आर्या-सप्तशती

विकिपुस्तकानि तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

गोवर्धनाचार्य-विरचिता आर्या-सप्तशती


॥ श्रीः ॥


अन्तर्विषयाः

ग्रन्थारम्भ-व्रज्या[सम्पाद्यताम्]

पाणि-ग्रहे पुलकितं वपुर् ऐशं भूति-भूषितं जयति ।
अङ्कुरित इव मनो-भूर् यस्मिन् भस्मावशेषो ऽपि ॥आस *१॥

मा वम संवृणु विषम् इदम् इति सातङ्कं पितामहेनोक्तः ।
प्रातर् जयति सलज्जः कज्जल-मलिनाधरः शम्भुः ॥आस *२॥

जयति प्रिया-पदान्ते गरल-ग्रैवेयकः स्मरारातिः ।
विषम-विशिखे विशन्न् इव शरणं गल-बद्ध-करवालः ॥आस *३॥

जयति ललाट-कटाक्षः शशि-मौलेः पक्ष्मलः प्रियाग्रणतौ ।
धनुषि स्मरेण निहितः स-कण्टकः केतकेषुर् इव ॥आस *४॥

जयति जटा-किञ्जल्कं गङ्गा-मधु मुण्ड-वलय-बीजम् अयम् ।
गल-गरल-पङ्क-सम्भवम् अभोरुहम् आननं शम्भोः ॥आस *५॥

सन्ध्या-सलिलाञ्जलिम् अपि कङ्कण-फणि-पीयमानम् अविजानन् ।
गौरी-मुखार्पित-मना विजया-हसितः शिवो जयति ॥आस *६॥

प्रतिबिम्बित-गौरी-मुख-विलोकनोत्कम्प-शिथिल-कर-गलितः ।
स्वेद-भर-पूर्यमाणः शम्भोः सलिलाज् जलिर् जयति ॥आस *७॥

प्रणय-कुपित-प्रिया-पद-लाक्षा-सन्ध्यानुबन्ध-मधुरेन्दुः ।
तद्-वलय-कनक-निकष-ग्राव-ग्रीवः शिवो जयति ॥आस *८॥

पूर्ण-नखेन्दुर् द्विगुणित-मञ्जीरा प्रेम-शृङ्खला जयति ।
हर-शशि-लेखा गौरी-चरणाङ्गुलि-मध्य-गुल्फेषु ॥आस *९॥

श्री-कर-पिहितं चक्षुः सुखयतु वः पुण्डरीक-नयनस्य ।
जघनम् इवेक्षितुम् आगतम् अब्ज-निभं नाभि-सुषिरेण ॥आस *१०॥

श्यामं श्री-कुच-कुङ्कुम-पिञ्जरितम् उरो मुरद्विषो जयति ।
दिन-मुख-नभ इव कौस्तुभ-विभाकरो यद् विभूषयति ॥आस *११॥

प्रतिबिम्बित-प्रिया-तनु स-कौस्तुभं जयति मधुभिदो वक्षः ।
पुरुषायितम् अभ्यस्यति लक्ष्मीर् यद् वीक्ष्य मुकुरम् इव ॥आस *१२॥

केलि-चलाङ्गुलि-लम्भित-लक्ष्मी-नाभिर् मुरद्विषश् चरणः ।
स जयति येन कृता श्रीर् अनुरूपा पद्मनाभस्य ॥आस *१३॥

रोमावली मुरारेः श्रीवत्स-निषेविताग्र-भागा वः ।
उन्नाल-नाभि-नलिन-च्छायेवोत्तापम् अपहरतु ॥आस *१४॥

आदाय सप्त-तन्त्रोचितां विपञ्चीम् इव त्रयीं गायन् ।
मधुरं तुरङ्ग-वदनोचितं हरिर् जयति हय-मूर्धा ॥आस *१५॥

स जयति महाबाहो जल-निधि-जठरे चिरं निमग्नापि ।
येनान्त्रैर् इव सह फणि-गणैर् बलाद् उद्धृता धरणी ॥आस *१६॥

ब्रह्माण्ड-कुम्भकारं भुजगाकारं जनार्दनं नौमि ।
स्फारे यत्-फण-चक्रे धरा शराव-श्रियं वहति ॥आस *१७॥

चण्डी-जङ्घा-काण्डः शिरसा चरण-स्पृशि प्रिये जयति ।
शङ्कर-पर्यन्त-जितो विजय-स्तम्भः स्मरस्येव ॥आस *१८॥

उन्नाल-नाभि-पङ्केरुह इव येनावभाति शम्भुर् अपि ।
जयति पुरुषायितायास् तद्-आननं शैल-कन्यायाः ॥आस *१९॥

अङ्क-निलीन-गजानन-शङ्काकुल-बाहुलेय-हृत-वसनौ ।
स-स्मित-हर-कर-कलितौ हिम-गिरि-तनया-स्तनौ जयतः ॥आस *२०॥

कण्ठोचितो ऽपि हुङ्कृति-मात्र-निरस्तः पदान्तिके पतितः ।
यस्याश् चन्द्र-शिखः स्मर-भल्ल-निभो जयति सा चण्डी ॥आस *२१॥

देवेऽर्पित-वरण-स्रजि बहुमाये वहति कैटभी-रूपम् ।
जयति सुरासुर-हसिता लज्जा-जिह्मेक्षणा लक्ष्मीः ॥आस *२२॥

तान् असुरान् अपि हरिम् अपि तं वन्दे कपट-कैटभी-रूपम् ।
यैर् यद् बिम्बाधर-मधु-लुब्धैः पीयुषम् अपि मुमुचे ॥आस *२३॥

तल्पी-कृताहिर् अगणित-गरुडो हाराभिहत-विधिर् जयति ।
फण-शत-पीत-श्वासो रागान्धायाः श्रियः केलिः ॥आस *२४॥

स्मेरान् अनेन हरिणा यत् स्पृहम् आकार-वेदिनाकलितम् ।
जयति पुरुषायितायाः कमलायाः कैटभी-ध्यानम् ॥आस *२५॥

कृत-कान्त-केलि-कुतुक-श्री-शीत-श्वास-सेक-निद्राणः ।
घोरित-विततालि-रुतो नाभि-सरोजे विधिर् जयति ॥आस *२६॥

एक-रद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्च-कर ।
जय षण्-मुख-नुत सप्त-च्छद-गन्धि-मदाष्ट-तनु-तनय ॥आस *२७॥

मङ्गल-कलश-द्वय-मय-कुम्भम् अदम्भेन भजत गज-वदनम् ।
यद्-दान-तोय-तरलैस् तिल-तुलनालम्बि रोलम्बैः ॥आस *२८॥

याभिर् अनङ्गः साङ्गी-कृतः स्त्रियो ऽस्त्री-कृताश् च ता येन ।
वामाचरण-प्रवणौ प्रणम्ततौ कामिनी-कामौ ॥आस *२९॥

विहित-घनालङ्कारं विचित्र-वर्णावली-मय-स्फुरणम् ।
शक्रायुधम् इव वक्रं वल्मीक-भुवं कविं नौमि ॥आस *३०॥

व्यास-गिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।
भूषणयैव सञ्ज्ञां यद् अङ्कितां भारती वहति ॥आस *३१॥

सति काकुत्स्थ-कुलोन्नति-कारिणि रामायणे किम् अन्येन ।
रोहति कुल्या गङ्गा-पूरे किं बहुरसे वहति ॥आस *३२॥

अतिदीर्घ-जीवि-दोषाद् व्यासेन यशो ऽपहारितं हन्त ।
कैर् नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥आस *३३॥

श्री-रामायण-भारत-बृहत्-कथानां कवीन् नमस्कुर्मः ।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर् भिन्ना ॥आस *३४॥

साकूत-मधुर-कोमल-विलासिनी-कण्ठ-कूजित-प्राये ।
शिक्ष-समयेऽपि मुदे रत-लीला-कालिदासोक्ती ॥आस *३५॥

भवभूतेः सम्बन्धाद् भूधर-भूर् एव भारती भाति ।
एतत्-कृत-कारुण्ये किम् अन्यथा रोदिति ग्रावा ॥आस *३६॥

जाता शिखण्डिनी प्राग् यथा शिखण्डी तथावगच्छामि ।
प्रागल्भ्यम् अधिकम् आप्तुं वाणी बाणो बभूवेति ॥आस *३७॥

यं गणयति गुरोर् अनु यस्यास् ते धर्म-कर्म सङ्कुचितम् ।
कविम् अहम् उशनसम् इव तं तातं नीलाम्बरं वन्दे ॥आस *३८॥

सकल-कलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुद-बन्धोश् च ।
सेन-कुल-तिल-भूपतिर् एको राका-प्रदोषश् च ॥आस *३९॥

काव्यस्याक्षर-मैत्री-भाजो न च कर्कशा न च ग्राम्याः ।
शब्दा अपि पुरुषा अपि साधव एवार्थ-बोधाय ॥आस *४०॥

वंशे घुण इव न विशति दोषो रस-भाविते सतां मनसि ।
रसम् अपि तु न प्रतीच्छति बहु-दोषः सन्निपातीव ॥आस *४१॥

विगुणो ऽपि काव्य-बन्धः साधूनाम् आननं गतः स्वदते ।
फूत्कारो ऽपि सुवंशैर् अनूद्यमानः श्रुतिं हरति ॥आस *४२॥

स्वयम् अपि भूरि-च्छिद्रश् चापलम् अपि सर्वतोमुखं तन्वन् ।
तितौस् तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥आस *४३॥

अन्तर्-गूढानर्थानव्यञ्जयतः प्रसाद-रहितस्य ।
सन्दर्भस्य नदस्य च न रसः प्रीत्यै रस-ज्ञानाम् ॥आस *४४॥

यदसेवनीयम् असताम् अमृत-प्रायं सुवर्ण-विन्यासम् ।
सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥आस *४५॥

सत्-कवि-रसना-शूर्पी-निस्तुषतर-शब्द-शालि-पाकेन ।
तृप्तो दयिताधरम् अपि नाद्रियते का सुधा दासी ॥आस *४६॥

अकलित-शब्दालङ्कृतिर् अनुकूला स्खलि-पद-निवेशापि ।
अभिसारिकेव रमयति सूक्तिः सोत्कर्ष-शृङ्गारा ॥आस *४७॥

अध्वनि पद-ग्रह-परं मदयति हृदयं न वा न वा श्रवणम् ।
काव्यम् अभिज्ञ-सभायां मञ्जीरं केलि-वेलायाम् ॥आस *४८॥

आस्वादित-दयिताधर-सुधा-रसस्यैव सूक्तयो मधुराः ।
अकलित-रसाल-मुकुलो न कोकिलः कलम् उदञ्चयति ॥आस *४९॥

बाला-कटाक्ष-सूत्रितम् असती-नेत्र-त्रिभाग-कृत-भाष्यम् ।
कवि-माणवका दूती-व्याख्यातम् अधीयते भावम् ॥आस *५०॥

मसृण-पद-गीति-गतयः सज्जन-हृदयाभिसारिकाः सुरसाः ।
मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥आस *५१॥

वाणी प्राकृत-समुचित-रसा बलेनैव संस्कृतं नीता ।
निम्नानुरूप-नीरा कलिन्द-कन्येव गगन-तलम् ॥आस *५२॥

आर्या-सप्तशतीयं प्रगल्भ-मनसाम् अनादृता येषाम् ।
दूती-रहिता इव ते न कामिनी-मनसि निविशन्ते ॥आस *५३॥

रत-रीति-वीत-वसना प्रियेव शुद्धापि वाङ्-मुदे सरसा ।
अरसा सालङ्कृतिर् अपि न रोचते शालभञ्जीव ॥आस *५४॥

इति ग्रन्थारम्भ-व्रज्या समाप्ता ।


अ-कार-व्रज्या[सम्पाद्यताम्]

अवधि-दिनावधि-जीवाः प्रसीद जीवन्तु पथिक-जनजायाः ।
दुर्लङ्घ्य-वर्त्म-शैलौ स्तनौ पिधेहि प्रपापालि ॥आस १॥

अतिवत्सला सुशीला सेवा-चतुरा मनो ऽनुकूला च ।
अजनि विनीता गृहिणी सपदि सप्त्नी-स्तनोद्भेदे ॥आस २॥

अयि कूल-निचुल-मूलोच्छेदन-दुःशील-वीचि-वाचाले ।
बक-विघस-पङ्क-सारा न चिरात् कावेरि भवितासि ॥आस ३॥

अयि विविध-वचन-रचने ददासि चन्द्रं करे समानीय ।
व्यसन-दिवसेषु दूति क्व पुनस् त्वं दर्शनीयासि ॥आस ४॥

अस्तु म्लानिर् लोको लाञ्छनम् अपदिशतु हीयताम् ओजः ।
तद् अपि न मुञ्चति स त्वां वसुधा-छायाम् इव सुधांशुः ॥आस ५॥

अतिचापलं वितन्वन्न् अन्तर्निविशन् निकाम-काठिन्यः ।
मुखरयसि स्वयम् एतां सद्-वृत्तां शङ्कुर् इव घण्टाम् ॥आस ६॥

अङ्गेषु जीर्यति परं खञ्जन-यूनोर् मनोभव-प्रसरः ।
न पुनर् अनन्तर्-गर्भित-निधिनि धरा-मण्डले केलिः ॥आस ७॥

अन्धत्वम् अन्ध-समये बधिरत्वं बधिर-काल आलम्ब्य ।
श्री-केशवयोः प्रणयी प्रजापतिर् नाभि-वास्तव्यः ॥आस ८॥

अयि कोष-कार कुरुषे वनेचराणां पुरो गुणोद्गारम् ।
यन् न विदार्य विचारित-जठरस् त्वं स खलु ते लाभः ॥आस ९॥

अगणित-महिमा लङ्घित-गुरुर् अधनेहः स्तनन्धय-विरोधी ।
इष्टाकीर्तिस् तस्यास् त्वयि रागः प्राण-निरपेक्षः ॥आस १०॥

अपराधाद् अधिकं मां व्यथयति तव कपट-वचन-रचनेयम् ।
शस्त्राघातो न तथा सूची-व्यध-वेदना यादृक् ॥आस ११॥

असती-लोचन-मुकुरे किम् अपि प्रतिफलति यन् मनोवर्ति ।
सारस्वतम् अपि चक्षुः सतिमिरम् इव तन् न लक्षयति ॥आस १२॥

अन्य-मुखे दुर्वादो यः प्रिय-वदने स एव परिहासः ।
इतरेन्धन-जन्मा यो धूमः सो ऽगुरुभवो धूपः ॥आस १३॥

अयि सुभग कुतुक-तरला विचरन्ती सौरभानुसारेण ।
त्वयि मोहाय वराकी पतिता मधुपीव विष-कुसुमे ॥आस १४॥

अयि मुग्ध-गन्ध-सिन्धुर-शङ्का-मात्रेण दन्तिनो दलिताः ।
उपभुञ्जते करेणूः केवलम् इह मत्-कुणाः करिणः ॥आस १५॥

अतिविनय-वामन-तनुर् विलङ्घते गेह-देहलीं न वधूः ।
अस्याः पुनर् आरभटीं कुसुम्भवाटी विजानाति ॥आस १६॥

अन्तर्-गतैर् गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।
स गुणो गीतेर् यद् असौ वनेचरं हरिणम् अपि हरति ॥आस १७॥

अलुलित-सकल-विभूषां प्रातर् बालां विलोक्य मुदितं प्राक् ।
प्रिय-शिरसि वीक्ष्य यावकम् अथ निःश्वसितं सपत्नीभिः ॥आस १८॥

अयि लज्जावति निभर-निशीथ-रत-निःसहाङ्गि सुख-सुप्ते ।
लोचन-कोकनद-च्छदम् उन्मीलय सुप्रभातं ते ॥आस १९॥

अमिलित-वदनम् अपीडित-वक्षोरुहम् अतिविदूर-जघनोरु ।
शपथ-शतेन भुजाभ्यां केवलम् आलिङ्गितो ऽस्मि तया ॥आस २०॥

अतिपूजित-तारेयं दृष्टिः श्रुति-लङ्घन-क्षमा सुतनु ।
जिन-सिद्धान्त-स्थितिर् इव स-वासना कं न मोहयति ॥आस २१॥

अलम् अविषय-भय-लज्जा-वञ्चितम् आत्मानम् इयम् इयत् समयम् ।
नव-परिचित-दयित-गुणा शोचति नालपति शयन-सखीः ॥आस २२॥

अनुराग-वर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।
त्रिपुर-रिपुणेव गौरी वर-तनुर् अर्धावशिष्टैव ॥आस २३॥

अन्य-प्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।
तद्-गतिम् इच्छन्त्यः सखि भवन्ति विफल-श्रमाः हास्याः ॥आस २४॥

अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् ।
स लुठति विरहे जीवः कण्ठेऽस्यास् त्वम् इव सम्भोगे ॥आस २५॥

अनयन-पथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।
म्लानैव केवलं निशि तपन-शिला वासरे ज्वलति ॥आस २६॥

अविभाव्यो मित्रेऽपि स्थिति-मात्रेणैव नन्दयन् दयितः ।
रहसि व्यपदेशाद् अयम् अर्थः इवाराजके भोग्यः ॥आस २७॥

अश्रौषीर् अपराधान् मम तथ्यं कथय मन्-मुखं वीक्ष्य ।
अभिधीयते न किं यदि न मान-चौराननः कितवः ॥आस २८॥

अन्योन्यम् अनु स्रोतसम् अन्यद् अथान्यत् तटात् तटं भजतोः ।
उदितेऽर्केऽपि न माघ-स्नानं प्रसमाप्यते यूनोः ॥आस २९॥

अयि चूत-वल्लि फल-भर-नताङ्गि विष्वग्-विकासि-सौरभ्ये ।
श्वपच-घट-कर्पराङ्का त्वं किल फलितापि विफलैव ॥आस ३०॥

अञ्जलिर् अकारि लोकैर् म्लानिम् अनाप्तैव रञ्जिता जगती ।
सन्ध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥आस ३१॥

अगृहीतानुनयां माम् उपेक्ष्य सख्यो गता बतैकाहम् ।
प्रसभं करोषि मयि चेत् त्वद् उपरि वपुर् अद्य मोक्ष्यामि ॥आस ३२॥

अस्थिर-रागः कितवो मानी चपलो विदूषकस् त्वम् असि ।
मम सख्याः पतसि करे पश्यामि यथा ऋजुर् भवसि ॥आस ३३॥

अकरुण कातर-मनसो दर्शित-नीरा निरन्तरालेयम् ।
त्वाम् अनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥आस ३४॥

अन्तः-कलुष-स्तम्भित-रसया भृङ्गारनालयेव मम ।
अप्य् उन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥आस ३५॥

अयि सरले सरल-तरोर् मद-मुदित-द्विप-कपोल-पालेश् च ।
अन्योन्य-मुग्ध-गन्ध-व्यतिहारः कषणम् आचष्टे ॥आस ३६॥

अस्याः कर-रुह-खण्डित-काण्ड-पट-प्रकट-निर्गता दृष्टिः ।
पट-विगलित-निष्कलुषा स्वदते पीयूष-धारेव ॥आस ३७॥

अस्याः पति-गृह-गमने करोति माताश्रु-पिच्छिलां पदवीम् ।
गुण-गर्विता पुनर् असौ हसति शनैः शुष्क-रुदित-मुखी ॥आस ३८॥

अङ्के निवेश्य कूणित-दृशः शनैर् अकरुणेति शंसन्त्याः ।
मोक्ष्यामि वेणि-बन्धं कदा नखैर् गन्ध-तैलाक्तैः ॥आस ३९॥

अलम् अनलङ्कृति-सुभगे भूषणम् उपहास-विषयम् इतरासाम् ।
कुरुषे वनस्पति-लता प्रसूनम् इव बन्ध्य-वल्लीनाम् ॥आस ४०॥

अबुधा अजङ्गमा अपि कयापि गत्या परं पदम् अवाप्ताः ।
मन्त्रिण इति कीर्त्यन्ते नय-बल-गुटिका इव जनेन ॥आस ४१॥

अतिशील-शीत-लतया लोकेषु सखी मृदु-प्रतापा नः ।
क्षण-वाम्य-दह्यमानः प्रतापम् अस्याः प्रियो वेद ॥आस ४२॥

अन्यास्व् अपि गृहिणीति ध्यायन्न् अभिलषितम् आप्नोति ।
पश्यन् पाषाणमयीः प्रतिमा इव देवतात्वेन ॥आस ४३॥

अनुपेत्य नीच-भावं बालक परितो गभीर-मधुरस्य ।
अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥आस ४४॥

अधिवासनम् आधेयं गुण-मार्गम् अपेक्षते न च ग्रथनाम् ।
कलयति युवजन-मौलिं केतक-कलिका स्वरूपेण ॥आस ४५॥

अपनीत-निखिल-तापां सुभग स्व-करेण विनिहितां भवता ।
पतिशयन-वार-पालि-ज्वरौषधं वहति सा मालाम् ॥आस ४६॥

अगणित-गुणेन सुन्दर कृत्वा चारित्रम् अप्य् उदासीनम् ।
भवतानन्य-गतिः सा विहितावर्तेन तरणिर् इव ॥आस ४७॥

अनुरक्त-रामया पुनर् आगतये स्थापितोत्तरीयस्य ।
अप्य् एक-वाससस् तव सर्व-युवभ्यो ऽधिका शोभा ॥आस ४८॥

अर्धः प्राणित्य् एको मृत इतरो मे विधुन्तुदस्येव ।
सुधयेव प्रियया पथि सङ्गत्यालिङ्गितार्धस्य ॥आस ४९॥

अवधीरितो ऽपि निद्रा-मिषेण माहात्म्यम् असृणया प्रियया ।
अवबोधितो ऽस्मि चपलो बाष्प-स्थित-मितेन तल्पेन ॥आस ५०॥

अयि शब्द-मात्र-साम्याद् आस्वादित-शर्करस्य तव पथिक ।
स्वल्पो रसना-च्छेदः पुरतो जन-हास्यता महती ॥आस ५१॥

अभिनव-यौवन-दुर्जय-विपक्ष-जन-हन्यमानमानापि ।
सूनोः पितृ-प्रियत्वाद् बिभर्ति सुभगा-मदं गृहिणी ॥आस ५२॥

अपमानितम् इव सम्प्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् ।
स्नानोत्सुक-तरुणी-स्तन-कलश-निबद्धं पयो विशति ॥आस ५३॥

अलसयति गात्रम् अखिलं क्लेशं मोचयति लोचनं हरति ।
स्वाप इव प्रेयान् मम मोक्तुं न ददाति शयनीयम् ॥आस ५४॥

अंसावलम्बि-कर-धृत-कचम् अभिषेकार्द्र-धवल-नख-रेखम् ।
धौताधर-नयनं वपुर् अस्त्रम् अनङ्गस्य तव निशितम् ॥आस ५५॥

अविनिहितं विनिहितम् इव युवसु स्वच्छेषु वार-वाम-दृशः ।
उपदर्शयन्ति हृदयं दर्पण-बिम्बेषु वदनम् इव ॥आस ५६॥

अतिलज्जया त्वयैव प्रकटः प्रेयान् अकारि निभृतो ऽपि ।
प्रासाद-मौलिर् उपरि प्रसरन्त्या वैजयन्त्य् एव ॥आस ५७॥

अन्योन्य-ग्रथनागुण-योगाद् गावः पदार्पणैर् बहुभिः ।
खलम् अपि तुदन्ति मेढी-भूतं मध्य-स्थम् आलम्ब्य ॥आस ५८॥

अननुग्रहेण न तथा व्यथयति कटु-कूजितैर् यथा पिशुनः ।
रुधिरादानाद् अधिकं दुनोति कर्णे क्वणन् मशकः ॥आस ५९॥

अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना ।
वामन इति त्रिविक्रमम् अभिदधति दशावतार-विदः ॥आस ६०॥

अङ्के स्तनन्धयस् तव चरणे परिचारिका प्रियः पृष्ठे ।
अस्ति किम् उ लभ्यम् अधिकं गृहिणि यदा शङ्कसे बालाम् ॥आस ६१॥

अधर उदस्तः कूजितम् आमीलितम् अक्षि लोलितो मौलिः ।
आसादितम् इव चुम्बन-सुखम् अस्पर्शेऽपि तरुणाभ्याम् ॥आस ६२॥

अतिरभसेन भुजो ऽयं वृति-विवरेण प्रवेशितः सदनम् ।
दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥आस ६३॥

अम्बर-मध्य-निविष्टं तवेदम् अतिचपलम् अलघु जघन-तटम् ।
चातक इव नवम् अभ्रं निरीक्षमाणो न तृप्यामि ॥आस ६४॥

अयम् अन्धकार-सिन्धुर-भाराक्रान्तावनी-भराक्रान्तः ।
उन्नत-पूर्वाद्रि-मुखः कूर्मः सन्ध्यास्रम् उद्वमति ॥आस ६५॥

अन्तर्भूतो निवसति जडे जडः शिशिर-महसि हरिण इव ।
अजडे शशीव तपने स तु प्रविष्टो ऽपि निःसरति ॥आस ६६॥

अगणित-जनापवादा त्वत्-पाणि-स्पर्श-हर्ष-तरलेयम् ।
आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ॥आस ६७॥

अप्य् एक-वंश-जनुषोः पश्यत पूर्णत्व-तुच्छता-भाजोः ।
ज्या-कार्मुकयोः कश्चिद् गुण-भूतः कश्चिद् अपि भर्ता ॥आस ६८॥

अभिनव-केलि-क्लान्ता कलयति बाला क्रमेण घर्माम्भः ।
ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर् लतेव मधु ॥आस ६९॥

असती कुलजा धीरा प्रौढा प्रतिवेशिनी यद् आसक्तिम् ।
कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥आस ७०॥

अविरल-पतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतम् इदम् ।
शत-धौतम् आज्यम् इव मे स्मर-शर-दाह-व्यथां हरति ॥आस ७१॥

अन्तर् निपतित-गुञ्जा-गुण-रमणीयश् चकास्ति केदारः ।
निज-गोपी-विनय-व्यय-खेदेन विदीर्ण-हृदय इव ॥आस ७२॥

अमुना हतम् इदम् इदम् इति रुदती प्रतिवेशिनेऽङ्गम् अङ्गम् इयम् ।
रोष-मिष-दलित-लज्जा गृहिणी दर्शयति पति-पुरतः ॥आस ७३॥

इति विभाव्याख्या-समेता अ-कार-व्रज्या ॥



आ-कार-व्रज्या[सम्पाद्यताम्]

आन्तरम् अपि बहिरि व हि व्यञ्जयितुं रसम् अशेषतः सततम् ।
असती सत्-कवि-सूक्तिः काच-घटीति त्रयं वेद ॥आस ७४॥

आलोक एव विमुखी क्वचिद् अपि दिवसे न दक्षिणा भवसि ।
छायेव तद् अपि तापं त्वम् एव मे हरसि मानवति ॥आस ७५॥

आज्ञा काकुर् याच्ञा-क्षेपो हसितं च शुष्क-रुदितं च ।
इति निधुवन-पाण्डित्यं ध्यायंस् तस्या न तृप्यामि ॥आस ७६॥

आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।
असमय-मानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥आस ७७॥

आसाद्य भङ्गम् अनया द्यूते विहिताभिरुचित-केलि-पणे ।
निःसारयताक्षानिति कपट-रुषोत्सारिताः सख्यः ॥आस ७८॥

आदरणीय-गुणा सखि महता निहितासि तेन शिरसि त्वम् ।
तव लाघव-दोषो ऽयं सौध-पताकेव यच् चलसि ॥आस ७९॥

आर्द्रम् अपि स्तन-जघनान् निरस्य सुतनु त्वयैतद् उन्मुक्तम् ।
ख-स्थम् अवाप्तुम् इव त्वां तपनांशून् अंशुकं पिबति ॥आस ८०॥

आरोपिता शिलायाम् अश्मेव त्वं भवेति मन्त्रेण ।
मग्नापि परिणयापदि जार-मुखं वीक्ष्य हसितैव ॥आस ८१॥

आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
अधिदेवता त्वम् एव श्रीर् इव कमलस्य मम मनसः ॥आस ८२॥

आसाद्य दक्षिणां दिशम् अविलम्बं त्यजति चोत्तरां तरणिः ।
पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥आस ८३॥

आदान-पान-लेपैः काश्चिद् गरलोपताप-हारिण्यः ।
सदसि स्थितैव सिद्धौषधि-वल्ली कापि जीवयति ॥आस ८४॥

आन्दोल-लोल-केशीं चल-काञ्ची-किङ्किणी-गण-क्वणिताम् ।
स्मरसि पुरुषायितां तां स्मर-चामर-चिह्न-यष्टिम् इव ॥आस ८५॥

आक्षिपसि कर्णम् अक्ष्णा बलिर् अपि बद्धस् त्वया त्रिधा मध्ये ।
इति जित-सकल-वदान्ये तनु-दाने लज्जसे सुतनु ॥आस ८६॥

आक्षेप-चरण-लङ्घन-केश-ग्रह-केलि-कुतुक-तरलेन ।
स्त्रीणां पतिर् अपि गुरुर् इति धर्मं न श्राविता सुतनुः ॥आस ८७॥

आगच्छतानवेक्षित-पृष्ठेनार्थी वराटकेनेव ।
मुषितास्मि तेन जघनां-शुकम् अपि वोढुं नशक्तेन ॥आस ८८॥

आकुञ्चितैक-जङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।
सुतनोः श्वसित-क्रमन-मद्-उदर-स्फुट-नाभि शयनम् इदम् ॥आस ८९॥

आदाय धनम् अनल्पं ददानया सुभग तावकं वासः ।
मुग्धा रजक-गृहिण्या कृता दिनैः कतिपयैर् निःस्वा ॥आस ९०॥

आस्तां वरम् अवकेशी मा दोह-दमस्य रचय पूग-तरोः ।
एतस्मात् फलिताद् अपि केवलम् उद्वेगम् अधिगच्छ ॥आस ९१॥

आरब्धम् अब्धि-मथनं स्वहस्तयित्वा द्वि-जिह्वम् अमरैर् यत् ।
उचितस् तत्-परिणामो विषमं विषम् एव यज् जातम् ॥आस ९२॥

आवर्जितालकालि श्वासोत्कम्प-स्तनार्पितैक-भुजम् ।
शयनं रति-विवश-तनोः स्मरामि शिथिलांशुकं तस्याः ॥आस ९३॥

आम्राङ्कुरो ऽयम् अरुण-श्यामल-रुचिर् अस्थि-निर्गतः सुतनु ।
नव-कमठ-कर्पर-पुटान् मूर्धेवोर्ध्वं गतः स्फुरति ॥आस ९४॥

आभङ्गुराग्र-बहु-गुण-दीर्घास्वाद-प्रदा प्रिया-दृष्टिः ।
कर्षति मनो मदीयं ह्रद-मीनं बडिश-रज्जुर् इव ॥आस ९५॥

आलप यथा यथेच्छसि युक्तं तव कितव किम् अपवारयसि ।
स्त्री-जाति-लाञ्छनम् असौ जीवित-रङ्का सखी सुभग ॥आस ९६॥

आस्वादितो ऽसि मोहाद् बत विदिता वदन-माधुरी भवतः ।
मधु-लिप्त-क्षुर रसनाच् छेदाय परं विजानासि ॥आस ९७॥

आकृष्टि-भग्न-कटकं केन तव प्रकृति-कोमलं सुभगे ।
धन्येन भुज-मृणालं ग्राह्यं मदनस्य राज्यम् इव ॥आस ९८॥

आरुह्य दूरम् अगणित-रौद्र-क्लेशा प्रकाशयन्ती स्वम् ।
वात-प्रतीच्छन-पटी वहित्रम् इव हरसि मां सुतनु ॥आस ९९॥

आयासः पर-हिंसा वैतंसिक-सारमेय तव सारः ।
त्वाम् अपसार्य विभाज्यः कुरङ्ग एषो ऽधुनैवान्यैः ॥आस १००॥

आनयति पथिक-तरुणं हरिण इह प्रापयन्न् इवात्मानम् ।
उपकलम् अगो ऽपि कोमल-कलम् आवलिक-वलनोत्तरलः ॥आस १०१॥

आसीद् एव यद् आर्द्रः किम् अपि तदा किम् अयम् आहतो ऽप्य् आह ।
निष्ठुर-भावाद् अधुना कटूनि सखि रटति पटह इव ॥आस १०२॥

आज्ञा-करश् च ताडन-परिभव-सहनश् च सत्यम् अहम् अस्याः ।
न तु शील-शीतलेयं प्रियेतरद् वक्तुम् अपि वेद ॥आस १०३॥

आधाय दुग्ध-कलशे मन्थानं श्रान्त-दोर्-लता गोपी ।
अप्राप्त-पारिजाता दैवे दोषं निवेशयति ॥आस १०४॥

आस्तां मानः कथनं सखीषु वा मयि निवेद्य-दुर्विनये ।
शिथिलित-रति-गुण-गर्वा ममापि सा लज्जिता सुतनुः ॥आस १०५॥

आवर्तैर् आतर्पण-शोभां डिण्डीर-पाण्डुरैर् दधती ।
गायति मुखरित-सलिला प्रिय-सङ्गम-मङ्गलं सुरसा ॥आस १०६॥

इति विभाव्याख्या-समेता आ-कार-व्रज्या ॥


इ-कार-व्रज्या[सम्पाद्यताम्]

इयम् उद्गतिं हरन्ती-नेत्र-निकोचं च विदधती पुरतः ।
न विजानीमः किं तव वदति सपत्नीव दिन-निद्रा ॥आस १०७॥

इदम् उभय-भित्ति-सन्तत-हार-गुणान्तर्-गतैक-कुच-मुकुलम् ।
गुटिका-धनुर् इव बाला-वपुः स्मरः श्रयति कुतुकेन ॥आस १०८॥

इह शिखरि-शिखरावलम्बिनि विनोद-दर-तरल-वपुषि तरु-हरिणे ।
पश्याभिलषति पतितुं विहगी निज-नीड-मोहेन ॥आस १०९॥

इक्षुर् नदी-प्रवाहो द्यूतं मान-ग्रहश् च हे सुतनु ।
भ्रू-लतिका च तवेयं भङ्गे रसम् अधिकम् आवहति ॥आस ११०॥

इन्दोर् इवास्य पुरतो यद् विमुखी साप-वारणा भ्रमसि ।
तत् कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥आस १११॥

इह कपट-कुतुक-तरलित-दृशि विश्वासं कुरङ्ग किं कुरुषे ।
तव रभस-तरलितेयं व्याध-वधूर् वालधौ वलते ॥आस ११२॥

इह वहति बहु महोदधिविभूषणा मानगर्वम् इयम् उर्वी ।
देवस्य कमठमूर्तेः न पृष्ठं अपि निखिलम् आप्नोति ॥आस ११३॥

इति विभाव्याख्या-समेता इ-कार-व्रज्या ॥


ई-कार-व्रज्या[सम्पाद्यताम्]

ईर्ष्या-रोष-ज्वलितो-निज-पति-सङ्गं विचिन्तयंस् तस्याः ।
च्युत-वसन-जघन-भावन-सान्द्रानन्देन निर्वामि ॥आस ११४॥

ईश्वर-परिग्रहोचित-मोहो ऽस्यां मधुप किं मुधा पतसि ।
कनकाभिधान-सारा वीत-रसा कितव-कलिकेयम् ॥आस ११५॥

ईषद् अवशिष्ट-जडिमा शिशिरे गत-मात्र एव चिरम् अङ्गैः ।
नव-यौवनेव तन्वी निषेव्यते निर्भरं वापी ॥आस ११६॥

इति विभाव्याख्या-समेता ई-कार-व्रज्या ॥


उ-कार-व्रज्या[सम्पाद्यताम्]

उल्लसित-भ्रू-धनुषा तव पृथुना लोचनेन रुचिराङ्गि ।
अचला अपि न महान्तः के चञ्चल-भावम् आनीताः ॥आस ११७॥

उपनीय यन् नितम्बे भुजङ्गम् उच्चैर् अलम्बि विबुधैः श्रीः ।
एकः स मन्दर-गिरिः सखि गरिमाणं समुद्वहतु ॥आस ११८॥

उल्लसित-लाञ्छनो ऽयं ज्योत्स्ना-वर्षी सुधाकरः स्फुरति ।
आसक्त-कृष्ण-चरणः शकट इव प्रकटित-क्षीरः ॥आस ११९॥

उपचारानुनयास् ते कितवस्योपेक्षिताः सखी-वचसा ।
अधुना निष्ठुरम् अपि यदि स वदति कलिकैतवाद् यामि ॥आस १२०॥

उषसि परिवर्तयन्त्या मुक्ता-दामोपवीततां नीतम् ।
पुरुषायित-वैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥आस १२१॥

उड्डीनानाम् एषां प्रासादात् तरुणि पक्षिणां पङ्क्तिः ।
विस्फुरति वैजयन्ती-पवन-च्छिन्नापविद्धेव ॥आस १२२॥

उज्जागरित-भ्रामित-दन्तुर-दल-रुद्ध-मधुकर-प्रकरे ।
काञ्चन-केतकि मा तव विकसतु सौरभ्य-सम्भारः ॥आस १२३॥

उल्लसित-भ्रूः किम् अतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।
क्षुद्रापचार-विरसः पाकः प्रेम्णो गुडस्येव ॥आस १२४॥

उद्दिश्य निःसरन्तीं सखीम् इयं कपट-कोप-कुटिल-भ्रूः ।
एवम् अवतंसम् आक्षिपद् आहत-दीपो यथा पतति ॥आस १२५॥

उदितो ऽपि तुहिन-गहने गगन-प्रान्ते न दीप्यते तपनः ।
कठिन-घृत-पूर-पूर्णे शराव-शिरसि प्रदीप इव ॥आस १२६॥

उद्गमनोपनिवेशन-शयन-परावृत्ति-वलन-चलनेषु ।
अनिशं स मोहयति मां हृल्-लग्नः श्वास इव दयितः ॥आस १२७॥

उज्झित-सौभाग्य-मद-स्फुट-याच्ञानङ्ग-भीतयोर् यूनोः ।
अकलित-मनसोर् एका दृष्टिर् दूती निसृष्टार्थी ॥आस १२८॥

उत्तम-भुजङ्ग-सङ्गम-निस्पन्द-नितम्ब-चापलस् तस्याः ।
मन्दर-गिरिर् इव विबुधैर् इतस् ततः कृष्यते कायः ॥आस १२९॥

उपनीय कलम-कुडवं कथयति सभयश् चिकित्सके हलिकः ।
शोणं सोमार्ध-निभं वधू-स्तने व्याधिम् उपजातम् ॥आस १३०॥

उन्मुकुलिताधर-पुटे-भूति-कण-त्रास-मीलितार्धाक्षि ।
धूमो ऽपि नेह विरम-भ्रमरो ऽयं श्वसितम् अनुसरति ॥आस १३१॥

उपरि परिप्लवते मम बालेयं गृहिणि हंस-मालेव ।
सरस इव नलिन-नाला त्वम् आशयं प्राप्य वससि पुनः ॥आस १३२॥

उत्कम्प-घर्म-पिच्छिल-दोः-साधिक-हस्त-विच्युतश् चौरः ।
शिवम् आशास्ते सुतनु-स्तनयोस् तव पञ्चलाञ्चलयोः ॥आस १३३॥

उत्क्षिप्त-बाहु-दर्शित-भुज-मूलं चूत-मुकुल मम सख्या ।
आकृष्यमाण राजति भवतः परम् उच्च-पद-लाभः ॥आस १३४॥

उच्च-कुच-कुम्भ-निहितो हृदयं चालयति जघन-लग्नाग्रः ।
अतिनिम्न-मध्य-सङ्क्रम-दारु-निभस् तरुणि तव हारः ॥आस १३५॥

उल्लसित-शीत-दीधिति-कलोपकण्ठे स्फुरन्ति तारौघाः ।
कुसुमायुध-विधृत-धनुर्-निर्गत-मकरन्द-बिन्दु-निभाः ॥आस १३६॥

उपनीय प्रियम् असमय-विदं च मे दग्ध-मानम् अपनीय ।
नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥आस १३७॥

उत्तम-वनितैक-गतिः करीव सरसी-पयः सखी-धैर्यम् ।
आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि ॥आस १३८॥

इति विभाव्याख्या-समेता उ-कार-व्रज्या ॥



ऊ-कार-व्रज्या[सम्पाद्यताम्]

ऊढामुनातिवाहय पृष्ठे लग्नापि कालम् अचलापि ।
सर्वंसहे कठोर-त्वचः किम् अङ्केन कमठस्य ॥आस १३९॥

इति विभाव्याख्या-समेता ऊ-कार-व्रज्या ॥



ऋ-कार-व्रज्या[सम्पाद्यताम्]

ऋजुना निधेहि चरणौ परिहर सखि निखिल-नागराचारम् ।
इह डाकिनीति पल्ली-पतिः कटाक्षेऽपि दण्डयति ॥आस १४०॥

ऋषभो ऽत्र गीयत इति श्रुत्वा स्वर-पारगा वयं प्राप्ताः ।
को वेद गोष्ठम् एतद् गो-शान्तौ विहित-बहु-मानम् ॥आस १४१॥

इति विभाव्याख्या-समेता ऋ-कार-व्रज्या ॥



ए-कार-व्रज्या[सम्पाद्यताम्]

एको हरः प्रियाधर-गुण-वेदी दिविषदो ऽपरे मूढाः ।
विषम् अमृतं वा समम् इति यः पश्यन् गरलम् एव पपौ ॥आस १४२॥

एष्यति मा पुनर् अयम् इति गमने यद् अमङ्गलं मयाकारि ।
अधुना तद् एव कारणम् अवस्थितौ दग्ध-गेह-पतेः ॥आस १४३॥

एकैकशो युव-जनं विलङ्घमानाक्ष-निकरम् इव तरला ।
विश्राम्यति सुभग त्वाम् अङ्गुलिर् आसाद्य मेरुम् इव ॥आस १४४॥

एकः स एव जीवति स्वहृदय-शून्यो ऽपि सहृदयो राहुः ।
यः सकल-लघिम-कारणम् उदरं न बिभर्ति दुष्पूरम् ॥आस १४५॥

एकेन चूर्ण-कुन्तलम् अपरेण करेण चिबुकम् उन्नमयन् ।
पश्यामि बाष्प-धौत-श्रुति नगर-द्वारि तद्-वदनम् ॥आस १४६॥

एकं जीवन-मूलं चञ्चलम् अपि तापयन्तम् अपि सततम् ।
अन्तर् वहति वराकी सा त्वां नासेव निःश्वासम् ॥आस १४७॥

एकं वदति मनो मम यामि न यामीति हृदयम् अपरं मे ।
हृदय-द्वयम् उचितं तव सुन्दरि हृत-कान्त-चित्तायाः ॥आस १४८॥

एरण्ड-पत्त्र-शयना जनयन्ती स्वेदम् अलघु-जघन-तटा ।
धूलि-पुटीव मिलन्ती स्मर-ज्वरं हरति हलिक-वधूः ॥आस १४९॥

इति विभाव्याख्या-समेता ए-कार-व्रज्या ॥



क-कार-व्रज्या[सम्पाद्यताम्]

केलि-निलयं सखीम् इव नयति नवोढां स्वयं न मां भजते ।
इत्थं गृहिणीम् अर्ये स्तुवति प्रतिवेशिना हसितम् ॥आस १५०॥

काल-क्रम-कमनीय-क्रोडेयं केतकीति काशंसा ।
वृद्धिर् यथा यथा स्यास् तथा तथा कण्टकोत्कर्षः ॥आस १५१॥

कृतकस्वाप मदीय-श्वास-ध्वनि-दत्त-कर्ण किं तीव्रैः ।
विध्यसि मां निःश्वासैः स्मरः शरैः शब्द-वेधीव ॥आस १५२॥

क्व स निर्मोक-दुकूलः क्वालङ्करणाय फणि-मणि-श्रेणी ।
कालिय-भुजङ्ग-गमनाद् यमुने विश्वस्य गम्यासि ॥आस १५३॥

किञ्चिन् न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः ।
मयि पद-पतिते केवलम् अकारि शुक-पञ्जरो विमुखः ॥आस १५४॥

कृत-हसित-हस्त-तालं मन्मथ-तरलैर् विलोकितां युवभिः ।
क्षिप्तः क्षिप्तो निपतन्न् अङ्गे नर्तयति भृङ्गस् ताम् ॥आस १५५॥

कमल-मुखि सर्वतोमुख-निवारणं विदधद् एव भूषयति ।
रोधो ऽरुद्ध-स्वरसास् तरङ्गिणीस् तरल-नयनाश् च ॥आस १५६॥

कितव प्रपञ्चिता सा भवता मन्दाक्ष-मन्द-सञ्चारा ।
बहु-दायैर् अपि सम्प्रति पाशकसारीव नायाति ॥आस १५७॥

कः श्लाघनीय-जन्मा माघ-निशीथेऽपि यस्य सौभाग्यम् ।
प्रालेयानिल-दीर्घः कथयति काञ्ची-निनादो ऽयम् ॥आस १५८॥

किम् अशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स्म ।
सा गिरिश-भुज-भुजङ्गम-फेणोपधानाद्य निद्राति ॥आस १५९॥

कृत्रिम-कनकेनेव प्रेम्णा मुषितस्य वार-वनिताभिः ।
लघुर् इव वित्त-विनाश-क्लेशो जन-हास्यता महती ॥आस १६०॥

किं पर्व-दिवसम् आर्जित-दन्तोष्ठि निजं वपुर् न मण्डयसि ।
स त्वां त्यजति न पर्वस्व् अपि मधुराम् इक्षु-यष्टिम् इव ॥आस १६१॥

कष्टं साहस-कारिणि तव नयनार्धेन सो ऽध्वनि स्पृष्टः ।
उपवीताद् अपि विदितो न द्विज-देहस् तपस्वी ते ॥आस १६२॥

क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्य् एव ।
रौद्रेऽनभ्रेऽपि नभः-सुरापगा-वारि-वृष्टिर् एव ॥आस १६३॥

कूप-प्रभवाणां परम् उचितम् अपां पट्ट-बन्धनं मन्ये ।
याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥आस १६४॥

कररुह-शिखा-निखात भ्रान्त्वा विश्रान्त रजनि-दुरवाप ।
रविर् इव यन्त्रोल्लिखितः कृशो ऽपि लोकस्य हरसि दृशम् ॥आस १६५॥

किं करवाणि दिवा-निशम् अपि लग्ना सहज-शीतल-प्रकृतिः ।
हन्त सुखयामि न प्रियम् आत्मानम् इवात्मनश् छाया ॥आस १६६॥

केशैः शिरसो गरिमा मरणं पीयूष-कुण्ड-पातेन ।
दयित-वहनेन वक्षसि यदि भारस् तद् इदम् अचिकित्स्यम् ॥आस १६७॥

किञ्चित् कर्कशताम् अनु रसं प्रदास्यन् निसर्ग-मधुरं मे ।
इक्षोर् इव ते सुन्दरि मानस्य ग्रन्थिर् अपि काम्यः ॥आस १६८॥

केन गिरिशस्य दत्ता बुद्धिर् भुजगं जटावनेऽर्पयितुम् ।
येन रति-रभस-कान्ता-कर-चिकुराकर्षणं मुषितम् ॥आस १६९॥

कर-चरण-काञ्चि-हार-प्रहारम् अवचिन्त्य बल-गृहीत-कचः ।
प्रणयी चुम्बति दयिता-वदनं स्फुरद्-अधरम् अरुणाक्षम् ॥आस १७०॥

कुरुतां चापलम् अधुना कलयतु सुरसासि यादृशी तद् अपि ।
सुन्दरि हरीतकीम् अनु परिपीता वारिधारेव ॥आस १७१॥

कज्जल-तिलक-कलङ्कित-मुख-चन्द्रे गलित-सलिल-कण-केशि ।
नव-विरह-दहन-तूलो जीवयितव्यस् त्वया कतमः ॥आस १७२॥

कृच्छ्रानुवृत्तयो ऽपि हि परोपकारं त्यजन्ति न महान्तः ।
तृण-मात्र-जीवना अपि करिणो दान-द्रवार्द्र-कराः ॥आस १७३॥

किं हसथ किं प्रधावथ किं जनम् आह्वयथ बालका विफलम् ।
तद् अथ दर्शयति यथारिष्टः कण्ठेऽमुना जगृहे ॥आस १७४॥

कातरता-केकरित-स्मर-लज्जा-रोष-मसृण-मधुराक्षी ।
योक्तुं न मोक्तुम् अथवा वलतेऽसाव् अर्थ-लब्ध-रतिः ॥आस १७५॥

केतक-गर्भे गन्धादरेण दूराद् अमी द्रुतम् उपेताः ।
मदन-स्यन्दन-वाजित इव मधुपा धूलिम् आददते ॥आस १७६॥

को वक्रिमा गुणाः के का कान्तिः शिशिर-किरण-लेखानाम् ।
अन्तः प्रविश्य यासाम् आक्रान्तं पशु-विशेषेण ॥आस १७७॥

कृत-विविध-मथन-यत्नः पराभावाय प्रभुः सुरासुरयोः ।
इच्छति सौभाग्यम् अदात् स्वयंवरेण श्रियं विष्णुः ॥आस १७८॥

किं पुत्रि गण्ड-शैल-भ्रमेण नव-नीरदेषु निद्रासि ।
अनुभव चपलाविलसित-गर्जित-देशान्तर-भ्रान्तीः ॥आस १७९॥

कान्तः पदेन हत इति सरलाम् अपराध्य किं प्रसादयथ ।
सो ऽप्य् एवम् एव सुलभः पद-प्रहारः प्रसादः किम् ॥आस १८०॥

कर्ण-गतेयम् अमोघा दृष्टिस् तव शक्तिर् इन्द्र-दत्ता च ।
सा नासादित-विजया क्वचिद् अपि नापार्थ-पतितेयम् ॥आस १८१॥

क्लेशयसि किम् इति दूतीर् यद् अशक्यं सुमुखि तव कटाक्षेण ।
कामो ऽपि तत्र सायकम् अकीर्ति-शङ्की न सन्धत्ते ॥आस १८२॥

को वेद मूल्यम् अक्ष-द्यूते प्रभुणा पणीकृतस्य विधोः ।
प्रतिविजये यत् प्रतिपणम् अधरं घर-नन्दिनी विदधे ॥आस १८३॥

कुपितां चरण-प्रहरण-भयेन मुञ्चामि न खलु चण्डि त्वाम् ।
अलिर् अनिल-चपल-किसलय-ताडन-सहनो लतां भजते ॥आस १८४॥

कोपाकृष्ट-भ्रू-स्मर-शरासने संवृणु प्रिये पततः ।
छिन्न-ज्या-मधुपान् इव कज्जल-मलिनाश्रु-जल-बिन्दून् ॥आस १८५॥

कामेनापि न भेत्तुं किम् उ हृदयम् अपारि बाल-वनितानाम् ।
मूढ-विशिख-प्रहारोच्छूनम् इवाभाति यद्-वक्षः ॥आस १८६॥

किं पर-जीवैर् दीव्यसि विस्मय-मधुराक्षि गच्छ सखि दूरम् ।
अहिम् अधिचत्वरम् उरग-ग्राही खेलयतु निर्विघ्नः ॥आस १८७॥

कर-चरणेन प्रहरति यथा यथाङ्गेषु कोप-तरलाक्षी ।
रोषयति परुष-वचनैस् तथा तथा प्रेयसीं रसिकः ॥आस १८८॥

कस् तां निन्दति लुम्पति कः स्मर-फलकस्य वर्णकं मुग्धः ।
को भवति रत्न-कण्टकम् अमृते कस्यारुचिर् उदेति ॥आस १८९॥

कोपवति पाणि-लीला-चञ्चल-चूताङ्कुरे त्वयि भ्रमति ।
कर-कम्पित-करवाले स्मर इव सा मूर्च्छिता सुतनुः ॥आस १९०॥

कौलीन्यादलमेनां भजामि नकुलं स्मरः प्रमाणयति ।
तद्-भावनेन भजतो मम गोत्र-स्खलनम् अनिवार्यम् ॥आस १९१॥

कुत इह कुरङ्ग-शावक केदारे कलम् अमञ्जरीं त्यजसि ।
तृण-बाणस् तृण-धन्वा तृण-घटितः कपट-पुरुषो ऽयम् ॥आस १९२॥

इति विभाव्याख्या-समेता क-कार-व्रज्या ॥


ख-कार-व्रज्या[सम्पाद्यताम्]

खल-सख्यं प्राङ् मधुरं वयो ऽनतराले निदाघ-दिनम् अन्ते ।
एकआदि-मध्य-परिणति-रमणीया साधु-जन-मैत्री ॥आस १९३॥

इति विभाव्याख्या-समेता ख-कार-व्रज्या ॥


ग-कार-व्रज्या[सम्पाद्यताम्]

गुणम् अधिगतम् अपि धनवान् न चिरान् नाशयति रक्षति दरिद्रः ।
मज्जयति रज्जुम् अम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥आस १९४॥

गुरुर् अपि लघूपनीतो न निमज्जति नियतम् आशये महतः ।
वानकरोपनीतः शैलो मकरालयस्येव ॥आस १९५॥

गौरी-पतेर् गरीयो गरलं गत्वा गले जीर्णम् ।
जीर्यति कर्णे महतां दुर्वादो नाल्पम् अपि विशति ॥आस १९६॥

गृहपति-पुरतो जारं कपट-कथा-कथित-मन्मथावस्थम् ।
प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥आस १९७॥

गति-गञ्जित-वर-युवतिः करी कपोलौ करोतु मद-मलिनौ ।
मुख-बन्ध-मात्र-सिन्धुर लबोदर किं मदं वहसि ॥आस १९८॥

गेहिन्याः शृण्वन्ती गोत्र-स्खलितापराधतो मानम् ।
स्निग्धां प्रिये स-गर्वां सखीषु बाला दृशं दिशति ॥आस १९९॥

ग्रीष्ंअ-मये समयेऽस्मिन् विनिर्मितं कलय केलि-वन-मूले ।
अलम् आलवाल-वलय-च्छलेन कुण्डलितम् इव शैत्यम् ॥आस २००॥

गुण-बद्ध-चरण इति मा लीला-विहगं विमुञ्च सखि मुग्धे ।
अस्मिन् वलयित-शाखे क्षणेन गुण-यन्त्रणं त्रुटति ॥आस २०१॥

गुरु-गर्जि-सान्द्र-विद्युद्-भय-मुद्रित-कर्ण-चक्षुषां पुरतः ।
बाला चुम्बति जारं वज्राद् अधिको हि मदनेषुः ॥आस २०२॥

गृहिणी-गुणेषु गणिता विनयः सेवा विधेयतेति गुणाः ।
मानः प्रभुता वाम्यं विभूषणं वाम-नयनानाम् ॥आस २०३॥

गुणम् आन्तरम् अगुणं वा लक्ष्मीर् गङ्गा च वेद हरि-हरयोः ।
एका पदेऽपि रमते न वसति निहिता शिरस्य् अपरा ॥आस २०४॥

गत्वा जीवित-संशयम् अभ्यस्तः सोढुम् अतिचिराद् विरहः ।
अकरुणः पुनर् अपि दित्ससि सुरत-दुरभ्यासम् अस्माकम् ॥आस २०५॥

गोत्र-स्खलित-प्रश्नेऽप्य् उत्तरम् अतिशील-शीतलं दत्त्वा ।
निःश्वस्य मोघ-रूपे स्व-वपुषि निहितं तया चक्षुः ॥आस २०६॥

गन्ध-ग्राहिणि शालोन्मीलित-निर्यास-निहित-निखिलाङ्गि ।
उपभुक्त-मुक्त-भूरुह-शतेऽधुना भ्रमरि न भ्रमसि ॥आस २०७॥

गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले किं तुलयसि गुञ्जा-फलैः कनकम् ॥आस २०८॥

गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः ।
मम नौका-द्वितयार्पित-गुण इव हृदयं द्विधा भवति ॥आस २०९॥

गुण आकर्षण-योग्यो धनुष इवैको ऽपि लक्ष-लाभाय ।
लूतातन्तुभिर् इव किं गुणैर् विमर्दासहैर् बहुभिः ॥आस २१०॥

गायति गीते वंशे वादयति स विपञ्चीषु ।
पाठयति पञ्जर-शुकं तव सन्देशाक्षरं रामा ॥आस २११॥

गणयति न मधु-व्ययम् अयम् अविरतम् आपिबतु मधुकरः कुमुदम् ।
सौभाग्य-मानवान् परम् असूयति द्यु-मणये चन्द्रः ॥आस २१२॥

गुण-विधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते ।
हृतम् अमुना मालायाः समीरणेनेव सौरभ्यम् ॥आस २१३॥

गुरु-सदने नेदीयसि चरण-गते मयि च मूकयापि तया ।
नूपुरम् अपास्य पदयोः किं न प्रियम् ईरितं प्रियया ॥आस २१४॥

ग्रन्थिलतया किम् इक्षोः किम् अपभ्रंशेन भवति गीतस्य ।
किम् अनार्जवेन शशिनः किं दारिद्र्येण दयितस्य ॥आस २१५॥

गेहिन्या चिकुर-ग्रह-समय-ससीत्कार-मीलित-दृशापि ।
बाला-कपोल-पुलकं विलोक्य निहितो ऽस्मि शिरसि पदा ॥आस २१६॥

गुरु-पक्ष्म जागरारुण-घूर्णत्-तारं कथञ्चिद् अपि वलते ।
नयनम् इदं स्फुट-नख-पद-निवेश् अ-कृत-कोप-कुटिल-भ्रु ॥आस २१७॥

इति विभाव्याख्या-समेता ग-कार-व्रज्या ॥


घ-कार-व्रज्या[सम्पाद्यताम्]

घटित-जघनं निपीडित-पीनोरु न्यस्त-निखिल-कुच-भारम् ।
आलिङ्गन्त्य् अपि बाला वदत्य् असौ मुञ्च मुञ्चेति ॥आस २१८॥

घटित-पलाश-कपाटं निशि निशि सुखिनो हि शेरते पद्माः ।
उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ॥आस २१९॥

घूर्णन्ति विप्रलब्धाः स्नेहापायात् प्रदीप-कलिकाश् च ।
प्रातः प्रस्थित-पान्थ-स्त्री-हृदयं स्फुटति कमलं च ॥आस २२०॥

इति विभाव्याख्या-समेता घ-कार-व्रज्या ॥



च-कार-व्रज्या[सम्पाद्यताम्]

चपलस्य पलित-लाञ्छित-चिकुरं दयितस्य मौलिम् अवलोक्य ।
खेदोचितेऽपि समये संमदम् एवाददे गृहिणी ॥आस २२१॥

चण्डि प्रसारितेन स्पृशन् भुजेनापि कोपनां भवतीम् ।
तृप्यामि पङ्किलाम् इव पिबन् नदीं नलिन-नालेन ॥आस २२२॥

चपल-भुजङ्गी-भुक्तोज्झित शीतल-गन्धवह निशि भ्रान्त ।
अपराशां पूरयितुं प्रत्यूष-सदागते गच्छ ॥आस २२३॥

चिर-पथिक द्राघिम-मिलद्-अलक-लता-शैवलावलि-ग्रथिला ।
कर-तोयेव मृगाक्ष्या दृष्टिर् इदानीं सदानीरा ॥आस २२४॥

चण्डि दर-चपल-चेल-व्यक्तोरु-विलोकनैक-रसिकेन ।
धूलि-भयाद् अपि न मया चरण-हृतौ कुञ्चितं चक्षुः ॥आस २२५॥

चल-कुण्डल-चलद्-अलक-स्खलद्-उरसिज-वसन-सज्जद्-ऊरु-युगम् ।
जघन-भर-क्लम-कूणित-नयनम् इदं हरति गतम् अस्याः ॥आस २२६॥

चरणैः पराग-सैकतम् अफलम् इदं लिखसि मधुप केतक्याः ।
इह वसति कान्ति-सारे नान्तः-सलिलापि मधु-सिन्धुः ॥आस २२७॥

चिर-काल-पथिक शङ्का-तरङ्गिताक्षः किम् ईक्षसे मुग्ध ।
त्वन्-निस्त्रिंशाश्लेष-व्रण-किणराजीयम् एतस्याः ॥आस २२८॥

चपलां यथा मदान्धश् छायामयम् आत्मनः करो हन्ति ।
आस्फालयति करं प्रतिगजस् तथायं पुरो रुद्धः ॥आस २२९॥

चुम्बन-लोलुप-मद्-अधर-हृत-काश्मीरं स्मरन् न तृप्यामि ।
हृदय-द्विरदालान-स्तम्भं तस्यास् तद्-ऊरु-युगम् ॥आस २३०॥

चिकुर-विसारण-तिर्यङ्-नत-कण्ठी विमुख-वृत्तिर् अपि बाला ।
त्वाम् इयम् अङ्गुलि-कल्पित-कचावकाशा विलोकयति ॥आस २३१॥

चुम्बन-हृताञ्जनार्घं स्फुट-जागर-रागम् ईक्षणं क्षिपसि ।
किम् उषसि वियोग-कातरम् असमेषुर् इवार्ध-नाराचम् ॥आस २३२॥

इति विभाव्याख्या-समेता च-कार-व्रज्या ॥



छ-कार-व्रज्या[सम्पाद्यताम्]

छाया-ग्राही चन्द्रः कूटत्वं सततम् अम्बुजं व्रजति ।
हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥आस २३३॥

छाया-मात्रं पश्यन्न् अधोमुखो ऽप्य् उद्गतेन धैर्येण ।
तुदति मम हृदय-निपुणा राधा-चक्रं किरीतीव ॥आस २३४॥

इति विभाव्याख्या-समेता छ-कार-व्रज्या ॥



ज-कार-व्रज्या[सम्पाद्यताम्]

जल-बिन्दवः कतिपये नयनाद् गमनोद्यमे तव स्खलिताः ।
कान्ते मम गन्तव्या भूर् एतैर् एव पिच्छिलिता ॥आस २३५॥

जृम्भोत्तम्भित-दोर्-युग-यन्त्रित-ताटङ्क-पीडित-कपोलम् ।
तस्याः स्मरामि जल-कण-लुलिताञ्जनम् अलस-दृष्टि मुखम् ॥आस २३६॥

जागरित्वा पुरुषं परं वने सर्वतो मुखं हरसि ।
अति शरद्-अनुरूपं तव शीलम् इदं जाति-शालिन्याः ॥आस २३७॥

इति विभाव्याख्या-समेता ज-कार-व्रज्या ॥


झ-कार-व्रज्या[सम्पाद्यताम्]

झङ्कृत-कङ्कण-पाणि-क्षेपैः स्तम्भावलम्बनैर् मौनैः ।
शोभयसि शुष्क-रुदितैर् अपि सुन्दरि मन्दिर-द्वारम् ॥आस २४६॥


इति विभाव्याख्या-समेता झ-कार-व्रज्या ॥



ढ-कार-व्रज्या[सम्पाद्यताम्]

ढक्काम् आहत्य मदं वितन्वते करिण इव चिरं पुरुषाः ।
स्त्रीणां करिणीनाम् इव मदः पुनः स्व-कुल-नाशाय ॥आस २४७॥

इति विभाव्याख्या-समेता ढ-कार-व्रज्या ॥


त-कार-व्रज्या[सम्पाद्यताम्]

तां तापयन्ति मन्मथ-बाणास् त्वां प्रीणयन्ति बत सुभग ।
तपन-करास् तपन-शिलां ज्वलयन्ति विधुं मधुरयन्ति ॥आस २४८॥

तव सुतनु सानुमत्या बहु-धातु-जनित-नितम्ब-रागायाः ।
गिरि-वर-भुव इव लाभेनाप्नोमि द्व्य्-अङ्गुलेन दिवम् ॥आस २४९॥

त्यक्तो मुञ्चति जीवनम् उज्झति नानुग्रहेऽपि लोलुत्वम् ।
किं प्रावृषेव पद्माकरस्य करणीयम् अस्य मया ॥आस २५०॥

त्वद्-विरहापदि पाण्डुस् तन्वङ्गी छाययैव केवलया ।
हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥आस २५१॥

त्वयि विनिवेशित-चित्ता सुभग गता केवलेन कायेन ।
घन-जाल-रुद्ध-मीना नदीव सा नीर-मात्रेण ॥आस २५२॥

त्वयि संसक्तं तस्याः कठोरतर हृदयम् असम-शर-तरलम् ।
मारुत-चलम् अञ्चलम् इव कण्टक-सम्पर्कतः स्फुटितम् ॥आस २५३॥

त्वम् असूर्यंपश्या सखि पदम् अपि न विनापवारणं भ्रमसि ।
छाये किम् इह विधेयं मुञ्चन्ति न मूर्तिमन्तस् त्वाम् ॥आस २५४॥

तव विरहे विस्तारित-रजनौ जनितेन्दु-चन्दन-द्वेषे ।
विसिनीव माघ-मासे विना हुताशने सा दग्धा ॥आस २५५॥

तरुणि त्वच्-चरणाहति-कुसुमित-कङ्केल्लि-कोरक-प्रकरम् ।
कुटिल-चरिता सपत्नी न पिबति बत शोक-विकलापि ॥आस २५६॥

तल्पे प्रभुर् इव गुरुर् इव मनसिज-तन्त्रे श्रमे भुजिष्येव ।
गेहे श्रीर् इव गुरु-जन-पुरतो मूर्तेव सा व्रीडा ॥आस २५७॥

त्वम् अलभ्या मम तावन् मोक्तुम् अशक्तस्य संमुखं व्रजतः ।
छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥आस २५८॥

तपसा क्लेशित एष प्रौढ-बलो न खलु फाल्गुनेऽप्य् आसीत् ।
मधुना प्रमत्तम् अधुना को मदनं मिहिरम् इव सहते ॥आस २५९॥

त्वद्-गमन-दिवस-गण-नावलक्ष-रेखाभिर् अङ्किता सुभग ।
गण्ड-स्थलीव तस्याः पाण्डुरिता भवन-भित्तिर् अपि ॥आस २६०॥

तस्याग्राम्यस्याहं सखि वक्र-स्निग्ध-मधुरया दृष्ट्या ।
विद्धा तद्-एक-नेया पोत्रिण इव दंष्ट्रया धरणी ॥आस २६१॥

त्वयि कुग्राम-वट-द्रुम वैश्रवणो वसतु वा लक्ष्मीः ।
पामर-कुठार-पातात् कासर-शिरसैव ते रक्षा ॥आस २६२॥

तव मुखर वदन-दोषं सहमाना मोक्तुम् अक्षमा सुतनुः ।
सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥आस २६३॥

तृण-मुखम् इव न खलु त्वां त्यजन्त्य् अमी हरिण वैरिणः शवराः ।
यशसैव जीवितम् इदं त्यज योजित-शृङ्ग-सङ्ग्रामः ॥आस २६४॥

त्रिपुर-रिपोर् इव गङ्गा मम मानिनि जनित-मदन-दाहस्य ।
जीवनम् अर्पित-शिरसो ददासि चिकुर-ग्रहेणैव ॥आस २६५॥

त्वत्-सङ्कथासु मुखरः सनिन्द-सानन्द-सावहित्थ इव ।
स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥आस २६६॥

त्वयि सर्पति पथि दृष्टिः सुन्दर वृति-विवर-निर्गता तस्याः ।
दर-तरल-भिन्न-शैवल-जाला शफरीव विस्फुरति ॥आस २६७॥

ते सुतनु शून्य-हृदया ये शङ्खं शून्य-हृदयम् अभिदधति ।
अङ्गीकृत-कर-पत्त्रो यस् तव हस्त-ग्रहं कुरुते ॥आस २६८॥

ते श्रेष्ठिनः क्व सम्प्रति शक्र-ध्वज यैः कृतस् तवोच्छ्रायः ।
ईषां वा मेढिं वाधुनातनास् त्वां विधित्सन्ति ॥आस २६९॥

तानवम् एत्य छिन्नः परोपहित-राग-मदन-सङ्घटितः ।
कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥आस २७०॥

तस्मिन् गतार्द्र-भावे वीत-रसे शुण्ठि-शकल इव पुरुषे ।
अपि भूति-भाजि मलिने नागर-शब्दो विडम्बाय ॥आस २७१॥

तमसि घने विषमे पथि जम्बुकम् उल्का-मुखं प्रपन्नाः स्मः ।
किं कुर्मः सो ऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥आस २७२॥

त्वाम् अभिलषतो मानिनि मम गरिम-गुणो ऽपि दोषतां यातः ।
पङ्किल-कूलां तटिनीं यियासतः सिन्धुर् अस्य् एव ॥आस २७३॥

तिमिरेऽपि दूर-दृश्या कठिनाश्लेषे च रहसि मुखरा च ।
शङ्ख-मय-वलय-राजी गृह-पति-शिरसा सह स्फुटतु ॥आस २७४॥

तव वृत्तेन गुणेन च समुचित-सम्पन्न-कण्ठ-लुठनायाः ।
हार-स्रज इव सुन्दरि कृतः पुनर् नायकस् तरलः ॥आस २७५॥

इति विभाव्याख्या-समेता त-कार-व्रज्या ॥


द-कार-व्रज्या[सम्पाद्यताम्]

दर्शन-विनीत-माना गृहिणी हर्षोल्लसत्-कपोल-तलम् ।
चुम्बन-निषेध-मिषतो वदनं पिदधाति पाणिभ्याम् ॥आस २७६॥

देह-स्तम्भः स्खलनं शैथिल्यं वेपथुः प्रिय-ध्यानम् ।
पथि पथि गगनाश्लेषः कामिनि कस् तेऽभिसार-गुणः ॥आस २७७॥

द्राघयता दिवसानि त्वदीय-विरहेण तीव्र-तापेन ।
ग्रीष्मेणेव नलिन्या जीवनम् अल्पीकृतं तस्याः ॥आस २७८॥

दुर्जन-सहवासाद् अपि शीलोत्कर्षं न सज्जनस् त्यजति ।
प्रतिपर्व-तपन-वासी निःसृत-मात्रः शशी शीतः ॥आस २७९॥

दयित-प्रहितां दूतीम् आलम्ब्य करेण तमसि गच्छन्ती ।
स्वेद-च्युत-मृगनाभिर् दूराद् गौराङ्गि दृश्यासि ॥आस २८०॥

दयिता-गुणः प्रकाशं नीतः स्वस्यैव वदन-दोषेण ।
प्रतिदिन-विदलित-वाटी-वृति-गह्टनैः खिद्यसे किम् इति ॥आस २८१॥

दाक्षिण्यान् म्रदिमानं दधतं मा भानुम् एनम् अवमंस्थाः ।
रौद्रीम् उपागतेऽस्मिन् कः क्षमते दृष्टिम् अपि दातुम् ॥आस २८२॥

दृष्ट्यैव विरह-कातर-तारकया प्रिय-मुखे समर्पितया ।
यान्ति मृग-वल्लभायाः पुलिन्द-बाणार्दिताः प्राणाः ॥आस २८३॥

दूर-स्थापित-हृदयो गूढ-रहस्यो निकामम् आशङ्कः ।
आश्लेषो बालानां भवति खलानां च सम्भेदः ॥आस २८४॥

द्वारे गुरवः कोणे शुकः सकाशे शिशुर् गृहे सख्यः ।
कालासह क्षमस्व प्रिय प्रसीद प्रयात-महः ॥आस २८५॥

दधि-कण-मुक्ता-भरण-श्वासोत्तुङ्ग-स्तनार्पण-मनोज्ञम् ।
प्रियम् आलिङ्गति गोपी मन्थन-श्रम-मन्थरैर् अङ्गैः ॥आस २८६॥

दलितोद्वेगेन सखि प्रियेण लग्नेन रागम् आवहता ।
मोहयता शयनीयं ताम्बूलेनेव नीतास्मि ॥आस २८७॥

दृष्टम् अदृष्ट-प्रायं दयितं कृत्वा प्रकाशितस् तनया ।
हृदयं करेण ताडितम् अथ मिथ्या व्यञ्जित-त्रपया ॥आस २८८॥

दर्शित-यमुनोच्छ्राये भ्रू-विभ्रम-भाजि वलति तव नयने ।
क्षिप्त-हले हलधर इव सर्वं पुरमर्जितं सुतनु ॥आस २८९॥

दयित-प्रार्थित-दुर्लभ-मुख-मदिरा-सारसेक-सुकुमारः ।
व्यथयति विरहे बकुलः क्व परिचयः प्रकृति-कठिनानाम् ॥आस २९०॥

द्वित्रैर् एष्यामि दिनैर् इति किं तद् वचसि सखि तवाश्वासः ।
कथयति चिर-पथिकं तं दूर-निखातो नखाङ्कस् ते ॥आस २९१॥

दयित-स्पर्शोन्मीलित-धर्म-जल-स्खलित-चरण-खलाक्षे ।
गर्व-भर-मुखरिते सखि तच्-चिकुरान् किम् अपराधयसि ॥आस २९२॥

दुष्ट-ग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन ।
भौमेनेव निजं कुलम् अङ्गार-कवत्-कृतं येन ॥आस २९३॥

दर्शित-चापोच्छ्रायैस् तेजोवद्भिः सुगोत्र-सञ्जातैः ।
हीरैर् अप्स्व् अपि वीरैर् आपत्स्व् अपि गम्यते नाधः ॥आस २९४॥

दर-निद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून् मे ।
मुग्धे तव दृष्टिर् असाव् अर्जुन-यन्त्रेषुर् इव हन्ति ॥आस २९५॥

दुर्गत-गृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी ।
मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥आस २९६॥

दुर्गत-गेहिनि जर्जर-मन्दिर-सुप्तैव वन्दसे चन्द्रम् ।
वयम् इन्दु-वञ्चित-दृशो निचुलित-दोला-विहारिण्यः ॥आस २९७॥

दीप-दशा कुल-युवतिर् वैदग्ध्येनैव मलिनताम् एति ।
दोषा अपि भूषायै गणिकायाः शशि-कलायाश् च ॥आस २९८॥

दीर्घ-गवाक्ष-मुखान्तर्-निपातिनस् तरणि-रश्मयः शोणाः ।
नृहरि-नखा इव दानव-वक्षः प्रविशन्ति सौध-तलम् ॥आस २९९॥

दर-तरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दर-हसिते ।
आस्तां कुसुमं वीरः स्मरो ऽधुना चित्र-धनुषापि ॥आस ३००॥

दुष्ट-सखी-सहितेयं पूर्णेन्दु-मुखी सुखाय नेदानीम् ।
राकेव विष्टि-युक्ता भवतो ऽभिमताय निशि भवतु ॥आस ३०१॥

दलिते पलाल-पुञ्जे वृषभं परिभवति गृह-पतौ कुपिते ।
निभृत-निभालित-वदनौ हलिक-वधू-देवरौ हसतः ॥आस ३०२॥

दीप्यन्तां ये दीप्त्यै घटिता मणयश् च वीर-पुरुषाश् च ।
तेजः स्व-विनाशाय तु नृणां तृणानाम् इव लघूनाम् ॥आस ३०३॥

इति विभाव्याख्या-समेता द-कार-व्रज्या ॥


ध-कार-व्रज्या[सम्पाद्यताम्]

धूमैर् अश्रु निपातय दह शिखया दहन-मलिनयाङ्गारैः ।
जागरयिष्यति दुर्गत-गृहिणी त्वां तद् अपि शिशिर-निशि ॥आस ३०४॥

धैर्यं निधेहि गच्छतु रजनी सो ऽप्य् अस्तु सुमुखि सोत्कण्ठः ।
प्रविश हृदि तस्य दूरं क्षण-धृत-मुक्ता स्मरेषुर् इव ॥आस ३०५॥

धवल-नख-लक्ष्म दुर्बलम् अकलैत-नेपथ्यम् अलक-पिहिताक्ष्याः ।
द्रक्ष्यामि मद्-अवलोक-द्वि-गुणाश्रु वपुः पुर-द्वारि ॥आस ३०६॥

धर्मारम्भेऽप्य् असतां पर-हिंसैव प्रयोजिका भवति ।
काकानाम् अभिषेकेऽकारणतां वृष्टिर् अनुभवति ॥आस ३०७॥

इति विभाव्याख्या-समेता ध-कार-व्रज्या ॥


न-कार-व्रज्या[सम्पाद्यताम्]

नीरावतरण-दन्तुरसैकत-सम्भेद-मेदुरैः शिशिरे ।
राजन्ति तूल-राशि-स्थूल-पटैर् इव तटैः सरितः ॥आस ३०८॥

निज-काय-च्छायायां विश्रम्य निदाघ-विपदम् अपनेतुम् ।
बत विविधास् तनु-भङ्गीर् मुग्ध-करङ्गीयम् आचरति ॥आस ३०९॥

न हसन्ति जरठ इति यद् वल्लव-वनिता नमन्ति नन्दम् अपि ।
सखि स यशोदा-तनयो नित्यं कन्दलित-कन्दर्पः ॥आस ३१०॥

नीता स्वभावम् अर्पित-वपुर् अपि वाम्यं न कामिनी त्यजति ।
हर-देहार्ध-ग्रथिता निदर्शनं पार्वती तत्र ॥आस ३११॥

नागर-भोगानुमित-स्व-वधू-सौन्दर्य-गर्व-तरलस्य ।
निपतति पदं न भूमौ ज्ञाति-पुरस् तन्तु-वायस्य ॥आस ३१२॥

निपतति चरणे कोणे प्रविश्य निशि यन् निरीक्षते कस् तत् ।
सखि स खलु लोक-पुरतः खलः स्व-गरिमाणम् उद्गिरति ॥आस ३१३॥

न विमोचयितुं शक्यः क्षमां महान् मोचितो यदि कथंचित् ।
मन्दर-गिरिर् इव गरलं निवर्तते ननु समुत्थाप्य ॥आस ३१४॥

नियतैः पदैर् निषेव्यं स्खलितेऽनर्थावहं समाश्रयति ।
सम्भवद् अन्य-गतिः कः सङ्क्रम-काष्ठं दुरीशं च ॥आस ३१५॥

निज-पद-गति-गुण-रञ्जित-जगतां करिणां च सत्-कवीनां च ।
वहताम् अपि महिमानं शोभायै सज्जना एव ॥आस ३१६॥

नोत्तपने न स्नेहं हरति न निर्वाति न मलिनो भवति ।
तस्योज्ज्वलो निशि निशि प्रेमा रत्न-प्रदीप इव ॥आस ३१७॥

निहितान् निहितान् उज्झति नियतं मम पार्थिवान् अपि प्रेम ।
भ्रामं भ्रामं तिष्ठति तत्रैव कुलाल-चक्रम् इव ॥आस ३१८॥

निर्भरम् अपि सम्भुक्तं दृष्ट्या प्रातः पिबन् न तृप्यामि ।
जघनम् अनंशुकम् अस्याः कोक इवाशिशिर-कर-बिम्बम् ॥आस ३१९॥

निविड-घटितोरु-युगलां श्वासोत्तब्ध-स्तनार्पित-व्यजनाम् ।
तां स्निग्ध-कुपित-दृष्टिं स्मरामि रत-निःसहां सुतनुम् ॥आस ३२०॥

निर्गुण इति मृत इति च द्वाव् एकार्थाभिधायिनौ विद्धि ।
पश्य धनुर्-गुण-शून्यं निर्जीवं तद् इह शंसन्ति ॥आस ३२१॥

निज-सूक्ष्म-सूत्र-लम्बी विलोचनं तरुण ते क्षणं हरतु ।
अयम् उद्गृहीत-वडिशः कर्कट इव मर्कटः पुरतः ॥आस ३२२॥

नागर गीतिर् इवासौ ग्राम-स्थित्यापि भूषिता सुतनुः ।
कस्तूरी न मृगोदर-वास-वशाद् विस्रताम् एति ॥आस ३२३॥

नख-लिखित-स्तनि कुर-बक-मय-पृष्ठे भूमि-लुलित-विरसाङ्गि ।
हृदय-विदारण-निःसृत-कुसुमास्र-शरेव हरसि मनः ॥आस ३२४॥

नीता लघिमानम् इयं तस्यां गरिमाणम् अधिकम् अर्पयसि ।
भार इव विषम-भार्यः सुदुर्वहो भवति गृह-वासः ॥आस ३२५॥

न च दूती न च याच्ञा न चाञ्जलिर् न च कटाक्ष-विक्षेपः ।
सौभाग्य-मानिनां सखि कच-ग्रहः प्रथमम् अभियोगः ॥आस ३२६॥

निशि विषम-कुसुम-विशिख-प्रेरितयोर् मौन-लब्ध-रति-रसयोः ।
मानस् तथैव विलसति दम्पत्योर् अशिथिल-ग्रन्थिः ॥आस ३२७॥

निज-गात्र-निर्विशेष-स्थापितम् अपि सारम् अखिलम् आदाय ।
निर्मोकं च भुजङ्गी मुञ्चति पुरुषं च वार-वधूः ॥आस ३२८॥

नृत्य-श्रम-घर्मार्द्रं मुञ्चसि कृच्छ्रेण कञ्चुकं सुतनु ।
मकरन्दोदक-जुष्टं मदन-धनुर्-वल्लिर् इव चोलम् ॥आस ३२९॥

नाहं वदामि सुतनु त्वम् अशीला वा प्रचण्ड-चरिता वा ।
प्रेम-स्वभाव-सुलभं भयम् उदयति मम तु हृदयस्य ॥आस ३३०॥

न निरूपितो ऽसि सख्या नियतं नेत्र-त्रिभाग-मात्रेण ।
हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे ॥आस ३३१॥

नख-दशन-मुष्टि-पातैर् अदयैर् आलिङ्गनैश् च सुभगस्य ।
अपराधं शंसन्त्यः शान्तिं रचयन्ति रागिण्यः ॥आस ३३२॥

न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः ।
त्वयि सौरभेयि घण्टा कपिला-पुत्रीति बद्धेयम् ॥आस ३३३॥

निष्कारणापराधं निष्कारण-कलह-रोष-परितोषम् ।
सामान्य-मरण-जीवन-सुख-दुःखं जयति दाम्पत्यम् ॥आस ३३४॥

न प्राप्यसे कराभ्यां हृदयान् नापैषि वितनुषे बाधाम् ।
त्वं मम भग्नावस्तित-कुसुमायुध-विशिख-फलिकेव ॥आस ३३५॥

नाथेति परुषम् उचितं प्रियेति दासेत्य् अनुग्रहो यत्र ।
तद्-दाम्पत्यम् इतो ऽन्यन् नारी रज्जुः पशुः पुरुषः ॥आस ३३६॥

निहितायाम् अस्याम् अपि सैवैका मनसि मे स्फुरति ।
रेखान्तरोपधानात् पत्त्राक्षर-राजिर् इव दयिता ॥आस ३३७॥

निधि-निक्षेप-स्थानस्योपरि चिह्नार्थम् इव लता निहिता ।
लोभयति तव तनूदरि जघन-तटाद् उपरि रोमाली ॥आस ३३८॥

निहितार्ध-लोचनायास् त्वं तस्या हरसि हृदय-पर्यन्तम् ।
न सुभग समुचितम् ईदृशम् अङ्गुलि-दाने भुजं गिलसि ॥आस ३३९॥

नीत्वागारं रजनी-जागरम् एकं च सादरं दत्त्वा ।
अचिरेण कैर् न तरुणैर् दुर्गा-पत्त्रीव मुक्तासि ॥आस ३४०॥

नक्षत्रेऽग्नाव् इन्दाव् उदरे कनके मणौ दृशि समुद्रे ।
यत् खलु तेजस् तद् अखिलम् ओजायितम् अब्ज-मित्रस्य ॥आस ३४१॥

न सवर्णो न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः ।
बाला त्वद्-विरहापदि जातापभ्रंश-भाषेव ॥आस ३४२॥

न विभूषणे तवास्था वपुर् गुणेनैव जयसि सखि यूनः ।
अवधीरितास्त्र-शस्त्रा कुसुमेषोर् मल्ल-विद्येव ॥आस ३४३॥

नेत्राकृष्टो भ्रामं भ्रामं प्रेयान् यथा यथास्ति तथा ।
सखि मन्थयति मनो मम दधि-भाण्डं मन्थ-दण्ड इव ॥आस ३४४॥

नाना-वर्णक-रूपं प्रकल्पयन्ती मनोहरं तन्वी ।
चित्रकर-तूलिकेव त्वां सा प्रतिभित्ति भावयति ॥आस ३४५॥

इति विभाव्याख्या-समेता न-कार-व्रज्या ॥


प-कार-व्रज्या[सम्पाद्यताम्]

पथिकासक्ता किंचिन् न वेद घन-कलम् अगोपिता गोपी ।
केलि-कला-हुङ्कारैः कीरावलि मोघम् अपसरसि ॥आस ३४६॥

प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक-मुकुलितैर् अङ्गैः ।
प्रिय-सङ्गाय स्फुरितां वियोगिनी वाम-बाहुलताम् ॥आस ३४७॥

प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वम् आतनुषे ।
बालक चेतसि तस्याश् चक्र-व्यूहेऽभिमन्युर् इव ॥आस ३४८॥

पश्यानुरूपम् इन्दिन्दिरेण माकन्द-शेखरो मुखरः ।
अपि च पिचु-मन्द-मुकुले मौकुलि-कुलम् आकुलं मिलति ॥आस ३४९॥

प्रतिबिम्ब-सम्भृताननम् आदर्शं सुमुख मम सखी-हस्तात् ।
आदातुम् इच्छसि मुधा किं लीला-कमल-मोहेन ॥आस ३५०॥

प्राचीनाचल-मौलेर् यथा शशी गगन-मध्यम् अधिवसति ।
त्वां सखि पश्यामि तथा छायाम् इव सङ्कुचन् मानाम् ॥आस ३५१॥

प्राङ्गण-कोणेऽपि निशापतिः स तापं सुधामयो हरति ।
यदि मां रजनि-ज्वर इव सखि स न निरुणद्धि गेह-पतिः ॥आस ३५२॥

पति-पुलक-दून-गात्री स्वच्छायावीक्षणेऽपि या सभया ।
अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥आस ३५३॥

प्रतिभूः शुको विपक्षे दण्डः शृङ्गार-सङ्कथा गुरुषु ।
पुरुषायितं पणस् तद्-बाले परिभाव्यतां दायः ॥आस ३५४॥

पर-मोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षो ऽयम् ।
विशिख इव कलित-कर्णः प्रविशति हृदयं न निःसरति ॥आस ३५५॥

प्रपदालम्बित-भूमिश् चुम्बन्ती प्रीति-भीति-मधुराक्षी ।
प्राचीराग्र-निवेशित-चिबुकतया न पतिता सुतनुः ॥आस ३५६॥

प्रातर् उपागत्य म्र्षा वदतः सखि नास्य विद्यते व्रीडा ।
मुख-लग्नयापि यो ऽयं न लज्जते दग्ध-कालिकया ॥आस ३५७॥

पश्योत्तरस् तनूदरि फाल्गुनम् आसाद्य निर्जित-विपक्षः ।
वैराटिर् इव पतङ्गः प्रत्यानयनं करोति गवाम् ॥आस ३५८॥

प्रमद-वनं तव च स्तन-शैलं मूलं गभीर-सरसां च ।
जगति निदाघ-निरस्तं शैत्यं दुर्ग-त्रयं श्रयति ॥आस ३५९॥

प्रोञ्छति तवापराधं मानं मर्दयति निर्वृतिं हरति ।
स्वकृतान् निहन्ति शपथाञ् जागर-दीर्घा निशा सुभग ॥आस ३६०॥

प्रिय आयाते दूराद् अभूत इव सङ्गमो ऽभवत् पूर्वः ।
मान-रुदित-प्रसादाः पुनर् आसन्न-पर-सुरतादौ ॥आस ३६१॥

पूर्व-मही-धर-शिखरे तमः समासन्न-मिहिर-कर-कलितम् ।
शूल-प्रोतं सरुधिरम् इदम् अन्धक-वपुर् इवाभाति ॥आस ३६२॥

परिवृत्त-नाभि लुप्त-त्रिवलि श्याम-स्तनाग्रम् अलसाक्षि ।
बहु-धवल-जघन-रेखं वपुर् न पुरुषायितं सहते ॥आस ३६३॥

प्रारब्ध-निधुवनैव स्वेद-जलं कोमलाङ्गि किं वहसि ।
ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर्-लतेव मधु ॥आस ३६४॥

पुंसां दर्शय सुन्दरि मुखेन्दुम् ईषत् त्र्पाम् अपाकृत्य ।
जायाजित इति रूढा जन-श्रुतिर् मे यशो भवतु ॥आस ३६५॥

प्रसरतु शरत्-त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः ।
पञ्जर-चकोरिकाणां कणिकाकल्पो ऽपि न विशेषः ॥आस ३६६॥

प्रथमागत सोत्कण्ठा चिर-चलितेयं विलम्ब-दोषे तु ।
वक्ष्यन्ति साङ्ग-रागाः पथि तरवस् तव समाधानम् ॥आस ३६७॥

पतितेऽंशुके स्तनार्पित-हस्तां तां निविड-जघन-पिहितोरुम् ।
रद-पद-विकलित-फूत्कृति-शत-धुत-दीपां मनः स्मरति ॥आस ३६८॥

परितः स्फुरित-महौषधि-मणि-निकरे केलि-तल्प इव शैले ।
काञ्ची-गुण इव पतितः स्थितैक-रत्नः फणी स्फुरति ॥आस ३६९॥

प्रावृषि शैल-श्रेणी-नितम्बम् उह्हन् दिग्-अन्तरे भ्रमसि ।
चपलान्तर घन किं तव वचनीयं पवन-वश्यो ऽसि ॥आस ३७०॥

प्रति-दिवस-क्षीण-दशस् तवैष वसनाञ्चलो ऽतिकर-कृष्टः ।
निज-नायकम् अतिकृपणं कथयति कुग्राम इव विरलः ॥आस ३७१॥

पथिक कथं चपलोज्ज्वलम् अम्बुद-जल-बिन्दु-निह्वहम् अविषह्यम् ।
मयपुर-कनक-द्रवम् इव शिव-शर-शिखि-भावितं सहसे ॥आस ३७२॥

पथिकं श्रमेण सुप्तं दर-तरला तरुणि सुमधुर-च्छाया ।
व्यालम्बमान-वेणिः सुखयसि शाखेव सारोहा ॥आस ३७३॥

प्रददाति नापरासां प्रवेशम् अपि पीन-तुङ्ग-जघनोरूः ।
या लुप्त-कील-भावं याता हृदि बहिर् अदृश्यासि ॥आस ३७४॥

प्रातर् निद्राति यथा यथात्मजा लुलित-निःसहैर् अङ्गैः ।
जामातरि मुदित-मनास् तथा तथा सादरा श्वश्रूः ॥आस ३७५॥

प्रणय-चलितो ऽपि सकपट-कोप-कटाक्षैर् मयाहित-स्तम्भः ।
त्रास-तरलो गृहीतः सहास-रभसं प्रियः कण्ठे ॥आस ३७६॥

प्रिय-दुर्नयेन हृदय स्फुटसि यदि स्फुटनम् अपि तव श्लाघ्यम् ।
तत्-केलि-समर-तल्पी-कृतस्य वसनाञ्चलस्येव ॥आस ३७७॥

पवनोपनीत-सौरभ-दूरोदक-पूर-पद्मिनी-लुब्धः ।
अपरीक्षित-स्वपक्षो गन्ता हन्तापदं मधुपः ॥आस ३७८॥

प्रेम-लघू-कृत-केशव- वक्षो-भर-विपुल-पुलक-कुच-कलशा ।
गोवर्धन-गिरि-गुरुतां मुग्ध-वधूर् निभृतम् उपहसति ॥आस ३७९॥

प्रिय-विरह-निःसहायाः सहज-विपक्षाभिर् अपि सपत्नीभिः ।
रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृह-भङ्ग-भीताभिः ॥आस ३८०॥

प्रकटयसि रागम् अधिकं लपनम् इदं वक्रिमाणम् आवहति ।
प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥आस ३८१॥

प्रविशन्त्याः प्रिय-हृदयं बालायाः प्रबल-यौवत-व्याप्तम् ।
नव-निशित-दर-तरङ्गित-नयन-मयेनासिना पन्थाः ॥आस ३८२॥

प्रणयापराध-रोष-प्रसाद-विश्वास-केलि-पाण्डित्यैः ।
रूढ-प्रेमा ह्रियते किं बाला-कुतुक-मात्रेण ॥आस ३८३॥

पूर्वैर् एव चरितैर् जरतो ऽपि पूज्यता भवतः ।
मुञ्च मदम् अस्य गन्धाद् युवभिर् गज गऊजनीयो ऽसि ॥आस ३८४॥

प्रथमं प्रवेशिता या वासागारं कथञ्चन सखीभिः ।
न शृणोतीव प्रातः सा निर्गमनस्य सङ्केतम् ॥आस ३८५॥

पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च ।
तद्-उभय-विप्रतिपन्नः पश्यतु गीर्-वाण-पाषाणम् ॥आस ३८६॥

पूर्वाधिको गृहिण्यां बहु-मानः प्रेम-नर्म-विश्वासः ।
भीर् अधिकेयं कथयति रागं बाला-विभक्तम् इव ॥आस ३८७॥

पुलिकत-कठोर-पीवर-कुच-कलशाश्लेष-वेदनाभिज्ञः ।
शम्भोर् उपवीत-फणी वाञ्छति मान-ग्रहं देव्याः ॥आस ३८८॥

प्रिय आयातो दूराद् इति या प्रीतिर् बभूव गेहिन्याः ।
पथिकेभ्यः पूर्वागत इति गर्वात् सापि शत-शिखरा ॥आस ३८९॥

पृष्ठं प्रयच्छ मा स्पृश दूराद् अपसर्प विहित-वैमुख्य ।
त्वाम् अनुधावति तरणिस् तद् अपि गुणाकर्ष-तरलेयम् ॥आस ३९०॥

प्रियया कुङ्कुम-पिञ्जर-पाणि-द्वय-योजनाङ्कितं वासः ।
प्रहितं मां याच्ञाञ्जलि-सहस्र-करणाय शिक्षयति ॥आस ३९१॥

प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति ।
प्राग्-गिरि-पिहिता रात्रिः सन्ध्या-रागं दिनस्येव ॥आस ३९२॥

पर-पति-निर्दय-कुलटाशोषित शठ नेष्यता न कोपेन ।
दग्ध-ममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥आस ३९३॥

प्राङ्गण एव कदा मां श्लिष्यन्ती मन्य्-कम्पि-कुच-कलशा ।
अंस-निषण्ण-मुखी सा स्नपयति बाष्पेण मम पृष्ठम् ॥आस ३९४॥

प्रेतैः प्रशस्त-सत्त्वा साश्रु वृकैर् वीक्षिता स्खलद्-ग्रासैः ।
चुम्बति मृतस्य वदनं भूत-मुखोल्केक्षितं बाला ॥आस ३९५॥

पिशुनः खलु सुजनानां खलम् एव पुरो विधाय जेतव्यः ।
कृत्वा ज्वरम् आत्मीयं जिगाय बाणं रणे विष्णुः ॥आस ३९६॥

पिब मधुप बकुल-कलिकां दूरे रसनाग्र-मात्रम् आधाय ।
अधर-विलेप-समाप्ये मधुनि मुधा वदनम् अर्पयसि ॥आस ३९७॥

प्रायेणैव हि मलिना मलिनानाम् आश्रयत्वम् उपयान्ति ।
कालिन्दी-पुट-भेदः कालिय-पुट-भेदनं भवति ॥आस ३९८॥

पश्य प्रिय-तनु-विघटन-भयेन शशि-मौलि-देह-संलग्ना ।
सुभगैक-दैवतम् उमा शिरसा भागीरथीं वहति ॥आस ३९९॥

पथिक-वधू-जन-लोचन-नीर-नदी-मातृक-प्रदेशेषु ।
धन-मण्डलम् आखण्डल-धनुषा कुण्डलितम् इव विधिना ॥आस ४००॥

प्रतिवेशि-मित्र-बन्धुषु दूरात् कृच्छ्रागतो ऽपि गेहिन्या ।
अतिकेलि-लम्पटया दिनम् एकम् अगोपि गेह-पतिः ॥आस ४०१॥

पर-पट इव रजकीभिर् मलिनो भुक्त्वापि निर्दयं ताभिः ।
अर्थ-ग्रहणेन विना जघन्य मुक्तो ऽसि कुलटाभिः ॥आस ४०२॥

इति विभाव्याख्या-समेता प-कार-व्रज्या ॥



ब-कार-व्रज्या[सम्पाद्यताम्]

बहु-योषिति लाक्षारुण-शिरसि वयस्येन दयित उपहसिते ।
तत्-काल-कलित-लज्जा पिशुनयति सखीषु सौभाग्यम् ॥आस ४०३॥

बन्धन-भाजो ऽमुष्याश् चिकुर-कलापस्य मुक्तमानस्य ।
सिन्दूरित-सीमन्त-च्छलेन हृदयं विदीर्णम् इव ॥आस ४०४॥

बलम् अपि वसति मयीति श्रेष्ठिनि गुरु-गर्व-गद्गदं वदति ।
तज्-जायया जनानां मुखम् ईक्षितम् आवृत-स्मितया ॥आस ४०५॥

बलवद् अनिलोपनीत-स्फुटित-नवाम्भोज-सौरभो मधुपः ।
आकृष्यते नलिन्या नासा-निक्षिप्त-बडिश-रज्जुर् इव ॥आस ४०६॥

बाणं हरिर् इव कुरुते सुजनो बहुदोषम् अप्य् अदोषम् इव ।
यावद् दोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥आस ४०७॥

बौद्धस्येव क्षणिको यद्यपि बहु-वल्लभस्य तव भावः ।
भग्ना भग्ना भ्रूर् इव न तु तस्या विघटते मैत्री ॥आस ४०८॥

बाष्पाकुलं प्रलपतोर् गृहिणि निवर्तस्व कान्त गच्छेति ।
यातं दम्पत्योर् दिनम् अनुगमनावधि सरस्-तीरे ॥आस ४०९॥

बाला-विलास-बन्धान् अप्रभवन् मनसि चिन्तयन् पूर्वम् ।
संमान-वर्जितां तां गृहिणीम् एवानुशोचामि ॥आस ४१०॥

इति विभाव्याख्या-समेता ब-कार-व्रज्या ॥



भ-कार-व्रज्या[सम्पाद्यताम्]

भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणम् अपि श्रयसि ।
धिङ् मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥आस ४११॥

भूतिमयं कुरुतेऽग्निस् तृणम् अपि संलग्नम् एनम् अपि भजतः ।
सैव सुवर्ण दशा ते शङ्के गरिमोपरोधेन ॥आस ४१२॥

भवति निदाघे दीर्घे यथेह यमुनेव यामिनी तन्वी ।
द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥आस ४१३॥

भवता महति स्नेहानलेऽर्पिता पथिक हेम-गुटिकेव ।
तन्वी हस्तेनापि स्प्रष्टुम् अशुद्धैर् न सा शक्या ॥आस ४१४॥

भूमि-लुलितैक-कुण्डलम् उत्तंसित-काण्ड-पटम् इयं मुग्धा ।
पश्यन्ती निःश्वासैः क्षिपति मनोरेणु-पूरम् अपि ॥आस ४१५॥

भवतालिङ्गि भुजङ्गी जातः किल भोगि-चक्रवर्ती त्वम् ।
कञ्चुक वनेचरी-स्तनम् अभिलषतः स्फुरति लघिमा ते ॥आस ४१६॥

भैक्ष-भुजा पल्ली-पतिर् इति स्तुतस् तद्-वधू-सुदृष्टेन ।
रक्षक जयसि यद् एकः शून्ये सुर-सदसि सुखम् अस्मि ॥आस ४१७॥

भोगाक्षमस्य रक्षां दृङ्-मात्रेणैव कुर्वतो ऽनभिमुखस्य ।
वृद्धस्य प्रमदापि श्रीर् अपि भृत्यस्य भोगाय ॥आस ४१८॥

भवितासि रजनि यस्याम् अध्व-श्रम-शान्तये पदं दधतीम् ।
स बलाद् वलयित-जङ्घा-बद्धां माम् उरसि पातयति ॥आस ४१९॥

भूषणतां भजतः सखि कषण-विशुद्धस्य जात-रूपस्य ।
पुरुषस्य च कनकस्य च युक्तो गरिमा सरागस्य ॥आस ४२०॥

भस्म-पुरुषेऽपि गिरिशे स्नेहमयी त्वम् उचितेन सुभगासि ।
मोघस् त्वयि जनवादो यद् ओषधि-प्रस्थ-दुहितेति ॥आस ४२१॥

भय-पिहितं बालायाः पीवरम् ऊरु-द्वयं स्मरोन्निद्रः ।
निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥आस ४२२॥

भ्रमरीव कोष-गर्भे गन्ध-हृता कुसुमम् अनुसरन्ती त्वाम् ।
अव्यक्तं कूजन्ती सङ्केतं तमसि सा भ्रमति ॥आस ४२३॥

भ्रामं भ्रामं स्थितया स्नेहे तव पयसि तत्र तत्रैव ।
आवर्त-पतित-नौकायितम् अनया विनयम् अपनीय ॥आस ४२४॥

भ्रमयसि गुणमयि कण्ठ-ग्रह-योग्यानात्म-मन्दिरोपान्ते ।
हालिक-नन्दिनि तरुणान् ककुद्मिनो मेढि-रज्जुर् इव ॥आस ४२५॥

भाल-नयनेऽग्निर् इन्दुर् मौलौ गात्रे भुजङ्ग-मणि-दीपाः ।
तद् अपि तमो-मय एव त्वम् ईश कः प्रकृतिम् अतिशेते ॥आस ४२६॥

इति विभाव्याख्या-समेता भ-कार-व्रज्या ॥



म-कार-व्रज्या[सम्पाद्यताम्]

मधु-मद-वीत-व्रीडा यथा यथा लपति संमुखं बाला ।
तन्-मुखम् अजात-तृप्तिस् तथा तथा वल्लभः पिबति ॥आस ४२७॥

मित्रैर् आलोच्य समं गुरु कृत्वा कदनम् अपि समारब्धः ।
अर्थः सताम् इव हतो मुख-वैलक्ष्येण मानो ऽयम् ॥आस ४२८॥

मम रागिणो मनस्विनि करम् अर्पयतो ददासि पृष्ठम् अपि ।
यदि तद् अपि कमल-बन्धोर् इव मन्ये स्वस्य सौभाग्यम् ॥आस ४२९॥

मा स्पृश माम् इति सकुपितम् इव भणितं व्यञ्जिता न च व्रीडा ।
आलिङ्गितया सस्मितमुक्तम् अनाचार किं कुरुषे ॥आस ४३०॥

मूलानि च निचुलानां हृदयानि च कूल-वसति-कुलटानाम् ।
मुदिर-मदिरा-प्रमत्ता गोदावरि किं विदारयसि ॥आस ४३१॥

मलय-द्रुम-साराणाम् इव धीराणां गुण-प्रकर्षो ऽपि ।
जड-समय-निपतितानाम् अनादरायैव न गुणाय ॥आस ४३२॥

मधुमथन-मौलि-माले सखि तुलयसि तुलसि किं मुधा राधाम् ।
यत् तव पदम् अदसीयं सुरभयितुं सौरभोद्भेदः ॥आस ४३३॥

मयि यास्यति कृत्वावधि-दिन-सङ्ख्यं चुम्बनं तथाश्लेषम् ।
प्रिययानुशोचिता सा तावत् सुरताक्षमा रजनी ॥आस ४३४॥

मृगमद-निदानम् अटवी कुङ्कुमम् अपि कृषक-वाटिका वहति ।
हट्टविलासिनि भवती परम् एका पौर-सर्वस्वम् ॥आस ४३५॥

मधु-दिवसेषु भ्राम्यन् यथा विशति मानसं भ्रमरः ।
सखि लोह-कण्टक-निभस् तथा मदन-विशिखो ऽपि ॥आस ४३६॥

मयि चलिते तव मुक्ता दृशः स्वभावात् प्रिये स-पानीयाः ।
सत्यम् अमूल्याः सद्यः प्रयान्ति मम हृदय-हारत्वम् ॥आस ४३७॥

मुग्धे मम मनसि शराः स्मरस्य पञ्चापि सन्ततं लग्नाः ।
शङ्के स्तन-गुटिका-द्वयम् अर्पितम् एतेन तव हृदये ॥आस ४३८॥

मधुमथन-वदन-विनिहित-वंशी-सुषिरानुसारिणो रागाः ।
हन्त हरन्ति मनो मम नलिका-विशिखाः स्मरस्येव ॥आस ४३९॥

महतोः सुवृत्तयोः सखि हृदय-ग्रह-योग्ययोः समुच्छ्रितयोः ।
सज्जनयोः स्तनयोर् इव निरन्तरं सङ्गतं भवति ॥आस ४४०॥

मम वारितस्य बहुभिर् भूयो भूयः स्वयं च भावयतः ।
जातो दिशीव तस्यां सखे न विनिवर्तते मोहः ॥आस ४४१॥

मग्नो ऽसि नर्मदाया रसे हृतो वीचि-लोचन-क्षेपैः ।
यद्य् उच्यसे तरुवर भ्रष्टो भ्रंशो ऽपि ते श्लाघ्यः ॥आस ४४२॥

मेनाम् उल्लासयति स्मेरयति हरिं गिरिं च विमुखयति ।
कृत-कर-बन्ध-विलम्बः परिणयने गिरिश-कर-कम्पः ॥आस ४४३॥

मधु-गन्धि घर्म-तिम्यत्-तिलकं स्खलद्-उक्तिं घूर्ण-दरुणाक्षम् ।
तस्याः कदाधरामृतम् आननम् अवधूय पास्यामि ॥आस ४४४॥

मेदिन्यां तव निपतति न पदं बहु-वल्लभेति गर्वेण ।
आश्लिष्य कैर् न तरुणैस् तुरीव वसनैर् विमुक्तासि ॥आस ४४५॥

मूले निसर्ग-मधुरं समर्पयन्तो रसं पुरो विरसाः ।
इक्षव इव पर-पुरुषा विविधेषु रसेषु विनिधेयाः ॥आस ४४६॥

महति स्नेहे निहितः कुसुमं बहु दत्तम् अर्चितो बहुशः ।
वक्रस् तद् अपि शनैश्चर इव सखि दुष्ट-ग्रहो दयितः ॥आस ४४७॥

मा शबर-तरुणि पीवर-वक्षोरुहयोर् भरेण भज गर्वम् ।
निर्मोकैर् अपि शोभा ययोर् भुजङ्गीभिर् उन्मुक्तैः ॥आस ४४८॥

मम कुपितायाश् छायां भूमाव् आलिङ्ग्य सखि मिलत्-पुलकः ।
स्नेहमयत्वम् अनुज्झन् करोति किं नैष माम् अरुषम् ॥आस ४४९॥

मुषित इव क्षण-विरहे रिपुर् इव कुसुमेषु-केलि-सङ्ग्रामे ।
दास इव श्रम-समये भजन् नताङ्गीं न तृप्यामि ॥आस ४५०॥

मुञ्चसि किं मानवतीं व्यवसायाद् द्विगुण-मन्यु-वेगेति ।
स्नेह-भवः पयसाग्निः सान्त्वेन च रोष उन्मिषति ॥आस ४५१॥

मलयजम् अपसार्य घनं वीजन-विघ्नं विधाय बाहुभ्याम् ।
स्मर-सन्तापाद् अगणित-निदाघम् आलिङ्गते मिथुनम् ॥आस ४५२॥

महतो ऽपि हि विश्वासान् महाशया दधति नाल्पम् अपि लघवः ।
संवृणुतेऽद्री-नुदधिर् निदाघ-नद्यो न भेकम् अपि ॥आस ४५३॥

मधु-धारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् ।
कृत-मुख-भङ्गापि रसं ददासि मम सरिद् इवाम्भोधेः ॥आस ४५४॥

मदनाकृष्ट-नुर्ज्या-घातैर् इव गृहिणि पथिक-तरुणानाम् ।
वीणा-तन्त्री-क्वाणैः केषां न विकम्पते चेतः ॥आस ४५५॥

मम भयम् अस्याः कोपो निर्वेदो ऽस्या ममापि मन्दाक्षम् ।
जातं क्व चान्तरिक्षे स्मित-संवृति-नमित-कन्धरयोः ॥आस ४५६॥

मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु ।
इयम् एव नर्मदा मम वंश-प्रभवानुरूप-रसा ॥आस ४५७॥

मृगमद-लेपनम् एनं नील-निचोलैव निशि निषेव त्वम् ।
कालिन्द्याम् इन्दीवरम् इन्दिन्दिर-सुन्दरीव सखि ॥आस ४५८॥

मम सख्या नयन-पथे मिलितः शक्तो न कश्चिद् अपि चलितुम् ।
पतितो ऽसि पथिक विषमे घट्ट-कुटीयं कुसुम-केतोः ॥आस ४५९॥

महता प्रियेण निर्मितम् अप्रियम् अपि सुभग सह्यतां याति ।
सुत-सम्भवेन यौवन-विनाशनं न खलु खेदाय ॥आस ४६०॥

मान-ग्रह-गुरु-कोपाद् अनु दयितात्य् एव रोचते मह्यम् ।
काञ्चनमयी विभूषा दाहाञ्चित-शुद्ध-भावेव ॥आस ४६१॥

इति विभाव्याख्या-समेता म-कार-व्रज्या ॥



य-कार-व्रज्या[सम्पाद्यताम्]

यूनः कण्टक-विटपानि विआञ्चल-ग्राहिणस् त्यजन्ती सा ।
वन इव पुरेऽपि विचरति पुरुषं त्वाम् एव जानन्ती ॥आस ४६२॥

युष्मासूपगताः स्मो विबुधा वाङ्-मात्र-पाटवेन वयम् ।
अन्तर्भवति भवत्स्व् अपि नाभक्तस् तन् न विज्ञातम् ॥आस ४६३॥

यत्र न दूती यत्र स्निग्धा न दृशो ऽपि निपुणया निहिताः ।
न गिरो ऽद्यापि व्यक्तीकृतः स भावो ऽनुरागेण ॥आस ४६४॥

या नीयते सपत्न्य् प्रविश्य यावर्जिता भुजङ्गेन ।
यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥आस ४६५॥

यस्मिन्न् अयशो ऽपि यशो ह्रीर् विघ्नो मान एव दौःशील्यम् ।
लघुता गुणज्ञता किं नवो युवा सखि न ते दृष्टः ॥आस ४६६॥

यद् वीक्ष्यते खलानां माहात्म्यं क्वापि दैव-योगेन ।
काकानाम् इव शौक्ल्यं तद् अपि हि न चिराद् अनर्थाय ॥आस ४६७॥

यत् खलु खल-मुख-हुत-वह-विनिहितम् अपि शुद्धिम् एव परमेति ।
तद् अनल-शौचम् इवांशुकम् इह लोके दुर्लभं प्रेम ॥आस ४६८॥

यन् नावधिम् अर्थयते पाथेयार्थं ददाति सर्वस्वम् ।
तेनानयाति-दारुण-शङ्काम् आरोपितं चेतः ॥आस ४६९॥

यूनाम् ईर्ष्या-वैरं वितन्वता तरुणि चक्र-रुचिरेण ।
तव जगह्नेनाकुलिता निखिला पल्ली खलेनेव ॥आस ४७०॥

यावज् जीवन-भावी तुल्याशयोयोर् नितान्त-निर्भेदः ।
नदयोर् इवैष युवयोः सङ्गो रसम् अधिकम् आवहतु ॥आस ४७१॥

यन् निहितां शेखरयसि मालां सा यातु शठ भवन्तम् इति ।
प्रहरन्तीं शिरसि पदा स्मरामि तां गर्व-गुरु-कोपाम् ॥आस ४७२॥

यौवन-गुप्तिं पत्यौ बन्धुषु मुग्धत्वम् आर्जवं गुरुषु ।
कुर्वाणा हलिक-वधूः प्रशस्यते व्याजतो युवभिः ॥आस ४७३॥

यो न गुरुभिर् न मित्रैर् न विवेकेनापि नैव रिपु-हसितैः ।
नियमित-पूर्वः सुन्दरि स विनीतत्वं त्वया नीतः ॥आस ४७४॥

यन्-मूलम् आर्द्रम् उदकैः कुसुमं प्रतिपर्व फल-भरः परितः ।
द्रुम तन् माद्यसि वीची-परिचय-परिणामम् अविचिन्त्य ॥आस ४७५॥

यस्याङ्के स्मर-सङ्गर-विश्रान्ति-प्राञ्जला सखी स्वपिति ।
स वहतु गुणाभिमानं मदन-धनुर्-वल्लि-चोल इव ॥आस ४७६॥

यदि दान-गन्ध-मात्राद् वसन्ति सप्त-च्छदेऽपि दन्तिन्यः ।
किम् इति मद-पङ्क-मलिनां करी कपोल-स्थलीं वहति ॥आस ४७७॥

यद्-अवधि विवृद्ध-मात्रा विकसित-कुसुमोत्करा शण-श्रेणी ।
पीतांशुक-प्रियेयं तदवधि पल्ली-पतेः पुत्री ॥आस ४७८॥

यमुना-तरङ्ग-तरलं न कुवलयं कुसुम-लावि तव सुलभम् ।
यदि सौरभानुसारी झङ्कारी भ्रमति न भ्रमरः ॥आस ४७९॥

इति विभाव्याख्या-समेता य-कार-व्रज्या ॥


र--कार-व्रज्या[सम्पाद्यताम्]

राज्याभिषेक-सलिल-क्षालित-मौलेः कथासु कृष्णस्य ।
गर्व-भर-मन्थराक्षी पश्यति पद-पङ्कजं राधा ॥आस ४९०॥

रति-कलह-कुपित-कान्ता-कर-चिकुराकर्ष-मुदित-गृह-नाथम् ।
भवति भवनं तद् अन्यत् प्राग्-वंशः पर्ण-शाला वा ॥आस ४९१॥

रोगो राजायत इति जनवादं सत्यम् अद्य कलयामि ।
आरोग्य-पूर्वकं त्वयि तल्प-प्रान्तागते सुभग ॥आस ४९२॥

रुद्ध-स्वरस-प्रसरस्यालिभिर् अग्रे नतं प्रियं प्रति मे ।
स्रोतस इव निम्नं प्रति रागस्य द्विगुण आवेगः ॥आस ४९३॥

रूपम् इदं कान्तिर् असाव् अयम् उत्कर्षः सुवर्ण-रचनेयम् ।
दुर्गत-मिलिता ललिते भ्रमसि प्रतिमन्दिर-द्वारम् ॥आस ४९४॥

रचिते निकुञ्ज-पत्रैर् भिक्षुक-पात्रे ददाति सावज्ञम् ।
पर्युषितम् अपि सुतीक्ष्ण-श्वास-कदुष्णं वधूर् अन्नम् ॥आस ४९५॥

रक्षति न खलु निज-स्थितिम् अलघुः स्थापयति नायकः स यथा ।
तिष्ठति तथैव तद्-गुण-विद्धेयं हार-यष्ठिर् इव ॥आस ४९६॥

राजसि कृशाङ्गि मङ्गल-कलशी सहकार-पल्लवेनेव ।
तेनैव चुम्बित-मुखी प्रथमाविर्भूत-रागेण ॥आस ४९७॥

रूप-गुण-हीन-हार्या भवति लघुर् धूलिर् अनिल-चपलेव ।
प्रथयति पृघु-गुण-नेया तरुणी तरणिर् इव गरिमाणम् ॥आस ४९८॥

रागे नवे विजृम्भति विरह-क्रम-मन्द-मन्द-मन्दाक्षे ।
सस्मित-सलज्जम् ईक्षितम् इदम् इष्टं सिद्धम् आचष्टे ॥आस ४९९॥

रोषो ऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा ।
वर्षाणाम् उपलो ऽपि हि सुस्निग्धः क्षणिक-कल्पश् च ॥आस ५००॥

रोदनम् एतद् धन्यं सखि किं बहु मृत्युर् अपि ममानर्घः ।
स्वप्नेनेव हि विहितो नयन-मनो-हारिणा तेन ॥आस ५०१॥

रोषेणैव मया सखि वक्रो ऽपि ग्रन्थिलो ऽपि कठिनो ऽपि ।
ऋजुताम् अनीयतायं सद्यः स्वेदेन वंश इव ॥आस ५०२॥

रजनीम् इयम् उपनेतुं पितृ-प्रसूः प्रथमम् उपतस्थे ।
रञ्जयति स्वयम् इन्दुं कुनायकं दुष्ट-दूतीव ॥आस ५०३॥

इति विभाव्याख्या-समेता र-कार-व्रज्या ॥


ल-कार-व्रज्या[सम्पाद्यताम्]

लग्नासि कृष्ण-वर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि ।
अयम् अखिल-नयन-सुभगो नु भुक्त-मुक्तां पुनः स्पृशति ॥आस ५०४॥

लक्ष्मीः शिक्षयति गुणान् अमून् पुनर् दुर्गतिर् विधूनयति ।
पूर्णो भवति सुवृत्तस् तुषार-रुचिर् अपचये वक्रः ॥आस ५०५॥

लूना-तन्तु-निरुद्ध-द्वारः शून्यालयः पतत्-पतगः ।
पथिके तस्मिन्न् अञ्चल-पिहित-मुखो रोदितीव सखि ॥आस ५०६॥

लग्नं जघने तस्याः सुविशाले कलित-करि-कर-क्रीडे ।
वप्रे सक्तं द्विपम् इव शृङ्गारस् त्वां विभूषयति ॥आस ५०७॥

लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण ।
अस्पृशतेव नलिन्या विदग्ध-मधुपेन मधु पीतम् ॥आस ५०८॥

लग्नं जघने तस्याः शुष्यति नख-लक्ष्म मानसं च मम ।
भुक्तम् अविशदम् अवेदनम् इदम् अधिक-सराग-साबाधम् ॥आस ५०९॥

लज्जयितुम् अखिल-गोपी-निपीत-मनसं मधुद्विषं राधा ।
अज्ञेव पृच्छति कथां शम्भोर् दयितार्ध-तुष्टस्य ॥आस ५१०॥

लक्ष्मी-निःश्वासानल-पिण्डी-कृत-दुग्ध-जलधि-सार-भुजः ।
क्षीर-निधि-तीर-सुदृशो यशांसि गायन्ति राधायाः ॥आस ५११॥

लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया ।
प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥आस ५१२॥

इति विभाव्याख्या-समेता ल-कार-व्रज्या ॥



व-कार-व्रज्या[सम्पाद्यताम्]

वर्ण-हृतिर् न ललाटे न लुलितम् अङ्गं न चाधरे दंशः ।
उत्पलम् अहारि वारि च न स्पृष्टम् उपाय-चतुरेण ॥आस ५१३॥

विविधायुध-व्रणार्बुद-विषमे वक्षः-स्थले प्रियतमस्य ।
श्रीर् अपि वीर-वधूर् अपि गर्वोत्पुलका सुखं स्वपिति ॥आस ५१८॥

वैमुख्येऽपि विमुक्ताः शरा इवान्याय-योधिनो वितनोः ।
भिन्दन्ति पृष्ठ-पतिताः प्रिय हृदयं मम तव श्वासाः ॥आस ५१९॥

व्यक्तम् अधुना समेतः खण्डो मदिराक्षि दशन-वसने ते ।
यन् नव-सुधैक-सारे लोभिनि तत् किम् अपि नाद्राक्षम् ॥आस ५२०॥

वीजयतोर् अन्योन्यं यूनोर् वियुतानि सकल-गात्राणि ।
सन् मैत्रीव श्रोणी परं निदाघेऽपि न विघटिता ॥आस ५२१॥

व्यारोषं मानिन्यास् तमो दिवः कासरं कलम् अभूमेः ।
बद्धम् अलिं च नलिन्याः प्रभात-सन्ध्यापसारयति ॥आस ५२२॥

वक्षसि विजृम्भमाणे स्तन-भिन्नं त्रुटति कञ्चुकं तस्याः ।
पूर्व-दयितानुरागस् तव हृदि न मनाग् अपि त्रुटति ॥आस ५२३॥

व्यक्तिम् अवेक्ष्य तद् अन्यां तस्याम् एवेति विदितम् अधुना तु ।
हर्म्य-हरि-मुखम् इव त्वाम् उभयोः साधारणं वेद्मि ॥आस ५२४॥

व्यजनस्येव समीपे गतागतैस् ताप-हारिणो भवतः ।
अञ्चलम् इव चञ्चलतां मम सख्याः प्रापितं चेतः ॥आस ५२५॥

वितरन्ती रसम् अन्तर् ममार्द्र-भावं तनोषि तनु-गात्रि ।
अन्तः-सलिला सरिद् इव यन् निवससि बहिर् अदृश्यापि ॥आस ५२६॥

विहित-विविधानुबन्धो मानोन्नतयावधीरितो मानी ।
लभते कुतः प्रबोधं स जागरित्वैव निद्राणः ॥आस ५२७॥

व्रीडा-विमुखीं वीत-स्नेहाम् आशङ्क्य काकु-वाङ्-मधुरः ।
प्रेमार्द्र-सापराधां दिशति दृशं वल्लभे बाला ॥आस ५२८॥

वक्षः-प्रणयिनि सान्द्र-श्वासे वाङ्-मात्र-सुभटि घन-घर्मे ।
सुतनु ललाट-निवेशित-ललाटिके तिष्ठ विजितासि ॥आस ५२९॥

विचरति परितः कृष्णे राधायां राग-चपल-नयनायाम् ।
दश-दिग्-वेध-विशुद्धं विशिखं विदधाति विषमेषुः ॥आस ५३०॥

विमुखे चतुर्मुखे श्रितवति चानीश-भावम् ईशेऽपि ।
मग्न-मही-निस्तारे हरिः परं स्तब्ध-रोमाभूत् ॥आस ५३२॥

वापी-कच्छे वासः कण्टक-वृतयः सजागरा भ्रमराः ।
केतक-विटप किम् एतैर् ननु वारय मञ्जरी-गन्धम् ॥आस ५३३॥

विचलसि मुग्धे विधृता यथा तथा विशसि हृदय-मदये मे ।
शक्तिः प्रसून-धनुषः प्रकम्प-लक्ष्यं स्पृशन्तीव ॥आस ५३४॥

विहितआसम-शर-समरो जित-गाङ्गेय-च्छविः कृताटोपः ।
पुरुषायिते विराजति देहस् तव सखि शिखण्डीव ॥आस ५३५॥

वृति-विवर-निर्गतस्य प्रमदा-बिम्बाधरस्य मधु पिबते ।
अवधीरित-पीयूषः स्पृहयति देवाधिराजो ऽपि ॥आस ५३६॥

वासित-मधुनि वधूनाम् अवतंसे मौलि-मण्डने यूनाम् ।
विलसति सा पुरु-कुसुमे मधुपीव वन-प्रसूनेषु ॥आस ५३७॥

व्रीडा-प्रसरः प्रथमं तद् अनु च रस-भाव-पुष्ट-चेष्टेयम् ।
जवनी-विनिर्गमाद् अनु नटीव दयिता मनो हरति ॥आस ५३८॥

वाससि हरिद्रयेव त्वयि गौराङ्ग्या निवेशितो रागः ।
पिशुनेन सो ऽपनीतः सहसा पतता जलेनेव ॥आस ५३९॥

विष्वग्-विकासि-सौरभ-रागान्ध-व्याघ-बाधनीयस्य ।
क्वचिद् अपि कुरङ्ग भवतो नाभीम् आदाय न स्थानम् ॥आस ५४०॥

वट-कुटज-शाल-शाल्मलि-रसाल-बहु-सार-सिन्धु-वाराणाम् ।
अस्ति भिदा मलयाचल-सम्भव-सौरभ्य-साम्येऽपि ॥आस ५४१॥

विनिहित-कपर्द-कोटिं चापल-दोषेण शङ्करं त्यक्त्वा ।
वटम् एकम् अनुसरन्ती जाह्नवि लुठसि प्रयाग-तटे ॥आस ५४२॥

वेद चतुर्णां क्षणदा प्रहराणां सङ्गमं वियोगं च ।
चरणानाम् इव कूर्मी सङ्कोचम् अपि प्रसारम् अपि ॥आस ५४३॥

वृति-विवरेण विशन्ती सुभग त्वाम् ईक्षितुं सखी दृष्टिः ।
हरति युव-हृदय-पञ्जर-मध्यस्था मन्मथेषुर् इव ॥आस ५४४॥

विपणितुला-सामान्ये मा गणयैनं निरूपणे निपुण ।
धर्म-घटो ऽसाव् अधरीकरोति लघुम् उपरि नयति गुरुम् ॥आस ५४५॥

वासर-गम्यम् अनूरोर् अम्बरम् अवनी च वामनैक-पदम् ।
जलधिर् अपि पोतलङ्घ्यः सतां मनः केन तुलयामः ॥आस ५४६॥

वितत-तमो-मषिलेखालक्ष्मोत्सङ्ग-स्फुटाः कुरङ्गाक्षि ।
पत्राक्षर-निकरा इव तारा नभसि प्रकाशन्ते ॥आस ५४७॥

विविधाङ्ग-भङ्गिषु गुरुर् नूतन-शिष्यां मनोभवाचार्यः ।
वेत्र-लतयेव बालां तल्पे नर्तयति रत-रीत्या ॥आस ५४८॥

विपरीतम् अपि रतं ते स्रोतो नद्या इवानुकूलम् इदम् ।
तट-तरुम् इव मम हृदयं समूलम् अपि वेगतो हरति ॥आस ५४९॥

वैभव-भाजां दूषणम् अपि भूषण-पक्ष एव निक्षिप्तम् ।
उग्णम् आत्मनाम् अधर्मं द्वेषं च गृणन्ति काणादाः ॥आस ५५०॥

वक्राः कपट-स्निग्धाः मलिनाः कर्णान्तिके प्रसज्जन्तः ।
कं वञ्चयन्ति न सखे खलाश् च गणिका-कटाक्षाश् च ॥आस ५५१॥

विद्युज्-ज्वाला-वलयित-जलधर-पिठरोदराद् विनिर्यान्ति ।
विशदौदन-द्युति-मुषः प्रेयसि पयसा समं करकाः ॥आस ५५२॥

व्यजनादिभिर् उपचारैः किं मरु-पथिकस्य गृहिणि विहितैर् मे ।
तापस् त्वद्-ऊरु-कदली-द्वय-मध्ये शान्ति-मयम् एति ॥आस ५५३॥

वैगुण्येऽपि हि महता विनिर्मितं भवति कर्म शोभायै ।
दुर्वह-नितम्ब-मन्थरम् अपि हरति नितम्बिनी-नृत्यम् ॥आस ५५४॥

वीक्ष्य सतीनां गणने रेखाम् एकां तया स्व-नामाङ्काम् ।
सन्तु युवानो हसितुं स्वयम् एवापारि नावरितुम् ॥आस ५५५॥

विन्ध्याचल इव देहस् तव विविधावर्त-नर्मद-नितम्बः ।
स्थगयति गतिं मुनेर् अपि सम्भावित-रवि-रथ-स्तम्भः ॥आस ५५६॥

वृति-भञ्जन गञ्जन-सह निकामम् उद्दाम दुर्नयाराम ।
परवाटी-शत-लम्पट दुष्ट-वृष स्मरसि गेहम् अपि ॥आस ५५७॥

वंशावलम्बनं यद् यो विस्तारो गुणस्य यावनतिः ।
तज् जालस्य खलस्य च निजाङ्क-सुप्त-प्रणाशाय ॥आस ५५८॥

विन्ध्य-महीधर-शिखरे मुदिर-श्रेणी-कृपाण-मयम् अनिलः ।
उद्यद्-विद्युज्-ज्योतिः पथिक-वधायैव शातयति ॥आस ५५९॥

व्यालम्बमान-वेणी-धुत-धूलि प्रथमम् अश्रुभिर् धौतम् ।
आयातस्य पदं मम गेहिन्या तद् अनु सलिलेन ॥आस ५६०॥

वक्षः-स्थल-सुप्ते मम मुखम् उपधातुं न मौलिम् आलभसे ।
पीनोत्तुङ्ग-स्तन-भर-दूरी-भूतं रत-श्रान्तौ ॥आस ५६१॥

वदन-व्यापारान्तर्भावाद् अनुरक्तमानयन्ती त्वम् ।
दूति सती-नाशार्थं तस्य भुजङ्गस्य दंष्ट्रासि ॥आस ५६२॥

इति विभाव्याख्या-समेता व-कार-व्रज्या ॥


श-कार-व्रज्या[सम्पाद्यताम्]

श्रीर् अपि भुजङ्ग-भोगे मोहन-विज्ञेन शीलिता येन ।
सो ऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः ॥आस ५६३॥

शङ्के या स्थैर्यमयी श्लथयति बाहू मनोभवस्यापि ।
दर्प-शिलाम् इव भवतीं कतरस् तरुणो विचालयति ॥आस ५६४॥

शार्दूल-नखर-भङ्गुर कठोरतर-जात-रूप-रचनो ऽपि ।
बालानाम् अपि बालासा यस्यास् त्वम् अपि हृदि वससि ॥आस ५६५॥

श्रुत एव श्रुति-हारिणि रागोत्कर्षेण कण्ठम् अधिवसति ।
गीत इव त्वयि मधुरे करोति नार्थ-ग्रहं सुतनुः ॥आस ५६६॥

श्रीः श्री-फलेन राज्यं तृण-राजेनाल्प-साम्यतो लब्धम् ।
कुचयोः सम्यक्-साम्याद् गतो घटश् चक्रवर्तित्वम् ॥आस ५६७॥

श्रोणी भूमाव् अङ्के प्रियो भयं मनसि पति-भुजे मौलिः ।
गूढश्वासो वदने सुरतम् इदं चेत् तृणं त्रिदिवम् ॥आस ५६८॥

श्लिष्यन्न् इव चुम्बन्न् इव पश्यन्न् इव चोल्लिखन्न् इवातृप्तः ।
दधद् इव हृदयस्यान्तः स्मरामि तस्या मुहुर् जघनम् ॥आस ५६९॥

शिरसि चरण-प्रहारं प्रदाय निःसार्यतां स ते तद् अपि ।
चक्राङ्कितो भुजङ्गः कालिय इव सुमुखि कालिन्द्याः ॥आस ५७०॥

शोच्यैव सा कृशाङ्गी भूतिमयी भवतु गुणमयी वापि ।
स्नेहैक-वश्य भवता त्यक्ता दीपेन वर्तिर् इव ॥आस ५७१॥

शुक इव दारु-शलाका-पिञ्जरम् अनुदिवस-वर्धमानो मे ।
कृन्तति दयिता-हृदयं शोकः स्मर-विशिख-तीक्ष्ण-मुखः ॥आस ५७२॥

श्रुत्वाकस्मिक-मरणं शुक-सूनोः सकल-कौतुकैक-निधेः ।
ज्ञातो गृहिणी-विनय-व्यय आगत्यैव पथिकेन ॥आस ५७३॥

शीलित-भुजङ्ग-भोगा क्रोडेनाभुद्धृतापि कृष्णेन ।
अचलैव कीर्त्यते भूः किम् अशक्यं नाम वसुमत्याः ॥आस ५७४॥

श्यामा विल्चन-हरी बालेयं मनसि हन्त सज्जन्ती ।
लुम्पति पूर्व-कलत्रं धूम-लता भित्ति-चित्रम् इव ॥आस ५७५॥

शतशो गतिर् आवृत्तिः शतशः कण्ठावलम्बनं शतशः ।
शतशो यामीति वचः स्मरामि तस्याः प्रवास-दिने ॥आस ५७६॥

श्रुत-पर-पुष्ट-रवाभिः पृष्टो गोपीभिर् अभिमतं कृष्णः ।
शंसति वंश-स्तनितैः स्तन-विनिहित-लोचनो ऽनुमतम् ॥आस ५७७॥

शङ्कर-शिरसि निवेशित-पदेति मा गर्वम् उद्वहेन्दु-कले ।
फलम् एतस्य भविष्यति तव चण्डी-चरण-रेणुमृजा ॥आस ५७८॥

शाखि-शिखरे समीरण-दोलायित-नीड-निर्वृतं वसति ।
कर्मैक-शराणम् अगणित-भयम् अशिथिल-केलि खग-मिथुनम् ॥आस ५७९॥

शुक सुरत-समर-नारद हृदय-रहस्यैक-सार सर्वज्ञ ।
गुरु-जन-समक्ष-मूक प्रसीद जम्बू-फलं दलय ॥आस ५८०॥

शिरसा वहसि कपर्दं रुद्र रुदित्वापि रजतम् अर्जयसि ।
अस्याप्य् उदरस्यार्धं भजतस् तव वेत्ति कस् तत्त्वम् ॥आस ५८१॥

श्रोतव्यैव सुधेव श्वेतांशु-कलेव दूर-दृश्यैव ।
दुष्ट-भुजङ्ग-परीते त्वं केतकि न खलु नः स्पृश्या ॥आस ५८२॥

श्रवणोपनीत-गुणया समर्पयन्त्या प्रणम्य कुसुमानि ।
मदन-धनुर्-लतयेव त्वया वशं दूति नीतो ऽस्मि ॥आस ५८३॥

शाखोटक-शाखोटज-वैखानस-करट-पूज्य रट सुचिरम् ।
नादर-पदम् इह गणकाः प्रमाण-पुरुषो भवान् एकः ॥आस ५८४॥

शशि-रेखोपम-कान्तेस् तवान्य-पाणि-ग्रहं प्रयातायाः ।
मदनासि-पुत्रिकाया इवाङ्ग-शोभां कदर्थयति ॥आस ५८५॥

शैथिल्येन भृता अपि भर्तुः कार्यं त्यजन्ति न सुवृत्ताः ।
बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्ति ॥आस ५८६॥

इति विभाव्याख्या-समेता श-कार-व्रज्या ।



ष-कार-व्रज्या[सम्पाद्यताम्]

षट्-चरण-कीट-जुष्टं पराग-घुण-पूर्णम् आयुधं त्यक्त्वा ।
त्वां मुष्टिमेय-मध्याम् अधुना शक्तिं स्मरो वहति ॥आस ५८७॥

इति विभाव्याख्या-समेता ष-कार-व्रज्या ।


स-कार-व्रज्या[सम्पाद्यताम्]

सा दिवस-योग्य-कृत्य-व्यपदेशा केवलं गृहिणी ।
द्वितिथेर् दिवसस्य परा तिथिर् इव सेव्या निशि त्वम् असि ॥आस ५८८॥

स्तन-नूतन-नख-लेखालम्बी तव घर्म-बिन्दु-सन्दोहः ।
आभाति पट्ट-सूत्रे प्रविशन्न् इव मौक्तिक-प्रसरः ॥आस ५८९॥

सौभाग्य-गर्वम् एका करोतु यूथस्य भूषणं करिणी ।
अत्यायाम् अवतोर् या मदान्धयोर् मध्यम् अधिवसति ॥आस ५९०॥

स्व-चरण-पीडानुमित-त्वन्-मौलि-रुजा-विनीत-मात्सर्या ।
अपराद्धा सुभग त्वां स्वयम् अहम् अनुनेतुम् आयाता ॥आस ५९१॥

स्नेहमयान् पीडयतः किं चक्रेणापि तैलकारस्य ।
चालयति पार्थिवान् अपि यः स कुलालः परं चक्री ॥आस ५९२॥

सरले न वेद भवती बहु-भङ्गा बहु-रसा बहु-विवर्ता ।
गतिर् असती-नेत्राणां प्रेम्णां स्रोतस्वतीनां च ॥आस ५९३॥

सखि मध्याह्न-द्वि-गु॑न-द्युमणि-कर-श्रेणि-पीडिता छाया ।
मज्जितुम् इवाल-वाले परितस् तरु-मूलम् आश्रयति ॥आस ५९४॥

सखि शृणु मम प्रियो ऽयं गेहं येनैव वर्त्मनायातः ।
तन्-नगर-ग्राम-नदीः पृच्छति समम् आगतान् अन्यान् ॥आस ५९५॥

सायं रविर् अनलम् असौ मदन-शरं स च वियोगिनी-चेतः ।
इदम् अपि तमः-समूहं सो ऽपि नभो निर्भरं विशति ॥आस ५९६॥

स्मर-समर-समय-पूरित-कम्भु-निभो द्विगुण-पीन-गल-नालः ।
शीर्ण-प्रासादोपरि जिगीषुर् इव कल-रवः क्वणति ॥आस ५९७॥

स्फुरद्-अधरम् अविरताश्रु ध्वनि-रोधोत्कम्प-कुचम् इदं रुदितम् ।
जानूपनिहित-हस्त-न्यस्त-मुखं दक्षिण-प्रकृतेः ॥आस ५९८॥

स्वयम् उपनीतैर् अशनैः पुष्णन्ती नीड-निर्वृतं दयितम् ।
सहज-प्रेम-रसज्ञा सुभगा-गर्वं बकी वहतु ॥आस ५९९॥

स्व-रसेन बध्नतां करम् आदाने कण्टकोत्करैस् तुदताम् ।
पिशुनानां पनसानां कोषाभोगो ऽप्य् अविश्वास्यः ॥आस ६००॥

सौभाग्यं दाक्षिण्यान् नेत्य् उपदिष्टं हरेण तरुणीनाम् ।
वामार्धम् एव देव्याः स्व-वपुः-शिल्पे निवेशयता ॥आस ६०१॥

सुभग स्व-भवन-भित्तौ भवता संमर्द्य पीडिता सुतनुः ।
सा पीडयैव जीवति दधती वैद्येषु विद्वेषम् ॥आस ६०२॥

सा गुण-मयी स्वभाव-स्वच्छा सुतनुः कर-ग्रहायत्ता ।
भ्रमिता बहु-मन्त्र-विदा भवता काश्मीर-मालेव ॥आस ६०३॥

स-व्रीड-स्मित-सुभगे स्पृष्टास्पृष्टेव किंचिद् अपयान्ती ।
अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ॥आस ६०४॥

सखि सुखयत्य् अवकाश-प्राप्तः प्रेयान् यथा तथा न गृही ।
वाताद् अवारिताद् अपि भवति गवाक्षानिलः शीतः ॥आस ६०५॥

सततम् अरुणित-मुखे सखि निगिरन्ती गरलम् इव गिरां गुम्फम् ।
अवगणितौषधि-मन्त्रा भुजङ्गि रक्तं विरञ्जयसि ॥आस ६०६॥

स्थल-कमल-मुग्ध-वपुषा सातङ्काङ्क-स्थितैक-चरणेन ।
आश्वासयति विसिन्याः कूले विस-कण्ठिका शफरम् ॥आस ६०७॥

स-नख-पदम् अधिक-गौरं नाभी-मूलं निरंशुकं कृत्वा ।
अनया सेवित पवन त्वं किं कृत-मलय-भृगुपातः ॥आस ६०८॥

सर्वाङ्गम् अर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् ।
अलसम् अपि भाग्यवन्तं भजते पुरुषयितेव श्रीः ॥आस ६०९॥

सुदितं तद् एव यत्र स्मारं स्मारं वियोग-दुःखानि ।
आलिङ्गति सा गाढं पुनः पुनर् यामिनी-प्रथमे ॥आस ६१०॥

सान्तर्-भयं भुजिष्या यथा यथाचरति समधिकां सेवाम् ।
साशङ्क-सेर्ष्य-सभया तथा तथा गेहिनी तस्य ॥आस ६११॥

सुन्दरि दर्शयति यथा भवद्-विपक्षस्य तत्-सखी कान्तिम् ।
पतति तथा मम दृष्टिस् त्वद्-एक-दासस्य सासूया ॥आस ६१२॥

स्वाधीनैर् अधर-व्रण-नखाङ्क-पत्रावलोप-दिन-शयनैः ।
सुभगा सुभगेत्य् अनया सखि निखिला मुखरिता पल्ली ॥आस ६१३॥

सरित इव यस्य गेहे शुष्यन्ति विशाल-गोत्रजा नार्यः ।
क्षारास्व् एव स तृप्यति जल-निधि-लहरीषु जलद इव ॥आस ६१४॥

सकल-कटकैक-मण्डनि कठिनी-भूताशये शिखर-दन्ति ।
गिरिभुव इव तव मन्ये मनः शिला समभवच् चण्डि ॥आस ६१५॥

सखि दुरवगाह-गहनो विदधानो विप्रियं प्रिय-जनेऽपि ।
खल इव दुर्लक्ष्यस् तव विनत-मुखस्योपरि स्थितः कोपः ॥आस ६१६॥

स्वेद-सचेल-स्नाता सप्त-पदी सप्त मण्डलीर् यान्ती ।
स-मदन-दहन-विकारा मनोहरा व्रीडिता नमति ॥आस ६१७॥

सुरस-प्रवर्तमानः सङ्घाटो ऽयं समान-वृत्तानाम् ।
एत्यैव भिन्न-वृत्तैर् भङ्गुरितः काव्य-सर्ग इव ॥आस ६१८॥

सर्वासाम् एव सखे पय इव सुरतं मनोहारि ।
तस्या एव पुनः पुनर् आवृत्तौ दुग्धम् इव मधुरम् ॥आस ६१९॥

स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदि-स्थापि ।
दुष्टां न बुद्धिम् इव तां गूढ-व्यभिचारिणीं वेत्सि ॥आस ६२०॥

सपरावृति चरन्ती वात्य् एव तृणं मनो ऽनवद्याङ्गि ।
हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥आस ६२१॥

सा बहु-लक्षण-भावा स्त्री-मात्रं वेति कितव तव तुल्यम् ।
कोटिर् वराटिका वा द्यूत-विधेः सर्व एव पणः ॥आस ६२२॥

सा विरह-दहन-दूना मृत्वा मृत्वापि जीवति वराकी ।
शारीव कितव भवतानुकूलिता पातिताक्षेण ॥आस ६२३॥

स्पर्शाद् एव स्वेदं जनयति न च मे ददाति निद्रातुम् ।
पिर्य इव जघनांशुकम् अपि न निदाघः क्षणम् अपि क्षमते ॥आस ६२४॥

सा भवतो भावनया समय-विरुद्धं मनोभवं बाला ।
नूतन-लतेव सुन्दर दोहद-शक्त्या फलं वहति ॥आस ६२५॥

स्पृशति नखैर् न च विलिखति सिचयं गृह्णाति न च विमोचयति ।
न च मुञ्चति न च मदयति नयति निशां सा न निद्राति ॥आस ६२६॥

स्तन-जघन-द्वयम् अस्या लङ्घित-मध्यः सखे मम कटाक्षः ।
नोज्झति रोधस्वत्यास् तट-द्वयं तीर्थ-काक इव ॥आस ६२७॥

स-व्रीड-स्मित-मन्द-श्वसितं मां मा स्पृशेति शंसन्त्या ।
आकोपम् एत्य वातायनं पिधाय स्थितं प्रियया ॥आस ६२८॥

स-कर-ग्रहं स-रुदितं साक्षेपं स-नख-मुष्टि स-जिगीषम् ।
तस्याः सुरतं सुरतं प्राजापत्य-क्रतुर् अतो ऽन्यः ॥आस ६२९॥

सखि न खलु निमलानां विदधत्य् अभिधानम् अपि मुखे मलिनाः ।
केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः ॥आस ६३०॥

स्वल्पा इति राम-बलैर् ये न्यस्ता नाशये पयो-राशेः ।
ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहु-मानः ॥आस ६३१॥

सा श्यामा तन्वङ्गी दहता शीतोपचार-तीव्रेण ।
विरहेण पाण्डिमानं नीता तुहिनेन दूर्वैव ॥आस ६३२॥

सुनिरीक्षित-निश्चल-कर-वल्लभ-धारा-जलोक्षिता न तथा ।
सोत्कम्पेन मया सखि दृष्टा सा माद्यति स्म यथा ॥आस ६३३॥

सखि मोघीकृत-मदने पतिव्रते कस् तवादरं कुरुते ।
नाश्रौषीर् भगवान् अपि स काम-विद्धो हरः पूज्यः ॥आस ६३४॥

सा मयि न दास-बुद्धिर् न रतिर् नापि त्रपा न विश्वासः ।
हन्त निरीक्ष्य नवोढां मन्ये वयम् अपिर्या जाताः ॥आस ६३५॥

सुचिरायाते गृहिणी निशि भुक्ता दिन-मुखे विदग्धेयम् ।
धवल-नखाङ्कं निज-वपुर् अकुङ्कुमार्द्रं न दर्शयति ॥आस ६३६॥

स्तन-जघनोरु-प्रणयी गाढं लग्नो निवेशित-स्नेहः ।
प्रिय काल-परिणतिर् इयं विरज्यसे यन् नखाङ्क इव ॥आस ६३७॥

सा विच्छाया निशि निशि सुतनुर् बहु-तुहिन-शीतले तल्पे ।
ज्वलति त्वदीय-विरहाद् ओषधिर् इव हिमवतः पृष्ठे ॥आस ६३८॥

सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् ।
सुन्दर सखी दिवसकर-बिम्बे तुहिनांशु-रेखेव ॥आस ६३९॥

सुकुमारत्वं कान्तिर् नितान्त-सरअत्वम् आन्तराश् च गुणाः ।
किं नाम नेन्दुलेखे शश-ग्रहेणैव तव कथितम् ॥आस ६४०॥

सौरभ्य-मात्र-मनसाम् आस्तां मलय-द्रुमस्य न विशेषः ।
धर्मार्थिनां तथापि स मृग्यः पूजार्थम् अश्वत्थः ॥आस ६४१॥

संवाहयति शयानं यथोपवीजयति गृहपतिं गृहिणी ।
गृह-वृति-विवर-निवेशित-दृशस् तथाश्वासनं यूनः ॥आस ६४२॥

सत्यं स्वल्प-गुणेषु स्तब्धा सदृशे पुनर् भुजङ्गे सा ।
अर्पित-कोटिः प्रणमति सुन्दर हर-चाप-यष्टिर् इव ॥आस ६४३॥

सर्वंसहां महीम् इव विधाय तां बाष्प-वारिभिः पूर्णाम् ।
भवनान्तर-मयम् अधुना सङ्क्रान्तस् ते गुरुः प्रेमा ॥आस ६४४॥

सम्भवति न खलु रक्षा सरसानां प्रकृति-चपल-चरितानाम् ।
अनुभवति हर-शिरस्य् अपि भुजङ्ग-परिशीलनं गङ्गा ॥आस ६४५॥

सुलभेषु कमल-केसर-केतक-माकन्द-कुन्द-कुसुमेषु ।
वाञ्छति मनोरथान्धा मधुपी स्मर-धनुषि गुणी-भावम् ॥आस ६४६॥

सा लज्जिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता ।
बालायाः पीडायां निदानिते जागरे वैद्यैः ॥आस ६४७॥

सुचिरागतस्य संवाहन-च्छलेनाङ्गम् अङ्गम् आलिङ्ग्य ।
पुष्यति च मान-चर्चां गृहिणी सफलयैत् चोत्कलिकाम् ॥आस ६४८॥

सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति ।
वचन-पटोस् तव रागः केवलम् आस्ये शुकस्येव ॥आस ६४९॥

सायं कान्त-भुजान्तर-पतिता रति-नीत-सकल-रजनीका ।
उषसि ददती प्रदीपं सखीभिर् उपहस्यते बाला ॥आस ६५०॥

सा तीक्ष्ण-मान-दहना महतः स्नेहस्य दुर्लभः पाकः ।
त्वां दर्वीम् इव दूति प्रयासयन्न् अस्मि विश्वस्तः ॥आस ६५१॥

स्नेह-क्षतिर् जिगीषा समरः प्राण-व्ययावधिः करिणाम् ।
न वितनुते कम् अनर्थं दन्तिनि तव यौवनोद्भटः ॥आस ६५२॥

सदनाद् अपैति दयितो हसति सखी विशति घरणिम् इव बाला ।
ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदति ॥आस ६५३॥

सङ्कुचिताङ्गीं द्विगुणांशुकां मनो-मात्र-विस्फुरन्-मदनाम् ।
दयितां भजामि मुग्धाम् इव तुहिन तव प्रसादेन ॥आस ६५४॥

सखि लग्नैव वसन्ती सदाशये महति रस-मये तस्य ।
बाडव-शिखेव सिन्धोर् न मनाग् अप्य् आर्द्रतां भजसि ॥आस ६५५॥

सखि मिहिरोद्गमनादि-प्रमोदम् अपिधाय सो ऽयम् अवसाने ।
बन्ध्यो ऽवधि-वासर इव तुषार-दिवसः कदर्थयति ॥आस ६५६॥

सुर-भवने तरुणाभ्यां परस्पराकृष्ट-दृष्टि-हृदयाभ्याम् ।
देवार्चनार्थम् उद्यतम् अन्योन्यस्यार्पितं कुसुमम् ॥आस ६५७॥

सायं कुशेशयान्तर्-मधुपानां निर्यतां नादः ।
मित्र-व्यसन-विषण्णैः कमलैर् आक्रन्द इव मुक्तः ॥आस ६५८॥

सुमहति मन्यु-निमित्ते मयैव विहितेऽपि वेपमानोरुः ।
न सखीनाम् अपि रुदती ममैव वक्षः-स्थले पतिता ॥आस ६५९॥

सुभग व्यजन-विचालन-शिथिल-भुजाभूद् इयं वयस्यापि ।
उद्वर्तनं न सख्याः समाप्यते किञ्चिद् अपगच्छ ॥आस ६६०॥

स-व्रीडा नख-रदनार्पणेषु कुपिता प्रगाढम् अचिरोढा ।
बहु-याच्ञा-चरण-ग्रह-साध्या रोषेण जातेयम् ॥आस ६६१॥

सुगृहीत-मलिन-पक्षा लघवः पर-भेदिनः परं तीक्ष्णाः ।
पुरुषा अपि विशिखा अपि गुण-च्युताः कस्य न भयाय ॥आस ६६२॥

स्व-कपोलेन प्रकटीकृतं प्रमत्तत्व-कारणं किम् अपि ।
द्विरदस्य दुर्जनस्य च मदं चकारैव दानम् अपि ॥आस ६६३॥

सत्यं पतिर् अविदग्धः सा तु स्व-धियैव निधुवने निपुणा ।
मार्त्तिकम् आधाय गुरुं धनुर् अधिगतम् एकलव्येन ॥आस ६६४॥

सौभाग्य-मानवान् स त्वयावधीर्यापमानम् आनीतः ।
स्वं विरह-पाण्डिमानं भस्म-स्नानोपमं तनुते ॥आस ६६५॥

सखि मम करञ्ज-तैलं बहु-सन्देशं प्रहेष्यसीत्य् उदिता ।
श्वशुर-गृह-गमन-मिलितं बाष्प-जलं संवृणोत्य् असती ॥आस ६६६॥

सन्दर्शयन्ति सुन्दरि कुलटानां तमसि विततम् अविकल्पे ।
मौलिमणिदीप-कलिका वर्ति-निभा भोगिनो ऽध्वानम् ॥आस ६६७॥

सर्वं वनं तृणाल्या पिहितं पीताः सितांशु-रवि-ताराः ।
प्रध्वंसाः पन्थानो मलिनेनोद्गम्य मेघेन ॥आस ६६८॥

सम्यग् अनिष्पन्नः सन् यो ऽर्थस् त्वरया स्वयं स्फुटीक्रियते ।
स व्यङ्ग एव भवति प्रथमो विनता-तनूज इव ॥आस ६६९॥

सज्जन एव हि विद्या शोभनायै भवति दुर्जने मोघा ।
न विदूर-दर्शनतया कैश्चिद् उपादीयते गृध्रः ॥आस ६७०॥

सुभगं वदति जनस् तं निज-पतिर् इति नैष रोचते मह्यम् ।
पीयूषेऽपि हि भेषज-भावोपनते भवत्य् अरुचिः ॥आस ६७१॥

सौध-गवाक्ष-गतापि हि दृष्टिस् तं स्थिति-कृत-प्रयत्नम् अपि ।
हिम-गिरि-शिखर-स्खलिता गङ्गेवैरावतं हरति ॥आस ६७२॥

सह-घर्म-चारिणी मम परिच्छदः सुतनु नेह सन्देहः ।
न तु सुखयति तुहिन-दिन-च्छत्र-च्छायेव सज्जन्ती ॥आस ६७३॥

सकल-गुणैक-निकेतन दानव-वासेन घरणिरुहराजः ।
जातो ऽसि भूतले त्वं सताम् अनादेय-फल-कुसुमः ॥आस ६७४॥

सुन्दरि ताटङ्कमयं चक्रम् इवोद्वहति तावके कर्णे ।
निपतति निकाम-तीक्ष्णं कटाक्ष-बाणो ऽर्जुन-प्रणयी ॥आस ६७५॥

स्वाधीनैव फल-र्द्धिर् जनोपजीव्यत्वम् उच्छ्रय-च्छाया ।
सत्-पुंसो मरु-भूरुह इव जीवन-मात्रम् आशास्यम् ॥आस ६७६॥

सन्ताप-मोह-कम्पान् सम्पादयितुं निहन्तुम् अपि जन्तून् ।
सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव ॥आस ६७७॥

सुखयिततरां न रक्षति परिचय-लेशं गणाङ्गनेव श्रीः ।
कुक-कामिनीव नोज्झति वाग्-देवी जन्म-जन्मापि ॥आस ६७८॥

स्व-सदन-निकटे नलिनीम् अभिनव-जात-च्छदां निरीक्ष्यैव ।
हा गृहिणीति प्रलपंश् चिरागतः सखि पतिः पतितः ॥आस ६७९॥

सचि चतुरानन-भावाद् वैमुख्यं क्वापि नैव दर्शयति ।
अयम् एक-हृदय एव द्रुहिण इव प्रियतमस् तद् अपि ॥आस ६८०॥

सत्यं मधुरो नियतं वक्रो नूनं कलाधरो दयितः ।
स तु वेद न द्वितीयाम् अकलङ्कः प्रतिपद्-इन्दुर् इव ॥आस ६८१॥

स्व-स्थानाद् अपि विचलति मज्जति जलधौ च नीचम् अपि भजते ।
निज-पक्ष-रक्षण-मनाः सुजनो मैनाक-शैल इव ॥आस ६८२॥

संवृणु बाष्प-जलं सखि दृशम् उपरज्याञ्जनेन वलयैनाम् ।
दयितः पश्यतु पल्लव-पङ्कजयोर् युगपद् एव रुचम् ॥आस ६८३॥

सा पाण्डु-दुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव ।
कठिनीव कैतव-विदो हस्त-ग्रह-मात्र-साध्या ते ॥आस ६८४॥

सखि विश्व-गञ्जनीया लक्ष्मीर् इव कमल-मुखि कदर्यस्य ।
त्वं प्रवयसो ऽस्य रक्षा-वीक्षण-मात्रोपयोग्यासि ॥आस ६८५॥

इति विभाव्याख्या-समेता स-कार-व्रज्या ।



ह-कार-व्रज्या[सम्पाद्यताम्]

हृदयज्ञया गवाक्षे विसदृक्षं किम् अपि कूजितं सख्या ।
यत् कलह-भिन्न-तल्पा भय-कपटाद् एति मां सुतनु ॥आस ६८६॥

हरति हृदयं शलाका-निहितो ऽञ्जन-तन्तुर् एष सखि मुग्धे ।
लोचन-बाण-मुचान्तर्-भ्रूधनुषा किण इवोल्लिखितः ॥आस ६८७॥

हससि चरण-प्रहारे तल्पाद् अपसारितो भुवि स्वपिषि ।
नासदृशेऽपि कृते प्रिय मम हृदयात् त्वं विनिःसरसि ॥आस ६८८॥

हसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः ।
स्वप्नायितेन तस्यां सुभग त्वन्-नाम जल्पन्त्याम् ॥आस ६८९॥

हृदयं मम प्रतिक्षण-विहितावृत्तिः सखे प्रियाशोकः ।
प्रबलो विदारयिष्यति जल-कलशं नीर-लेखेव ॥आस ६९०॥

हन्त विरहः समन्ताज् ज्वलयति दुर्वार-तीव्र-संवेगः ।
अरुणस् तपन-शिलाम् इव पुनर् न मां भस्मतां नयति ॥आस ६९१॥

हृत्वा तटिनि तरङ्गैर् भ्रमितश् चक्रेषु नाशये निहितः ।
फल-दल-वल्कल-रहितस् त्वयान्तरिक्षे तरुस् त्यक्तः ॥आस ६९२॥

हृत-काञ्चि-वल्लि-बन्धोत्तर-जघनाद् अपर-भोग-भुक्तायाः ।
उल्लसति रोम-राजिः स्तन-शम्भोर् गरल-लेखेव ॥आस ६९३॥

इति विभाव्याख्या-समेता ह-कार-व्रज्या ।



क्ष-कार-व्रज्या[सम्पाद्यताम्]

क्षीरस्य तु दयितत्वं यतो ऽपि शान्तोपचारम् आसाद्य ।
शैलो ऽङ्गान्य् आनमयति प्रेम्णः शेषो ज्वरस्येव ॥आस ६९४॥

क्षान्तम् अपसारितो यच् चरणाव् उपधाय सुप्त एवासि ।
उद्घाटयसि किम् ऊरु निःश्वासैः पुलकयन्न् उष्णैः ॥आस ६९५॥

क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच् छतश् च मदम् उच्चैः ।
मधुनो लघु-पुरुषस्य च गरिमा लघिमा च भेदाय ॥आस ६९६॥



पूर्वैर् विभिन्न-वृत्तां गुणाढ्य-भव-भूति-बाण-रघुकारैः ।
वाग्-देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥आस ६९७॥

सत्-पात्रोपनयोचित-सत्-प्रतिबिम्बाभिनव-वस्तु ।
कस्य न जनयति हर्षं सत्-काव्यं मधुर-वचनं च ॥आस ६९८॥

एका ध्वैन्-द्वितीया तिर्भुवन-सारा स्फुटोक्ति-चातुर्या ।
पञ्चेषु-षट्पद-हिता भूषा श्रवणस्य सप्त-शती ॥आस ६९९॥

कवि-समर-सिंह-नादः स्वरानुवादः सुधैक-संवादः ।
विद्वद्-विनोद-कन्दः सन्दर्भो ऽयं मया सृष्टः ॥आस ७००॥ <br

उदयन-बलभद्राभ्यां सप्तशती शिष्य-सोदराभ्यां मे ।
द्यौर् इव रवि-चन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥आस ७०१॥

हरि-चरणाञ्जलिम् अलं कवि-वर-हर्षाय बुद्धिमान् सततम् ।
कृतार्या-सप्त-शतीम् एतां गोवर्धनाचार्यः ॥आस ७०२॥


'इति गोवर्धनाचार्य-विरचिता आर्या-सप्तशती समाप्ता


सन्दर्भ[सम्पाद्यताम्]

उपरोक्त सामग्री यहाँ से रोमन यूनिकोड में ली गयी
और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (24-01-2008)

"https://sa.wikibooks.org/w/index.php?title=आर्या-सप्तशती&oldid=3350" इत्यस्माद् पुनः प्राप्तिः