उपनिषदः

विकिपुस्तकानि तः

ईशावास्योपनिषद्

ईशावास्यम् इदं सर्वम् यत्किंच जगत्यां जगत् || तेन त्यक्तेन भुंजीथा मा गृधः कस्यस्वित् धनम् ||१||

कुर्वन्नैवह कर्माणि जिजीवेषत शतम् समाः एवम् त्वयि नान्यथे तोSस्ति न कर्म लिप्यते नरे ||२||

असूर्या नाम ते लोका अंधेन तमसावृता तांस्ते प्रेत्याभिगच्छंति ये के चात्महनो जनाः ||३||

अनेजदेकम् मनसोजवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् तद्धावतोन्यान् अत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ||४||

तदेजति तन्नैजति तद्दूरे तद्वंतिके तदंतरस्य सर्वस्य तदुसर्वस्यास्य बाह्यतः ||५||

यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति सर्वभूतेषुचात्मानम् ततो न विजुगुप्सते ||६||

यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ||७||

स पर्यगात् शुक्रम्अकायम् अव्रणम् अस्नाविरम् शुद्धम् अपापविद्धम् कविर्मनीषि परिभूः स्वयंभूः यथातथ्यतो अर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ||८||

अन्धतमः प्रविशन्ति ये अविद्यामुपासते ततो भूय इव ते तमो ये उ विद्यायाम् रताः ||९||

अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया इति शुश्रुम धीराणाम् येनस्तद्विचचक्षिरे ||१०||

विद्यांच्या विद्यांच यस्तद्वेदोभयं सह अविद्यया मृत्युम् तीर्त्वा विद्ययामृतमश्नुते ||११ ||

अंधतमःप्रविशन्ति ये असंभूतिमुपासते ततो भूय इव ते तमो ये उ संभूत्याम् रताः ||१२||

अन्यदेवाहुर्संभवाअन्यदाहुरसंभवात् इति शुश्रुम धीराणां येनस्तद्विचचक्षिरे ||१३||

संभूतिंच विनाशंच यस्तद्वेदोभयं सह विनाशेन मृत्युं तीर्त्वा संभूत्यामृतमश्नुते ||१४||

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं तत्त्वम् पूषन् अपावृणु सत्यधर्माय दृष्टये ||१५||

पूषन्नेकर्षेयमसूर्यप्राजापत्य व्यूह रश्मीन्समूह तेजोयत्ते रूपं कल्याणतमम् तत् ते पश्यामि योSअसावसौ पुरुषः सोहम् अस्मि ||१६||

वायुरनिलममृतमथेदं भस्मांतम् शरीरम् ओम् क्रतो स्मर कृतम् स्मर क्रतो स्मर कृतम् स्मर ||१७||

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोधि अस्मद्जुहुराणमेनो भूयिष्ठां ते नमउक्तिम् विधेम ||१८||


केनोपनिषद्[सम्पाद्यताम्]

।।प्रथमः खण्डः।।

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ॥ १ ॥


श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥


न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥


अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥


यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥


यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥


यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥


यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥


।।द्वितीयः खण्डः।।

यदि मन्यसे सु वेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ १ ॥


नाह मन्ये सु वेदेति नो न वेदेति वेद च । यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥


यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥


प्रतिबोधविदितं मतममृतत्वं हि विन्दते । आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥


इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥

।।तृतीयः खण्डः।

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १ ॥

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २ ॥

तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ३ ॥

तदभ्यद्रवत्तमभ्यवदत् कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४ ॥

तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥

तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६ ॥


अथ वायुमब्रुवन् वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७ ॥


तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८ ॥

तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९ ॥


तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १० ॥


अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११ ॥


स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति ॥ १२ ॥

।।चतुर्थः खण्डः।।


ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १ ॥


तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥


तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इतीन्न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४ ॥


अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ५ ॥


तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ६ ॥


उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥


तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८ ॥


यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९ ॥

।।शुभम्।।

"https://sa.wikibooks.org/w/index.php?title=उपनिषदः&oldid=6995" इत्यस्माद् प्रतिप्राप्तम्