ईक्षत्यधिकरणम्।

विकिपुस्तकानि तः
Jump to navigation Jump to search

यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं दर्शयन्तीति उच्यते, तानि प्रधानकारणपक्षेऽपि योजयितुं शक्यन्ते इति साङ्ख्यानां पूर्वपक्ष:। तत्र इमा: युक्तय: साङ्ख्यै: प्रदर्श्यन्ते –
१ सत्वात्संजायते ज्ञानम् भ.गी.१४.१७
इति स्मृते: सत्त्वधर्म: ज्ञानम्। तेन सत्त्वधर्मेण ज्ञानेन योगिन: सर्वज्ञा: भवन्ति।अत: सत्त्वस्य निरतिशयोत्कर्षे सर्वज्ञत्वं सिद्ध्यति।

वेदान्ती - परं साम्यावस्थायां सत्त्वोत्कर्ष: नास्ति, तदानीं तु त्रिगुणानां साम्यावस्था विद्यते।

साङ्ख्य:- सत्यम्।तथापि सर्वज्ञानकारणभूत: सत्त्वगुण: तस्यां दशायामपि प्रधाने विद्यते इति उपचारेण प्रधानमेव सर्वज्ञम् इति उच्यते।

वे.- किमर्थं परमेतादृशमौपचारिकं सर्वज्ञत्वमङ्गीकरणीयम्?

सा.- भवद्भिरपि एवम् एव क्रियते।ब्रह्मण: सर्वज्ञत्वं न सदा वर्तते।उत्पत्ते: पूर्वं ब्रह्म सर्वकारकशून्यं भवन्मते। तदा ज्ञानसाधनानां शरीरेन्द्रियाणामभावे ब्रह्मण: सर्वज्ञत्वं नाम सर्वज्ञानशक्तिमत्त्वम् इति भवद्भि: अपि औपचारिकं सर्वज्ञत्वमङ्गीक्रियते । तथा च असंहतस्य एकात्मकस्य ब्रह्मण: कारणत्वं नोपपद्यते।अनेकात्मकस्य (त्रिगुणात्मकस्य) परिणामिन: प्रधानस्य कारणत्वं सुतराम् उपपद्यते।

एतं पक्षं निराकर्तुम् इदं सूत्रम्-
ईक्षतेर्नाशब्दम्।१.१.५
सरलार्थ:- ईक्षतिधातो: प्रयोगात् अशब्दं (प्रधानं) जगत्कारणं भवितुं नार्हति।

वेदान्ती- ननु कुत्र विद्यते ईक्षतिप्रयोग: इति चेत्-
१ तदैक्षत बहु स्यां प्रजायेयेति..।- छा.६.२.३
२ स ईक्षत लोकान्नु सृजा इति..।– ऐत. १.१.१
३ स ईक्षांचक्रे ..।प्रश्न. ६.३
ईक्षतिरिति न धातुमात्रनिर्देशोऽभिप्रेत:, अपि तु धात्वर्थनिर्देश:।अत: सर्वज्ञेश्वरकारणपराणि अन्यानि वचनान्यपि अत्र अनुसन्धेयानि –
१ य: सर्वज्ञ: सर्ववित् ..।मुण्ड. १.१.९ इत्यादीनि ।
सत्त्वधर्मेण ज्ञानेन प्रधानस्य सर्वज्ञत्वं सिद्ध्यति इति यदुच्यते तदसत्। प्रधानावस्थायां सत्त्वरजस्तमसां साम्यावस्था विद्यते। तदा सत्त्वधर्म: ज्ञानं न सम्भवति।

साङ्ख्य:- सर्वज्ञानशक्तिमत्त्वेन तदा सर्वज्ञत्वं भविष्यति।

वेदान्तिन:- तदपि न उपपद्यते।गुणसाम्ये सति यदि सत्त्वव्यपाश्रया ज्ञानशक्ति: प्रवर्तते तर्हि रजस्तमोव्यपाश्रया ज्ञानप्रतिबन्धकशक्तिरपि प्रवर्तेत एव।
जानातिधातु: (सर्वं जानातीति सर्वज्ञ:) साक्षित्वे सति एव प्रयुज्यते।जडस्य प्रधानस्य साक्षित्वं नास्ति अत: सर्वज्ञत्वमपि नोपपद्यते। सत्त्वधर्मेण ज्ञानेन योगिन: सर्वज्ञा: भवन्ति।अत: सत्त्वस्य निरतिशयोत्कर्षे सर्वज्ञत्वं सिद्ध्यति इति अपि उदाहरणमनुचितं यतो हि योगिन: चेतना: न प्रधानवद् जडा:।

(हैरण्यगर्भा:)योगिन:- जडं प्रधानं सर्वज्ञं न भवतीति चेत् प्रधानस्य साक्षिनिमित्तं सर्वज्ञत्वं तु सम्भवति। यथा अग्निनिमित्तमय:पिण्डस्य दाहकत्वम्।

वे.-तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव ब्रह्म सर्वज्ञमिति वक्तुं युक्तम्। सां.- ब्रह्मण: अपि मुख्यं सर्वज्ञत्वं नोपपद्यते।यतो हि ब्रह्मण: सर्वज्ञत्वं नित्यमनित्यं वापि वक्तुं न युज्यते।यदि ब्रह्मण: सर्वज्ञत्वम् अनित्यं तर्हि कदाचिद् असर्वज्ञत्वं सम्भवति ब्रह्मण:।यदि पुन: ब्रह्मण: सर्वज्ञत्वं नित्यं तर्हि ज्ञानक्रियां प्रति तस्य स्वातन्त्र्यं न सम्भवति।यदि ज्ञानं नित्यं तर्हि ‘सर्वं जानातीति सर्वज्ञम्’ इत्यत्र कर्तरि प्रत्यय: न सम्भवति।नित्यस्य ज्ञानस्य कर्तृत्वासम्भवात्। वे.- सर्वविषयावभासनक्षमं ज्ञानं ब्रह्मण: नित्यमस्ति।तथा सति ज्ञानक्रियायां ब्रह्मण: स्वातन्त्र्यं नश्यतीति यदुक्तं तदसत्।सविता नित्यं प्रकाशयुत: औष्ण्ययुतश्च। तथापि सविता दहति सविता प्रकाशयति इति कर्तरि प्रत्यय: भवति।तथैव नित्यज्ञानत्वे अपि ब्रह्म जानातीति स्वातन्त्र्येण व्यपदेश: युज्यते।

सां- सवितु: दाह्यविषयेण प्रकाश्यविषयेण सह संयोगो विद्यते अत: तादृश: व्यपदेश: न्याय्य:।प्रागुत्पत्ते: ब्रह्मण: ज्ञेयविषयाभावात् ब्रह्म जानातीति व्यपदेश: नोचित:।अत: विषमो दृष्टान्त:।

वे.- नैवम्।असत्यपि प्रकाश्यविषये ‘सविता प्रकाशते’ इति व्यपदेश: भवति।एवम् असत्यपि कर्मणि ‘तद् ऐक्षत’ इति ब्रह्मण: कर्तृत्वव्यपदेश: युज्यते।अतो न दृष्टान्तवैषम्यम्।
अथ प्रागुत्पत्ते: ब्रह्मण: ज्ञेयविषयाभाव: इति यदुच्यते, तन्न।अव्याकृते व्याचिकीर्षिते नामरूपे तदा कर्म भवति।

सां - प्रागुत्पत्ते: ब्रह्मण: शरीरादिसम्बन्धाभावात् तस्य ईक्षितृत्वम् अनुपपन्नम्।

वे.- सवितृप्रकाशवत् ब्रह्मणो ज्ञानस्वरूपं नित्यम्।अत: ज्ञानसाधनापेक्षा न विद्यते।अविद्यायुक्तस्य संसारिण: जीवस्य ज्ञानोत्पत्ति: शरीरादिसाधनमपेक्षते न तु ज्ञानप्रतिबन्धककारणरहितस्य ईश्वरस्य।तदर्थमिमौ मन्त्रौ प्रमाणम् –
१ न तस्य कार्यं करणं च विद्यते...स्वाभाविकी ज्ञानबलक्रिया च॥श्वेता. ६.८
२ अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षु: स शृणोत्यकर्ण:।...॥ श्वेता.३.१९

सां –‘अविद्यायुक्तस्य संसारिण: जीवस्य ज्ञानोत्पत्ति: शरीरादिसाधनमपेक्षते न तु ज्ञानप्रतिबन्धककारणरहितस्य ईश्वरस्य’ इति अपसिद्धान्त: अयम्।यतो हि जीव: ईश्वरादन्य: न इति सिद्धान्त:। तत्र श्रुतिप्रमाणम् – नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति विज्ञाता।बृहदा.३.७.२३

वे.- सत्यं नेश्वरादन्य: संसारी जीव:।तथापि देहाद्युपाधिसम्बन्धस्य अविवेकाद् ईश्वर-संसारिणोर्भेदविषये मिथ्याबुद्धि: अज्ञस्य भवत्येव।यथा घटाकाश-गुहाकाशयो: आकाशदव्यतिरिक्तत्वे अपि भेद-मिथ्याबुद्धिजन्य: घटकाश-गुहाकाशव्यवहार: भवति।अतो नापसिद्धान्त:।

सां- प्रधानस्य अनेकात्मकत्वात् (त्रिगुणात्मकत्वात्) कारणत्वम् उपपन्नम्।ब्रह्मण: असंहतस्य तद् नोपपद्यते।

वे.- प्रधानस्य कारणत्वं शब्दप्रमाणेन अथवा तर्केण? शब्दप्रमाणेन न सम्भवति, अशब्दत्वात् प्रधानस्य। तर्केण चेत् तस्य निराकरणं क्रियते न विलक्षणत्वादस्य।(२.१.४) इत्यस्य सूत्रस्य भाष्ये।

सां- अचेतनं प्रधानं जगत्कारणं सर्वज्ञं वा भवितुं नार्हति। तथापि अचेतने चेतनवदुपचारात् गौण: ईक्षणधर्म: सम्भवति।यथा नद्या: प्रत्यासन्नपतनस्य कूलस्य विषये कूलं पिपतिषति (पतितुमिच्छति) इति प्रयोग: भवति। तत्र अचेतने अपि कूले इच्छाया: गौणत्वेनोपचार: भवति।

वे. ननु प्रधान-चेतनयो: किं साम्यं येन जडे प्रधाने चेतनधर्मस्य ईक्षणस्य उपचार: भवेत्?

सां-नियतक्रमवत्कार्यकारित्वं साम्यम्।यथा चेतन: स्नात्वा, भुक्त्वा, ‘अपराह्णे ग्रामं रथेन गमिष्यामि’ इति ईक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते। तस्माच्चेतनवदुपचर्यते।

वे- गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्यय: इति नियम:।कस्मात् मुख्यम् ईक्षितृत्वं विहाय गौणम् ईक्षितृत्वम् अङ्गीक्रियते?

सां.- सन्निधिपाठात्।‘तत्तेज ऐक्षत’ ‘ता आप ऐक्षत’ (छान्दो. ६.२.३,४) इति अचेतनयोरपि अप्तेजसो: उपचाराद् ईक्षणं सन्निधौ श्रूयते।अत: सच्छब्दवाच्यस्य अचेनस्यापि प्रधानस्य गौणम् ईक्षणम् अङ्गीक्रियते।

गौणश्चेन्नात्मशब्दात्।१.१.६

वे.- ‘सदेव सोम्येदमग्र आसीत्’ (छान्दो. ६.२.१) इत्युपक्रम:।
‘तदैक्षत तत्तेजोऽसृजत’ इति(छान्दो. ६.२.३,४) तेजोबन्नानां सृष्टि: उक्ता।तदेव सत्प्रकृतं, तानि एव तेजोऽबन्नानि प्रकृतानि।तेषां चतुर्णां देवताशब्देन परामर्श:-‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता: अनेन जीवेन आत्मना अनुप्रविश्य नामरूपे व्याकरवाणि।’(छान्दो. ६.३.२) इदानीमिदं चिन्त्यते यद् यदि आदौ सच्छब्देन अचेतनं प्रधानं गृह्यते तर्हि सा एव देवता इति अङ्गीकार्यम्, प्रकृतत्वात्। सा देवता जीवमात्मशब्देन अत्र अभिदधाति।चेतन: जीव: कथम् अचेतनस्य प्रधानस्य आत्मा भविष्यति? नाचेतनस्य प्रधानस्य चेतनो जीव: स्वरूपं भवितुमर्हति।
अथ चेतनं ब्रह्म मुख्यवृत्या ईक्षितृ अङ्गीक्रियते चेत् तस्य जीवविषये आत्मशब्दप्रयोग: उपपद्यते।
पुन: ‘स य एषोऽणिमैतदातम्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो। (छान्दो.६.१४.३) इति चेतनस्य श्वेतकेतो: अत्मत्वेनोपदेश:। एवमुभयत्रापि सच्छब्दस्य आत्मशब्देन परामर्शात् सच्छब्दवाच्यस्य गौणम् ईक्षितृत्वं मन्तुं न शक्यते।अप्तेजसो: ईक्षितृत्वं तु गौणमेव ।नामरूपव्याकरणादौ तयो: प्रयोज्यत्वेन व्यपदेश:।यत्र प्रयोज्यत्वं तत्र विषयत्वम्। यत्र विषयत्वं तत्र अचेतनत्वम् इति नियम:।अचेतनयो: ईक्षितृत्वं गौणं वक्तुं शक्यते। तथा च तयो: आत्मशब्देन व्यपदेश: नास्ति।

हेयत्वावचनाच्च।१.१.८

सां- वस्तुत: श्रुतेरभिप्राय: सच्छब्देन प्रधानग्रहणविषये एवास्ति, न तु चेतनग्रहणविषये। तथापि सूक्ष्मग्राहणाय प्रथमं तत्समीपस्थं स्थूलं ग्राह्यते।एवम् अरुन्धतीदर्शनन्यायेनात्र आत्मा सच्छब्देन उक्त:।

वे.- नाचेतनं प्रधानं सच्छब्दवाच्यम्।चेतनमात्मतत्त्वमेव सच्छब्दवाच्यम् इति पूर्वं स्पष्टीकृतम्। यथा अरुन्धतीदर्शनन्यायेऽपि अरुन्धतीसमीपस्थां स्थूलाम् अमुख्यां तारामरुन्धतीत्वेन ग्राहयित्वा, पश्चात् तां प्रत्याख्याति वक्ता।अथ मुख्यामरुन्धतीं दर्शयति।तथैव अत्र यदि अनात्मतत्त्वं प्रधानमेव वक्तु: सच्छब्देन अभिप्रेतं स्यात् तदर्थम् अरुन्धतीदर्शनन्यायेन अत्र आत्मा सच्छब्देन उक्त: स्यात् तर्हि अग्रे आत्मनो हेयत्व-प्रतिपादकं वचनम् अपेक्षितम्। अन्यथा ‘स आत्मा तत्त्वमसि’ इति उपदेशस्य श्रवणात् श्वेतकेतु: आत्मनिष्ठ: एव सम्पद्येत, न प्रधाननिष्ठ:। न च दृश्यतेऽग्रे तादृशं हेयत्ववचनम्। सत: आत्मरूपेण अवगतौ षष्ठप्रपाठकस्य समाप्ति: भवति।
अथवा हेयत्ववचनमस्ति चेदपि प्रतिज्ञाहानि: ध्रुवम्। ‘कारणविज्ञानात् सर्वं विज्ञातं भवति’ इति एषा प्रतिज्ञा। ‘यथा सोम्य, एकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्।’(छा.६.१.३)यदि प्रधानं कारणं तर्हि तद्विज्ञानात्सर्वं विज्ञातं भवितुमर्हति। न च तत् शक्यम्। प्रकृतिविज्ञानेन प्रकृतिविकाराणां सर्वेषां भोग्यपदार्थानां विज्ञानं स्यादपि, न तु भोक्तॄणां पुरुषाणां ज्ञानं सम्भवति।यतो हि न भोक्ता प्रकृतिविकार:।अत: न प्रधानं सच्छब्दवाच्यम्।

स्वाप्ययात्।१.१.९
वे.- तदेव सद् अधिकृत्य अग्रे उक्तम् – ‘यत्रैतत्पुरुष: स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति।’(छा.६.८.१) स्वं नाम आत्मा।अपीत: नाम अपिगत:,लीन:।अपिपूर्वक: इति: लयार्थक:,यथा प्रभवाप्ययौ इत्यत्र।एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवतीति अर्थं स्वपितिनामनिर्वचनेन श्रुति: दर्शयति।एतत्तदैव शक्यं यदा सच्छशब्देन चेतनमुच्येत।अन्यथा यदि सच्छब्देन प्रधानमचेतनं गृह्यते तर्हि, अचेतने प्रधाने चेतनस्य आत्मन: लय: आपद्यते।अत: यस्मिन् अप्यय: सर्वेषां चेतनानां तत् सच्छब्दवाच्यं चेतनं जगत्कारणं न तु अचेतनं प्रधानम्।
पू. – ननु अत्र परमात्मा नाभिप्रेत:, अन् ... इति वचनात्।
वे.- वचनमिदं कर्मफलभोगप्रतिषेधपरम्, न विकारसंहाररूपम्।वेदान्ते सर्वत्र सृष्टिस्थितिलयकारणं ब्रह्मैवाङ्गीक्रियते।
अनश्नन् – कर्मफलम् अभुञ्जन्
यस्य ओदनं ब्रह्मक्षत्रे – विकारं संहरन्

गतिसामान्यात् ।१.१.१०
वे.- सर्वेषु वेदान्तेषु कारणविषये अवगति: समाना अस्ति।यदि क्वचित् चेतनकारणवाद: क्वचित् प्रधानकारणवाद: इति वेदान्ते अपि कारणगतिविषये मतवैषम्यमभविष्यत् तर्हि कदाचित् प्रधानकारणवादानुरोधेन ईक्षणादिकमकल्पिष्यत।न च तथा दृश्यते। वेदान्ते सर्वत्र चेतनकारणवाद एव आद्रियते यथा-
१ यथाग्नेर्ज्वलत: सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्, एवमेवैतस्मादात्मन: सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते...।(कौ.३.३)
२ तस्माद्वैतस्मादात्मन: आकाश: सम्भूत:...।(तै.२.१)
३ आत्मन एवेदं सर्वम्।(छा.७.२६.१)
४ आत्मन एव प्राणो जायते।(प्र.३.३)
आत्मशब्द: चेतनार्थक:।

श्रुतत्वाच्च।१.१.११
वे.- श्वेताश्वतरोपनिषदि स्वशब्देनैव जगत्कारणमीश्वर: श्रुत:- स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप:।(श्वे. ६.९)
पू.- ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १ ॥
ऋतं पिबन्तौ सुकृतस्य... (काठ. १.३.१)इत्यत्र पिबन्तौ इति द्विवचनेन बुद्धिजीवौ विवक्षितौ।यतो हि ‘येषां १.१.२०’ इत्यत्र जीवं बुद्धिभिन्नमुद्दिश्य प्रश्न: कृत: आसीत्।
वे.- न। जीवपरमात्मानौ अत्र उक्तौ।अन्यत्र धर्माद्... १.२.१४ इति वचने जीवपरमात्मभेदम् अङ्गीकृत्य प्रश्न: कृत: आसीत्।–
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥
पू.-न।ऋतपानस्य परमात्मपक्षेऽसम्भव:।ऋतपानं नाम कर्मफलभोग:।स तु परमात्मनो न सम्भवति, अनश्नन् अन्य: इति वचनात्।एकस्य जीवस्य पानं सम्भवति चेदपि सुकृतं पिबन्तौ इति द्विवचनस्य अनुपपत्ति:।
वे. – जीव: एक: पिबति चेदपि छत्रिणो गच्छन्ति इतिवत् द्वौ पिबन्तौ इति प्रयोग उपपद्यते।
अथवा जीव: पिबति ईश्वर: पाययति ।लोके पाययितरि अपि पक्तृत्वव्यवहार द्यदृश्यते।
पू.- तथा सति सुकृतं पिबन्तौ इति अत्र बुद्धिजीवौ अपि सम्भवत:।यतो हि करणेऽपि कर्तृत्वोपचार: सम्भवति यथा एधांसि पचति।एवमेव बुद्धौ फलभोगकरणरूपायां भोगकर्तृत्वोपचार: स्यात्।
वे.-न। सुकृतं पिबन्तौ इति अत्र विज्ञानात्मपरमात्मानावेव सम्भवत:।सङ्ख्याश्रवणे समानस्वभावेषु एव लोके प्रतीतिर्भवति।ऋतपानेन विज्ञानात्मा तावदत्र निश्चित:।अपर: तत्स्वभाव: चेतन: परमात्मा एव भवितुमर्हति।
पू.- गुहां प्रविष्टौ इति विशेषणात् परमात्मा न सम्भवति।शरीरं गुहा।अथवा हृदयं गुहा।तत्र बुद्धिजीवौ प्रविष्टौ।सर्वगतस्य परमात्मन: विशिष्टदेशप्रवेश: कल्प्य:।सति मुख्यार्थसम्भवे कल्पनमनुचितम्।
वे.- सर्वगतस्यापि परमात्मन: उपलब्ध्यर्थं देशविशेषोपदेशो न अनुचित:।नानास्थलेषु तादृश उपदेशो विद्यते।
पू.- सुकृतस्य लोके इति लिङ्गं जीवस्य सम्भवति, न परमात्मन:, अतोऽत्र परमात्मा नाभिप्रेत:।
वे.- सत्यम् ।तथापि जीवे वर्तमानं सुकृतलोकवर्तित्वं परमात्मनि उपचर्यते।लोके यथा अच्छत्रिषु गच्छत्सु छत्रित्वोपचारो भवति तथा।
पू.- छायातपनिर्देशात् परस्परमत्यन्तं वैलक्षण्यमभिप्रेतम्।न तत् विज्ञानात्मपरमात्मनो विद्यते।
वे.- विद्यते।विज्ञानात्मा संसारी।परमात्मा असंसारी।विज्ञानात्मा अविद्याकृत:।परमात्मा पारमार्थिक:।तस्माद् गुहां प्रविष्टौ विज्ञानात्मपरमात्मानौ एव।
इति ईक्षत्यधिकरणम्।

  • * * * *
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् प्रथमाध्याये प्रथम: पाद:
"https://sa.wikibooks.org/w/index.php?title=ईक्षत्यधिकरणम्।&oldid=5478" इत्यस्माद् प्रतिप्राप्तम्