब्धा एव लब्धव्य: भवति।अत: आनन्दमयशब्देन संसारी जीव: नाभिप्रेत:।
पू.- न लब्धा एव लब्धव्य: भवति चेत् ‘आत्मान्वेष्टव्य:’ आत्मलाभान्न परं विद्यते इति श्रुतिस्मृती कथं सङ्गच्छेते?
उ.- लोके आत्मन: तत्त्वानवबोधनिमित्त: देहादिषु आत्मबुद्धिनिश्चयो दृश्यते।तेन देहादिभूतस्य आत्मन: , आत्मा लब्धोऽपि लब्धव्य: भवति, अन्विष्टोऽपि अन्वेष्टव्य: भवति। सर्वज्ञात्परमेश्वरात् तत्त्वत: अन्यो द्रष्टा तु प्रतिषिध्यते एव।
कामाच्च नानुमानापेक्षा । १.१.१८
[सम्पाद्यताम्]॥ षष्ठॊऽनुवाकः ॥
असन्नेव स भवति असद्ब्रह्मेति वेद चेत् । ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छी३।आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता ३ उ।सोऽकामयत ।बहुभ्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदँ सर्वमसृजत ।यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च । सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥ १ ॥
वे.-सोऽकामयत बहु स्यां प्रजायेयेति(तै. २.६)कामयितृत्व-निर्देशो विद्यते । अत:अनुमानेनापि साङ्ख्यकल्पितं प्रधानम् अत्र आनन्दमयत्वेन उल्लेखं नार्हति।ईक्षतेर्नाशब्दमित्यत्र प्रधानं निराकृतं तथापि पुन: प्रसङ्गान्निराक्रियते, गतिसामान्य-स्पष्टीकरणाय।
अस्मिन्नस्य च तद्योगं शास्ति। १.१.१९
[सम्पाद्यताम्]वे.- ॥ सप्त्मॊऽनुवाकः ॥
असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानँ स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति । यद्वै तत् सुकृतम् । रसो वै सः । रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति ।को ह्येवान्यात्कः प्राण्यात् ।यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य । तदप्येष श्लोको भवति ॥१॥
अस्मिन् प्रकृते आनन्दमये ।अस्य प्रतिबुद्धस्य जीवस्य। तदात्मना योग: तद्योग:, तद्भावापत्ति: मुक्ति: इति।जीव: यदा अस्मिन् आनन्दमये निरन्तरं तादात्म्येन पर तिष्ठति, तदा संसारभयात् निवर्तते इति शास्त्रवचनम् अस्ति- ‘अथ ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति।’(तै.२.७) आनन्दमयत्वेन उल्लिखित: आत्मा पर: अस्ति चेदेवेदं घटते। प्रधानं वा जीवो वा आनन्दमयत्वेन गृहीतश्चेत्, इदं न घटते। अत: आनन्दमय: परमात्मा इति स्थितम्।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्