आपदामपहर्तारं ... नमाम्यहम्

विकिपुस्तकानि तः

मूलम्
आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥

पदच्छेदः
आपदाम् अपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयः भूयः नमामि अहम् ॥३५॥

अन्वयः
आपदाम् अपहर्तारं, सर्वसंपदां दातारं,लोकाभिरामं श्रीरामम् अहं भूयः भूयः नमामि ॥३५॥

सरलार्थः
सर्वलोके सुन्दरः श्रीरामः सङ्कटानि अपहरति, सर्वाः सम्पत्तीः ददाति। तम् अहं नमामि।॥३५॥

सन्धिविग्रहः ३५

सन्धिः विग्रहः सूत्रम्
भूयो भूयो भूयस् भूयो ससजुषो रुः।८.२.६६

हशि च।६.१.११२

भूयो नमामि भूयस् नमामि ससजुषो रुः।८.२.६६

हशि च।६.१.११२

नमाम्यहम् नमामि अहम् इको यणचि।६.१.७६

समासविग्रहः३५
सर्वसंपदाम्
सर्वाः सम्पदः सर्वसम्पदः, तासाम्।... विशेषणं विशेष्येण बहुलम्।२.१.५७

लोकाभिरामम्
लोकेषु अभिरामः लोकाभिरामः, तम्।... सप्तमी शौण्डैः।२.१.४०

रामरक्षास्तोत्रम् - सान्वयं सार्थम्