आ परितोषाद् .....अप्रत्ययं चेतः ॥१.०२

विकिपुस्तकानि तः

आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥१.०२॥

पदच्छेदः-
आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवद् अपि शिक्षितानाम् आत्मनि अप्रत्ययं चेतः ॥१.०२॥

अन्वयः-
विदुषां परितोषाद् आ, (अहं) प्रयोगविज्ञानं साधु न मन्ये ।बलवत् शिक्षितानां अपि चेतः आत्मनि अप्रत्ययं (भवति) ॥१.०२॥

सन्दर्भः-

सरलार्थः-
यावत् विद्वज्जनानां सन्तोषः न भवति, तावत् अहं मम रूपकप्रयोगविषये विज्ञानं साधु अस्ति इति न मन्ये।यतो हि उत्तमतया शिक्षितानाम् अपि जनानां चित्तं स्वविषये अविश्वस्तं भवति।

वृत्तम् – आर्या

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि  अभिज्ञानशाकुन्तले आर्यावृत्तनिबद्धानि पद्यानि