ई...

विकिपुस्तकानि तः

ईश्वरः =
परमात्मा।
यथा ईश्वरः, परमात्मा वा सर्वेषां कार्याणां साधारणकारणम्|

ईश्वरवृत्तिज्ञानम् =
ईश्वरीयज्ञानम्।
यथा ईश्वरवृत्तिज्ञानम् ईश्वरीयज्ञानम् वा सर्वकार्याणां साधारणकारणम्।

ईश्वरसङ्केतः =
ईश्वरेच्छा।शक्तिः।अभिधा।
यथा भूः इति पदात् भूमिरिति अर्थः बोद्धव्यः इति ईश्वरसङ्केतः, ईश्वरेच्छा, शक्तिः, अभिधा वा।

ईश्वरीयज्ञानम् =
ईश्वरवृत्तिज्ञानम्।
यथा ईश्वरीयज्ञानम् ईश्वरवृत्तिज्ञानं वा सर्वकार्याणां साधारणकारणम्।

ईश्वरेच्छा =
ईश्वरसङ्केतः।शक्तिः।अभिधा।
यथा भूः इति पदात् भूमिरिति अर्थः बोद्धव्यः इति ईश्वरेच्छा, ईश्वरसङ्केतः, शक्तिः, अभिधा वा।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=ई...&oldid=7300" इत्यस्माद् प्रतिप्राप्तम्