सामग्री पर जाएँ

ईश्वरतत्त्वस्य प्रतिपादनं ऱामानुजमतेन कुरुत।

विकिपुस्तकानि तः

ईश्वरतत्त्वस्य प्रतिपादनं ऱामानुजमतेन कुरुत।

वेदान्तमतेषु अन्यतमं मतं विशिष्टाद्वैतम् इति।तस्य आचार्यः श्रीरामानुजः।अस्य मते ईश्वरस्वरूपमित्थम् –

ईश्वरलक्षणम् -
जन्माद्यस्य यतः।ब्रह्मसूत्रम् १.१.२
अस्य जगतः जन्म, स्थितिः प्रलयः च यस्मात् भवति, तद् ब्रह्म।

ईश्वरसद्भावे प्रमाणम् -
शास्त्रयोनित्वात्।ब्र.सू.१.१.३
ईश्वरस्य सिद्धिः अस्मिन् मते शास्त्रप्रमाणेन एव क्रियते।शास्त्रम् इति श्रुतिः।
यतो ह वेमानि भूतानि जायन्ते येन जातानि जीवन्ति, यस्मिन् प्रयन्ति अभिसंविशन्ति तद् विजिज्ञासस्व , तद् ब्रह्मेति।–तैत्तिरीयोपनिषद् ३.१
एतेन श्रुतिवचनेन रामानुजाचार्यः ईश्वरसिद्धिं करोति।

ईश्वरसद्भावे प्रमाणान्तरं न -
ईश्वरः तावत् न प्रत्यक्षस्य विषयः, अतीन्द्रियत्वात्।
न्यायादिषु दर्शनेषु अनुमानेन तस्य सिद्धिः क्रियते -
यथा महार्णवादिकं सकर्तृकं, कार्यत्वात् घटवत्।
एतदनुमानं रामानुजाचार्यैः न अङ्गीक्रियते, बहुदोषकलुषितत्वात्।
तस्मात् वेदैकगम्यः ईश्वरः अस्मिन् मते।

ईश्वरगुणाः
अस्मिन् मते निर्गुण: ईश्वरः नाभ्युपगम्यते।ईश्वरस्य एते गुणाः सन्ति-
स्वभावतो निरस्तसमस्तदोषत्वम्
अनवधिक-अतिशय-असङ्ख्येय-कल्याणगुणाश्रयत्वं,
निखिलहेयप्रत्यनीकस्वरूपं,
सत्यसङ्कल्पत्वम्
सर्वज्ञत्वम्
सर्वशक्तिमत्त्वम्।

ईश्वरस्वरूपम् -
जगतः उपादानं यः ईश्वरः तस्य स्वरूपं पञ्चविधम्। परमकारुणिकः भक्तवत्सलः ईश्वरः उपासकानुग्रहार्थं पञ्चधा वर्तते।
अर्चा, विभवः व्यूहः, सूक्ष्मः अन्तर्यामी इति एतानि पञ्च ईश्वररूपाणि।तत्र अर्चा नाम परमेश्वरस्य प्रतिमाः।विभवः नाम रामकृष्णादयः अवताराः।व्यूहः चतुर्विधः- वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धः च। ईश्वरस्य सूक्ष्मं स्वरूपं नाम षड्गुणसम्पन्नः ईश्वरः।अन्तर्यामिरूपं नाम सकलजीवान्तर्गतं सकलजीवनियामकम् ईश्वररूपम्।
साधकः प्रथमम् अर्चोपासनां कुर्यात्।तया उपासनया सः क्षीणकल्मषः भवति।तेन विभवोपासने अधिकारं स लभते।विभवोपासनेन सः व्यूहोपासनपात्रं भवति।ततः सूक्ष्मोपासनं सम्भवति।ततः अन्तर्याम्युपासनेऽधिकारः भवति।

जडेन जीवेन च सह ईश्वरस्य सम्बन्धः
बद्धदशायाम् ईश्वरः जीवानां नियन्ता, जीवान्तर्यामी जीवातिरिक्तः । जीवकर्मफलदाता।
यथा शरीरान्तर्गतः जीवः यथाकथञ्चित् शरीरं नियमयति।तथा जीवान्तर्गतः ईश्वरः जीवान् स्वातन्त्र्येण नियमयति ।यदृच्छया जीवनियमनेऽयं समर्थः तथापि सः जीवानां कर्मानुसारं तान् नियमयति।
मुक्तदशायाम् तु ईश्वरः जीवे प्रसन्नः सन् तस्य अविद्यां निवर्तयति।ततः ईश्वरस्य सर्वज्ञत्वादयः गुणाः जीवे आविर्भवन्ति। तदा मुक्तजीवाः तथा ईश्वरः इति एतेषां गुणाः समानाः भवन्ति।सर्वकर्तृत्वं तु जीवे कदापि न भवति, तत् तु ईश्वरे एव भवति।जीवेश्वरयोः अयं विशेषः सर्वदा वर्तते। ईश्वरः जडानाम् आत्मभूतः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्