उ...

विकिपुस्तकानि तः
Jump to navigation Jump to search

उत्पत्तिमत्त्वम् =
सादित्वम्।कार्यत्वम्।प्रागभावप्रतियोगित्वम्।
यथा घटे उत्पत्तिमत्त्वं, सादित्वं, कार्यत्वं, प्रागभावप्रतियोगित्वं वा विद्यते।
यथा शरीरे उत्पत्तिमत्त्वं सादित्वं, कार्यत्वं,प्रागभावप्रतियोगित्वं वा विद्यते।

उत्पत्तिशून्यत्वम् =
अनादित्वम्।प्रागभाव-अप्रतियोगित्वम्।
यथा आत्मनि उत्पत्तिशून्यत्वम्, अनादित्वं, प्रागभाव-अप्रतियोगित्वं वा विद्यते।

उपमा =
उपमितिः।
यथा गोसदृशो गवयः इति आप्तवाक्येन गवयस्य उपमा, उपमितिः भवति।
यथा कीलसदृशम् अर्शः इति शास्त्रवचनेन अर्शसः उपमा, उपमितिः वा भवति।

उपमितिः =
उपमा।
यथा गोसदृशो गवयः इति आप्तवाक्येन गवयस्य उपमितिः, उपमा, वा भवति।
यथा कीलसदृशम् अर्शः इति शास्त्रवचनेन अर्शसः उपमितिः, उपमा वा भवति।

उपलब्धः =
प्रत्यक्षः।प्रत्यक्षज्ञानविषयः।अपरोक्षज्ञानविषयः।साक्षात्कृतः।साक्षात्कारविषयः।उपलब्धिविषयः।
यथा स्फीतालोकवर्ती घटः उपलब्धः, प्रत्यक्षः, साक्षात्कारविषयः, प्रत्यक्षज्ञानविषयः, अपरोक्षज्ञानविषयः, साक्षात्कृतः, उपलब्धिविषयः वा अस्ति।
यथा देहसन्तापः उपलब्धः, प्रत्यक्षः, प्रत्यक्षज्ञानविषयः, अपरोक्षज्ञानविषयः,साक्षात्कृतः, साक्षात्कारविषयः, उपलब्धिविषयः वा अस्ति।

उपलब्धिः =
प्रत्यक्षम्।अपरोक्षम्।साक्षात्कारः।अध्यक्षम्।उपलम्भः।
यथा स्फीतालोकवर्तिनः घटस्य उपलब्धिः,प्रत्यक्षम् अपरोक्षं, साक्षात्कारः, अध्यक्षम्, उपलम्भः वा चक्षुषा भवति।
यथा व्रणगतपूयगन्धस्य प्रत्यक्षम् उपलब्धिः, अपरोक्षं, साक्षात्कारः, अध्यक्षम्, उपलम्भः वा घ्राणेन्द्रियेण भवति।

उपलब्धिविषयः =
प्रत्यक्षः।प्रत्यक्षज्ञानविषयः।अपरोक्षज्ञानविषयः।साक्षात्कृतः।साक्षात्कारविषयः।उपलब्धः।
यथा स्फीतालोकवर्ती घटः उपलब्धिविषयः, प्रत्यक्षः, प्रत्यक्षज्ञानविषयः, अपरोक्षज्ञान-विषयः, साक्षात्कृतः, साक्षात्कारविषयः, उपलब्धः वा अस्ति।
यथा देहसन्तापः उपलब्धिविषयः, प्रत्यक्षः, प्रत्यक्षज्ञानविषयः, अपरोक्षज्ञानविषयः,साक्षात्कृतः, साक्षात्कारविषयः, उपलब्धः वा अस्ति।

उपलम्भः =
प्रत्यक्षम्।अपरोक्षम्।साक्षात्कारः।उपलब्धिः।अध्यक्षम्।
यथा स्फीतालोकवर्तिनः घटस्य उपलम्भः, प्रत्यक्षम्, अपरोक्षं, साक्षात्कारः,उपलब्धिः, अध्यक्षं वा चक्षुषा भवति।
यथाव्रणगतपूयगन्धस्य उपलम्भः, प्रत्यक्षम्, अपरोक्षं, साक्षात्कारः, उपलब्धिः, अध्यक्षं वा घ्राणेन्द्रियेण भवति।

उपादानकारणम् =
समवायिकारणम्।
यथा पटस्य उपादानकारणं समवायिकारणं वा तन्तुः।
यथा कफस्य उपादानकारणं समवायिकारणं वा जलम्।

उष्णत्वम् =
उष्णस्पर्शः
यथा उष्णत्वम् उष्णस्पर्शो वा अग्नेः असाधारणधर्मः।
यथा उष्णत्वम् उष्णस्पर्शो वा पित्तजशोथस्य असाधारणधर्मः।

उष्णस्पर्शः =
उष्णत्वम्।
यथा उष्णस्पर्शः उष्णत्वं वा अग्नेः असाधारणधर्मः।
यथा उष्णस्पर्शः उष्णत्वम् वा पित्तजशोथस्य असाधारणधर्मः।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=उ...&oldid=6454" इत्यस्माद् प्रतिप्राप्तम्