इत्येषा वाङ्मयी...

विकिपुस्तकानि तः

मूलम्
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः।। ४०।।

पदच्छेदः-
इति एषा वाङ्मयी पूजा श्रीमत्-शङ्कर-पादयोः।अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः।।

अन्वयः-
इति एषा वाङ्मयी पूजा श्रीमत्-शङ्कर-पादयोः अर्पिता। तेन देवेशः सदाशिवः मे प्रीयतां ।। ४०।।

सरलार्थः-
वचनमयी एषा पूजा।मया एषा पूजा शङ्करपादयोः समर्पिता।अनेन पूजनेन महेश्वरः मयि सन्तुष्टः भवतु। ।४०


शिवस्तोत्राणि   शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=इत्येषा_वाङ्मयी...&oldid=6192" इत्यस्माद् प्रतिप्राप्तम्