ईशावास्य उपनिषद्
ॐ
शुक्लयजुर्वेदकाण्वशाखीया
ईशावास्योपनिषद्
सटिप्पणटीकाद्वयसंवलितशाङ्करभाष्योपेता
गोविन्दप्रसादिनी टिप्पणीपरिष्कर्ता
विद्यावचस्पति महामण्डलेश्वर अनन्तश्री स्वामीविष्णुदेवानन्दगिरिजीमहाराज
ॐ
श्रीमच्छङ्करभगवत्पादो विजयतेतराम्
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
अन्वयः- अदः पूर्णम् इदं पूर्णं पूर्णात् पूर्णम् उदच्यते, पूर्णस्य पूर्णम् आदाय (पश्यतः) पूर्णम् एव अवशिष्यते । ॐ शान्तिः शान्तिः शान्तिः ॥
अर्थः- अदः तत्पदलक्ष्यं ब्रह्म, पूर्णम् आकाशवत् व्यापि, अपरिच्छिन्नम् इति यावत्, इदं त्वं पदलक्ष्यं जीवस्वरूपम् अपि पूर्णं, ननु द्वयोः पूर्णत्वं वस्तुपरिच्छेदात् विरुद्धम् इत्यतः आह-पूर्णात् इत्यादि । पूर्णात् ब्रह्मणः पूर्णम् एव जीवस्वरूपम् उदच्यते उद्रिच्यते उदेति इति यावत्, पूर्णस्य परिणाम-असंभवेन ततः उत्पद्यमानस्य औपाधिकत्वम् एव महाकाशाद् उद्गच्छतः घटाद्याकाशस्य तथा दर्शनात् । औपाधिकस्य तदेव तथ्यं रूपं यतः सः उदेति इति निदानाभेदात् पूर्णात् उद्रिच्यमानं पूर्णम् एव इति भावः। ननु जीवस्वरूपस्य पूर्णत्वे कुतः तत् न अनुभूयते ? तत्र आह-पूर्णस्य इत्यादि । पोर्णस्य यत् पूर्णं स्वरूपं तन्मात्रम् आदाय उपाध्यंशम् अपहाय (पश्यतः) पूर्णम् एव अवशिष्यते पूर्णम् एव स्वरूपम् अवभाति इति । घटेन सह अवलोक्यमानस्य नभसः अपूर्णत्वभाने अपि घटांशं विहाय अवलोकने पूर्णत्वस्य एव अनुभवः यथा इति भावः। ॐ शान्तिः शान्तिः शान्तिः । त्रिः शान्तिः पठनं तु आध्यात्मिकादित्रिविधोपद्रवशमनाय इति ध्येयम् । आदौ प्रणवघोषः च वेदोच्चारणनियतः मङ्गलम् आतनोति इति विज्ञेयम् ।
सम्बन्धभाष्यम्
ईशा वास्यम् इत्यादयः मन्त्राः कर्मसु अविनियुक्ताः। तेषां (मन्त्राणाम्) अकर्मशेषस्य आत्मनः याथात्म्यप्रकाशकत्वात् । (ईशादिमन्त्राणां कर्मणि विनियोगः नास्ति यतः एते मन्त्राः अकर्मशेषस्य आत्मनः याथात्म्यस्वरूपस्य प्रकाशनं कुर्वन्ति तस्मात् । ) शुद्धत्व-अपापविद्धत्व-एकत्व-नित्यत्व-अशरीरत्व-सर्वगतत्वादि च याथात्म्यम् आत्मनः वक्ष्यमाणम्
(अस्ति) । तत् च (याथात्म्यं) कर्मणा विरुद्ध्येत इति एषां (मन्त्राणां) कर्मसु अविनियोगः युक्तः एव ।
(शुद्धत्वादि इति) आत्मनः एवंलक्षणं याथात्म्यं नहि उत्पाद्यं विकार्यं संस्कार्यम् आप्यं, कर्तृभोक्तृरूपं वा येन (आत्मनः) कर्मशेषता स्यात् । आत्मयाथात्म्यनिरूपणेन एव सर्वाषाम् उपनिषदाम् उपक्षयात्, गीतानां मोक्षधर्माणां च एवंपरत्वात् (ईशा वास्यम् इत्यादयः मन्त्राः कर्मसु अविनियुक्ताः)। तस्मात् आत्मनः अनेकत्व-कर्तृत्व-भोक्तृत्वादि च अशुद्धत्व-पापविद्धत्वादि च लोकबुद्धिसिद्धं उपादाय कर्माणि विहितानि ।
१. उत्पाद्यम्=पुरोडाशादिः।
२. विकार्यम्=सोमादिः।
३. आप्यम्=बलबर्धनार्थं, प्राप्त्यर्थं वा यथा मन्त्रादिकम् ।
४. संस्कार्यम्=व्रीह्यादिः।
यः हि दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना च कर्मफलेन अर्थी, अहं द्विजातिः, न काणकुब्जत्वात् अनधिकारप्रयोजकधर्मवान् इति आत्मानं मन्यते सः हि कर्मसु अधिक्रियते इति अधिकारविदः वदन्ति ।
“अर्थी दक्षो द्विजोऽहं बुध इति मतिमान् कर्मसूक्तोधिकारी ।”
तस्मात् एते मन्त्राः आत्मनः याथात्म्यप्रकाशनेन् आत्मविषयं स्वाभाविकम् अज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्मविच्छित्तिसाधनम् आत्मैकत्वादिविज्ञानम् उत्पादयन्ति । इति एवम् उक्ताधिकार्यभिधेयसम्बन्धप्रयोजनान् मन्त्रान् संक्षेपतः व्याख्यास्यामः।
अनुबन्धचतुष्टयम्
१. अधिकारी-मुमुक्षुः।
२. विषयः- आत्मैक्यम् ।
३. सम्बन्धः- प्रतिपाद्यप्रतिपादकः।
४. प्रयोजनम्- अज्ञाननिवृत्तिः तथा परमानन्दप्राप्तिः।
हरिः ॐ । ईशा वस्यमिद˘ सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥१॥
अन्वयः
जगत्यां यत्किञ्च इदं जगत् (तत्) सर्वम् ईशा वास्यम् । तेन त्यक्तेन भुञ्जीथाः । कस्य स्विद्धनं मा गृधः । मा गृधः कस्य स्विद्धनम् ।
सान्वयं भाष्यम्
ईशा वास्यम् इत्यादि ।
ईशा ईष्ट इति ईट् तेन ईशा । ईशिता परमेश्वरः सर्वस्य परमात्मा ।
ईश ऐश्वर्ये, अस्य धातोः क्विपि लुप्ते कृदन्तरूपम् ईट् तस्य तृतीया एकवचनम् ईशा इति ।
सः हि सर्वजन्तूनाम् आत्मा सन् प्रत्यगात्मतया ईष्टे, तेन स्वेन रूपेण आत्मना ईशा सर्वम् वास्यम् आच्छादनीयम् ।
किम्? इदं सर्वं यत्किञ्च यत्किञ्चित् जगत्यां पृथिव्यां जगत् तत् सर्वं स्वेन आत्मना ईशेन प्रत्यगात्मतया, अहम् एव इदं सर्वम् इति स्वेन परमार्थसत्यरूपेण परमात्मना अनृतम् इदं सर्वं चराचरम् आच्छादनीयं ।
यथा चन्दनागर्वादेः उदकादिसम्बन्धजक्लेदादिजम् औपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेन स्वेन पारमार्थिकेन गन्धेन आच्छाद्यते । तद्वत् एव हि स्वात्मनि अध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं द्वैतरूपं जगत् जगत्यां पृथिव्यां; जगत्याम् इति उपलक्षणार्थत्वात् सर्वमेव नामारूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् ।
एवम् ईश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसन्यासे एव अधिकारः न कर्मसु । तेन त्यक्तेन त्यागेन इत्यर्थः। न हि त्यक्तः मृतः पुत्रः वा भृत्यः वा आत्मसम्बन्धितायाः अभावात् आत्मानं पालयति । अतः त्यागेन इति अयम् एव वेदार्थः- भुञ्जीथाः पालयेथाः।
एवं त्यक्तैषणः त्वं मा गृधः गृधिम् आकाङ्क्षां धनविषयाम् (आकाङ्क्षां) मा कार्षीः। कस्यस्विद्धनं कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षीः इत्यर्थः। स्वित् इति अनर्थकः निपातः।
अथवा मा गृधः। कस्मात् ? न कस्यचित् धनम् अस्ति यत् गृध्येत, कस्यस्वित् धनम् इति आक्षेपार्थः। आत्मा एव इदं सर्वम् इति ईश्वरभावनया सर्वं त्यक्तम् अतः आत्मनः एव इदं सर्वम् आत्मा एव च सर्वम् अतः मिथ्याविषयां गृधिं मा कार्षीः इत्यर्थः।
कार्षीः= कृ करणे, लुङि म.पु.ए.व. मा+कार्षीः= “न माङ्योगे” इत्यनेन अडागमनिषेधः।
सङ्गतिः
एवम् आत्मविदः पुत्रादि-एषणात्रयसन्यासेन आत्मज्ञाननिष्ठतया आत्मा रक्षितव्यः इति एषः वेदार्थः। अथ इतरस्य अनात्मज्ञतया आत्मग्रहणाय अशक्तस्य मन्त्रः इदम् उपदिशति-
कुर्वन्नेवेह कर्माणि जिजीविषेच्छत˘ समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥२॥
अन्वयः
इह कर्माणि कुर्वन् एव शतं समाः जिजीविषेत् । एवं त्वयि नरे (सति) कर्म न लिप्यते,
इतः अन्यथा न अस्ति ।
सान्वयं भाष्यम्
इह कर्माणि अग्निहोत्रादीनि कुर्वन् एव निर्वर्तयन् एव शतं शतसङ्ख्याकाः समाः सम्वत्सरान् जिजीविषेत् जीवितुम् इच्छेत् । तावत् हि पुरुषस्य परमायुः निरूपितम् । तथा च प्राप्तानुवादेन यत् शतं वर्षाणि जिजीविषेत् तत् कर्माणि कुर्वन् एव इति एतत् विधीयते । एवम् एवं प्रकारेण त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः एतस्मात् अग्निहोत्रादीनि कर्माणि कुर्वतः वर्तमानात् प्रकारात् अन्यथा प्रकारान्तरं न अस्ति येन प्रकारेण अशुभं कर्म न लिप्यते, (अशुभेन) कर्मणा न लिप्यते इत्यर्थः । अतः शास्त्रविहितानि अग्निहोत्रादीनि कर्माणि कुर्वन् एव जिजीविषेत् ।
कथं पुनः इदम् अवगम्यते (यत्) पूर्वेण सन्यासिनः ज्ञाननिष्ठा उक्ता द्वितीयेन तत् अशक्तस्य कर्मनिष्ठा (उक्ता)
इति ।
उच्यते-यथोक्तं न स्मरसि किम्? ज्ञानकर्मणोः विरोधं पर्वतवत् अकम्प्यम् । इह अपि उक्तं ‘यः हि जिजीविषेत् सः कर्म कुर्वन्’ ‘ईशावास्यमिदं सर्वम्’ ‘तेन त्यक्तेन भुञ्जीथाः’ ‘मा गृधः कस्यस्विद्धनम्’ इति च । ‘न जीविते मरणे वा गृधिं कुर्वीतारण्यमियादिति च पदम्, ततः न पुनरियात्’ इति सन्यासवचनात् । उभयोः फलभेदं च वक्ष्यति ।
इमौ द्वौ एव पन्थानौ अनुनिष्क्रान्ततरौ भवतः पुरस्तात् क्रियापथश्च एव उत्तरेण च सन्यासः अथवा क्रियापथश्चैव सन्यासश्च इमौ द्वौ एव पन्थानौ पुरस्तात् सृष्ट्यादौ अनुनिष्क्रान्ततरौ भवतः। उत्तरेण निवृत्तिमार्गेण एषणात्रयस्य त्यागः। तयोः सन्यासपथः एव अतिरेचयति “न्यास एवात्यरेचयत्” इति च तैत्तिरीयके ।
“द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः।
प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभावितः ॥” (महा. शा. २४१/६)
इत्यादि वेदाचार्येण भगवता व्यासेन विचार्य पुत्राय निश्चितम् उक्तम् । अनयोः विभागश्च दर्शयिष्यामः॥२॥
सङ्गतिः
अथ इदानीम् अविद्वन्निदार्थः अयं मन्त्रः आरभ्यते-
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
ता˘ स्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥३॥
अन्वयः
ते असुर्या नाम लोकाः अन्धेन तमसा आवृताः (सन्ति)। ये के च आत्महनः जनाः ते प्रेत्य तान् अभिगच्छन्ति ।
सान्वयं भाष्यम्
असूर्याः परमात्मभावम् अद्वयम् अपेक्ष्य देवादयः अपि असुराः तेषां च स्वभूताः लोकाः असुर्याः नाम । नाम शब्दः अनर्थकः निपातः। ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्ते इति लोकाः जन्मानि । अन्धेन अदर्शानात्मकेन अज्ञानेन तमसा आवृताः आच्छादिताः तान् स्थावरान्तान् प्रेत्य इमम् देहं त्यक्त्वा अभिगच्छन्ति । “यथा कर्म यथा श्रुतम्”(कठ.३/२/७) इति श्रुतेः। ये के च आत्महनः आत्मानं घ्नन्ति इति आत्महनः। के ते जनाः? ये अविद्वांसः। ते नित्यम् आत्मानं कथं हिंसन्ति ? अविद्यादोषेण विद्यमानस्य आत्मनः तिरस्करणात् (ते नित्यम् आत्मानं हिंसन्ति)। विद्यमानस्य आत्मनः अजरामरत्वादिसंवेदनलक्षणं यत् कार्यं फलं तत् हतस्य इव तिरोभूतं भवति इति (इत्यस्मात्) प्राकृताः अविद्वांसः जनाः आत्महनः उच्यन्ते । तेन आत्महननदोषेण हि ते संसरन्ति ॥३॥
सङ्गतिः
अविद्वान्सः यस्य आत्मनः हननात् संसरति तद् विपर्ययेण विद्वान्सः जनाः मुच्यन्ते, ते न आत्महनः, तत् कीदृशम् आत्मतत्वम् इति उच्यते-अनेजत् इति-
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥४॥
अन्वयः
अनेजत् एकं मनसः जवीयः देवाः न एनत् आप्नुवन् (तत्) पूर्वम् ऋषत् । तिष्ठत् तत् धावतः अन्यान् अत्येति, तस्मिन् (तत्स्थितौ,तत्सत्तायां) मातरिश्वा अपः दधाति ।
सान्वयं भाष्यम्
अनेजत् न एजत् इति अनेजत् । एजृ कम्पने । कम्पनं चलनं स्वावस्थाप्रच्युतिः तद् वर्जितं सर्वदा एकरूपम् इत्यर्थः। तत् च सर्वभूतेषु एकम् । मनसः सङ्कल्पादि लक्षणात् जवीयः जववत्तरम् । इदं ध्रुवं निष्चलं, मनसः जवीयः इति च विरुद्धं कथम् उच्यते? न एषः दोषः। निरुपाध्युपाधिमत्वेन उपपत्तेः। तत्र स्वेन निरुपाधिकेन रूपेण अनेजदेकम् इति उच्यते (तथा) मनसः सङ्कल्पविकल्पलक्षणस्य अन्तःकरणस्य उपाधेः अनुवर्तनात् इह देहस्थस्य मनसः ब्रह्मलोकादिदूरगमनं सङ्कल्पेन क्षणमात्रात् भवति, इत्यतः मनसः जविष्ठत्वं लोके प्रसिद्धम् । (किन्तु) तस्मिन् मनसि ब्रह्मलोकादीन् द्रुतं गच्छति सति आत्मचैतन्यावभासः प्रथमं प्राप्तः इव गृह्यते अतः मनसः जवीयः इति आह ।
नैनद्देवाः द्यौतनात् (विषयाणां प्रकाशनात्) चक्षुरादीनि इन्द्रियाणि देवाः एतत् प्रकृतम् आत्मतत्वं न आप्नुवन् न प्राप्तवन्तः। तेभ्यः (इन्द्रियेभ्यः) मनः जवीयः। (आत्मनः देवानां च) मनोव्यापारवयवहितत्वात् आत्मनः आभासमात्रमपि नैव देवानाम् (इन्द्रियाणां) विषयीभवति । यस्मात् (यतः) व्योमवद् व्यापित्वात् (तदात्मतत्वं) जवनात् मनसः अपि पूर्वम् ऋषत् पूर्वमेव गतं, तत् सर्वव्यापि आत्मतत्वं स्वेन निरुपाधिकेन स्वरूपेण सर्वसंसारधर्मवर्जितं अविक्रियम् एव सत् उपाधिकृताः सर्वाः संसारविक्रियाः अनुभवति इव, अविवेकिनां मूढानां च प्रतिदेहम् अनेकम् इव प्रत्यवभासते इति एतद् आह (श्रुतिः)।
तत् धावतः द्रुतं गच्छतः अन्यान् आत्मविलक्षणान् मनोवागिन्द्रियप्रभृतीन् अत्येति अतीत्य गच्छति इव । इवार्थं (श्रुतिः) स्वयम् एव दर्शयति तिष्ठत् इति स्वयम् अविक्रियं सत् एव इत्यर्थः।
तस्मिन् नित्यचैतन्यस्वभावे आत्मतत्वे सति मातरिश्वा मातरि अन्तरिक्षे श्वयति गच्छति इति मातरिश्वा वायुः सर्वप्राणभृत् क्रियात्मकः यदाश्रयाणि कार्यकरणजातानि यस्मिन् ओतानि प्रोतानि च यत्सूत्रसंज्ञकं सर्वस्य जगतः विधारयितृ सः मातरिश्वा, अपः कर्माणि प्राणिनां चेष्टालक्षणानि, अग्न्यादित्यपर्जन्यादीनां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि (कर्माणि) दधाति विभजति इत्यर्थः।
धायरति इति वा “भीषास्माद्वातः पवते” (तै.उ.२/८/९) इत्यादि श्रुतिभ्यः। सर्वाः हि कार्यकरणविक्रियाः सर्वास्पदभूते नित्यचैतन्यात्मस्वरूपे सति एव भवन्ति इत्यर्थः॥४॥
सङ्गतिः
न मन्त्राणां जामिता अस्तीति पूर्वोक्तम् अर्थं पुनः अपि आह-
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥
अन्वयः
तद् एजति तत् न एजति तद्दूरे तदु अन्तिके, तत् सर्वस्य अन्तरस्य तत् उ अस्य सर्वस्य बाह्यतः (अस्ति)।
सान्वयं भाष्यम्
तत् यत् प्रकृतम् आत्मतत्वं तत् एजति चलति, तदेव च न एजति, स्वतः नैव चलति, स्वतः अचलम् एव सत् चलति इव इत्यर्थः। किञ्च तत् दूरे, अविदुषां वर्षकोटिशतैः अपि अप्राप्यत्वात् दूरे एव । तत् उ अन्तिके इति च्छेदः (सन्धिविच्छेदः इत्यर्थः)। तद् उ अन्तिके अत्यन्तम् एव समीपे न केवलं दूरे विदुषाम् आत्मत्वात् अन्तिके च । तत् अस्य सर्वस्य अन्तः अभ्यन्तरे “य आत्मा सर्वान्तरः” (बृ.उ.३/४/१) इति श्रुतेः। आकाशवत् व्यापकत्वात् तदु नामरूपक्रियात्मकस्य अस्य सर्वस्य जगतः बाह्यतः (तथा) निरतिशयसूक्षमत्वात् अस्य सर्वस्य अन्तः अपि (अस्ति)। “प्रज्ञानघन एव” (बृ.उ.४/५/१३) इति च शासनात् निरन्तरं च । (अर्थात् अन्तः बाह्यभेदं विना सर्वत्र अस्ति इत्यर्थः)॥५॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चाऽऽत्मानं ततो न विजुगुप्सते ॥६॥
अन्वयः
यः तु सर्वाणि भूतानि आत्मनि एव अनुपश्यति, सर्वभूतेषु च आत्मानम् अनुपश्यति ततः (सः) न विजुगुप्सते ।
सान्वयं भाष्यम्
यस्तु । यः परिव्राड् मुमुक्षुः अव्यक्तादीनि स्थावरान्तानि सर्वाणि भूतानि आत्मनि एव अनुपश्यति, आत्मव्यतिरिक्तानि न पश्यति इत्यर्थः, सर्वभूतेषु च तेषु एव च आत्मानं (पश्यति) (अर्थात्) तेषां भूतानाम् स्वम् आत्मानम् अपि आत्मत्वेन (पश्यति), यथा अहम् अस्य देहस्य कार्यकरणसङ्घातस्य आत्मा (तथा तेषां) सर्वप्रत्ययसाक्षिभूतः चेतयिता केवलः निर्गुणः (अस्मि), अनेन एव स्वरूपेण च अव्यक्तादीनां स्थावरान्तानां सर्वभूतेषु अहम् एव आत्मा इति यः निर्विशेषम् आत्मानम् अनुपश्यति सः ततः तस्मात् एव दर्शनात् न विजुगुप्सते विजुगुप्सां घृणां न करोति ।
प्राप्तस्य एव अयम् अनुवादः। सर्वा हि घृणा आत्मनः अन्यत् दुष्टं पश्यतः (पुरुषस्य) भवति, निरन्तरम् अत्यन्तविशुद्धम् आत्मानम् एव पश्यतः (पुरुषस्य) घृणानिमित्तम् अर्थान्तरं नास्तीति प्राप्तम् एव । ततः न विजुगुप्सते इति ॥६॥
सङ्गतिः
अन्यः अपि मन्त्रः इमम् एव अर्थम् आह-
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥
अन्वयः
यस्मिन् (यदा) विजानतः (पुरुषस्य) सर्वाणि भूतानि आत्मा एव अभूत्, तत्र (तदा) एकत्वम् अनुपश्यतः (तस्य) कः मोहः कः शोकः ! (भवेत्) ।
सान्वयं भाष्यम्
यस्मिन्काले यथोक्तात्मनि वा परमार्थवस्तु विजानतः (पुरुषस्य) तानि एव सर्वाणि भूतानि परमार्थात्मदर्शनात् आत्मा एव अभूत् आत्मा एव संवृत्तः तत्र तस्मिन्काले तत्र आत्मनि वा कः मोहः कः शोकः। शोकश्च मोहश्च कामकर्मबीजम् अजानतः भवति, न तु गगनोपमं विशुद्धम् आत्मैकत्वं पश्यतः (भवति)।
कः मोहः कः शोकः इति अविद्याकार्ययोः शोकमोहयोः आक्षेपेण असम्भवप्रदर्शनात् सकारणस्य संसारस्य अत्यन्तम् एव उच्छेदः प्रदर्शितः भवति ॥७॥
सङ्गतिः
वृद्धाः तावत् उपनिषद्शैलीं परिबभणुः । “अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चते” इति । तया एव अत्र ईशेत्यादिमन्त्रे सर्वेश्वरत्वेन आत्मा उक्तः । कुर्वन् इति द्वितीये कर्माधिकारित्वेन । असुर्या इति तृतीये असुर्यलोकप्रापकाज्ञानविषयत्वेन ।
अतीतैः मन्त्रैः यः अयम् आत्मा उक्तः सः स्वेन रूपेण किंलक्षणः इति अयं मन्त्रः आह-
स पर्यगाच्छुक्रमकायमव्रणमस्नाविर शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥
अन्वयः
सः पर्यगात् शुक्रम् अकायम् अव्रणम् अस्नाविरं शुद्धम् अपापविद्धं कविः मनीषी परिभूः स्वयम्भूः याथातथ्यतः अर्थान् शाश्वतीभ्यः समाभ्यः व्यदधात् ।
सान्वयं भाष्यम्
सः यथोक्तः आत्मा पर्यगात् परि समन्तात् अगात् गतवान् आकाशवत् व्यापी इत्यर्थः। शुक्रं शुद्धं ज्योतिष्मत् दीप्तिमान् इत्यर्थः। अकायम् अशरीरः लिङ्गशरीरवर्जितः इत्यर्थः। अव्रणम् अक्षतम् । अस्नाविरं स्नावाः शिराः यस्मिन् न विद्यन्ते इति अस्नाविरम् । अव्रणम् अस्नाविरम् इत्याभ्यां स्थूलशरीरप्रतिषेधः। शुद्धं निर्मलम् अविद्यामलरहितम् इति कारणशरीरप्रतिषेधः। अपापविद्धं धर्माधर्मादिपापवर्जितम् । सपर्यगात् इति उपक्रम्य कविर्मनीषी इत्यादिना पुंलिङ्गत्वेन उपसंहारात् शुक्रम् इत्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि । कविः क्रान्तदर्शी सर्वदृक् । ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. ३/७/२३) इत्यादिश्रुतेः। मनीषी मनसः ईशिता सर्वज्ञः ईश्वरः इत्यर्थः। परिभूः सर्वेषां पर्युपरि भवति इति परिभूः। स्वयंभूः स्वयमेव भवति इति (स्वयंभूः) येषाम् उपरि भवति यश्च उपरि भवति सः सर्वः स्वयमेव भवति इति
स्वयंभूः ।
सः नित्यमुक्तः ईश्वरः सर्वज्ञत्वात् याथातथ्यतः यथातथाभावः याथातथ्यं तस्मात् याथातथ्यतः यथाभूतकर्मफलसाधनतः अर्थान् कर्तव्यपदार्थान् व्यदधात् विहितवान् यथानुरूपं व्यभजत् इत्यर्थः। शाश्वतीभ्यः नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यः (यथानुरूपं कर्तव्यपदार्थान् व्यभजत्) इत्यर्थः।
सङ्गतिः
(ज्ञानमार्गः कर्ममार्गश्च)।
अत्र “ईशावास्यमिदं सर्वं मा गृधः कस्यस्विद्धनम्” इति आद्येन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठा उक्ता । इत्येषः प्रथमः वेदार्थः। तथा अज्ञानां जिजीविषूणां ज्ञाननिष्ठाऽसम्भवे “कुर्वन्नेवेह कर्माणि जिजीविषेत्” इति कर्मनिष्ठा उक्ता । इत्येषः द्वितीयः वेदार्थः।
अनयोः मन्त्रप्रदर्शितयोः निष्ठयोः च विभागः बृहदारण्यके अपि प्रदर्शितः “सोऽकामयत जाया मे स्यात्” (बृ.उ.१/४/१७) इत्यादिना अज्ञस्य कामिनः कर्माणि इति (सिद्ध्यन्ते) । “मन एवास्यात्मा वाग्जाया” (बृ.उ.१//४/१७) इत्यादिवचनात् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितम् अवगम्यते । तथा च तत्फलं सप्तान्नसर्गः तेषु आत्मभावेन आत्मस्वरूपावस्थानम् ।
आत्मविदां जायाद्येषणात्रयसन्यासेन कर्मनिष्ठाप्रातिकूल्येन च “किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः” (बृ.उ.४/४/२२) इत्यादिना आत्मस्वरूपनिष्ठा एव दर्शिता । ये तु ज्ञाननिष्ठाः सन्यासिनः तेभ्यः असुर्या नाम ते इत्यादिना अविद्वन्निन्दाद्वारेण आत्मनः याथात्म्यं स पर्यगात् इत्येतदन्तैः मन्त्रैः उपदिषटम् । ते हि (सन्यासिनः) अत्र अधिकृताः न कामिनः इति । तथा च श्वेताश्वतराणां मन्त्रोपनिषदि “अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम्” इत्यादि विभज्य उक्तम् ।
ये तु कर्मिणः कर्मनिष्ठाः कर्मकुर्वन्तः एव जिजीविषवः तेभ्यः इदम् उच्यते-
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्याया˘ रताः॥९॥
अन्वयः
ये अविद्याम् उपासते (ते) अन्धं तमः प्रविशन्ति, ये उ विद्यायां रताः ते ततो भूय इव तमः प्रविशन्ति ।
सान्वयं भाष्यम्
कथं पुनः एवम् अवगम्यते (यत् ये तु कर्मिणः तेभ्यः एव इदम् उच्यते) न तु सर्वेषाम् इति ।
उच्यते-अकामिनः यत्- “यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः ।” इति (मन्त्रेण) साध्यसाधनभेदोपमर्देन आत्मैकत्वविज्ञानम् (उक्तं) तत् न हि केनचित् कर्मणा ज्ञानान्तरेण वा अमूढः समुच्चिचीषति । इह तु समुच्चिचीषया अविद्वदादिनिन्दा क्रियते । तत्र च न्यायतः शास्त्रतः वा यस्य येन समुच्चयः सम्भवति तत् इह उच्यते, कर्मसम्बन्धित्वेन यत् दैवं वित्तं देवताविषयं ज्ञानं तत् उपन्यस्तं न परमात्मज्ञानम् । “विद्यया देव लोकः” (बृ.उ.१/५/१६) इति पृथक्फलश्रवणात् । तयोः ज्ञानकर्मणोः इह एकैकानुष्ठाननिन्दा समुच्चिचीषया एव, न निन्दापरा (यतः) “विद्यया तदारोहन्ति” “विद्यया देवलोकः” (बृ.उ.१/५/१६) “न तत्र दक्षिणा यान्ति” “कर्मणा पितृलोकः” (बृ.उ.१/५/१६) इति एकैकस्य पृथक्फलश्रवणात् । नहि शास्त्रविहितं किञ्चित् अकर्तव्यताम् इयात् ।
तत्र अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति । के? ये अविद्यां विद्यायाः अन्या अविद्या तां कर्म (प्रविशन्ति) इत्यर्थः, कर्मणः विद्याविरोधित्वात्, तां केवलाम् अग्निहोत्रादिलक्षणाम् अविद्याम् एव उपासते, तत्पराः सन्तः अनुतिष्ठन्ति इति अभिप्रायः। ततः तस्माद् अन्धात्मकात् तमसः भूयः इव बहुतरमेव ते तमः प्रविशन्ति । के? ये उ ये तु कर्म हित्वा विद्यायाम् एव देवताज्ञाने एव रताः अभिरताः। तत्र विद्याकर्मणोः अवान्तरफलभेदं समुच्च्यकारणम् आह, अन्यथा फलवदफलवतोः सन्निहितयोः अङ्गाङ्गिता एव स्यात् इत्यर्थः।
अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥
अन्वयः
विद्यया अन्यत् एव आहुः,अविद्यया अन्यत् एव आहुः । इति धीराणां शुश्रुम ये तत् नः विचचक्षिरे ।
सान्वयं भाष्यम्
विद्यया अन्यत् पृथक् एव फलं क्रियते इति आहुः वदन्ति “विद्यया देव लोकः” (बृ.उ.१/५/१६) “विद्यया तदारोहन्ति” इति श्रुतेः। अविद्यया कर्मणा अन्यत् (फलं) क्रियते (इति) आहुः “कर्मणा पितृलोकः” (बृ.उ.१/५/१६) इति श्रुतेः । इति एवं धीराणां धीमतां वचनं शुश्रुम श्रुतवन्तः। ये आचार्याः नः अस्मभ्यं तत्कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तः, तेषाम् अयम् आगमः पारम्पर्यागतः इत्यर्थः।
सङ्गतिः
यतः एवम् अतः-
विद्यां चाविद्यां च यस्तद्वेदोभय˘ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥११॥
अन्वयः
यः विद्यां च अविद्यां च तत् उभयं सह वेद, (सः) अविद्यया मृत्युं तीर्त्वा विद्यया अमृतम् अश्नुते ।
सान्वयं भाष्यम्
विद्यां च अविद्यां च देवताज्ञानं कर्म च इत्यर्थः। यः तद् एतद् उभयं सह एकेन पुरुषेण अनुष्ठेयं वेद तस्य एवं समुच्चयकारिणः एव एकपुरुषार्थसम्बन्धः क्रमेण स्यात् इति उच्यते ।
अविद्यया कर्मणा अग्निहोत्रादिना मृत्युं स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यम् उभयं तीर्त्वा अतिक्रम्य विद्यया देवताज्ञानेन अमृतं देवतात्मभावम् अश्नुते प्राप्नोति । यत् देवतात्मगमनं तत् हि अमृतम् उच्यते ॥११॥
सङ्गतिः
अधुना व्यकृताव्याकृतोपासनयोः प्रत्येकं समुच्चिचीषया निन्दा उच्यते-
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्या˘ रताः ।१२॥
अन्वयम्
ये असम्भूतिम् उपासते (ते) अन्धं तमः प्रविशन्ति, ये उ सम्भूत्यां रताः ते ततो भूयः इव तमः प्रविशन्ति ।
सान्वयं भाष्यम्
(ये असम्भूतिम् उपासते ते) अन्धं तमः प्रविशन्ति ये असम्भूतिं सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिः, तस्याः अन्या असम्भूतिः प्रकृतिः कारणम् अविद्या अव्याकृताख्या तां असम्भूतिम् अव्याकृताख्यां प्रकृतिं कारणं कामकर्मबीजभूताम् अदर्शनात्मिकाम् अविद्यां ये उपासते ते तदनुरूपम् एव अन्धम् अदर्शनात्मकं तमः प्रविशन्ति । ये उ तु सम्भूत्यां हिरण्यगर्भाख्ये कार्यब्रह्मणि रताः ते ततः तस्मादपि भूयः बहुतरम् इव तमः प्रविशन्ति ॥१२॥
सङ्गतिः
अधुना उभयोः उपासनयोः समुच्चयकारणम् अवयवफलभेदम् आह-
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥
अन्वयः
सम्भवात् अन्यत् एव आहुः, असम्भवात् अन्यत् आहुः इति धीराणां शुश्रुम ये नः तत् विचचक्षिरे ।
सान्वयं भाष्यम्
सम्भवात् सम्भूतेः कार्यब्रह्मोपासनात् अणिमाद्यैश्वर्यलक्षणं फलम् अन्यदेव पृथगेव आहुः व्याख्यातवन्तः इत्यर्थः। तथा च असम्भवात् असम्भूतेः अव्याकृतात् अव्याकृतोपासनात् अन्यत् (फलम्) आहुः। यत् ‘अन्धं तमः प्रविशन्ति’ इति उक्तम्, पौराणिकैः च प्रकृतिलयः इति उच्यते, इति एवं धीराणां वचनं शुश्रुम ये तत् व्याकृताव्याकृतोपासनं फलं नः विचचक्षिरे व्याख्यातवन्तः इत्यर्थः॥१३॥
सङ्गतिः
यतः एवम् (प्रत्येकस्य फलं श्रूयते) अतः सम्भूत्यसम्भूत्युपासनयोः समुच्चयः युक्तः एव, एकैकपुरुषार्थत्वाच्च (समुच्चयः युक्तः) इति आह-
सम्भूतिं च विनाशं च यस्तद्वेदोभय˘ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥१४॥
अन्वयः
यः (अ)सम्भूतिं च विनाशं च तत् उभयं सह वेद (सः) विनाशेन मृत्युं तीर्त्वा असम्भूत्या अमृतम् अश्नुते ।
सान्वयं भाष्यम्
यः (अ)सम्भूतिं च विनाशं च तत् उभयं सह वेद, विनाशेन विनाशः धर्मः यस्य कार्यस्य सः तेन धर्मिणा अभेदेन विनाशः इति उच्यते, तेन (विनाशेन) तदुपासनेन अनैश्वर्यम् अधर्मकामादिदोषजातं च मृत्युं तीर्त्वा हिरण्यगर्भोपासनेन हि आप्तिः अणिमादिप्राप्तिः फलं, तेन अनैश्वर्यादिमृत्युम् अतीत्य असम्भूत्या अव्याकृतोपासनया प्रकृतिलयलक्षणम् अमृतम् अश्नुते । सम्भूतिं च विनाशं च इत्यत्र प्रकृतिलयफलश्रुत्यनुरोधात् अवर्णलोपेन निर्देशः द्रष्टव्यः ॥१४॥
सङ्गतिः
शास्त्रलक्षणं प्रकृतिलयान्तं फलं मानुषदैववित्तसाध्यम् । एतावती संसारगतिः। अतः परं पूर्वोक्तम् “आत्मैवाभूद्विजानतः” इति सर्वैषणासन्यासज्ञाननिष्ठाफलं सर्वात्मभावः एव । एवम् अत्र द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणः वेदार्थः प्रकाशितः । तत्र विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रवृत्तिलक्षणस्य वेदार्थस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणम् उपयुक्तं (तथा) निवृत्तिलक्षणस्य वेदार्थस्य प्रकाशने अतः ऊर्ध्वं बृह्दारण्यकम् उपयुक्तम् ।
तत्र यः निषेकादिश्मशानान्तं कर्म कुर्वन् जिजीविषेत् (तेन) अपरब्रह्मविषयया विद्यया सह (जीवनीयम्) तदुक्तं ‘विद्यां चाविद्यां च यस्तद्वेदोभय˘ सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥’ इति ।
तत्र केन मार्गेण अमृतत्वम् अश्नुते इति उच्यते- तद्यत्तत्सत्यमसौ स आदित्त्यौ य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुष एतदुभय˘ सत्यम् । यः ब्रह्मोपासीनः यथोक्तकर्मकृत् च सः अन्तकाले प्राप्ते सति (आदित्यमण्डलस्थम्) आत्मानम् आत्मनः प्राप्तिद्वारं याचते-‘हिरण्मयेन पात्रेण..’ इति ।
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥
अन्वयः
हिरण्मयेन पात्रेण सत्यस्य मुखम् अपिहितं, हे पूषन् ! त्वं तत् (मह्यं) सत्यधर्माय दृष्टये अपावृणु ।
सन्वयं भाष्यम्
हिरणमयम् इव हिरण्मयं ज्योतिर्मयम् इत्येतत् । तेन अपिधानभूतेन पात्रेण एव आदित्यमण्डलस्थस्य सत्यस्य ब्रह्मणः एव मुखं द्वारम् अपिहिहतम् आच्छादितम् । हे पूषन् ! तत् त्वं तव सत्यस्य उपासनात् सत्यधर्माय सत्यं धर्मः यस्य मम सः अहं सत्यधर्मा तस्मै सत्यधर्माय मह्यम् अथवा यथाभूतस्य धर्मस्य अनुष्ठात्रे (मह्यं) दृष्टये तव सत्यात्मनः उपलब्धये अपावृणु अपसारय ॥१५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह । तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥
अन्वयः
हे ! पूषन् ! एकर्षे! यम! सूर्य! प्राजापत्य! रश्मीन् व्यूह, तेजः समूह, यत् ते कल्याणतमं रूपं तत् ते पश्यामि । यः असौ पुरुषः सः असौ अहम् अस्मि ।
सान्वयं भाष्यम्
हे पूषन् ! जगतः पोषणात् पूषा रविः, तथा एकः एव ऋषति गच्छति इति एकर्षिः-हे एकर्षे !, तथा सर्वस्य संयमनात् यमः-हे यम् !, तथा रश्मीनां प्राणानां रसानां च स्वीकरणात् सूर्यः-हे सूर्य!, प्रजापतेः अपत्यं प्राजापत्यः-हे प्राजापत्य! स्वान् रश्मीन् व्यूह विगमय, ते तेजः तापकं ज्योतिः समूह एकीकुरु उपसंहर ।
ते तव यत् कल्याणतमम् अत्यन्तशोभनं रूपं तत् ते तव आत्मनः प्रसादात् पश्यामि । किञ्च अहं न तु त्वां भृत्यवत् याचे, यः असौ व्याहृत्यवयवः आदित्यमण्डलस्थः पुरुषः पुरुषाकारत्वात् वा अनेन प्राणबुद्ध्यात्मना समस्तं जगत् पूर्णम् इति पुरुषः, पुरि शयनात् वा पुरुषः सः अहम् अस्मि भवामि ॥१६॥
वायुरिति-
वायुरनिलममृतमथेदं भस्मान्त˘ शरीरम् ।
ॐ क्रतो स्मर कृत˘ स्मर क्रतो स्मर कृत˘ स्मर ॥१७॥
अन्वयः
अथ वायुः अनिलम् अमृतं (प्रतिपद्यतां) इदं शरीरं भस्मान्तं भूयात् । ॐ क्रतो ! स्मर, कृतं स्मर । ॐ क्रतो ! स्मर, कृतं स्मर ।
सान्वयं भाष्यम्
अथ इदानीं मम मरिष्यतः वायुः प्राणः अध्यात्मपरिच्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकम् अनिलम् अमृतं सूत्रात्मानं प्रतिपद्यताम् इति वाक्यशेषः। ज्ञानकर्मसंस्कृतं च इदं लिङ्गं (सूक्ष्मशरीरम्) उत्क्रामतु इति मार्गयाचनसामर्थ्यात् द्रष्टव्यम् । अथ इदं शरीरम् अग्नौ हुतं भस्मान्तं भूयात् ।
ॐ इति यथोपासनं प्रतीकात्मकत्वात् ॐ सत्यात्मकम् अग्न्याख्यं ब्रह्म अभेदेन उच्यते । हे क्रतो ! हे सङ्कल्पात्मक ! (मन!) स्मर यत् मम स्मर्तव्यं तस्य अयं कालः प्रत्युपस्थितः अतः स्मर । बाल्यप्रभृति एतावन्तं मया यत् कालं भावितम् अग्ने कृतं स्मर तत् अनुष्ठितं कर्म च स्मर । हे क्रतो ! स्मर कृतं स्मर इति पुनर्वचनम् आदरार्थम् ॥१७॥
सङ्गतिः
पुनः अन्येन मन्त्रेण मार्गं याचते-
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥
अन्वयः
अग्ने ! अस्मान् राये सुपथा नय, हे देव ! विश्वानि वयुनानि विद्वान् । अस्मत् जुहुराणम् एनः युयोधि, ते भूयिष्ठां नम उक्तिं विधेम ।
सान्वयं भाष्यम्
हे अग्ने ! सुपथा शोभनेन मार्गेण नय गमय । सुपथा इति दक्षिणमार्गनिवृत्यर्थं विशेषणम् । गतागतलक्षणेन दक्षिणेन मार्गेण अहं निर्विण्णः अतः त्वां याचे (यत्) यथोक्तधर्मफलविशिष्टान् अस्मान् विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वान् जानन् हे देव ! राये धनाय कर्मफलभोगाय इत्यर्थः पुनः पुनः गमनागमनवर्जितेन शोभनेन पथा नय ।
किञ्च अस्मत् अस्मत्तः जुहुराणं कुटिलं वञ्चनात्मकम् एनः पापं युयोधि वियोजय विनाशय । ततः विशुद्धाः सन्तः वयम् इष्टं प्राप्स्यामः इत्यभिप्रायः। किन्तु वयम् इदानीं ते परिचर्यां कर्तुं न शक्नुमः। (अतः) ते तुभ्यं भूयिष्ठां बहुतरां नमः उक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः।
‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ईशा ११), ‘विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते’ (ईशा १४) इति श्रुत्वा केचित् संशयं कुर्वन्ति । अतः तन्निराकरणार्थं संक्षेपतः विचारणां करिष्यामः।
तत्र तावत् किन्निमित्तः संशयः इति उच्यते ।
विद्याशब्देन मुख्या परमात्मविद्या एव अमृतत्वं च कस्मात् न गृह्यते ?
ननु उक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात् समुच्चयानुपपत्तिः।
सत्यम् । विरोधाविरोधयोः शास्त्रप्रमाणकत्वात्, (परन्तु अत्र यथाविधि ) विरोधः तु न अवगम्यते । यथा अविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकं तथा तद् विरोधाविरोधौ अपि । यथा च ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रात् अवगतं पुनः शास्त्रेण एव बाध्यते ‘अध्वरे पशुं हिंस्यात्’ इति । एवं विद्याविद्ययोः अपि स्यात् । विद्याकर्मणोः च समुच्चयः।
न, “दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता” (कठ.१-२-४) इति श्रुतेः।
विद्यां चाविद्यां चेति वचनात् अविरोधः इति चेत् ?
न, हेतुस्वरूपफलविरोधात् ।
विद्याविद्याविरोधाविरोधयोः विकल्पासम्भवात् समुच्चयविधानात् अविरोधः एव इति चेत् ?
न,सह सम्भवानुपपत्तेः ।
विद्याविद्ये इति क्रमेण एकाश्रये स्याताम् इति चेत् ?
न, विद्योत्पत्तौ अविद्यायाः हि अस्तत्वात् तदाश्रये अविद्यानुपपत्तेः । अग्निः उष्णः प्रकाशश्च इति विज्ञानोत्पत्तौ हि यस्मिन् आश्रये तदुत्पन्नं तस्मिन् एव आश्रये अग्निः शीतः अप्रकाशः वा इति न अविद्यायाः उत्पत्तिः, नापि संशयः अज्ञानं वा “यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः” (ईश.७) इति शोकमोहादि असम्भवश्रुतेः। अविद्यासम्भवात् तदुपादानस्य कर्मणः अपि अनुपपत्तिम् अवोचाम ।
अमृतमश्नुते इति आपेक्षिकम् अमृतम् । विद्याशब्देन परमात्मविद्याग्रहणे हिरण्मयेन इत्यादिना द्वारमार्गादियाचनम् अनुपपन्नं स्यात् । तस्मात् उपासनया समुच्चयः न परमात्मविज्ञानेन इति यथा अस्माभिः व्याख्यातः एव मन्त्राणाम् अर्थः, इति उपरम्यते ॥१८॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ।
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशङ्करभगवतः कृतौ वाजसनेयसंहितोपनिषद्भाष्यं सम्पूर्णम् ॥
ॐ तत्सत् ॥
ईशाप्रभृतिभाष्यस्य शाङ्करस्य परात्मनः ।
मन्दोपकृतिसिद्ध्यर्थं प्रणीतं टिप्पणं स्फुटम् ॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दभगवद्पूज्यपादशिष्यभगवदानन्दज्ञानकृता वाजसनेयसंहितोपनिषद्भाष्यटीका समाप्ता ॥ ॐ तत्सत् ॥
॥ इति ॥