आमुखम्
आयुर्वेदग्रन्थेषु विद्यमानानि नाना सूत्राणि अस्य पुस्तकस्य विषयH।
ज्ञानवैमल्यं ज्ञानदार्ढ्यं चास्य प्रयोजनम्।
आयुर्वेदस्य अध्येता अस्य अधिकारी।
अध्ययनम् अध्यापनं तद्विद्यसम्भाषा इति त्रयो मार्गाH चरकाचार्येण शास्त्रस्य ज्ञानार्थम् उक्ताः ।एतेषु तद्विद्यसम्भाषामार्गः अत्र ज्ञानवैमल्यार्थम् ज्ञानदार्ढ्यार्थं च अवलम्ब्यते।
एकं शास्त्रम् अधीयानो न विद्यात् शास्त्रनिश्चयम्।
तस्माद् बहुश्रुतः शास्त्रं विजानीयात् चिकित्सकः॥
इति सुश्रुतवचनं विद्यते ।अतः आयुर्वेदस्य अध्ययने शास्त्रान्तराणां साहाय्यम् अवश्यं स्वीकार्यम्।तथा अत्र आयुर्वेदसूत्राणाम् अर्थकरणे न्याय-मीमांसा-व्याकरणादिशास्त्राणां साहाय्यम् प्रचुरमात्रया स्वीकृतम्। ‘आयुर्वेदे शास्त्रान्तराणाम् उपयोगः’ इति एषा रीतिः प्राचीनानाम् ऋषीणाम् अभिप्रेता एव। अद्य सा दुर्लक्षिता इव। अधुनातनानां विदुषां तद्विषये चिन्तनप्रचोदनम् इति एतस्य पुस्तकस्य अवान्तरप्रयोजनं विद्यते।
मतभेदः कामं स्यात्, मनोभेदः न स्यात् ।अतः अस्मिन् ग्रन्थे ‘सन्धाय सम्भाषा’ इति स्वरूपं यत्नेन रक्षितम्।
पूर्वमीमांसायाम् उत्तरमीमांसायां च अधिकरणपद्धत्या विषय़ः वर्य्कते।सा एव रीतिः अत्र स्वीकृता।अधिकरणस्य पञ्च अङ्गानि सन्ति-
विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्।निर्णयश्चेति पञ्चाङ्गं सूत्रेऽधिकरणं विदुः॥
अनया रीत्या सुदीर्घः सूक्मः च ऊहापोहः भवति। तेन विषय़ः विशदतरः जायते।
भिषग् भिषजा सह