आरम्भणाधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

तदनन्यत्वमारम्भणशब्दादिभ्य:।२.१.१४
वेदान्ती- पूर्वसूत्रे यत्समाधानमुक्तं, भोक्तृभोग्यविभाग: लोकवदभ्युपगम्यत इति, तत्तु व्यावहारिकं समाधानम्।न परमार्थतो भोक्तृभोग्यविभागोऽस्ति, तयोरनन्यत्वात्।
पूर्वपक्ष: - भोक्तृभोग्यविभागस्य अनन्यत्वे किं प्रमाणम्?
वेदान्ती - आरम्भणशब्दादय:।एकविज्ञानेन सर्वविज्ञानं भवतीति प्रतिपादनावसरे आरम्भणशब्दस्य प्रयोगो दृश्यते – ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्।– (छा.६.१.१) वाचैव केवलमस्तीत्यारभ्यते वाचारम्भणम्।न तु वस्तुवृत्तेन विकारो नाम कश्चनास्ति।नामधेयमात्रमेतदनृतम्।मृत्तेकेत्येव सत्यम्।अत्र दृष्टान्तो मृत्तिका, दार्ष्टान्तिकं ब्रह्म।

भावे चोपलब्धे:।२.१.१५
वेदान्ती - कारणस्य भावे सति एव कार्यस्योपलब्धिर्भवति।अतोऽपि ब्रहमजगतोरनन्यत्वम्।

सत्त्वाच्चावरस्य।२.१.१६

वेदान्ती - अवरं नाम कार्यम्।तस्योत्पत्ते: प्रागपि सत्त्वं श्रुत्या बोधितम्-
सदेव सोम्य इदमग्रासीत्। छा.६.२.१
आत्मा वा इदमेक एवाग्र आसीत्। ऐ.आ. २.४.१.१
इत्यत्र इदंशब्देन कार्यं गृह्यते।तस्य कारणेन सह सामानाधिकरण्यम्।कारणात्मना कार्यं सत्।सत् च एकमेव।अत: कार्यकारणयो: सत्समानाधिकरणयो: अनन्यत्वं सिद्ध्यति।

असद्व्यपदेशान्नेति चेत्, न धर्मान्तरेण वाक्यशेषात्।२.१.१७

पूर्वपक्ष:- क्वचिदुत्पत्ते: प्रागसदासीदित्यपि श्रूयते- असदेवेदमग्र आसीत् (छा. ३.१९.१)
असद्वेदमग्र आसीत् (तै. २.७.१)
वेदान्ती –न| न ह्ययमत्यन्तासत: कार्यस्य व्यपदेश:।किं तर्हि? व्याकृतनामरूपं जगतो धर्म:। अव्याकृतनामरूपत्वं धर्मान्तरम्।तेन धर्मान्तरेणायं व्यपदेश:।
पूर्वपक्ष:- कुत:?
वेदान्ती - वाक्यशेषात्। उपक्रमे सन्दिग्धार्थं वाक्यं तच्छेषेण निश्चीयते।असद्वेदमग्र आसीदित्यत्र तदात्मानं स्वयमकुरुत इति वाक्यशेष:।न हि तेन उपक्रमे अत्यन्तासत्त्वं वक्तुं शक्यते।
असदेवेदमग्र आसीदित्यत्र निर्दिष्टमसदेव पुन: तच्छब्देन परामृश्योक्तं ‘तत्सदासीत्’ इति।अत: एतदसत्त्वं धर्मान्तरेण विवक्षितं, न आत्यन्तिकम्।

युक्ते: शब्दान्तराच्च। २.१.१८
वेदान्ती - प्रागुत्पत्ते: कार्यस्य सत्त्वं कारणादनन्यत्वं च युक्ते: गम्यते, शब्दान्तराच्च गम्यते।
पूर्वपक्ष:- का युक्ति:?
वेदान्ती - दध्याद्यर्थिभि: प्रतिनियतं क्षीरादिकारणमेव गृह्यते।दध्यर्थी न मृदुपादत्ते।घटार्थी च न क्षीरमुपादत्ते। अत: कार्यं प्रागुत्पत्ते: सत्।कार्यकारणयोश्च गोमहिषवद् भेदबुद्धे: अभावात् तादात्म्यमङ्गीकरणियम्।
पूर्वपक्ष:- कार्यकारणयो: समवाय: सम्बन्ध: किमिति नाङ्गीक्रियते?
वेदान्ती - तथाङ्गीकारे समवायस्य समवायिना सह कश्चन सम्बन्ध: कल्पनीय:।तस्यापि पुन: समवायिना सह सम्बन्धान्तरं कल्पनीयम्।एवमनवस्था दोष: आपद्यते।
पूर्वपक्ष: – नापद्यते। समवाय: स्वयं सम्बन्धस्वरूप:।अतो न सम्बन्धान्तरमपेक्षते।

वेदान्ती - संयोगोऽपि सम्बन्धस्वरूप:।स द्रव्ये समवायसम्बन्धेन वर्तते।अत: यत्र सम्बन्धत्वं तत्र सम्बन्धान्तरानपेक्षत्वमिति व्याप्तिरसिद्धा।अस्यापेक्षया वरं तादात्म्यसम्बन्ध:।तेन कार्यकारणयोरनन्यत्वं सिद्ध्यति।
पूर्वपक्ष: - अस्तु एतत्।शब्दान्तरात् कथं सिद्ध्यति?
वेदान्ती - शब्दान्तरं नामान्य: शब्द:।पूर्वसूत्रेऽसद्व्यपदेशी शब्दो विद्यते, अत: शब्दान्तरं नाम सद् इति शब्द:- सदेव सोम्य इदमग्र आसीदेकमेवाद्वितीयम् इति।अत्र इदंशब्दवाच्यं कार्यम्।तस्य प्रागुत्पत्ते: विद्यते सत्।तत् कारणम्।इदं तथा सद् इति एतयो: अनन्यत्वमेवं शब्दान्तरात् सिद्ध्यति।

पटवच्च।२.१.१९
पूर्वपक्ष:- परमाणुकारणवादे को दोष:?
वेदान्ती -अणुरण्वन्तरेण संयुज्यमान: निरवयवोऽस्ति चेत् कार्त्स्न्येन संयुज्येत।तत: प्रथिमा न सम्भवति।अथ एकदेशेन संयुज्येत, तदा निरवयवत्वप्रतिपादकशब्दव्याकोप:।एवं स्वपक्षे समान: दोष:।नात: अन्यतरस्मिन्पक्षे दोष उपक्षेप्तव्य:।ब्रह्मकारणवादे दोषस्तु अस्माभि: परिहृत:।
वेदान्ती - यथा संवेष्टित: पट: व्यक्तं न गृह्यते।स एव प्रसारित: सन् गृह्यते।न च संवेष्टितादन्य: प्रसारित: पट:।तद्वत् न कारणादन्यत्कार्यम्।

यथा च प्राणादि।२.१.२०
वेदान्ती - यथा प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु, कारणमात्रं प्राणादि विद्यते।तेषु प्रवृत्तेषु कार्यरूपा: प्राणादय: निर्वर्तन्ते।न च प्राणभेदानां प्राणादनन्यत्वं, समीरणस्वभावविशेषात्।तथैव कार्यस्य कारणादनन्यत्वम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   द्वितीयाध्याये प्रथम: पाद:
"https://sa.wikibooks.org/w/index.php?title=आरम्भणाधिकरणम्&oldid=5600" इत्यस्माद् प्रतिप्राप्तम्