एतां रामबलोपेतां ...विनयी भवेत्
पठन सेटिंग्स
मूलम्
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥
पदच्छेदः
एतां रामबल-उपेतां रक्षां यः सुकृती पठेत् ।
सः चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥
अन्वयः
यः सुकृती रामबल-उपेताम् एतां रक्षां पठेत्,सः चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥
सरलार्थः
यः पुण्यवान् जनः रामबलयुताम् एतां रामरक्षां पठति, सः दीर्घायुः ,सुखी, पुत्रवान्, विजयी तथा विनयी भवति॥१०
सन्धिविग्रहः
सन्धिः | विग्रहः | सूत्रम् |
---|---|---|
रामबलोपेतां | रामबल-उपेतां | आद्गुणः।६.१.८६ |
समासविग्रहः१०
रामबलोपेताम्
रामस्य बलं रामबलम्। षष्ठी ।२.२.८
रामबलेन उपेता रामबलोपेता, ताम्।
चिरायुः
चिरम् आयुः यस्य सः।... अनेकमन्यपदार्थे।२.२.२४
रामरक्षास्तोत्रम् - सान्वयं सार्थम्