आनन्दाद्यधिकरणं...

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र. आनन्दाद्यधिकरणं रचयत।
उ.- अधिकरणसङ्गति:- तृतीयाध्याये तृतीयपादे पूर्वतनाधिकरणे शाखान्तरोक्तानाम् अपि प्राणधर्माणाम् उपसंहार: कार्य: इत्युक्तम्।परं निर्विशेषब्रह्मविषये तथा न कार्यम् इति प्रत्युदाहरणसंगत्या इदम् अधिकरणम् आरभ्यते।
विषय:-आनन्दो ब्रह्म। सत्यं ज्ञानमनन्तं ब्रह्म। प्रज्ञानं ब्रह्म।
विशय:- आनन्दसत्यत्वादय: परब्रह्मगुणा: तैत्तिरीयके पठ्यन्ते।प्रज्ञानमिति गुण: ऐतरेये पठ्यते। ऐतरेये आनन्दादय: गुणा: उपसंहर्तव्या: उत न ?
पूर्वपक्ष:- न उपसंहर्तव्या:।यतो हि तथोपसंहारे सति एष: वामनी: एष: भामनी: इत्यादय: ब्रह्मधर्मा: अपि सर्वत्र उपसंहरणीया: स्यु:।
उत्तरपक्ष:-
१ उपसंहर्तव्या: सर्वत्र ब्रह्मधर्मा: आनन्दादय:।यतो हि सर्वत्र ते अभेदेनैव पठ्यन्ते(समाना:)।
२ तथोपसंहारे सति एष: वामनी: एष: भामनी: इत्यादय: ब्रह्मधर्मा: अपि सर्वत्र उपसंहरणीया: स्यु: इति यदुक्तं तन्न युक्तम्।प्रियशिरस्त्वादिकानां सविशेषब्रह्मधर्माणाम् अन्यत्र उपसंहारो न कार्य:, यतो हि प्रियं मोद: प्रमोद: आनन्द: इत्येते उपचितापचितरूपा: पठ्यन्ते।एतादृशौ उपचयापचयौ भेदे सति एव शक्यौ।ब्रह्म तु निर्भेदम्।अत: तत्र एतादृशानां चयापचययुक्तानां धर्माणामुपसंहारो नोचित:।
३ अपरं नाम प्रियशिरस्त्वादयो न ब्रह्मधर्मा:, ते तु कोशधर्मा:।अत: ब्रह्मधर्मत्वेन तेषामुपसंहारो न कार्य:।
४ एवं सविशेषब्रह्मण: उपासनायाम् एतादृशा: ये ब्रह्मधर्मा: उक्ता: ते नान्यत्र नेतव्या:।यद्यपि तेषु उपास्यं ब्रह्म तदेव तथापि प्रक्रमभेदादुपासना भिन्ना भवति।अयमेव न्याय: वामनीत्वादियुक्तब्रह्मोपदेशेषु।
५ एभ्योऽन्ये ये आनन्दादयो ब्रह्मधर्मा: ब्रह्मस्वरूपप्रतिपादनायोक्ता:, न तु उपासनाय, ते सर्वत्र नेतुं शक्या:।यतो हि तत्र प्रतिपत्तव्य: ब्रह्मरूप: अर्थ: समान:।
निर्णय: - आनन्दादय: ब्रह्मधर्मा: सर्वत्र उपसंहर्तव्या:।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=आनन्दाद्यधिकरणं...&oldid=5697" इत्यस्माद् प्रतिप्राप्तम्