कटुरसविज्ञानम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

॥ कटुरसः ॥ पाञ्चभौतिकं सङ्घटनम् -

कटुरसात्मकं द्रव्यं पान्चभौतिकम् अस्ति, तथापि तत्र तेजोमहाभूतस्य, वायु-महाभूतस्य च प्राबल्यं विद्यते ।‘कारणगुणाः कार्यगुणान् आरम्भते’ इति न्यायेन वातस्य रौक्ष्यं तथा लाघवं कटुरसे अनुवर्तते। अग्निमहाभूतस्य औष्ण्यं तथा तैक्ष्णम् कार्यभूते कटुरसे अनुवर्तते ।
कटुरसलक्षणम् -

कटुरसं द्रव्यं यस्मिन् क्षणे मुखे स्थाप्यते तस्मिन् क्षणे जिह्वायाः दाहः भवति । जिह्वाग्रे अयं दाहः सुस्पष्टतया प्रतीतः भवति । मुखस्य अन्तर्भागे चिमचिमायनं भवति । नेत्रतः, नासातः, मुखतः जलं स्रवति । मुखकुहरं दह्यते इव । कटुरसस्य मानं द्रव्यं, यावद् अधिकं, तावद् एतेषां लक्षणानां तीव्रत्वम् अपि अधिकम् ।

कटुरसविपाकः -
केचन रसाः पचनोत्तरम् अन्यस्मिन् रसे परिवर्तन्ते । एषः परिवर्तितः रसः नाम विपाकः । परं कटुरसः पचनाद् अनन्तरम् अपि कटुः एव भवति । अतः कटुरसस्य विपाकः कटुः इति उच्यते ।
कटुरसस्य वीर्यम् -
उष्णरसाः तथा शीतरसाः इति वर्गीकरणं कुर्मः चेत् कटुरसः उष्णे समाविष्टः भवति।स्वाभाविकमिदम्।अग्निमहाभूताद् अयं रसः जायते।अतः कारणस्य अग्नेः उष्णता तत्र अनुवर्तते। कटुरसः उष्णः अस्ति इति उपचाराद् उच्यते । वस्तुतः कटुरसात्मकं द्रव्यम् उष्णम् अस्तीति तस्य आशयः।

दोष-धातु-मलेषु परिणामाः -
कटुरसः शरीरं प्रविशति तदा वातदोषं वर्धयति, पित्तदोषं वर्धयति, कफदोषं क्षपयति । रसः, रक्तं, मासं, मेदः, मज्जा तथा शुक्रम् इति एते स्निग्धाः तथा सौम्याः धातवः देहे सन्ति। कटुरसेन तेषां क्षयः भवति । कटुरसेन मलगतः द्रवांशः शुष्कः भवति, तस्य ग्रन्थिः भवति । द्रवांशशोषणात् मूत्रस्य मात्रा अपि न्यूना भवति ।

रोगेषु प्रयोगः -

कटुरसः मुखगतं कफं न्यूनीकरोति, पिच्छिलतां न्यूनां करोति । तेन मुखं स्वच्छं भवति। जिह्वायाः कफलेपः नश्यति। तेन सर्वेषां रसानां ज्ञानं स्पष्टं भवति ।अतः दिनचर्यायां दन्तधावनं कटुरसात्मकद्रव्येण कार्यम्। येषु रोगेषु ’अरुचिः’ इति लक्षणं विद्यते तेषु रोगेषु कटुरसप्रयोगः भवति ।कफस्य लेपः यथा जिह्वायां भवति, तथा अग्नौ अपि भवति । जठरे कफसंचयेन अग्निः मन्दः भवति । तदा कफसंचयं नाशयित्वा अग्निदीपनं कर्तुं कटुरसः समर्थः। क्वचित् अपक्वान्नस्य संचयः जठरे विद्यते । तेनापि अग्निः मन्दः भवति । एतद् अपक्वम् अन्नम् ’आमः’ इति उच्यते। कटुरसः स्वबलेन अस्य आमस्य पाचनं करोति, जाठराग्नेः साहाय्यं करोति।अन्नपचनोत्तरम् अन्नरसस्य शोषणं भवति । तदर्थं शरीरे स्रोतांसि विवृतानि भवितुम् अर्हन्ति । स्रोतःसु कफस्य वा आमस्य वा लेपः यदि विद्यते तर्हि शोषणं न भवति । एतं स्रोतोलेपं नाशयितुं कटुरसस्य साहाय्यं भवति । स्रोतोलेपस्य नाशेन अन्नरसस्य वहनं साधु भवति। बहवः जनाः पोषकम् आहारं कुर्वन्ति परं तेषां पुष्टिः न भवति । पोषकाहारेण सञ्जातः आहाररसः शरीरे सर्वत्र यावत् न प्रसरति तावत् पुष्टिः कथं वा स्यात् ? रसवहस्रोतसां यदि सङ्कोचः अस्ति अथवा तेषु आमेन , कफेन अवरोधः अस्ति तर्हि रससंवहनं न भवति। शरीरधातवः यदि अन्नरसं पर्याप्तमात्रया न प्राप्नुवन्ति तर्हि पुष्टाः न भवन्ति । एतादृश्याम् अवस्थायां कटुरसस्य द्रव्यम् उपयोक्तव्यम् ।कटुरसात्मकं द्रव्यं स्रोतांसि विवृणोति, बन्धान् छिनत्ति । तेन रससंवहनं साधु भवति । पुष्टिः भवति ।क्वचिद् अपक्वम् अन्नम् अन्नवहस्रोतसि अपक्वम् एव सन्तिष्ठते । न तद् अग्रे याति ; न वा छर्दिरूपेण बहिः गच्छति । एतादॄशे रोगे (अलसकसंज्ञके) कटुरसः प्रयुज्यते । सः अपक्वम् अन्नं पचाति । अन्नरसस्य शोषणे साहाय्यं करोति ।शीतकाले अथवा अतिशीतप्रदेशे त्वचि शीतस्पर्शेन शोथः उद्भवति । तत्र कण्डूः अपि प्रादुर्भवति । अयं व्याधिः ’उदर्दः’ इति कथ्यते । उदर्दशोथे कटुरसद्रव्यस्य लेपः क्रियते । तेन शोथः अपगच्छति, कण्डूः च शमं याति । अतिस्थौल्ये कटुरसस्य भेषजं दीयते। स्थूलशरीरे मेदः स्रोतसि स्रोतसि सञ्चीयते । तेन अन्नरसस्य वहनम् अवरुद्धं भवति । अतः अन्येषु धातुषु दौर्बल्यं जायते । एवं विचित्रा स्थितिः अस्ति यद् मनुष्यः स्थूलः, पुष्टः दृश्यते परम् अल्पेनापि श्रमेण श्राम्यति । यतोऽहि मेदोऽतिरिक्ताः अन्ये सर्वे धातवः दुर्बलाः सन्ति। एवं स्थिते कटुरसस्य प्रयोग कार्यः। सः स्रोत:सु सञ्चितं मेदः निर्लिखति । तेन रसवहनं प्रवर्तते ।अन्ये धातवः पुष्यन्ति। मेदसः निर्लेखनेन भारहानिः अपि जायते।कटुरसस्य आहारे प्रमाणं वर्धयामः चेत् मेदसः उत्पत्तिः अपि मन्दा भवति । कफजे शोथे कटुरसस्य प्रयोगः लाभप्रदः ।यत्र कफः सञ्चितः भवति तत्र शोथः भवति। शोथदेशम् अङ्गुल्या किञ्चित् पीडयामः चेत्सः शोथः झटिति न उन्नमति । तत्र गर्तः इव जायते । शनैः शनैः गर्तः उन्नमति । एतादृशे कफजे शोथे कटुरसः प्रयुज्यते।यदा व्रणशोथः अपक्वः अस्ति तदा तस्य पाकार्थं कटुद्रवस्य लेपः क्रियते । यदा व्रणशोथः पक्वः भवति, तदा तस्य भेदनार्थम् अपि कटुद्रवस्य लेपः क्रियते । कटुद्रव्यम् उष्णीकृत्य व्रणशोथे आलिप्यते । तेन व्रणशोथस्य भेदः भवति । अन्तः सञ्चितं दुष्टं रक्तं बहिः स्रवति । क्वचिद् व्रणरोहणम् अधिकं भवति।व्रणे त्वक्समतलं मांसरोहणम् अभिप्रेतम् । ततोऽपि अधिकम् उन्नतं मासं वर्धते । तेन व्रणे त्वचः आच्छादनम् असम्भवं भवति। एतादृशः व्रणः उत्सन्नव्रणः इति उच्यते । अस्मिन् व्रणे अधिकस्य मांसस्य निर्लेखनार्थं कटुरसात्मकं द्रव्यम् उपयुज्यते । कटुद्रवस्य चूर्णम् उत्सन्नमांसे कीर्यते अथवा लिप्यते । शनैः शनैः व्रणः त्वक्स्तरं यावत् अवरोहति । आमाशयगतकृमिनाशनाय कटुरसः प्रयुज्यते । कटुरसः कृमीन् हन्ति । कृमीणां पुनरुद्भवः न स्याद् इति एतदर्थम् अपि कटुरसः प्रयुज्यते । आमाशये क्लेदः विपुलः भवति चेत् तत्र कृमयः वर्धन्ते । कटुरसेन आमाशयगतः क्लेदः ह्रसति । तेन कृमीणां पुनरुद्भवः न सम्भवति।

अतियोगस्य परिणामाः -

कटुरसः वातदोषं पित्तदोषं च वर्धयति । अतः कटुरसस्य अतियोगेन वातजाः पित्तजाः च रोगाः जायन्ते । कटुरसेन सर्वेषां सौम्यधातूनां क्षयः भवति। मेदसः क्षयेण कृशता जायते । शुक्रक्षयेण वन्ध्यत्वं सम्भवति । सूतिकायाः स्तन्यं ह्रसति । शरीरस्थस्य जलस्य शोषणम् अतिमात्रं भवति, तेन कण्ठशोषः भवति । तृष्णा प्रवर्धते । कटुरसस्य अतिसेवनेन भ्रमः, दाहः, क्वचित् मूर्च्छा अपि भवति । कटुरसेन कुपितः वातः देहे सञ्चरति । तदा गात्रकम्पः जायते । स्थाने स्थाने सूच्या विद्धमिव, छुरिकया छिन्नम् इव वेदना भवति । हस्तस्य पादस्य वा मोटनं भवति । हस्ते, पादे, कटिभागे, पर्शुकास्थिषु शूलं भवति ।

कटुद्रव्याणि
- हिङ्गु, मरिचं, मरीचिका, स्थूलमरीचिका, आर्द्रकम्, विडङ्गं, पिप्पली, चित्रकं, भल्लातकम् इति एतानि प्रायः सर्वपरिचितानि कटुद्रव्याणि । शुण्ठी, मरिचं तथा पिप्पली इत्येतेषां त्रयाणां द्रव्याणां संयोगः ’त्रिकटु’ इति नाम्ना विख्यातः।

कटुरसापवादाः -
कटुरसः उत्सर्गतः वातवर्धकः शुक्रनाशकः च । तथापि शुन्ठी, पिप्पली, लशुनम्, इति एतानि त्रीणि कटुद्रव्याणि तत्र अपवादभूतानि । एतानि द्रव्याणि वातं न वर्धयन्ति; प्रत्युत शमयन्ति । लशुनस्य वातशामकत्वं तु विख्यातम् ‘....... वायौ न द्रव्यं लशुनात्परम् ।’ इति तस्य स्तुतिः गीयते:।
ॠतुसम्बन्धः -
न्यूनाधिकमात्रया कटुरसः आवर्षम् आहारे अभिप्रेतः। वसन्ते तस्य अधिकमात्रया सेवनं शक्यते । वसन्तः कफप्रकोपस्य कालः । कटुरसः कफं हन्ति । अतः वसन्ते कटुरसः आहारे भवेत् । तेन् कफरोगणाम् अवसरः न भवति ।

भोजन-सम्बन्धः-
भोजनस्य अन्तिमे चरणे कटुद्रव्यं भक्षणीयम् ।भोजनोत्तरं कफकालः आरभ्यते । तदा कफस्य उत्पत्तिः भवति । सा अत्यधिका न भवेत् इति एतदर्थं भोजनान्ते कटुरसः सेवनीयः । भोजनोत्तरं ताम्बूलचर्वणम् एतेन प्रयोजनेन एव क्रियते । नागवल्लीपत्रं, सुधाचूर्णं, लवङ्गं, मिसि: इति एतानि ताम्बूलद्रव्याणि कटुरसात्मकानि सन्ति ।तेषां चर्वणेन भोजनोत्तरम् उत्पद्यमानस्य कफस्य मात्रा नियन्त्रिता भवति।
प्रकॄतिसम्बन्धः -
वातलः पित्तलः मनुष्यः कटुरसम् अल्पमात्रं खादेत् । अधिकं खादति चेत् वातजानां पित्तजानां रोगाणां सम्भवः। श्लेष्मलः जनः कटुरस्य अधिकमात्रया सेवनं कुर्यात् । श्लेष्मलस्य कफरोगेभ्यः भयम् अधिकम् । कटुरसः कफघ्नः । अतः श्लेष्मलस्य कृते हितकरः ।

षड्रसविज्ञानम्
"https://sa.wikibooks.org/w/index.php?title=कटुरसविज्ञानम्&oldid=6233" इत्यस्माद् पुनः प्राप्तिः