उत्क्रान्तिगत्यधिकरणम्

विकिपुस्तकानि तः

उत्क्रन्तिगत्यागतीनाम्।२.३.१९
पू.-जीव: अणुपरिमाण:, न विभु:।उत्क्रान्तिगत्यागतीनां श्रवणात्। उत्क्रान्तिगत्यागतीनां श्रवणात् विभुत्वं न सम्भवति जीवस्य। मध्यमपरिमाणे सति विनाशप्रसङ्ग:।अत: जीव: अणुपरिमाण: एवाभ्युपेय:।
वे.- कुत्र विद्यते उत्क्रान्तिगत्यागतीनां श्रवणम्?
पू.- उत्क्रान्तिश्रवणमेवम् –
स यदास्माच्छरीरादुत्क्रामति सहैवैतै: सर्वै: उत्क्रामति।(कौषी. ३.३)
गतिश्रवणमेवम् ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति। (कौषी.१.२) अगतिश्रवणमेवम् –
तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे।(बृ.४.४.६)इति।

स्वात्मना चोत्तरयो: ।२.३.२०
उत्क्रान्ति: कदाचिदचलतो भवति, गत्यागती तु नाचलत: सम्भवत:।उत्तरयो: क्रिययो: गत्यागत्याख्ययो: स्वात्मना सम्बन्ध: नितरां भवति।

नाणुरतच्छ्रुतेरिति चेत् ,नेतराधिकारात्।२.३.२१
वे.- न अणुरयमात्मा, अतच्छ्रुते:।अणुत्वविपरीतप्रतिपादिन्य: श्रुतय: सन्ति-
१ स वा एष महानज आत्मा योऽयं विज्ञानमय प्राणेषु।(बृ.४.४.१२)
२ आकाशवत्सर्वगतश्च नित्य:।
३ सत्यं ज्ञानमनन्तं ब्रह्म।(तै. २.१.१)
एवंजातीयका श्रुति: अस्ति अत: नाणुरात्मा।
पू.- नैवम्, इतराधिकारात्।एतासु श्रुतिषु यत्परिमाणम् उक्तं, तद् इतरस्य परस्य आत्मन: अधिकारे उक्तम्।
वे.- ननु योऽयं विज्ञानमय: प्राणेषु (बृ.४.४.२२) इत्यत्र शारीरस्य एव परिमाणं निर्दिश्यते।
पू. - शास्त्रदृष्ट्या तु निर्देशो वामदेववदेष द्रष्टव्य:।अत: जीवस्य अणुत्वं न विरुद्ध्यते।

स्वशब्दोन्मानाभ्यां च।२.३.२२
पू.-अणुरात्मा साक्षादस्य अणुत्ववाचकशब्देन वाच्यत्वात्, उन्मानाच्च।अणुत्ववाचकशब्देन श्रवणम् एवम्- एषोऽणुरात्मा चेतसा वेदितव्य: यस्मिन् प्राण: पञ्चधा संविवेश।(मुण्ड.३.१.९)
वे.- आत्मपदेन जीवस्य एवात्र निर्देश: क्रियते, न परस्य ब्रह्मण: इत्यत्र का विनिगमना?
पू.-यस्मिन् प्राण: पञ्चधा संविवेश इति प्राणसम्बन्धश्रवणमेव विनिगमना।
वे.- उन्मानाद् अणुत्वं कथं सिद्ध्यति?
पू.- वालाग्रशतभागस्य शतधा कल्पितस्य च।भागो जीव: स विज्ञेय:...॥(श्वे. ५.८)
आराग्रमात्रो ह्यवरोऽपि दृष्ट:।(श्वे.५.८)इति उन्मानम्।
वे.- ननु जीवस्य अणुत्वे सति सकलदेहगता उपलब्धि: विरुद्ध्यते।अनुभूयते च सकलदेहे शैत्योपलब्धि: जलनिमग्नै:। अनुभूयते च सकलदेहे तापोपलब्धि: निदाघतप्तै:।

अविरोधश्चन्दनवत्।२.३.२३
पू.-हरिचन्दनबिन्दु: शरीरस्य एकदेशसम्बद्धोऽपि सकलदेहव्यापिनम् आह्लादं करोति।तथैव जीवोऽपि देहैकदेशस्थ: सन् सकलदेहव्यापिनीम् उपलब्धिं करिष्यति। आत्मसम्बन्ध: त्वचि विद्यते।त्वक् च सर्वशरीरव्यापिनी।अत: आत्मा सर्वशरीरगताचं वेदनाम् उपलभते इति अविरोध:।

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद् हृदि हि।२.३.२४
वे.- चन्दनदृष्टान्तोऽयुक्त:, दृष्टान्तदार्ष्टान्तिकयो: अतुल्यत्वात्।चन्दनस्य अवस्थितिवैशेष्यम् (देहैकदेशावस्थानम्) प्रत्यक्षेण अवगतम्।जीवस्य तु देहैकदेशस्थानं न केनापि प्रमाणेन अवगम्यते।
पू.- अभ्युपगतं जीवस्य देहैकदेशस्थितत्वम्।
वे.- कथमभ्युपगतम्?
पू.- हृदि ह्येष आत्मा पठ्यते वेदान्तेषु-
हृदि ह्येष आत्मा (प्रश्न.३.६)
स वा एष आत्मा हृदि।(छा.८.३.३)
कतम आत्मेति योऽयं विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योति: पुरुष:।(बृ.४.३.७)
एतेभ्य उपदेशेभ्य:अभ्युपगतम्।एवं दृष्टान्तदार्ष्टान्तिकयो: अवैषम्यम्।अत: युक्तं ‘चन्दनवदविरोध:’ इति वक्तुम्।

गुणाद्वा लोकवत्।२.३.२५
वे.- ननु चन्दनस्य सूक्ष्मा: अवयवा: सन्ति।तेषां विसर्पणेनापि सकलदेहे आह्लादयितृत्वं सम्भवति।जीवस्य तु अवयवा: न सन्ति।
पू.- तर्हि सकलदेहव्याप्तात् चैतन्यगुणात्, न तु द्रव्यादिसृप्ते: सकलदेहगता उपलब्धि: स्यात्। लोके मणे: दीपस्य वा एकस्मिन् स्थाने स्थितस्य प्रभा व्यापिनी भवति, अपवरकस्य एकदेशे दीपो वर्तते, परं तस्य प्रभा सकलम् अपवरकं व्याप्नोति।तथा जीवोऽपि हृदिस्थ: सन् सकलदेहगताया; उपलब्धे: कारणं भविष्यति।

व्यतिरेको गन्धवत्।२.३.२६
वे.- चैतन्यम् आत्मनो गुणश्चेत् कथं स: गुणिन: आत्मन: व्यतिरेकेण वर्तेत?
पू.- प्रदीपप्रभावद् भवेदिति पूर्वमुक्तम्।
वे.- न स दृष्टान्त: उचित:।प्रभा हि नाम तेजोद्रव्यमेव।निबिडावयवं तेजोद्रव्यं नाम प्रदीप:। प्रविरलावयवं तेजोद्रव्यं प्रभा। अत: दृष्टान्त: अयं गुणस्य द्रव्यव्यतिरेकेण अवस्थानं न साधयति।
पू.- गन्धवद् व्यतिरेक: सम्भवति।यथा कुसुमेषु अप्राप्तेषु अपि कुसुमगन्ध: उपलभ्यते।एवं जीवस्य अपि चैतन्यगुणव्यतिरेक: सम्भवति। चैतन्यगुण: आत्मविश्लेषाभाववान्, गुणत्वात्, रूपादिवत् इति एतदनुमानम् अनेकान्तिकम्।
वे.- गन्धस्यापि सहैवाश्रयेण विश्लेष: भवति, न त्वाश्रयव्यतिरेकेण।
पू.- न। तथा सति यस्मान्मूलद्रव्याद् विश्लेष: तस्य क्षय: स्यात्।न च क्षयोऽनुभूयते।
वे.- विश्लिष्टानामवयवानाम् अल्पत्वात् सन् अपि विशेषो नोपलक्ष्यते।गन्धपरमाणव: सूक्ष्मा:।ते नासापुटं प्रविश्य गन्धज्ञानम् उत्पादयन्ति।

तथा च दर्शयति।२.३.२७

पृथगुपदेशात्।२.३.२८

पू.- आत्मप्रज्ञयो: पृथगुपदेश: वर्तते-
१प्रज्ञया शरीरं समारुह्य (कौषी.३.६) अत्र आत्मप्रज्ञयो: कर्तृकरणभावेनोपदेश:।
२तदेषां प्राणानां विज्ञानेन विज्ञानमादाय (बृ.२.१.१७) अत्र शारीरात् कर्तु: पृथगुपदेश: विज्ञानस्य तस्मादणु: आत्मा।

तद्गुणसारत्वात्तु तद्व्यपदेश: प्राज्ञवत्।२.३.२९
वे.- तु-शब्द: पूर्वपक्षव्यावृत्तये।नाणुरात्मा।परब्रह्मणा सह तादात्म्यं श्रूयते आत्मन:।यदि परब्रह्म विभु, तर्हि तेन तादात्म्यं प्राप्त: जीवोऽपि विभुरेव भवितुमर्हति, नाणु:।जीवस्य विभुत्वप्रतिपादका: उपदेशा: अपि सन्ति।
‘स वा एष महानज आत्मा योऽयं विज्ञानमय: प्राणेषु’ (बृ. ४.४.२२) इति अणोरात्मन: सकलशरीरगता वेदना न सम्भवति।
पू.- जीवस्य त्वक्सम्बन्धात् त्वचश्च सर्वशरीरव्यापित्वात् अणोरपि जीवस्य सकलशरीरगता वेदना सम्भवति।
वे.- नैतद् युक्तम्।एवं हि सति पादतले कण्टकतोदने अपि सकलशरीरगता वेदना स्यात्।न च भवति। अत: आत्मा अणु: भवितुं नार्हति।न च अणोरात्मन: चैतन्यगुणस्य सकलदेहव्याप्ति: उपपद्यते।
पू.- उपपद्यते प्रदीपप्रभावत्।
वे.- प्रदीपश्च प्रभा चेत्युभयं द्रव्यमेव।अत: तत्र दीपव्यतिरिक्तदेशे प्रभा उपलभ्यते।यदि आश्रयं विहाय गुण: अन्यत्र उपलभ्येत, तर्हि गुणस्य गुणत्वम् एव नष्टं स्यात्।
अपरं च यथा पूर्वं दर्शितं तथा चैतन्यं नात्मनो गुण:, अपि तु स्वरूपम्।अत: यदि चैतन्यं सकलदेहं व्याप्नोति, आत्मापि व्याप्नोति।आत्मन: शरीरपरिमाणत्वं तु जैनमतप्रत्याख्यानावसरे प्रत्याख्यातम्।परिशेषाद् जीवस्य विभुत्वं सिद्धम्।
पू.- यदि आत्मा विभु: तर्हि श्रुतौ तस्य विभुत्वं कथं प्रतिपाद्यते?
वे.- तद्गुणसारत्वात्तु तद्व्यपदेश:।तस्या: बुद्धे: गुणा: तद्गुणा: इच्छाद्वेषादय:।ते सारा: प्रधानभूता: यस्य जीवस्य स: संसारी जीव: तद्गुणसार: उच्यते।तस्य भाव: तद्गुणसारत्वम्।जीव: बुद्धिधर्मप्रधान: अस्ति अत: तेन बुद्धिपरिमाणेन जीवपरिमाणस्य निर्देश: क्रियते इति सूत्रस्याशय:।बुद्धे: उत्क्रान्त्यादिभि: जीवस्य उत्क्रान्त्यादिव्यपदेशो भवति, न स्वत:।
पू.- बालाग्रशतभागस्येति जीवस्य परिमाणं गणितम्।
वे.- तद्वचनमेवमस्ति- बालाग्रशतभागस्य शतधा कल्पितस्य च भागो जीव: स विज्ञेय: स चानन्त्याय कल्पते।(श्वे.५.९) इति जीवस्य अणुत्वम् उक्त्वा तस्य एव आनन्त्यम् उक्तम्।उभयं मुख्यं भवितुं नार्हति।एकं मुख्यम् ,अपरं गौणम् (औपचारिकं) भविष्यति।यतो हि सर्वासु उपनिषत्सु ब्रह्मात्मभाव: प्रतिपादित:।तेन आनन्त्यं मुख्यं, सूक्ष्मत्वं गौणम् इत्येवोचितम्।
पू. आराग्रमात्रम् इति जीवस्य उन्मानम् उक्तम्।
वे.- तद्वचनमेवमस्ति – बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्ट: (श्वे.६.८)अत: अत्र बुद्धिगुणसम्बनधेनैव आत्मन: आराग्रमात्रता उपदिष्टा, न स्वेन आत्मना।
पू.- एषोऽणुरात्मा चेतसा वेदितव्य: (मुण्ड. ३.१.९) इत्यप्युक्तम्।
वे.- अस्मिन् वचने पर एवात्मा प्रकृत:।स: चक्षुराद्यनवग्राह्य:, ज्ञानप्रसादगम्यश्च।तस्माद् जीवस्य अणुत्वप्रतिपादकवचनानि दुर्ज्ञेयत्वाभिप्रायाणि, उपाध्यभिप्रायाणि वा।प्रज्ञया शरीरं समारुह्य (कौषी. ३.६) इत्येतादृशेषु भेदपरेषु वचनेष्वपि ‘बुद्ध्यैवोपाधिभूतया जीव: शरीरं समारुह्य’ इति योजनीयम्। अथवा ‘शिलापुत्रस्य शरीरम्’ इतिवत् व्यपदेशमात्रं मन्तव्यम्।हृदयायतनत्वम् अपि जीवस्य एवमेव योजनीयम्।बुद्धि: हृदयाश्रिता अत: तदुपाधिको जीवोऽपि हृदयायतन: इति उच्यते। उत्क्रान्त्यादिकम् अपि उपाध्यायत्तमेव।‘कस्मिन् नु अहमुत्क्रान्ते उत्क्रान्तो भविष्यामि, कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि इति (प्रश्नो. ६.३) उत्क्रान्तेरभावेऽपि गतेरभाव:

यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्।२.३.३०

पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्।२.३.३१

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा।२.३.३२

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्  द्वितीयाध्याये तृतीय: पाद: