एकादश इन्द्रियाणि
उत्पत्तिः तथा विभागः -
[सम्पाद्यताम्]साङ्ख्यमते एकादशेन्द्रियाणाम् उत्पत्तिः तथा विभागः एवं वर्णितः -
अभिमानोऽहङ्कारः तस्माद् द्विविधः प्रवर्तते सर्गः।एकादशकश्च गणः तन्मात्रापञ्चकश्चैव॥सां.का.२४
==उत्पत्तिः तथा विभागः - ==
साङ्ख्यमते एकादशेन्द्रियाणाम् उत्पत्तिः तथा विभागः एवं वर्णितः -
अभिमानोऽहङ्कारः तस्माद् द्विविधः प्रवर्तते सर्गः।एकादशकश्च गणः तन्मात्रापञ्चकश्चैव॥सां.का.२४
सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्।भूतादेस्तन्मात्रः, स तामसः, तैजसादुभयम्॥'सां.का.२५
साङ्ख्यमते एकादश इन्द्रियाणि अहङ्कारात् जायन्ते।अहङ्कारः त्रिविधः। सत्त्वगुण-प्रधानः अहङ्कारः, रजोगुणप्रधानः अहङ्कारः तथा तमोगुणप्रधानः अहङ्कारः।सत्त्वगुणप्रधानः अहङ्कारः वैकृतः अहङ्कारः इत्यपि उच्यते।तामसः अहङ्कारः भूतादिः अहङ्कारः इत्यपि अभिधीयते।रजोगुणप्रधानः अहङ्कारः तैजसः अहङ्कारः इति संज्ञितः।
अहङ्कारः | ||
---|---|---|
सात्त्विकः=वैकृतः | राजसः= तैजसः | तामसः= भूतादिः |
सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्।भूतादेस्तन्मात्रः, स तामसः, तैजसादुभयम्॥सां.का.२५
एतेषु त्रिषु भेदेषु सत्त्वप्रधानाद् अंशात् तैजसाहङ्कारस्य साहाय्येन एकादश इन्द्रियाणि जायन्ते-
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि।वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः॥सां.का.२६
उभयात्मकमत्र मनः.....। सां.का.२७
सात्त्विकः अहङ्कारः + तैजसः अहङ्कारः | ||
---|---|---|
ज्ञानेन्द्रियाणि ५ | उभयात्मकम् इन्द्रियम् १ | कर्मेन्द्रियाणि ५ |
श्रोत्रेन्द्रियम् स्पर्शनेन्द्रियम् |
मनः | वागिन्द्रियम् पाणीन्द्रियम् |
एतेषु मनसः विवरणम् अन्तःकरणचतुष्टये जातम्।अधुना पञ्चज्ञानेन्द्रियाणां तथा पञ्चकर्मेन्द्रियाणां विवरणं द्रष्टव्यम्।तत्रादौ ‘इन्द्रियाणि सन्ति’ इति एतद्विषये किमपि प्रमाणम् अस्ति वेति पश्यामः।
इन्द्रियाणां सद्भावे प्रमाणम्
[सम्पाद्यताम्]इन्द्रियाणां सद्भावे प्रमाणं किम्?किमपि इन्द्रियं प्रत्यक्षप्रमाणेन तु न ज्ञायते।परं तावता इन्द्रियाणाम् अभावः न सिद्ध्यति।यतो हि अनुमानेन तेषां सद्भावः साधयितुं शक्यते।
सौक्ष्म्यात् तदनुपलब्धिः, नाभावात्, कार्यतस्तदुपलब्धेः।सां.का.८
इन्द्रियाणि सूक्ष्माणि सन्ति।अतः इन्द्रियेण तेषां ज्ञानं न सम्भवति।एवं प्रत्यक्षं ये विषयाः न ज्ञायन्ते, तेषां कार्यं दृष्ट्वा अनुमानं करणीयं भवति।एतद् अनुमानम् अग्रे वक्ष्यते।
साङ्ख्यमते कर्मेन्द्रियाणि -
[सम्पाद्यताम्]वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः॥सां.का.२६
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्॥सां.का.२८
साङ्ख्यमते पञ्च कर्मेन्द्रियाणि सन्ति।तेषां पञ्च विषयाः सन्ति-
इन्द्रियम् | वाक् | पाणिः | पादः | पायुः | उपस्थः |
---|---|---|---|---|---|
विषयः | वचनम् | आदानम् | विहरणम् | उत्सर्गः | आनन्दः |
आयुर्वेदे इन्द्रियविचारः
[सम्पाद्यताम्]अधुना आयुर्वेदे इन्द्रियाणां प्रतिपादनं पश्यामः।
उत्पत्तिः
[सम्पाद्यताम्]तत्र वैकारिकादहङ्कारात्तैजससहायात्तल्लक्षणान्येवैकादशेन्द्रियाण्युत्पद्यन्ते, तद्यथा- श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्घस्तोपस्थपायुपादमनांसीति; तत्र पूर्वाणि पञ्च बुद्धीन्द्रियाणि, इतराणि पञ्च कर्मेन्द्रियाणि, उभयात्मकं मनः….।सु.शा.१.४
तत्र बुद्धीन्द्रियाणां शब्दादयो विषयाः; कर्मेन्द्रियाणां यथासङ्ख्यं वचनादानानन्दविसर्गविहरणानि सु.शा.१.५
एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु । पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते ।।च.शा.१.२४
यानि खलु बुद्धीन्द्रियाणि (ज्ञानेन्द्रियाणि), तानि तु पञ्चानां महाभूतानाम् एकेन एकेन अधिकेन सन्ति। तानि कर्मानुमेयानि सन्ति।अयं सूत्रार्थः।
मनः अभिधाय इन्द्रियाणि अभिधत्ते तत्र अपि ज्यायस्त्वाद् बुद्धीन्द्रियाणि प्राग् आह एकैकेत्यादि। खादीनां मध्ये एक-एकेन अधिकेन भूतेन युक्तानि इन्द्रियाणि पञ्च चक्षुः-आदीनि एक-एक-अधिक-पदेन पञ्च अपि पाञ्चभौतिकानि परं चक्षुषि तेजः अधिकम् इत्यादि उक्तं सूचयति।- चक्रपाणिः
इन्द्रियाणि महाभूतानाम् एकेन एकेन जातानि इति वचनं नास्ति, एकेन एकेन अधिकेन जातानि इति वचनं विद्यते। अयम् आशयः –
श्रोत्रेन्द्रिये | पञ्च अपि भूतानि सन्ति, | तथापि एकम् आकाशभूतम् अधिकम् अस्ति। |
---|---|---|
स्पर्शनेन्द्रिये | पञ्च अपि भूतानि सन्ति, | तथापि एकं वायुभूतम् अधिकमस्ति। |
चक्षुरिन्द्रिये, | पञ्च अपि भूतानि सन्ति | तथापि एकं तेजोभूतम् अधिकम् अस्ति। |
रसनेन्द्रिये | पञ्च अपि भूतानि सन्ति | तथापि एकम् अप्-महाभूतम् अधिकम् अस्ति। |
घ्राणेन्द्रिये | पञ्च अपि भूतानि सन्ति | तथापि एकं पृथिवीमहाभूतम् अधिकम् अस्ति। |
इन्द्रियाणां कर्मानुमेयत्वम्
[सम्पाद्यताम्]इन्द्रियाणि कार्यानुमेयानि सन्ति इति साङ्ख्याः मन्यन्ते।पुनर्वसुना अपि अत्र तदेवोक्तम् – ‘पञ्च कर्मानुमेयानि’ इति।
कर्म-अनुमेयानि इति कार्यानुमेयानि कार्यं चक्षुर्बुद्ध्यादि।-चक्रपाणिः
इन्द्रियाणां सद्भावे प्रमाणं किम् इति प्रश्नः उद्भवति।तस्योत्तरं मुनिना उक्तं कर्मानुमेयानि इति पदेन।इन्द्रियाणि प्रत्यक्षयोग्यानि न सन्ति।तानि अनुमानेन ज्ञायन्ते। कथम् अनुमानं करणीयम्? कार्यतः।इन्द्रियस्य कार्यं नाम तज्जन्यं ज्ञानम्।ज्ञानं बोधः बुद्धिः इति पर्यायशब्दाः।चक्षुरिन्द्रियस्य सद्भावे चाक्षुषज्ञानस्य आधारेण अनुमानं क्रियते इत्यर्थः।तस्य अनुमानस्य आकारः एवं भवति –
चक्षुर्बुद्धिः सकरणा ,….. | प्रतिज्ञा |
---|---|
कार्यत्वात्..... | हेतुः |
यद् यत् कार्यं तत् तत् सकरणम्।यथा घटस्य दण्डचक्रादि ..... | उदाहरणम् |
चक्षुर्बुद्धिः अपि कार्यम्, ..... | उपनयः |
अतः सा सकरणा | निगमनम् |
चक्षुर्बुद्धेः यत् करणं तदेव चक्षुरिन्द्रियम् इति ब्रूमः।एवम् अनुमानम् अन्येषु अपि इन्द्रियेषु कार्यम्।सर्वाणि अपि पञ्च अनुमानानि अत्र सङ्गृह्यन्ते –
प्रतिज्ञा | श्रोत्रबुद्धिःसकरणा | स्पर्शबुद्धिः सकरणा | चक्षुर्बुद्धिः सकरणा | रसनबुद्धिः सकरणा | घ्राणबुद्धिः सकरणा |
---|---|---|---|---|---|
हेतुः | कार्यत्वात्. | कार्यत्वात्. | कार्यत्वात्. | कार्यत्वात्. | कार्यत्वात्. |
उदाहरणम् | यद् यत् कार्यं तत् तत् सकरणम्।यथा घटस्य दण्डचक्रादि | यद् यत् कार्यं तत् तत् सकरणम्।यथा घटस्य दण्डचक्रादि | यद् यत् कार्यं तत् तत् सकरणम्।यथा घटस्य दण्डचक्रादि | यद् यत् कार्यं तत् तत् सकरणम्।यथा घटस्य दण्डचक्रादि | यद् यत् कार्यं तत् तत् सकरणम्।यथा घटस्य दण्डचक्रादि |
उपनयः | श्रोत्रबुद्धिः अपि कार्यम् | स्पर्शबुद्धिः अपि कार्यम् | चक्षुर्बुद्धिः अपि कार्यम् | रसनबुद्धिःअपि कार्यम् | घ्राणबुद्धिः अपि कार्यम् |
निगमनम् | अतः सा सकरणा | अतः सा सकरणा | अतः सा सकरणा | अतः सा सकरणा | |
श्रोत्रबुद्धेः यत् करणं तदेव श्रोत्रेन्द्रियम्। | स्पर्शबुद्धेः यत् करणं तदेव स्पर्शनेन्द्रियम् | चक्षुर्बुद्धेः यत् करणं तदेव चक्षुरिन्द्रियम् | रसनबुद्धेः यत् करणं तदेव रसनेन्द्रियम् | घ्राणबुद्धेः यत् करणं तदेव घ्राणेन्द्रियम् |
इन्द्रियाणाम् उपादानकारणविषये साङ्ख्यायुर्वेदयोः मतभेदः-
[सम्पाद्यताम्]यद्यपि च सांख्ये आहंकारिकाणि इन्द्रियाणि यद् उक्तं सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहंकाराद् इति तथापि मतभेदाद् भौतिकत्वम् इन्द्रियाणां ज्ञेयं किंवा औपचारिकम् एतद् भौतिकत्वम् इन्द्रियाणां ज्ञेयम् उपचारबीजं च यद्-गुणभूयिष्ठं यद् इन्द्रियं गृह्णाति तत्-तद्-भूयिष्ठम् इति उच्यते चक्षुः तेजः गृह्णाति तेन तैजसम् उच्यते इत्यादि ज्ञेयम्।-चक्रपाणिः
इन्द्रियाणि भौतिकानि वा न वा इति अस्मिन् विषये साङ्ख्यायुर्वेदयोः किञ्चिद् वैमत्यं दृश्यते। तदेवम् –
साङ्ख्ये इन्द्रियाणि अहङ्कारजन्यानि मतानि इति दृष्टम्।अत्र तु -
एकैकाधिकयुक्तानि खादीनाम् इन्द्रियाणि तु। च.शा.१.२४
इति इन्द्रियाणां भूतजन्यत्वं प्रतिपाद्यते।एतयोः समञ्जनं कथं करणीयम्?तत्र चक्रपाणिः उपदिशति यद् वैद्यैः ‘साङ्ख्यमताद् भिन्नम् आयुर्वेदमतम्’ इति समाधाय चिकित्साव्यवहारे इन्द्रियाणां भौतिकत्वम् अङ्गीकरणीयम्। अस्मिन् समाधाने इन्द्रियाणां भूतजन्यत्वम् आदृतम् अहङ्कारजन्यत्वम् उपेक्षितम्।
इन्द्रियाणां भूतजन्यत्वं सुश्रुताचार्यः अङ्गीकरोति।
भौतिकानि चेन्द्रियाणि आयुर्वेदे वर्ण्यन्ते तथेन्द्रियार्थाः।सु.शा.१.१४
इन्द्रियाणां भूतजन्यत्वं महाभारते अपि प्रतिपादितम्।शान्तिपर्वणि मनुना कृते उपदेशे उक्तम् –
श्रोत्रं खतो घ्राणमथो पृथिव्याः..... ।म.भा.शान्ति.१९५.२०
भीष्मेण युधिष्ठिराय यः उपदेशः कृतः तत्र अपि इन्द्रियाणां भूतजन्यत्वं प्रतिपादितम्-
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्।वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतत् चतुष्टयम्।
रूपं चक्षुस्तथा पक्तिः त्रिविधं तेज उच्यते।रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः।
घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः॥म.भा.शान्ति.१८७.८-१०
एवम् इन्द्रियाणां भूतजन्यत्वं यथा आयुर्वेदे स्वीकृतं, तथा अन्यत्र अपि स्वीकृतम्।
अस्मिन् विषये साङ्ख्यायुर्वेदयोः योऽयम् मतभेदः दृश्यते,अस्य मतभेदस्य अपरमेकं समाधानं ब्रूते टीकाकारः ‘किंवा’ इत्यनेन। अस्मिन् द्वितीये समाधाने इन्द्रियाणाम् अहङ्कारजन्यत्वम् आद्रियते, भूतजन्यत्वम् उपेक्ष्यते।द्वितीयं समाधानम् इत्थम्-
इन्द्रियाणां भूतजन्यत्वम् आयुर्वेदे यदुक्तं तद् औपचारिकं मन्तव्यं, न वास्तवम्।वस्तुतः यथा साङ्ख्यशास्त्रं वदति, तथा इन्द्रियाणि अहङ्कारजन्यानि एव।श्रोत्रेन्द्रियं नाभसम् इत्यादिः व्यपदेशः तु उपचारात् भवति।
अथ कोऽयम् उपचारः? उच्यते-
सहचरणादिनिमित्तेन अतद्भावे तद्वदभिधानम् - वात्स्यायनः१.२.१४
पदार्थः तथा नास्ति चेद् अपि(अतद्भावे) तथा अस्ति इति अभिधानम् (तद्वदभिधानम्) उपचारः।तदर्थं साहचर्यादि किमपि निमित्तं भवति।यथा घृतदग्धम् इति अभिधानम्।तप्तघृतेन दग्धं चेत् ‘घृतेन दग्धम्’ इति शब्दप्रयोगः भवति।न स वास्तवः।घृतस्थेन अग्निना दग्धम् इति वास्तवम्। तथापि अग्निघृतयोः साहचर्यात् घृतेन दग्धम् इति शब्दप्रयोगः भवति। एषः उपचारः।मधुररसः स्निग्धः इति उपचारः।रसः गुणः।गुणाः गुणेषु न वर्तन्ते।अतः स्निग्धता इति मधुररसस्य धर्मः वस्तुतः न भवति।मधुरद्रव्यस्य सः धर्मः।तथापि रसद्रव्ययोः साहचर्यात् मधुररसः स्निग्धः इति उपचारः भवति।
अत्रापि इन्द्रियं वस्तुतः भूतजन्यं नास्ति।तथापि उपचारात् ‘भूतजन्यम् अस्ति’ इति उच्यते। घृतदग्धप्रयोगे साहचर्यम् इति निमित्तम् अस्ति।अत्र तथा किं निमित्तम् अस्ति येन भूतजन्यत्वाभावे अपि इन्द्रियं भौतिकम् इति शब्दप्रयोगः भवति? इत्यस्य उत्तरं वदति चक्रपाणिः उपचारबीजं चेत्यादिना।
बीजमिति निमित्तम्।यस्य गुणाः यद्गुणाः।यद्गुणेषु भूयिष्ठः गुणः यद्गुणभूयिष्ठः।यच्छब्देनात्र महाभूतं ग्राह्यम्।यथा आकाशस्य ये गुणाः, तेषु भूयिष्ठः गुणः शब्दगुणः।तम् आकाशस्य गुणेषु भूयिष्ठं शब्दगुणं यद् इन्द्रियं गृह्णाति, तद् नाभसम् इति व्यपदेशो भवति।अतः श्रोत्रेन्द्रियं नाभसम् । ‘ग्राह्यग्राहकभावसम्बन्धः’ इति अत्र उपचारनिमित्तम् इत्यर्थः।ग्राह्यः महाभूतगुणः। ग्राहकम् इन्द्रियम्।अस्य कोष्ठकरूपेण प्रदर्शनम् एवं भवेत् –
इन्द्रियम् | वस्तुतः | यं गुणं गृह्णाति | सः गुणः | अतः उपचारात् |
---|---|---|---|---|
श्रोत्रम् | आहङ्कारिकम् | शब्दम् | आकाशस्य | श्रोत्रम् नाभसम् |
स्पर्शनम् | आहङ्कारिकम् | स्पर्शम् | वायोः | स्पर्शनं वायवीयम् |
चक्षुः | आहङ्कारिकम् | रूपम् | तेजसः | चक्षुः तैजसम् |
रसनम् | आहङ्कारिकम् | रसम् | अपाम् | रसनम् आप्यम् |
घ्राणम् | आहङ्कारिकम् | गन्धम् | पृथिव्याः | घ्राणम् पार्थिवम् |
ज्ञानेन्द्रियाणां विषयाः -
[सम्पाद्यताम्]तत्र बुद्धीन्द्रियाणां शब्दादयो विषयाः.....। सु.शा.१.५
किम् इन्द्रियं कं विषयं गृह्णाति इति अस्मिन् विषये सुश्रुताचार्यः वदति-
इन्द्रियेणेन्द्रियार्थं तु स्वं स्वं गृह्णाति मानवः ।नियतं तुल्ययोनित्वान्नान्येनान्यमिति स्थितिः॥सु;शा.१.१५
इन्द्रियाणामिन्द्रियार्थानां च पाञ्चभौतिकत्वेऽपि यस्य भूतस्य यत्र यत्रेन्द्रिये आधिक्यं तेन तेन इन्द्रियेण तस्य तस्यैव गुणाः शब्दादयो गृह्यन्त इति दर्शयितुमाह- इन्द्रियेणेत्यादि| इन्द्रियेण चक्षुरादिना रूपादिकमात्मीयमात्मीयं मानव उपादत्ते; तद्यथा- तैजसं चक्षुस्तैजसमेव रूपमादत्ते, पार्थिवं घ्राणेन्द्रियं पार्थिवमेव गन्धमादत्ते, एवं शेषेष्वपि बोद्धव्यम्| नियतमात्मीयमेव कुत इत्याह- तुल्ययोनित्वादिति; एकभूतहेतुत्वात्, भूतं हि स्वयोनिमेवाभिधावति जलमिव जलम्| तमेव स्पष्टीकुर्वन्नाह - नान्येनान्यमिति॥सु.शा.१.१५डह्लणः
ज्ञानेन्द्रियम् | ग्राह्यविषयः | उपपत्तिः |
---|---|---|
श्रोत्रम् | शब्दः | श्रोत्रेन्द्रियस्य शब्दस्य च कारणं समानम्- आकाशम् |
स्पर्शनम् | स्पर्शः | स्पर्शनेन्द्रियस्य स्पर्शस्य च कारणं समानम्-वायुः |
चक्षुः | रूपम् | चक्षुनिन्द्रियस्य रूपस्य च कारणं समानम्-तेजः |
रसनम् | रसः | रसनेन्द्रियस्य रसस्य च कारणं समानम्-आपः |
घ्राणम् | गन्धः | घ्राणेन्द्रियस्य गन्धस्य च कारणं समानम्-पृथिवी |
आयुर्वेदे कर्मेन्द्रियाणि
[सम्पाद्यताम्]आयुर्वेदे अपि एतानि कर्मेन्द्रियाणि तथा तेषाम् एते एव विषयाः प्रतिपादिताः।
..... कर्मेन्द्रियाणां यथासङ्ख्यं वचनादानानन्दविसर्गविहरणानि ।सु.शा.१.५
हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च । कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ।। च.शा.१.२५
पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे । जिह्वा वागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता।।च.शा.१.२६
कर्मेन्द्रियाणां गणनाविषये प्रश्नः उत्तरं च
[सम्पाद्यताम्]अथ कर्मेन्द्रियाणि आह हस्तौ इत्यादि।हस्तौ एकं पादौ च एकम् इन्द्रियम् एकरूपकर्म-कर्तृतया। गुद-उपस्थं च एक-एकम्। - चक्रपाणिः
अस्य आशयः एवम् - हस्तौ द्वौ स्तः।अतः पाणीन्द्रियद्वयं भवति वा? पादौ द्वौ स्तः अतः पादेन्द्रियद्वयं भवति वा? इति आशङ्कयोः समाधानं करोति हस्तौ एकमित्यादिना।यद्यपि हस्तौ द्वौ स्तः तथापि पाणीन्द्रियम् एकमेव।यद्यपि पादौ द्वौ स्तः तथापि पादेन्द्रियम् एकमेव।
तस्य उपपत्तिं वदति एकरूपकर्मकर्तृतयेति। ग्रहणमिति पाणीन्द्रियस्य कर्म।दक्षिणेन हस्तेन पुरुषः गृह्णाति, तथैव वामेन हस्तेन गृह्णाति।उभयोः हस्तयोः ग्रहणकर्म समानम्।अतः तदेव ग्रहणकर्म कर्तुं द्वितीयस्य इन्द्रियस्य आवश्यकता नास्ति।
एवमेव गमनकर्म उभयपादयोः समानम्।तस्य एकरूपस्य गमनकर्मणः कर्तृ पादेन्द्रियम्। अतः तद् एकमेव।अतः एकं पाणीन्द्रियम्, एकं पादेन्द्रियम्, एकं पाय्विन्द्रियम्, एकम् उपस्थेन्द्रियं, तथा एकं वागिन्द्रियम् इति पञ्चानां कर्मेन्द्रियाणां गणना।
यत्र समानकर्मता तत्र इन्द्रियैकत्वम्।अतःनेत्रे द्वे, तथापि चक्षुरिन्द्रियम् एकम् ।यतो हि उभयोः नेत्रयोः दर्शनकर्म समानम्। द्वयोः अपि कर्णयोः कर्म समानं श्रवणरूपम्।अतः अतः यत्र समानकर्मता तत्र इन्द्रियैक्यम् इति न्यायेन द्वयोरपि कर्णयोः एकं श्रोत्रेन्द्रियम्।
ननु पाय्विन्द्रियं तथा उपस्थेन्द्रियं पृथक्तया किमर्थं गणिते?पायूपस्थं विसर्गार्थम् इति वचनात् उभयोः कर्म समानम्।समानकर्मत्वात् द्वयोः हस्तयोः एकमेव इन्द्रियं गणितम्। तुल्यन्यायेन अत्रापि पायूपस्थयोः एकत्वं किमर्थं न अङ्गीक्रियते?
ब्रूमः।पायूपस्थयोः सर्वथा समानकर्मता नास्ति।उपस्थस्य विसर्जनकर्म अस्ति तथा आनन्दः इत्यपि एकं कर्म विद्यते।तत् तु पाय्विन्द्रियस्य नास्ति।एवं पाय्विन्द्रियात् भिन्नं किमपि कर्म उपस्थस्य विद्यते अतः तस्य पृथग् गणना उचिता एव।
साङ्ख्यायुर्वेदयोः