सामग्री पर जाएँ

इतरव्यपदेशाधिकरणम्

विकिपुस्तकानि तः

इतरव्यपदेशात् हिताकरणादिदोषप्रसक्ति:।२.१.२१
पूर्वपक्ष:- श्रुतौ इतरस्य शारीरस्य ब्रह्मत्वेन व्यपदेशोऽस्ति – स आत्मा तत्त्वमसि श्वेतकेतो।(छा. ६.८.७)
अथवा
इतरस्य ब्रह्मण: शारीरत्वेन व्यपदेशोऽस्ति - तत्सृष्ट्वा तदेवानुप्राविशत्।(तै.२.६)कथमपि ब्रह्मणोऽभिन्न: शारीर: इति दर्शितम् ।तस्माद् यद् यद् ब्रह्मण:स्रष्टृत्वं तत् शारीरस्यापि। यदि शारीर: स्वतन्त्र: तर्हि –
१ न आत्मन: अहितं जन्ममरणजरारोगादिकं कुर्यात्।
२ न हि देहादि बन्धनागारं प्रविशेत्।
३ स्वयं निर्मल: सन् मलिनं देहमात्मत्वेन नोपेयात्।
४ सुखकरमुपाददीत।
५ दु:खकरं जह्यात्।
६ मयेदं जगद् रचितमिति स्मरेत्।
७ अनायासेन स्वेच्छया च सर्वां सृष्टिमुपसंहरेत्।
एवमेते हिताकरणादिदोषा: प्रसक्ता: चेतनकारणवादे।

अधिकं तु भेदनिर्देशात्।२.१.२२

अश्मादिवच्च तदनुपपत्ति:।२.१.२३
वेदान्ती.- परन्तु ब्रह्म शारीरादधिकं, भेदस्य निर्देशात्।अत: यत् शारीरादधिकं तद् ब्रह्म जगत्स्रष्टृ।तस्मिन् हिताकरणादयो दोषा: न सम्भवन्ति।
पूर्वपक्ष:- कुत: तस्य दोषाभाव:?
वेदान्ती- नित्यमुक्तस्वभावत्वात्।
पूर्वपक्ष:- ‘शारीरादधिकं ब्रह्म’ इत्यत्र किं प्रमाणम्?
वेदान्ती- भेदनिर्देश: -
१ आत्मा वा अरे द्रष्टव्य:, श्रोतव्यो, मन्तव्यो, निदिध्यासितव्य:।(बृ.२.४.५)
२ सोऽन्वेष्टव्य:, स विजिज्ञासितव्य:।(छा.८.७.१)
३ सता सोम्य तदा समपन्नो भवति।( छा.६.८.१)
४ शारीर आत्मा प्रज्ञेनात्मनान्वारूढ:।( बृ.४.३.३५)

एतादृश: कर्तृकर्मादिभेदनिर्देश: जीवादधिकं ब्रह्मेति दर्शयति।

पूर्वपक्ष:- ननु जीवब्रह्मणोरभेदोऽपि श्रुत्या दर्शित: तत्त्वमसीति।कथं तर्हि भेदाभेदौ सम्भवेयाताम्?
वेदान्ती - आकाशघटाकाशन्यायेन सम्भवेयाताम्।तथा च
१ तत्त्वमसीत्युपदेशात्पूर्वं समस्तो भेदव्यवहार: प्रवर्तते।तदा भेदनिदर्शिका: श्रुतय: प्रवर्तन्ते।तदा ब्रह्मण: अधिकत्वम्।
तत्त्वमसीत्युपदेशेन समस्ते भेदव्यवहारेऽस्तङ्गते सति अपगतं जीवस्य संसारित्वं ब्रह्मण: स्रष्टृत्वं च।अत: भेदाभेदौ सम्भवेताम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   द्वितीयाध्याये प्रथम: पाद:
"https://sa.wikibooks.org/w/index.php?title=इतरव्यपदेशाधिकरणम्&oldid=5601" इत्यस्माद् प्रतिप्राप्तम्