ऋग्वेदः

विकिपुस्तकानि तः

अग्निमीळे पुरोहितं यज्ञस्य देवं ऋत्विजम् |
होतारं रत्नधातमम् ||


अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत|
स देवानेह वक्षति ||


अग्निना रयिमश्नवत पोषमेव दिवे-दिवे |
यशसं वीरवत्तमम ||


अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि |
स इद्देवेषु गछति ||


अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः |
देवो देवेभिरा गमत ||


यदङग दाशुषे तवमग्ने भद्रं करिष्यसि |
तवेत तत सत्यमङगिरः ||


उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम |
नमो भरन्त एमसि ||


राजन्तमध्वराणां गोपां रतस्य दीदिविम |
वर्धमानंस्वे दमे ||


स नः पितेव सूनवे.अग्ने सूपायनो भव |
सचस्वा नः सवस्तये ||

"https://sa.wikibooks.org/w/index.php?title=ऋग्वेदः&oldid=6927" इत्यस्माद् प्रतिप्राप्तम्