ऐकात्म्याधिकरण...

विकिपुस्तकानि तः

प्र.- ऐकात्म्याधिकरणमारचयत।
सङ्गति:-
प्रसङ्गादधिकरणमारब्धमत: प्रसङ्गसङ्गति:।
मनश्चिदादीनां पुरुषार्थत्वं पूर्वस्मिन् अधिकरणे स्थापितम्।तथापि एतमर्थं भोक्तुं देहभिन्न: कोऽपि न सम्भवतीति आक्षेपसङ्गति:।
विषय:-
आत्मप्रतिपादकानि वचनानि।
विशय:-
देहव्यतिरिक्त: आत्मा नाम कश्चित् पदार्थ: अस्ति न वा?
पूर्वपक्ष:-
एक आत्मन: शरीरे भावात्।३.३.५३
एके इति लोकायतिका: देहव्यतिरिक्तस्यात्मन: अभावं मन्यन्ते।यतो हि आत्मधर्मा इति ये उच्यन्ते ते नु शरीरे सति उत्पद्यन्ते शरीरे एव लक्ष्यन्ते, न बहि:।
चैतन्यं देहधर्म:।देहे सति सत्त्वात्, देहाभावे असत्त्वात्।
यद् यस्मिन् सति भवति, असति च न भवति, तद् तद्धर्मकं यथा औष्ण्यप्रकाशौ दीपस्य।३.३.५३,५४
उत्तरपक्ष:-
आत्मन: देहाद् व्यतिरेक: (भेद:), न तु अव्यतिरेक: (अभेद:)।देहे सत्यपि अभावित्वात्।(मृते देहे चैतन्यादिकं नास्ति।) यथा भूतोपलब्धि: भूतेभ्यो भिन्ना, तथा एषा भौतिकदेहोपलब्धि: देहाद् भिन्ना।उपलब्धिरेव अस्मन्मते आत्मा।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=ऐकात्म्याधिकरण...&oldid=7141" इत्यस्माद् प्रतिप्राप्तम्