आपस्तम्ब शुल्बसूत्र

विकिपुस्तकानि तः
Jump to navigation Jump to search
आपस्तम्बशुल्बसूत्रं

विहारयोगान्व्याख्यास्यामः ॥ १.१ ॥
यावदायामं प्रमाणं ॥ १.२क ॥
तदर्धमभ्यस्यापरस्मिंस्तृतीये षड्भागोने लक्षणं करोति ॥ १.२ख ॥
पृष्ठ्यान्तयोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमितं करोति ॥ १.२ग ॥
एवमुत्तरतो विपर्यस्येतरतः स समाधिः ॥ १.२घ ॥
तन्निमित्तो निर्ह्रासो विवृद्धिर्वा ॥ १.२च ॥
आयामं वाभ्यस्यागन्तुचतुर्थं आयामश्चाक्ष्णया रज्जुस्तिर्यङ्भानीशेषः । व्याख्यातं विहरणं ॥ १.३क ॥
दीर्घस्याक्ष्णयारज्जुः पार्श्वमानी तिर्यङ्मानी च यत्पृथग्भुते कुरुतस्तदुभयं करोति ॥ १.४क ॥
ताभिर्ज्ञेयाभिरुक्तं विहरणं ॥ १.४ख ॥
चतुरश्रस्याक्ष्णयारज्जुर्द्विस्तवतीं भूमिं करोति । समस्य द्विकरणी ॥ १.५ ॥
प्रमाणं तृतीयेन वर्धयेत्तच्चतुर्थेनात्मचतुस्त्रिंशोनेन सविशेषः ॥ १.६ ॥
अथापरं ॥ १.७क ॥
प्रमाणमात्रीं रज्जुं उभयतः पाशां करोति ॥ १.७ख ॥
मध्ये लक्षणं अर्धमध्यमयोश्च पृष्ठ्यायां रज्जुं आयम्य पाशयोर्लक्षणेष्विति शङ्कून्निहत्युपान्त्ययोः पाशौ प्रतिमुच्य मध्यमेन लक्षणेन दक्षिणापायम्य शङ्कुं निमित्तं करोति । मध्यमे पाशौ प्रतिमुच्य, उपर्युपरि निमित्तं मध्यमेन लक्षणेन दक्षिणमंसं आयच्छेत् । उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य मध्यमेनैव लक्षणेन दक्षिणां श्रोणिं आयच्छेत् । एवमुत्तरौ श्रोण्यंसौ ॥ १.७ग ॥


अथापरोयोगः ॥ २.१क ॥
पृष्ठ्यान्तयोर्मध्ये च शङ्कून्निहत्यार्धेऽर्धे तद्विशेषं अभ्यस्य लक्षणं कृत्वार्धमगमयेत् । अन्त्ययोः पाशौ कृत्वा मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्नितरं लक्षणेन दक्षिणमङ्कं आयच्छेत् । उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य लक्षणेनैव दक्षिणां श्रोणिं आयच्छेत् । एवं उत्तरौ श्रोण्यंसौ ॥ २.१ख ॥
प्रमाणं तिर्यग्द्विकरण्यायामस्तस्याक्ष्णयारज्जुस्त्रिकरणी ॥ २.२ ॥
तृतीयकरण्येतेन व्याख्याता । विभागस्तु नवधा ॥ २.३ ॥
तुल्ययोश्चतुरश्रयोरुक्तः समासः । नानाप्रमाणयोश्चतुरश्रयोः समासः ॥ २.४क ॥
ह्रसीयसः करण्या वर्षीयसो वृद्ध्रं उल्लिखेत् । वृद्ध्रस्याक्ष्णयारज्जुरुभे समस्यति । तदुक्तं ॥ २.४ख ॥
चतुरश्राच्चतुरश्रं निर्जिहीर्षन्यावन्निर्जिहीर्षेत्तस्य करण्या वर्षीयसो वृद्ध्रमुल्लिखेथ् ॥ २.५क ॥
वृर्धस्य पार्श्वमानीं अक्ष्णयेतरत्पार्श्वं उपसंहरेथ् ॥ २.५ख ॥
सा यत्र निपतेत्तदपच्छिन्द्याथ् ॥ २.५ग ॥
छिन्नया निरस्तं ॥ २.५घ ॥
उपसंहृताक्षणयारज्जुः सा चतुष्करणी छिन्ना चेतरा च यत्पृथग्भूते कुरुतस्तदुभयं करोति ॥ २.६क ॥
तिर्यङ्मानी पुरुषं शेषस्त्रीन् ॥ २.६ग ॥
तदुक्तं ॥ २.६घ ॥
दीर्घचतुरश्रं समचतुरश्रं चिकीर्षन्तिर्यङ्मान्यापच्छिद्य शेषं विभज्योभयत उपदध्याथ् ॥ २.७क ॥
खण्डं आगन्तुना संपुरयेथ् ॥ २.७ख ॥
तस्य निर्हार उक्तः ॥ २.७ग ॥


समचतुरश्रं दीर्घचतुरश्रं चुकीर्षना यावच्चिकीर्षेत्तावतीं पार्श्वमानीं कृत्वा यदधिकं स्याद्यथायोगं उपदध्याथ् ॥ ३.१ ॥
चतुरश्रं मण्डलं चिकीर्षन्मध्यात्कोट्यां निपातयेथ् ॥ ३.२क ॥
पार्श्वतः परिकृष्यातिशयतृतीयेन सह मण्डलं परिलिखेथ् ॥ ३.२ख ॥
सा नित्या मण्डलं ॥ ३.२ग ॥
यावद्धीयते तावदागन्तु ॥ ३.२घ ॥
मण्डलं चतुरश्रं चिकीर्षन्विष्कम्भं पञ्चदश भागान्कृत्वा द्वावुद्धरेत् । त्रयोदशावशिष्यन्ते । सा नित्या चतुरश्रं ॥ ३.३ ॥
प्रमाणेन प्रमाणं विधीयते ॥ ३.४ ॥
चतुरश्रं आदेशादन्यथ् ॥ ३.५ ॥
द्वाभ्यां चत्वारि ॥ ३.६क ॥
त्रिभिर्नव ॥ ३.६ख ॥
यावत्प्रमाणा रज्जुस्तावतस्तावतो वर्गान्करोति ॥ ३.८क ॥
अर्धतृतीयपुरुषा षट्सपादान् ॥ ३.८ख ॥
अथात्यन्त प्रदेशः ॥ ३.९क ॥
यावता यावताधिकेन परिलिखति तत्पार्श्वयोरुपदधाति । यच्च तेन चतुरश्रं क्रियते तत्कोट्यां ॥ ३.९ख ॥
अर्धप्रमाणेन पादप्रमाणं विधीयते ॥ ३.१०क ॥
अर्धस्य द्विप्रमाणायाः पादपूरणत्वाथ् ॥ ३.१०ख ॥
तृतीयेन नवमी कला ॥ ३.१०ग ॥


आग्न्याधेयिके विहारे गार्हपत्याहवनीययोरन्तराले विज्ञायते ॥ ४.१क ॥
अष्टासु प्रक्रमेषु ब्राह्मणोऽग्निं आदधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः ॥ ४.१ख ॥
चतुर्विंशत्यां अपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरं आधेय इति सर्वेषां अविशेषेण श्रूयते ॥ ४.२ ॥
दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेर्विज्ञायते ॥ ४.३ ॥
गार्हपत्याहवनीययोरन्तरालं पञ्चधा षड्धा वा संविभज्य षष्ठं सप्तमं वा भागं आगन्तुं उपसमस्य समं त्रैधं विभज्यापरस्मिंस्तृतीये लक्षणं कृत्वा गार्हपत्याहवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति तद्दक्षिणाग्नेरायतनं । श्रुतिसामर्थ्याथ् ॥ ४.४ ॥
यजमानमात्री प्राच्यपरिमिता वा यथासन्नानि हवींषि संभवेदेवं तिरश्ची प्राञ्चौ वेद्यंसावुन्नयति । प्रतीची श्रोणी पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये संनततरैवं इव हि योषेति दार्शिक्या वेदेर्विज्ञायते ॥ ४.५ ॥
अपरेणाहवनीयं यजमानमात्री दीर्घं चतुरश्रं विहृत्य तावतीं रज्जुं आयम्य मध्ये लक्षणं कृत्वा दक्षिणयोः श्रोण्यंसयोरन्तरा नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति । निमित्ते रज्जुं नियम्यान्तौ समस्य । दक्षिणायाः श्रोणेर्दक्षिणं अंसं आलिखेत् । एवं उत्तरतः । तिर्यङ्मानीं द्विगुणां तथा कृत्वा पश्चात्पुरस्ताच्चोपलिखेत् । विमितायां पुरस्तात्पार्श्वमान्यावुपसंहरेत् । श्रुतिसामर्थ्याथ् ॥ ४.६ ॥


त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्वी भवति । षट्त्रिंशत्प्राची चतुर्विंशतिः पुरस्तात्तिरश्चीति स्ॐइक्या वेदेर्विज्ञायते ॥ ५.१ ॥
षट्त्रिंशिकायां अष्टादशोपसमस्य अपरस्मादन्ताद्द्वादशसु लक्षणं पञ्चदशसु लक्षणं पृष्ठ्यान्तयोरन्तौ नियम्य पञ्चदशकेन दक्षिणापायम्य शङ्कुं निहन्त्येवं उत्तरतःश्रोणी । विपर्यस्यांसौ पञ्चदशिकेनैवापायम्य द्वादशिके शङ्कुं निहन्ति । एवं उत्तरतस्तावंसौ ॥ ५.२क ॥
तदेकरज्ज्वा विहरणं ॥ ५.२ख ॥
त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुः । ताभिस्त्रिरभ्यस्ताभिरंसौ । चतुरभ्यस्ताभिःश्रोणी ॥ ५.३ ॥
द्वादशिकापञ्चिकयोस्त्रयोदशिकाक्ष्णयारज्जुः, ताभिरंसौ द्विरभ्यस्ताभिः श्रोणी ॥ ५.४ ॥
पञ्चदशिकाष्टिकयोः सप्तदशिकाक्ष्णयारज्जुः । ताभिःश्रोणी ॥ ५.५क ॥
द्वादशिकापञ्चत्रिंशिकयोः सप्तत्रिंशिकाक्ष्णयारज्जुः । ताभिरंसौ ॥ ५.५ख ॥
एतावन्ति ज्ञेयानि वेदिविहरणानि भवन्ति ॥ ५.६ ॥
अष्टविंशत्योनं पदसहस्रं महावेदिः ॥ ५.७क ॥
दक्षिणस्मादंसाद्द्वादशसु दक्षिणस्यां श्रोण्यां निपातयेत् । छेदं विपर्यस्योत्तरत उपदध्यात् । सा दीर्घा चतुरश्रा । तथा युक्तां संचक्षीत ॥ ५.७ख ॥
स्ॐइक्या वेदितृतीयदेशे यजेतेति सौत्रामण्या वेदेर्विज्ञायते ॥ ५.८क ॥
प्रक्रमास्य द्विकरणी प्रक्रमस्थानीया भवति त्रिकरण्या वा ॥ ५.८ख ॥
अष्टिका दशिकेति तिर्यङ्मान्यौ । द्वादशिका पृष्ठया ॥ ५.८ग ॥
त्रीणि चतुर्विंशानि पदशतानि सौत्रामणिकी वेदिः ॥ ५.९ ॥
द्विस्तावा वेदिर्भवतीत्यश्वमेधे विज्ञायते ॥ ५.१० ॥


प्रक्रमस्य द्विकरणी प्रकमस्थानीया भवति ॥ ६.१ ॥
प्रक्रमो द्विपदस्त्रिपदो वा । प्रक्रमे याथाकामी शब्दार्थस्य विशयित्वाथ् ॥ ६.२क ॥
यजमानस्याध्वर्योर्वा । एष हि चेष्टानां कर्ता भवति ॥ ६.२ख ॥
रथमात्री निरूढपशुबन्धस्य वेदिर्भवतीति विज्ञायते ॥ ६.३क ॥
तस्य खल्वाहू रथाक्षमात्री पश्चात्तिर्यगीषया प्राची । विपथयुगेन पुरस्ताथ् ॥ ६.३ख ॥
यावता वा बाह्ये छिद्रे ॥ ६.३ग ॥
तदेकरज्ज्वोक्तं । पञ्चदशिकेनैवापायम्यार्धाक्षेणार्धयुगेन श्रोण्यंसान्निर्हरेथ् ॥ ६.४ ॥
अथाप्युदाहरन्ति ॥ ६.५क ॥
अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशतं । षडशीतियुगं चास्य रथश्चारण उच्यते इति रथपरिमाणं ॥ ६.५ख ॥
अरत्निभिर्वा चतुर्भिः पश्चात्षड्भिः प्राची त्रिभिः पुरस्तात् । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्य द्वाभ्यां अध्यर्धेनेति श्रोण्यंसान्निर्हरेथ् ॥ ६.६ ॥
यजमानमात्री चतुःस्रक्तिर्भवतीति पैतृक्या वेदेर्विज्ञायते, तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेथ् ॥ ६.७ ॥
दशपदोत्तरा वेदिर्भवतीति सोमे विज्ञायते । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेथ् ॥ ६.८ ॥
तां युगेन यजमानस्य वा पदैर्विमाय शम्यया परिमिमीते ॥ ६.९ ॥
पदे युगेऽरत्नावियति शम्यायां च मानार्थेषु यथाकामी शब्दार्थस्य विशयित्वाथ् ॥ ६.१० ॥
विमितायां पुरस्तात्पार्श्वमान्या उपसंहरेत् । श्रुतिसामर्थ्याथ् ॥ ६.११ ॥


नवारत्नि तिर्यक्सप्तविंशतिरुदगायतं इति सदसो विज्ञायते ॥ ७.१ ॥
अष्ठादशेत्येकेषां ॥ ७.२ ॥
तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धपञ्चमैः श्रोण्यंसान्निर्हरेथ् ॥ ७.३ ॥
प्रादेशमुखाः प्रादेशान्तराला भवन्तीत्युपरवाणां विज्ञायते । अरत्निमात्रं चतुरश्रं विहृत्य स्रक्तिषु शङ्कून्निहत्यार्धप्रादेशेन तं तं परिलिखेच्छ्रुतिसामर्थ्याथ् ॥ ७.४ ॥
व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते ॥ ७.५ ॥
चतुरश्रेत्येकेषाम्, परिमण्डलेत्येकेषां ॥ ७.६ ॥
करणं व्यायामस्य तृतीयायामं सप्तमव्यासं कारयेथ् ॥ ७.७ ॥
ता एकविंशतिर्भवन्ति ॥ ७.८ ॥
प्रागायामाः प्रथमे प्रस्तारेऽपरस्मिन्नुदगायामाः ॥ ७.९ ॥
मण्डलायां मृदो देहं कृत्वा मध्ये शङ्कुं निहत्यार्धव्यायामेन सह मण्डलं परिलिखेथ् ॥ ७.१०क ॥
तस्मिंश्चतुरश्रं अवदध्याद्यावत्सम्भवेत्तन्नवधा व्यवलिख्य त्रैधं एकैकं प्रधिकं विभजेथ् ॥ ७.१०ख ॥
उपधाने चतुरश्रस्यावान्तरदेशान्प्रति स्रक्तीः सम्पादयेथ् ॥ ७.११क ॥
मध्यानीतरस्मिन्प्रस्तारे ॥ ७.११ख ॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥ ७.११ग ॥
पिशीलमात्रा भवन्तीति धिष्ण्यानां विज्ञायते ॥ ७.१२ ॥
चतुरश्रा इत्येकेषां परिमण्डला इत्येकेषां ॥ ७.१३ ॥
मृदो देहान्कृत्वाग्नीध्रीयं नवधा व्यवलिख्य, एकस्याः स्थानेऽश्मानं उपपध्याथ् ॥ ७.१४ ॥
यथासङ्ख्यं इतरा व्यवलिख्य यथायोगं उपदध्याथ् ॥ ७.१५ ॥


भवतीव खलु वा एष योऽग्निं चिनुते इति विज्ञायते । वयसां वा एष प्रतिमया चीयत इत्याकृतिचोदनात् । प्रत्यक्षविधानाद्वा ॥ ८.१ ॥
यावदाम्नानेन वेणुना चतुरश्रे आत्मनि पुरुषानवमिमोते ॥ ८.२क ॥
पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषं उत्तरे ॥ ८.२ख ॥
अरत्निना दक्षिणतो दक्षिणं पक्षं वर्धयति । एवं उत्तरत उत्तरं ॥ ८.२ग ॥
प्रादेशेन वितस्त्या वा पश्चात्पुच्छं ॥ ८.२घ ॥
एकविधः प्रथमोऽग्निर्द्विविधो द्वितीयस्त्रिविधस्तृतीयः त एवं एवोद्यन्त्यैकशतविधाथ् ॥ ८.३ ॥
तदु ह वै सप्तविधं एव चिन्वीत । सप्तविधो वाव प्राकृतोऽग्निः । तत ऊर्ध्वं एकोत्तरानिति विज्ञायते ॥ ८.४ ॥
एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति । सप्तविधवाक्यशेषत्वाच्छ्रुतिविप्रतिषेधाच्च ॥ ८.५ ॥
अष्टविधप्रभृतीनां यदन्यत्सप्तभ्यस्तत्सप्तधा विभज्य प्रतिपुरुषं आवेशयेथ् ॥ ८.६क ॥
आकृतिविकारस्याश्रुतत्वाथ् ॥ ८.६ख ॥
पुरुषमात्रेण विमिमीतेऽ वेणुना विमिमीते, इति विज्ञायते ॥ ८.७ ॥
यावान्यजमान ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति मध्ये तृतीयं ॥ ८.८ ॥
अपरेण यूपावटदेशं अनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कून्निहत्योन्मुच्यापराभ्यां दक्षिणाप्राक्परिलिखेदान्ताथ् ॥ ८.९ ॥
उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदान्ताथ् ॥ ८.१० ॥


उन्मुच्य वेणुं मध्यमे शङ्कावन्त्यं वेणोश्छिद्रं प्रतिमुच्योपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन्मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तयोरितरे प्रतिष्ठाप्य छिद्रयोः शङ्कू निहन्ति ॥ ९.१क ॥
स पुरुषश्चतुरश्रः ॥ ९.१ख ॥
एवं पुरदक्षिणं चतुर आत्मनि पुरुषानवमिमीते ॥ ९.२क ॥
पुरुषं दक्षिणे पक्षे । पुरुषं पुच्छे पुरुषं उत्तरे ॥ ९.२ख ॥
अरत्निना दक्षिणतो दक्षिणं इत्युक्तं ॥ ९.२ग ॥
पृष्ठ्यातो वा पुरुषमात्रस्याक्ष्णया वेणुं निधाय पूर्वस्मिन्नितरं । ताभ्यां दक्षिणं अंसं निर्हरेत् । विपर्यस्य श्रोणी ॥ ९.३क ॥
पूर्ववदुत्तरं अंसं ॥ ९.३ख ॥
रज्ज्वा वा विमायोत्तरवेदिन्यायेन वेणुना विमिमीते ॥ ९.४ ॥
सपक्षपुच्छेषु विधाभ्यासेऽपचये च विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेथ् ॥ ९.५ ॥
करणानाष्टकानां पुरुषस्य पञ्चमेन कारयेथ् ॥ ९.६क ॥
तासां एवैकतोऽध्यर्धास्तद्द्वितीयं । पुरुषस्य पञ्चमो भाग एकतः प्रादेश एकतः तत्तृतीयं ॥ ९.६ख ॥
सर्वतः प्रादेशस्तच्चतुर्थं । समचतुरश्राः पञ्चदशभागीयास्तत्पञ्चमं ॥ ९.६ग ॥
ऊर्व्ध्वप्रमाणमिष्टकानां जानोः जानोः पञ्चमेन कारयेथ् ॥ ९.७क ॥
अर्धेन नाकसदां पञ्चचूडानां च ॥ ९.७ख ॥
यत्पच्यमानानां प्रतिह्रसीत पुरीषेण तत्सम्पूरयेदनियतपरिमाणत्वात्पुरीषस्य ॥ ९.८ ॥


उपधानेऽध्यर्धा दश पुरस्तात्प्रतीचीरात्मन्युपदधाति । दश पश्चात्प्राचीः ॥ १०.१क ॥
पञ्चपञ्च पक्षाग्रयोः । पक्षाप्यययोश्च विशयास्तासां अर्धेष्टकामात्राणि पक्षयोर्भवन्ति ॥ १०.१ख ॥
पञ्चपञ्च पुच्छपार्श्वयोर्दक्षिणा उदीचीश्च ॥ १०.१ग ॥
पुच्छे प्रादेशं उपधाय सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् ॥ १०.२ ॥
पञ्चदशभागीयाभिः सङ्ख्यां पूरयेथ् ॥ १०.३ ॥
अपरस्मिन्प्रस्तारेऽध्यर्धा दश दक्षिणत उदीचीरात्मन्युपदधाति । दशोत्तरतो दक्षिणाः ॥ १०.४क ॥
यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छं । यथा पुच्छं तथा पक्षौ विपरीता अप्यये ॥ १०.४ख ॥
सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् ॥ १०.५ ॥
पञ्चदशभागीयाबिः सङ्ख्यां पूरयेथ् ॥ १०.६क ॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥ १०.६ख ॥
पञ्च चितयो भवन्ति । पञ्चभिः पुरीषैरभ्यूहतीति पुरीषान्ता चितिरर्थान्तरत्वात्पुरीषस्य ॥ १०.७ ॥
जानुदघ्नीं साहस्रं चिन्वीत प्रथमं चिन्वानः ॥ १०.८क ॥
नाभिदघ्नीं द्विषाहस्रं द्वितीयं आस्यदघ्नीं त्रिषाहस्रं तृतीयं उत्तरं उत्तरं ज्यायाम्सं ॥ १०.८ख ॥
महान्तं बृहन्तं अपरिमितं स्वर्गकामश्चिन्वीतेति विज्ञायते ॥ १०.८ग ॥
द्विषाहस्रे द्विप्रस्ताराश्चितयो भवन्ति । त्रिषाहस्र त्रिप्रस्ताराश्चतुर्थप्रभृतिष्वाहारेषु नित्यं इष्टकापरिमाणं ॥ १०.९ ॥
विज्ञायते च ःन ज्यायांसं चित्वा कनीयांसं चिन्वीतेतिऽ ॥ १०.१० ॥


चतुरश्राभिरग्निं चिनुत इति विज्ञायत । समचतुरश्रा अनुपपदत्वाच्छब्दस्य ॥ ११.१ ॥
पादमात्रयो भवन्ति अरत्निमात्रयो भवन्त्यूर्वस्थिमात्रयो भवन्त्यणूकमात्रयो भवन्तीति विज्ञायते ॥ ११.२ ॥
चतुर्भागीयमणूकं । पञ्चमभागीयारत्निः । तथोर्वस्थि ॥ ११.३क ॥
पादेष्टका पादमात्री ॥ ११.३ख ॥
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् ॥ ११.४ ॥
उपधानेऽष्टावष्टौ पादेष्टकाश्चतुर्भागीयानां पक्षाग्रयोर्निदध्यात् । सन्ध्योश्च तद्वदात्मानं षडङ्गुलापेताः ॥ ११.५क ॥
श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचिश्च ॥ ११.५ख ॥
सन्ध्यन्तराले पञ्चभागीयाः सपादाः ॥ ११.६ ॥
पुच्छे प्रादेशमुपधाय सर्वं अग्निं चतुर्भागीयाभिः प्रच्छादयेथ् ॥ ११.७ ॥
पादेष्टकाभिः संख्यां पूरयेथ् ॥ ११.८ ॥
अपरस्मिन्प्रस्तारे पुच्छाप्यये पञ्चमभागीया विशयाः ॥ ११.९क ॥
ता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्याथ् ॥ ११.९ख ॥
सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् ॥ ११.१० ॥
पादेष्टकाक्षिः सङ्ख्यां पूरयेथ् ॥ ११.११क ॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥ ११.११ख ॥


एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेथ् ॥ १२.१क ॥
पादेष्टकाश्च व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥ १२.१ख ॥
एकविधप्रभृतीनां प्रथमाहारेण द्वितीयेन तृतीयेनेति यो युज्येत । सर्वेषां यथा श्रुतिसङ्ख्या तथोर्ध्वप्रमाणं ॥ १२.२ ॥
काम्या गुणविकाराः गुणशास्त्रत्वाथ् ॥ १२.३ ॥
प्रौगचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥ १२.४ ॥
यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणीं प्रत्यालिखेत् । सा नित्या प्रौगं ॥ १२.५ ॥
कराणानि चयनं इत्येकविधोक्तं ॥ १२.६क ॥
प्रौगा इष्टकाः कारयेथ् ॥ १२.६ख ॥
उभययः प्रौगं चिन्वीत यः कामयेत प्रजातान्भ्रातृव्यान्नुदेय प्रतिजनिष्यमाणानिति विज्ञायते ॥ १२.७ ॥
यथा विमुखे शकटे ॥ १२.८ ॥
तावदेव तीर्घं चतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् । सा नित्योभभयतः प्रौगं ॥ १२.९ ॥
प्रौगचितोक्तीः (-क्तं) । उभयतः प्रौगा इष्टकाः कारयेथ् ॥ १२.१० ॥
रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥ १२.११ ॥
यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वा तस्मिंश्चतुरश्रं अवदध्याद्यावत्सम्भवेथ् ॥ १२.१२ ॥


तस्य करण्या द्वादशेनेष्टकाः कारयेथ् ॥ १३.१ ॥
तासां षट्प्रधावुपधाय शेषं अष्टधा विभजेथ् ॥ १३.२ ॥
उपधाने चतुरश्रस्यावान्तरदेशान्प्रति स्रक्तीः सम्पादयेत् । मध्यानीतरस्मिन्प्रस्तारे । व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥ १३.३ ॥
द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते ॥ १३.४ ॥
द्वयानि तु खलु द्रोणानि, चतुरश्राणि परिमण्डलानि च ॥ १३.५ ॥
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् ॥ १३.६ ॥
चतुरश्रं वा यस्य गुणशास्त्रं ॥ १३.७ ॥
स चतुरश्रः ॥ १३.८ ॥
पश्चात्त्सरुर्भवत्यनुरूपत्वायेति विज्ञायते ॥ १३.९ ॥
सर्वस्या भूमेर्दशमं त्सरुस्तस्य पुच्छेन निर्हार उक्तः ॥ १३.१० ॥
तस्य करण्या द्वादशेनेष्टकाः कारयेत् । अध्यर्धाः पादेष्टकाश्च ॥ १३.११ ॥
उपधानेऽध्यर्धाः पुरस्तात्प्रतीचीरात्मन्युपदधाति । त्सर्वर्गे श्रोण्योश्च प्राचीः ॥ १३.१२ ॥
सर्वं अग्निं चतुरश्राभिः प्रच्छादयेथ् ॥ १३.१३ ॥
पादेष्टकाभिः सङ्ख्यां पूरयेथ् ॥ १३.१४ ॥
अपरस्मिन्प्रस्तारेऽध्यर्धा दक्षिणत उदीचीरात्मन्युपदधात्युत्तरतश्च दक्षिणास्त्सरुपार्श्वयोर्दक्षिणा उतीचीश्च ॥ १३.१५ ॥
सर्वमग्निं चतुरश्राभिः प्रच्छादयेथ् ॥ १३.१६ ॥
पादेष्टकाक्षिः सङ्क्यां पूरयेथ् ॥ १३.१७ ॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥ १३.१८ ॥


समूह्यं चिन्वीत पशुकाम इति विज्ञायते ॥ १४.१ ॥
समूहन्नेवेष्टका उपदधाति ॥ १४.२ ॥
दिक्षु चात्वाला भवन्ति । तेभ्यः पुरषिमभ्युदूहतीति विज्ञायते ॥ १४.३ ॥
परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥ १४.४ ॥
मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति । स परियाय्यः ॥ १४.५ ॥
उपचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥ १४.६ ॥
परिचाय्येनोक्तः ॥ १४.७ ॥
श्मशानचितं चिन्वीत यः कामयेत्पितृलोक ऋध्नुयामिति विज्ञायते ॥ १४.८ ॥
द्वयानि खलु श्ममशानानि चतुरश्राणि परिमण्डलानि च ॥ १४.९ ॥
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् ॥ १४.१० ॥
चतुरश्रं वा । यस्य गुणशास्त्रं ॥ १४.११ ॥
स चतुरश्रः । त्सरुवर्जं द्रोणचितोक्तः ॥ १४.१२ ॥
छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते ॥ १४.१३ ॥
सर्वैश्छन्दोबिश्चिनुयादित्येकं । प्राकृतैरित्यपरं ॥ १४.१४ ॥


श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते ॥ १५.१ ॥
वक्रपक्षो व्यस्तपुच्छो भवति ॥ १५.२क ॥
पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङ्ङुदूहति । एवं इव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते ॥ १५.२ख ॥
यावानग्निः सारत्निप्रादेशः सप्तविधः संपद्यते । प्रादेशं चतुर्थं आत्मनश्चतुर्भागीयाश्चाष्टौ । तासां तिस्रः शिर इतरत्पक्षयोर्विभजेथ् ॥ १५.३ ॥
पञ्चारत्निः पुरुषः । चतुररत्निः व्यायामः । चतुर्विंशत्यङ्गुलयोऽरत्निः । तदर्धं प्रादेश इति क्ळ्प्तिः ॥ १५.४ ॥
अर्धदशमा अरत्नयोऽङ्गुलयश्च चतुर्भागोनाः पक्षायामः ॥ १५.५ ॥
द्विपुरुषां रज्जुं उभयतःपाशां करोति । मध्ये लक्षणं । पक्षस्यापरयोः कोट्योरन्तौ नियम्य लक्षणेन प्राचीनं आयच्छेदेवं पुरस्तात् । स निर्णामः ॥ १५.६ ॥
एतेनोत्तरः पक्षो व्याख्यातः ॥ १५.७ ॥
आत्मा द्विपुरुषायामोऽध्यर्धपुरुषव्यासः ॥ १५.८ ॥
पुच्छेऽर्धपुरुषव्यासं पुरुषं प्रतीचीनं आयच्छेत् । तस्य दक्षिणतोऽन्यं उत्तरतश्च ॥ १५.९क ॥
तावक्ष्णया व्यवलिखेत् । यथार्धपुरुषोऽप्यये स्याथ् ॥ १५.९ख ॥
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणयोर्निपातयेथ् ॥ १५.१० ॥


अप्ययान्प्रति श्रोण्यंसानपच्छिन्द्याथ् ॥ १६.१क ॥
एवं इव हि श्येनः ॥ १६.१ख ॥
करणं पुरुषस्य पञ्चमायामं षष्ठव्यासं कारयेद्यथायोगनतं तत्प्रथमं ॥ १६.२ ॥
ते द्वे प्राची संहिते । तद्द्वितीयं ॥ १६.३ ॥
प्रथमस्य षड्भागं अष्टभागेन वर्धयेत् । यथायोगनतं तत्तृतीयं ॥ १६.४ ॥
चतुर्भागीयाध्यर्धा । तस्याश्चतुर्भागीयामात्रं अक्ष्णया छिन्द्यात् । तच्चतुर्थं ॥ १६.५ ॥
चतुर्बागीयार्धं पञ्चमं ॥ १६.६ ॥
तस्याक्ष्णया भेदः षष्ठं ॥ १६.७ ॥
पुरुषस्य पञ्चमभागं दशभागव्यासं प्रतीचीनं आयच्छेत् । तस्य दक्षिणतोऽन्यं उत्तरतश्च । तावक्ष्णया दक्षिणॉअरयोः कोट्योरालिखेत् । तत्सप्तमं ॥ १६.८ ॥
एवमन्यत् । उत्तरं तूत्तरस्याः कोट्यालिखेत्तदष्टमं ॥ १६.९ ॥
चतुर्भागीयाक्ष्णयोभयतो भेदो नवमं ॥ १६.१० ॥
उपधाने षष्टिःषष्टिः पक्षयोः प्रथमा उदीचीर्निरुपदध्याथ् ॥ १६.११ ॥
पुच्छपार्श्वयोरष्टावष्टौ षठ्ययस्तिस्रोऽग्रे तत एकान्ततस्तिस्रः तत एका ॥ १६.१२ ॥
पुच्छाप्यये चतुर्थ्यौ विशये । तयोस्तु पश्चात्पञ्चम्यावनीकसंहिते ॥ १६.१२ ॥


शेषे दश चतुर्थ्यः श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचीश्च ॥ १७.१ ॥
शेषे च षड्विंशतिरष्टौ षष्टयश्चतस्रः पञ्चम्यः ॥ १७.२ ॥
शिरसि चतुर्थ्यौ विशये । तयोश्च पुरस्तात्प्राच्यौ ॥ १७.३ ॥
एष द्विशतः प्रस्तारः ॥ १७.४ ॥
अपरस्मिन्प्रस्तारे पञ्चपञ्च निर्णामयोर्द्वितीयाः । अप्यययोश्च तृतीया आत्मानं अष्टभागावेताः ॥ १७.५क ॥
शेषे पञ्चचत्वारिंशत्प्रथमाः प्राचीः ॥ १७.५ख ॥
पुच्छपार्श्वयोः पञ्चपञ्च सप्तम्यः ॥ १७.६क ॥
द्वितीयचतुर्थोश्चान्यतरतः प्रतिसंहितां एकैकां ॥ १७.६ख ॥
शेषे त्रयोदशाष्टम्यः ॥ १७.६ग ॥
श्रोण्यंसेषु चाष्टौ चतुर्थ्यो दक्षिणा उदीचीश्च ॥ १७.७क ॥
शेषे च विंशतिस्त्रिंशत्षष्ठयः एकां पञ्चमीं ॥ १७.७ख ॥
शिरसि चतुर्थ्यौ तयोश्च पुरस्ताच्चतस्रो नवम्यः ॥ १७.८ ॥
एष द्विशतप्रस्तारः ॥ १७.९ ॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥ १७.१० ॥


श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते ॥ १८.१ ॥
वक्रपक्षो व्यस्तपुच्छो भवति । पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङुदूहति । एवं इव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते ॥ १८.२ ॥
पुरुषस्य षोडशभिर्विंशं शतं सारत्निप्रादेशः सप्तविधः संपद्यते । तासां चत्वारिंशदात्मनि तिस्रः शिरसि पञ्चदश पुच्छ एकत्रिंशद्दक्षिणे पक्षे तथोत्तरे ॥ १८.३ ॥
अध्यर्धपुरुषस्तिर्यग्द्वावायामत इति दीर्घं चतुरश्रं विहृत्य श्रोण्यंसेभ्यो द्वे द्वे षोडस्यौ निरस्येत् । चत्वारिंशत्परिशिष्यन्ते । स आत्मा ॥ १८.४ ॥
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणोत्तरयोर्निपातयेथ् ॥ १८.५क ॥
तिस्रः परिशिष्यन्ते । तच्छिरः ॥ १८.५ख ॥
पुरुषस्तिर्यग्द्वावायामतः षोडशभागश्च दक्षिणः पक्षः । तथोत्तरः ॥ १८.६ ॥
पक्षाग्रेपक्षाग्रे पुरुषचतुर्थेन चत्वारि चतुरश्राणि कृत्वा तान्यक्ष्णया व्यवलिख्यार्धानि निरस्येत् । एकत्रिंशत्परिशिष्यन्ते ॥ १८.७ ॥
पक्षाग्रं उत्सृज्य मध्ये पक्षस्य प्राचीं लेखां आलिखेथ् ॥ १८.८क ॥
पक्षाप्यये पुरुषं नियम्य लेखायां पुरुषान्ते नितोदन्तुकुर्यात् । नितोदात्प्राचीनं पुरुषान्ते नितोदं नितोदयोर्नानान्तावालिखेत् । तत्पक्षिनमनं । एतेनोत्तरः पक्षो व्याख्यातः ॥ १८.८ख ॥


द्विपुरुषं पस्चादर्धपुरुषं पुरस्ताच्चतुर्भागोनः पुरुष आयामोऽष्टादशकरण्यो पार्श्वयोस्ताः पञ्चदशपरिगृह्णन्ति । तत्पुच्छं ॥ १९.१ ॥
षोडशीं चतुर्भिः परिगृह्णीयाथ् ॥ १९.२क ॥
अष्टमेन त्रिभिरष्टमैश्चतुर्थेन चतुर्थसविशेषेणेति ॥ १९.२ख ॥
अर्धेष्टकां त्रिभिर्द्वाभ्यां चतुर्थाभ्यां चतुर्थसविशेषेणेति ॥ १९.३ ॥
पादेष्टकां त्रिभिश्चतुर्थेनैकं चतुर्थसविशेषार्धाभ्यां चेति ॥ १९.४ ॥
पक्षेष्टकां चतुर्भिर्द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति ॥ १९.५ ॥
पक्षमध्यीयां चतुर्भिर्द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति ॥ १९.६ ॥
पक्षाग्रीयां त्रिभिश्चतुर्थेनैकं चतुर्थसप्तमाभ्यां एकं चतुर्थसविशेषसप्तमाभ्यां चेति ॥ १९.७ ॥
पक्षकरण्याःसप्तमं तिर्यङ्मानी । पुरुषचतुर्थं च पार्श्वमानी । तस्याक्ष्णया रज्ज्वा करणं प्रजृम्भयेथ् ॥ १९.८क ॥
पक्षनमन्याः सप्तमेन फलकानि नमयेथ् ॥ १९.८ख ॥
उपधाने चतस्रः पादेष्टकाः पुरस्ताच्छिरसि । अपरेण शिरसोऽप्ययं पञ्च । पूर्वेण पक्षाप्ययावेकादश । अपरेणैकादश पूर्वेण पुच्छाप्ययं पञ्चापरेण पञ्च पञ्चदश पुच्छाग्रे ॥ १९.९ ॥


चतस्रश्चतस्रः पक्षाग्रीयाः पक्षाग्रयोः पक्षाप्यययोश्च विशयाः ॥ २०.१ ॥
ता आत्मनि चतसृभिश्चतसृभिः षोडशीभिर्यथायोगं पर्युपदध्याथ् ॥ २०.२ ॥
चतस्रश्चतस्रः पक्षमध्यीयाः पक्षमध्ययोः ॥ २०.३ ॥
पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेथ् ॥ २०.४ ॥
अवशिष्टं षोडशीभिः प्राच्छादयेथ् ॥ २०.५क ॥
अन्त्या बाह्यविशेषा अन्यत्र शिरसः ॥ २०.५ख ॥
अपरस्मिन्प्रस्तारे पुरस्ताच्छिरसि द्वे षोडश्यौ बाह्यविशेषे उपदध्याथ् ॥ २०.६क ॥
तेऽपरेण द्वे विशये अभ्यन्तरविशेषे ॥ २०.६ख ॥
द्वाभ्यां अर्धेष्टकाभ्यां यथायोगं पर्युपदध्याथ् ॥ २०.७क ॥
बाह्यविशेषाभ्यां परिगृह्णीयाथ् ॥ २०.७ख ॥
आत्मनः करणीनां सन्धिषु षोडश्यो बाह्यविशेषा उपदध्याथ् ॥ २०.८ ॥
चतस्रश्चतस्रोऽर्धेष्टकाः पक्षाग्रयोः ॥ २०.९क ॥
पक्षेष्टकाभिरुदीचीभिः पक्षौ प्रच्छादयेथ् ॥ २०.९ख ॥
तिस्रस्तिस्रोऽर्धेष्टकाः पुच्छपार्श्वयोः ॥ २०.१० ॥
अवशिष्टं षोडशीभिः प्रच्छादयेथ् ॥ २०.११क ॥
अन्त्या बाह्यविशेषा अन्यत्र पुच्छाथ् ॥ २०.११ख ॥
यच्चतुरश्रं त्र्यश्रं वा संपद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेथ् ॥ २०.१२ ॥
अणूकाः पञ्चदशभागीयानां स्थाने ॥ २०.१३ ॥
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् ॥ २०.१४ ॥


कङ्कचिदलजचिदिति श्येनचिता व्याख्यातौ ॥ २१.१ ॥
एवमि व हि श्येनस्य वर्षीयांसौ पक्षौ पुच्छाद्वक्रौ संनतं पुच्छं दीर्घ आत्मा मण्डलं शिरश्च । तस्माच्छ्रुतिसामर्थ्याथ् ॥ २१.२क ॥
अशिरस्को वानाम्नानाथ् ॥ २१.२ख ॥
ज्ञायते च । कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत सशीर्षोऽमुष्मिंल्लोके संभवेयं इति विद्यमाने कथं ब्रूयाथ् ॥ २१.३ ॥
प्राकृतौ वक्रौ पक्षौ संनतं पुच्छं विकारश्रवणाथ् ॥ २१.४क ॥
यथाप्रकृत्यात्माविकाराथ् ॥ २१.४ख ॥
यथो एतच्छेयनचितं चिन्वीतेति । यावदाम्नानसारूप्यं तद्व्याख्यातं ॥ २१.५ ॥
त्रिस्तावोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥ २१.६ ॥
तत्र सर्वाब्यासोऽविशेषाथ् ॥ २१.७ ॥
दीर्घचतुरश्राणां समासेन पक्षपुच्छानां समास उक्तः ॥ २१.८ ॥
एकविंशोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥ २१.९ ॥
तत्र पुरुषाभ्यासो नारत्निप्रादेशानां सङ्ख्यासंयोगात्सङ्ख्यासंयोगाथ् ॥ २१.१० ॥

श्रेणी:गणित

"https://sa.wikibooks.org/w/index.php?title=आपस्तम्ब_शुल्बसूत्र&oldid=6295" इत्यस्माद् पुनः प्राप्तिः