आनुमानिकाधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

आनुमानिकमप्येकेषाम् इति चेत्, न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च।१.४.१

सूक्ष्मं तु तदर्हत्वात्। १.४.२
पू.- अव्यक्तशब्देनात्र शरीरं ग्राह्यं, न तु प्रधानमिति भवतोक्तम्।परं शरीरं तु व्यक्तं स्पष्टम्।कथं तदव्यक्तशब्देन ग्राह्यम्?
वे.- इह सूक्ष्मं शरीरं विवक्ष्यते, अव्यक्तशब्दार्हत्वात्।

तदधीनत्वादर्थवत्। १.४.३<br> पू.- यदि एतादृशं किमपि अव्यक्ताख्यं सूक्ष्मं जगत्कारणमभ्युपगम्यते तर्हि स एवास्माकं प्रधानकारणवाद:।
वे.- यदि एतदव्यक्तं स्वतन्त्रमङ्गीकुर्म:, तर्हि प्रधानकारणवाद: आपतेत्।न वयम् अव्यक्तं स्वतन्त्रं मन्यामहे।परमेश्वराधीना इयमस्माभि जगत: प्रागवस्थाभ्युपगता, न स्वतन्त्रा।
सा चार्थवती।तां विना परमेश्वरस्य स्रष्टृत्वं न सिद्ध्यति।शक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्ते:।एषा एव शक्ति: मायाख्या,जीवानामविद्या, महासुप्ति:।तस्या: स्वरूपबोधरहिता: जीवा: शेरते। तदिदं महत: परमव्यक्तमिति उक्तम्।
महच्छब्द: बुद्धौ तथा जीवेऽपि प्रयुज्यते। महच्छब्द: बुद्धौ ग्राह्य: चेत्, महत: परमव्यक्तमित्यत्र महच्छब्देन हैरण्यगर्भी बुद्धि: ग्राह्या।तथा सति अव्यक्तशब्देन माया स्वीकार्या।
महच्छब्द: जीवे ग्राह्य: चेत्, महत: परमव्यक्तमित्यत्र महच्छब्देन माया एव स्वीकार्या।
अथात्र अव्यक्तशब्द: अव्यक्तविकारस्य शरीरस्य कृते प्रयुक्त:,कार्यकारणयोरभेदोपचारात्।
पू.- ननु शरीरवद् इन्द्रियादीनामपि अव्यक्तविकारत्वमस्ति।शरीरस्यैव अव्यक्तशब्देन ग्रहणं किमर्थम्?
वे.- इन्द्रियादीनां स्वशब्दैरेव ग्रहणं जातम्।शरीरस्य ग्रहणं तु परिशिष्टम्।अत: अव्यक्तशब्देनात्र शरीरस्यैव ग्रहणम्।

ज्ञेयत्वावचनाच्च।१.४.४
साङ्ख्यशास्त्रे प्रधानं ‘ज्ञेयम्’।गुणपुरुषान्तरज्ञानात् कैवल्यमिति साङख्यानां सिद्धान्त:।प्रकृते अव्यक्तं कुत्रापि ज्ञेयत्वेन उपास्यत्वेन वा नोक्तम्।अत: साङ्ख्योक्तं प्रधानं तथा अत्रोक्तमव्यक्तं समानं भवितुं नार्हति।

वदतीति चेन्न, प्राज्ञो हि प्रकरणात्। १.४.५
पू.- महत: परमव्यक्तमित्यत्र यद् महदुक्तं, तद् ज्ञेयत्वेन नोक्तमिति भवता यदुच्यते, तदसिद्धम्।उत्तरत्र अव्यक्तवाच्यस्य प्रधानस्य ज्ञेयत्वं वदति श्रुति: -

अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च।
अनाद्यनन्तं महत: परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते॥ का. २.३.१५

साङ्ख्यै: यथा महत: परं शब्दादिहीनं प्रधानं निरूपितं .तथैवात्र निचाय्यत्वेन निर्दिष्टम्। तस्मात्प्रधानमेवेदमव्यक्तशब्देन निर्दिष्टम्।
वे.- नेह प्रधानं निचाय्यत्वेन निर्दिष्टम्।प्राज्ञ: निचाय्यत्वेन निर्दिष्ट:, प्रकरणात्।
१ पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति: इति निर्देशात् पुरुषविषयमेवेदं प्रकरणम्।
२ एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते इति वचनेन तस्यैव ज्ञेयत्वाकाङ्क्षास्ति।
३ यच्छेद्वाङ्मनसि प्राज्ञ: इति तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात्।
४ न हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यते इति साङ्ख्या अपि मन्यन्ते।चेतनात्मविज्ञानादेव कैवल्यमिति तेषामप्यभ्युपगम:।
५ अशब्दादिधर्मा: सर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽभिलप्यन्ते।
तस्मानन प्रधानस्यात्र अव्यक्तशब्दनिर्दिष्टत्वं ज्ञेयत्वं वा।

त्रयाणामेव चैवमुपन्यास: प्रश्नश्च। १.४.६
वे.- अग्निजीवपरमात्मनां त्रयाणामेव पदार्थानाम् अस्मिन् ग्रन्थे वक्तव्यतया उपन्यास: कृत:। तद्विषये एव प्रश्न: अस्ति।प्रधानविषये न प्रश्नोऽस्ति, न वा प्रतिवचनमस्ति।अत: नात्र प्रधानं निर्दिश्यते।

महद्वच्च।१.४.७<br> वे.- महच्छब्द: साङ्ख्यै: प्रथमजे सत्तामात्रे प्रयुक्त:।सोऽर्थ: वैदिके प्रयोगे नास्ति-
बुद्धेरात्मा महान् पर:।(का. १.३.१०)
महान्तं विभुमात्मानम्।(का. १.२.२२)
वेदाहमेतं पुरुषं महान्तम्।(श्वे. ३.८)
एवमेव अव्यक्तशब्द: वैदिके प्रयोगे प्रधानवाचको न भवति।अतो नास्ति आनुमानिकस्य शब्दवत्त्वम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्प्रथमाध्याये चतुर्थ: पाद:
"https://sa.wikibooks.org/w/index.php?title=आनुमानिकाधिकरणम्&oldid=5587" इत्यस्माद् प्रतिप्राप्तम्