आ...

विकिपुस्तकानि तः

आधारता =
अधिकरणता। अधिकरणत्वम्। आधारत्वम्। आश्रयता। आश्रयत्वम्।।
यथा ’भूतले घटः ’ इत्यत्र भूतले अधारता,अधिकरणता अधिकरणत्वम्, आधारत्वम् , आश्रयता , आश्रयत्वं वा विद्यते। ।
यथा रक्ते पित्तम् इत्यत्र रक्ते अधारता,अधिकरणता अधिकरणत्वम्, आधारत्वम् , आश्रयता , आश्रयत्वं वा विद्यते।।

आधारत्वम् =
अधिकरणता। अधिकरणत्वम्। आधारता।आश्रयता। आश्रयत्वम्। ।
यथा ’भूतले घटः ’ इत्यत्र भूतले आधारत्वम् , अधिकरणता अधिकरणत्वम्, आधारता, आश्रयता , आश्रयत्वं वा।।
यथा रक्ते पित्तम् इत्यत्र रक्ते आधारत्वम् ,अधिकरणता अधिकरणत्वम्, आधारता, आश्रयता , आश्रयत्वं वा।

आधेयता =
आधेयत्वम्।वृत्तिः।सत्त्वम्
यथा ’भूतले घटः ’ इत्यत्र घटे आधेयता, आधेयत्वं, वृत्तिः, सत्त्वं वा ।।
यथा ‘रक्ते पित्तम्’ इत्यत्र पित्ते आधेयता, आधेयत्वं, वृत्तिः, सत्त्वं वा ।।

आधेयत्वम् =
आधेयता।वृत्तिः ।सत्त्वम्।।
यथा ’भूतले घटः ’ इत्यत्र घटे आधेयत्वम्, आधेयता, वृत्तिः, सत्त्वं वा ।
यथा “रक्ते पित्तम् इत्यत्र पित्ते आधेयत्वम्,आधेयता, वृत्तिः, सत्त्वं वा ।।

आनन्दः =
सुखम्।
आनन्दः सुखं वात्मगुणः।
हेतुविपरीतान्नस्य आनन्दावहः सुखावहः वा उपयोगः उपशयः।।

आश्रयता =
अधिकरणता। अधिकरणत्वम्। अधारता।अधारत्वम्।आश्रयत्वम्।
यथा ’भूतले घटः’ इत्यत्र भूतले आश्रयता ,अधिकरणता अधिकरणत्वम्, अधारता, आधारत्वम् , आश्रयत्वं वा।
यथा रक्ते पित्तम् इत्यत्र रक्ते आश्रयता ,अधिकरणता अधिकरणत्वम्, अधारता, आधारत्वम् , आश्रयत्वं वा।।

आश्रयत्वम् =
अधिकरणता। अधिकरणत्वम्। अधारता।अधारत्वम्। आश्रयता।
यथा ’भूतले घटः ’ इत्यत्र भूतले आश्रयत्वम्, अधिकरणता अधिकरणत्वम्, अधारता, आधारत्वम् , आश्रयता वा।
यथा रक्ते पित्तम् इत्यत्र रक्ते आश्रयत्वम्, अधिकरणता अधिकरणत्वम्, अधारता, आधारत्वम् , आश्रयता वा।।

आश्रयासिद्धिः =
पक्षाप्रसिद्धिः।।
यथा गगनारविन्दं सुरभि, अरविन्दत्वादिति अनुमाने आश्रयासिद्धिः पक्षाप्रसिद्धिः वा दोषः।
यथा पुरुषस्तन्यं मधुरं, स्तन्यत्वाद् इति अनुमाने आश्रयासिद्धिः पक्षाप्रसिद्धिः वा दोषः।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=आ...&oldid=7302" इत्यस्माद् प्रतिप्राप्तम्