एककालं द्विकालं...

विकिपुस्तकानि तः

मूलम्
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः।
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते।। ४२।।

पदच्छेदः-
एककालं द्विकालं वा त्रिकालं यः पठेत् नरः।सर्वपाप-विनिर्मुक्तः शिवलोके महीयते।। ४२।।

अन्वयः
यः नरः एककालं द्विकालं त्रिकालं वा पठेत् ,(सः) सर्वपाप-विनिर्मुक्तः (भूत्वा) शिवलोके महीयते।। ४२।।

सरलार्थः-
यः नरः एककालं द्विकालं त्रिकालं वा एतत् स्तोत्रं पठेत् सः सर्वपापेभ्यः मुक्तः भवति शिवलोके च प्रतिष्ठितः भवति।। ४२।।


शिवस्तोत्राणि    शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=एककालं_द्विकालं...&oldid=6194" इत्यस्माद् प्रतिप्राप्तम्