कठ उपनिषद्

विकिपुस्तकानि तः
Jump to navigation Jump to search

ॐ तत्सद्ब्रह्मणे नम: ।
अथ कठोपनिषद्
ॐ स ह नाववतु । स ह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै । ॐ शान्ति: शान्ति: शान्ति: ॥


ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय नचिकेतसे च ।
अथ काठकोपनिषद्वल्लीनां सुखार्थप्रबोधनार्थमल्पग्रन्था वृत्तिरारभ्यते । सदेर्धातोर्विशरणगत्यवसादनार्थस्योपनिपूर्वस्य क्विप्प्रत्ययान्तस्य रूपम् उपनिषदिति । उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्या उच्यते । पुन: केन अर्थयोगेन उपनिषच्छब्देन विद्या उच्यते...इति उच्यते । दृष्टानुश्रविकविषयवितृष्णा: सन्त: ये मुमुक्षव: उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्याम् उपसद्य-उपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषाम् अविद्यादे: संसारबीजस्य विशरणात् विसशनाद् विनाशनाद् इत्यनेन अर्थयोगेन विद्या उपनिषद् इति उच्यते । तथा च वक्ष्यति-“निचाय्य तं मृत्युमुखात्प्रमुच्यते” इति ।
      पूर्वोक्तविशेषणात् वा मुमूक्षून् परं ब्रह्म गमयति इति ब्रह्मगमयितृत्वेन योगात् ब्रह्मविद्या उपनिषद् । तथा च वक्ष्यति-“ ब्रह्म प्राप्तो विरजोऽभूद्विमृत्यु:” इति । लोकादिर्ब्रह्मजज्ञ: य: अग्नि: द्वितीयेन वरेण प्रार्थ्यमानाया: तद् विषयाया: विद्याया: लोकान्तरे पौन: पुन्येन प्रवृत्तस्य गर्भवासजन्मजराद्युपद्रववृन्दस्य अवसादयितृत्वेन-शैथिल्यापादनेन धात्वर्थयोगात् अग्निविद्या अपि उपनिषद् उच्यते ।


                पृष्ठसंख्या ५,६
                  ॐ उशन्ह वै वाजश्रवस: सर्ववेदसं ददौ ।
                  तस्य ह नचिकेता नाम पुत्र आस ॥ १'१'१ ॥

अन्वयक्रम:
ॐ उशन् ह वै वाजश्रवस: सर्ववेदसं ददौ, तस्य ह नचिकेता नाम पुत्र आस ।
शब्दार्थ:
ॐ उशन्=कामना करते हुए,(विश्वजित यज्ञ के फल की)
 ह वै
वाजश्रवस:=वाजश्रवस् ने,
 सर्ववेदसं=सर्वस्व धन,
 ददौ=दे दिया,
 तस्य=उस यजमान का,
 ह
 नचिकेता नाम=नचिकेता नाम का,
 पुत्र =पुत्र,
आस=था ।
सान्वयं भाष्यम्
तत्राऽऽख्यायिका विद्या स्तुत्यर्था । उशन्-कामयमान: ‘ह वा इति वृत्तार्थस्मरणार्थौ निपातौ’ वाजम् -अन्नं तद् दानादिनिमित्तं श्रव: यस्य स: वाजश्रवा, वा रूढित: (वाजश्रवा इति नाम) तस्य अपत्यं वाजश्रवस: तत् फलं कामयमान: सर्वमेधेन किल विश्वजिता एजे । स: तस्मिन् क्रतौ सर्ववेदसं-सर्वस्वं धनं ददौ-दत्तवान् । तस्य यजमानस्य किल ह नचिकेता नाम पुत्र आस-बभूव ।
शब्दार्थः
तत्राऽऽख्यायिका=यह आख्यायिका, विद्यास्तुत्यर्था=विद्या की स्तुति केलिए है, । उशन्-कामयमान:=कामना करते हुये, ‘ह वा इति वृत्तार्थस्मरणार्थौ निपातौ’=ह वा यह दोनों ही पद निपात हैं वृत्तार्थ स्मरण केलिये, वाजम् -अन्नं=अन्न, तद् दानादिनिमित्तं=उसके अन्नदानादि के निमित्त, श्रव: यस्य स: वाजश्रवा=कीर्ति,यश है जिसका वह वाजश्रवा, वा=अथवा, रूढित:=रूढि से प्राप्त, (वाजश्रवा इति नाम=वाजश्रवा नाम) तस्य=उनकी, अपत्यं=सन्तान,वाजश्रवस:=वाजश्रवस, तत् फलं कामयमान:=विश्वजीत फलकी कामना करते हुए, सर्वमेधेन=सर्वसम्पत्ति के दान से, किल=निश्चय ही, विश्वजिता=विश्वजीत यज्ञ द्वारा, एजे=यज्ञ किया । स:=उन्होंने, तस्मिन् क्रतौ=उस यज्ञ में, सर्ववेदसं-सर्वस्वं=सर्वस्व, धनं=सम्पत्ति, ददौ-दत्तवान्=दान कर दिया, । तस्य यजमानस्य=उस यजमान वाजश्रवा को, किल=वस्तुतः, ह नचिकेता नाम पुत्र=नचिकेता नाम का पुत्र, आस-बभूव=था ।


पृष्ठसंख्या ७
                     त˘ ह कुमार˘ सन्तं दक्षिणासु नीयमानासु ।
                     श्रद्धाऽऽविवेश सोऽमन्यत ॥ १'१'२ ॥
अन्वयः
दक्षिणासु नीयमानासु तं ह कुमारं सन्तं श्रद्धा आविवेश,सः अमन्यत्।
सान्वयं भाष्यम्
कुमारं प्रथमवयसम् अप्राप्तप्रजननशक्तिं बालं सन्तमेव तं ह नचिकेतसं श्रद्धा पितुः हितकामप्रयुक्ता आस्तिक्यबुद्धिः आविवेश प्रविष्टवती । कस्मिन् काले इत्याह- ऋत्विग्भ्यः सदस्येभ्यः दक्षिणासु नीयमानासु विभागोपनीयमानासु दक्षिणार्थासु गोषु सः आविष्टश्रद्धः नचिकेता अमन्यत आलोचितवान् ।


पृष्ठसंख्या ७,८
                      पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रिया: ।
                      अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥ १'१'३॥


पृष्ठसंख्या ८,९
                         स होवाच पितरं तत कस्मै मां दास्यसीति ।
व्दितीयं तृतीयं त˘ होवाच मृत्यवे त्वा ददामीति ॥ १'१'४ ॥


                 पृष्ठसंख्या ९
                  बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।
                  कि˘स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ १'१'५ ॥
अन्वयक्रम:
बहूनां प्रथम: एमि, बहूनाम् मध्यम: एमि, यमस्य किंस्वित् कर्तव्यं? यत् अद्य मया करिष्यति ।


पृष्ठसंख्या १०
तथापि तत्पितु: वच: मृषा मा भूत् इत्येवं मत्वा “मया किम् उक्तम् इति शोकाविष्टं पितरं परिदेवनापूर्वकम् आह--
               अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।
               सस्यमिव मर्त्यः पच्यते सस्यमिवाऽऽजायते पुनः ॥ १'१'६ ॥
 अन्वयक्रम:
यथा पूर्वे अनुपश्य तथा अपरे प्रतिपश्य,मर्त्य: सस्यम् इव पच्यते पुन: सस्यम् इव आजायते ।
सान्वयं भाष्यम्
यथा येन प्रकारेण पूर्वे अतिक्रान्ता: तव पितृपितामहादय: वृत्ता: अनुपश्य अनु क्रमेण आलोचय निभालय । तान् दृष्ट्वा च तेषां वृत्तम् आस्थातुम् अर्हसि । वर्तमानाश्च अपरे साधव: यथा वर्तन्ते तान् च तथा प्रतिपश्य आलोचय तेषु च मृषाकरणं न वृत्तं वर्तमानं वा अस्ति । तद्विपरीतम् असतां च वृत्तं मृषाकरणम् । न च कश्चित् जन: मृषा कृत्वा अजर: अमर: भवति ।
यत: मर्त्य: मनुष्य: सस्यम् इव पच्यते जीर्ण: म्रियते, मृत्वा च सस्यमिव आजायते आविर्भवति, पुन: एवम् अनित्ये जीवलोके किं मृषाकरणेन । आत्मन: सत्यं पालय । मां यमाय प्रेषय इति अभिप्राय: ।


         
  पृष्ठसंख्या ११
                  वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
                  तस्यैता˘ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ १'१'७ ॥
अन्वयक्रम:
अतिथि: ब्राह्मण: वैश्वानरः (सन्) गृहान् प्रविशति, तस्य एतां शान्तिं कुर्वन्ति, हे वैवस्वत ! उदकं हर ।
सङ्गति:
एवम् उक्त: स: पिता आत्मन; सत्यतायै प्रेषयामास । स: (नचिकेता:) च यमभवनं गत्वा यमे प्रोषिते तिस्र: रात्री: उवास ।


          पृष्ठसंख्या १२
          आशाप्रतीक्षे संगत˘ सूनृतां चेष्टापूर्ते पुत्रपशू˘श्च सर्वान् ।
          एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ १'१'८ ॥
अन्वयक्रम:
यस्य गृहे ब्राह्मण: अनश्नन् वसति (तस्य) अल्पमेधस: पुरुषस्य आशाप्रतीक्षे संगतं - सूनृतां इष्टापूर्तेच पुत्रपशूञ्श्च सर्वान् एतत् वृङ्ते ।


            पृष्ठसंख्या १३
              तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः ।
              नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ १'१'९ ॥
अन्वयक्रमः-
(हे) ब्रह्मन् ! नमस्ते अस्तु ! स्वस्ति मे अस्तु ! ब्रह्मन्! अतिथिः नमस्यः (सन्) अनश्नन् मे गृहे यत् तिस्रः रात्रीः अवात्सीः तस्मात् प्रति त्रीन् वरान् वृणीष्व ।
शब्दार्थः-
(हे) ब्रह्मन् != हे ब्राह्मणदेवता ,
नमस्ते अस्तु != आपको नमस्कार है ,
मे =मेरा ,
स्वस्ति =कल्याण ,
अस्तु !=हो ,
ब्रह्मन्!= हे ब्राह्मणदेव!,
अतिथिः=आप अतिथि हैं,
नमस्यः सन्=नमस्करणीय होते हुए ,
अनश्नन् =अन्न ग्रहण किये विना ,
मे गृहे=मरे घर में ,
यत्=जो ,
तिस्रः रात्रीः=तीन रात्रि तक ,
अवात्सीः=निवास किए ,( वस-निवासे,सकर्म.,अनि.,परस्मै.,लुङ्,म.पु.एकव.)अदादि गण:।
तस्मात् =इसलिए ,
प्रति =उसके लिए (प्रति रात्रि अर्थात् एक रात्रि के लिए एक इसप्रकार तीन रात्रि के लिए तीन वर ),
त्रीन् वरान्=वरदानों को ,
वृणीष्व =मांगें ।(वॄञ्-वरणे,सकर्म.,सेट,उभय.,लोटि,म.पु.,एकव.)क्र्‌यादिगण:।
सान्वयं भाष्यम्-
एवम् उक्तः मृत्युः नचिकेतसम् उपगम्य पूजापुरस्सरम् उवाच ।
हे ब्रह्मन्! अतिथिः नमस्यः सन् नमस्कारार्हश्च यत् यस्मात् तिस्रः रात्रीः अनश्नन् मे मम गृहे अवात्सीः उसितवान् असि तस्मात् तुभ्यं नमस्ते अस्तु भवतु । हे ब्रह्मन् ! भवतः अनशनेन तस्माद् मद्गृहवासनिमित्तात् दोषात् प्राप्त्युपशमेन मे स्वस्ति भद्रम् अस्तु । यद्यपि भवदनुग्रहेण मम सर्वं स्वस्ति स्यात् तथापि त्वदधिकप्रसादनार्थम् अनशनेन उषिताम् एकैकां रात्रिं प्रति त्रीन् वरान् मत्तः वृणीष्व अभिप्रेतार्थविशेषान् प्रार्थयस्व । ॥९॥
नमस्य: (वि.)नमस्+यत्, १,अभिवादन प्राप्त करने का अधिकारी,सम्मानित,आदरणीय,वन्दनीय। २,आदरयुक्त,विनीत।


           पृष्ठसंख्या १४
            शान्तसंकल्पः सुमना यथास्याद्वीतमन्युर्गौतमो माऽभि मृत्यो ।
            त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥ १'१'१० ॥
अन्वयक्रमः-
हे मृत्यो ! मा अभि (मम पिता ) गौतमः शान्तसङ्कल्पः सुमना: वीतमन्युः यथा स्यात्, त्वत्प्रसृष्टं (च) प्रतीत: मा अभिवदेत्, त्रयाणाम् एतत् प्रथमं वरं वृणे ।
पदार्थः-
हे मृत्यो !=हे यमराज !,
मां प्रति =मेरे प्रति,
(मम पिता) गौतमः=(मेरे पिता) गौतम,
शान्तसङ्कल्पः=शान्त संकल्प वाले,
सुमना: =प्रसन्न चित,
वीतमन्युः=क्रोध रहित,
यथा स्यात्,=जैसे हों,
त्वत्प्रसृष्टं (च)=आपके द्वारा भेजे जाने के बाद,
प्रतीत =पहचान कर,
माम्=मुझे,मेरे साथ,
अभिवदेत्=वार्तालाप करें,
त्रयाणाम् =तीनों मेंसे,
एतत् प्रथमं =यह पहला,
वरम् =वर,
(अस्ति)=है।
सान्वयं भाष्यम्-
नचिकेता: तु आह- हे भगवन् ! यदि वरान् दित्सुः (तर्हि)-
शान्तसङ्कल्पः-उपशान्तः सङ्कल्पः यस्य,
मम पुत्र: यमं प्राप्य किन्नु करिष्यति? इति मां प्रति स: मम पिता गौतम: शान्तसङ्कल्प:,
सुमना:-प्रसन्नमनाश्च
हे मृत्यो! माम् अभि-मां प्रति...
वीतमन्यु:-विगतरोषश्च यथा स्यात् ।
किञ्च-त्वत्प्रसृष्टं-त्वया विनिर्मुक्तं गृहं प्रति प्रेषितं मा-मां प्रतीत:-लब्धस्मृति:, “स: एव अयं मम पुत्र: आगत:” इत्येवं प्रत्यभिजानन् अभिवदेत् इत्यर्थ: । एतत् प्रयोजनं यत् पितु: परितोषणं, त्रयाणां वराणां प्रथमम् - आद्यं वरं वृणे प्रार्थये । ॥१०॥
शब्दार्थ:
नचिकेता:=नचिकेता, तु=तो, आह=बोले, हे भगवन् !=हे भगवन् !, श्रीमन् !, यदि=जो,
वरान् =वरदान,दित्सुः=देना चाहते हैं, (तर्हि)=तो,
शान्तसङ्कल्पः-उपशान्तः सङ्कल्पः यस्य,=जिसका सङ्कल्प उपशान्त हो गया हो वह,
मम=मेरा, पुत्र:=पुत्र, यमं प्राप्य=मृत्यु(यमराज)को प्राप्त होकर, किन्नु करिष्यति?=क्या करेगा?अर्थात् मृत्युदेव का सामना कैसे करेगा?, इति=इस प्रकार, मां प्रति=मेरे विषय में,
स: मम पिता गौतम:=वे मेरे पिता गौतम, शान्तसङ्कल्प:=आश्वस्त मन वाले हों,
सुमना:-प्रसन्नमनाश्च =प्रसन्न मन वाले हों,
हे मृत्यो!=हे यमदेव!, माम् अभि-मां प्रति...=मेरे बारे में (मेरे पिता)
वीतमन्यु:-विगतरोषश्च=क्रोध रहित भी, यथा स्यात्=जैसे हों (वैसा आप करें) ।
किञ्च=और फिर, त्वत्प्रसृष्टं-त्वया विनिर्मुक्तं गृहं प्रति प्रेषितं=आपके द्वारा घर को भेजा हुआ, मा-मां=मुझे, प्रतीत:-लब्धस्मृति:=पहचानकर, “स: एव=वही, अयं=यह, मम पुत्र:=मेरा पुत्र, आगत:”=वापस आ गया है, इत्येवं=इसप्रकार, प्रत्यभिजानन्=पहचानते हुए, अभिवदेत्=वात-चीत करें, इत्यर्थ:=तात्पर्य, । एतत् प्रयोजनं=यह प्रयोजन (है) यत्=कि, पितु: परितोषणं=पिता की प्रसन्नता,अर्थात् पिता की प्रसन्नता ही इस तीसरे वरदान का प्रयोजन है।, त्रयाणां वराणां=तीनों वरदानों में से यह, प्रथमम् - आद्यं=प्रथम, वरं=वरदान, वृणे=मैं वरण कर रहा हुं, प्रार्थये= मांग रहा हुं, प्रार्थना कर रहा हुं । ॥१०॥


         पृष्ठसंख्या १५,१६
         यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रष्टः ।
         सुख˘ रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥ १'१'११ ॥
अन्वयक्रम:
मत्प्रसृष्ट: त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तं प्रतीत: औद्दालकि: आरुणि: यथा पुरस्ताद् भविता वीतमन्यु: रात्री: सुखं शयिता ।
सान्वयं भाष्यम्
तत: मृत्यु: उवाच ।
तव पितुः बुद्धि: त्वयि यथा पुरस्तात्-पूर्वं स्नेहसमन्विता आसीत् (तथैव) भविता, प्रीतिसमन्वित: सन् तव पिता उद्दालकि: आरुणि: तथैव प्रतीतः प्रतीतवान् । उद्दालक: एव औद्दालकि: । अरुणस्य अपत्यम् आरुणि: । वा द्व्यामुष्यायण: । मत्‌प्रसृष्ट:- मया अनुज्ञात: सन् त्वां पुत्रं मृत्युमुखात्-मृत्युगोचरात् प्रमुक्तं सन्तं ददृशिवान् दृष्टवान् सन् इतरा अपि रात्री: सुखं प्रसन्नमना: शयिता स्वप्ता, वीतमन्यु: विगतमन्युश्च भविता-स्यात् ।



         

 पृष्ठसंख्या १६
           स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति ।
           उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १'१'१२ ॥
अन्वयक्रम:
(हे मृत्यो !) स्वर्गे लोके किञ्चन भयं नास्ति तत्र न त्वं न जरया बिभेति | अशनायापिपासे उभे तीर्त्वा शोकातिगः स्वर्गलोके मोदते ।
सान्वयं भाष्यम्
नचिकेता उवाच ।
स्वर्गे लोके रोगादिनिमित्तं किञ्चन्-किञ्चिदपि भयं नास्ति । हे मृत्यो ! न च तत्र त्वं सहसा प्रभवसि अत: तत्र त्वत्त: जरया युक्त: इह लोकवत् न कश्चित् बिभेति ।
किञ्च उभे अशनायापिपासे तीर्त्वा -अतिक्रम्य, शोकमतीत्य गच्छति इति शोकातिग: सन् मानसेन दु:खेन च वर्जित:, मोदते-हृष्यति दिव्ये स्वर्गलोके ।



          पृष्ठसंख्या १७
            सत्वमग्नि˘ स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त˘ श्रद्दधानाय मह्यम् ।
            स्वर्गलोका अमृतत्वं भजन्त एतद्वितीयेन वृणे वरेण ॥१'१'१३॥
अन्वयक्रम:
हे मृत्यो ! स: त्वं स्वर्ग्यम् अग्निम् अध्येषि, तं श्रद्दधानाय मह्यं प्रब्रूहि । (येन) स्वर्गलोका: अमृतत्वं भजन्ते, द्वितीयेन वरेण एतद् वृणे ।
सान्वयं भाष्यम्
स: त्वं मृत्यु: एवं गुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतम् अग्निं स्वर्ग्यम् अध्येषि स्मरसि जानासि इत्यर्थ: । हे मृत्यो ! यत: (स्वर्ग्यम्) (अत:) स्वर्गार्थिने श्रद्दधानाय-श्रद्धावते मह्यं तं प्रब्रूहि-कथय, येन चितेन अग्निना स्वर्गलोका:-स्वर्ग: लोक: येषां ते स्वर्गलोका: यजमाना: अमृतत्वम्- अमरणतां, देवत्वं भजन्ते-प्राप्नुवन्ति, तदेतत् अग्निविज्ञानं द्वितीयेन वरेण वृणे ।


         पृष्ठसंख्या १७,१८
           प्र ते ब्रवीमि तदु मे निबोध, स्वर्ग्यमग्निं नचिकेत: प्रजानन् ।
           अनन्तलोकाप्तिमथो प्रतिष्ठां, विद्धि त्वमेतं निहितं गुहायाम् ॥१'१'१४॥
अन्वयक्रम:
हे नचिकेत: ! स्वर्ग्यम् अग्निं प्रजानन् ते प्रब्रवीमि, तद् उ मे निबोध । अथो त्वम् अनन्तलोकाप्तिं, प्रतिष्ठां, गुहायां निहितं एतं विद्धि ।
सान्वयं भाष्यम्
१-इयं मृत्यो: प्रतिज्ञा । प्र ते- तुभ्यं प्रब्रवीमि । हे नचिकेत: त्वया यत् प्रार्थितं तत् उ स्वर्ग्यं- स्वर्गाय हितं स्वर्गसाधनम् अग्निं एकाग्रचित्तमना: सन् मे-मम वचस: निबोध-बुध्यस्व अहं प्रजानन्-विज्ञातवान् सन् (अस्मि) इत्यर्थ: ॥१४॥
२-इयं मृत्यो: प्रतिज्ञा । प्र ते- तुभ्यं प्रब्रवीमि । हे नचिकेत: स्वर्ग्यं- स्वर्गाय हितं स्वर्गसाधनम् अग्निं अहं प्रजानन्-विज्ञातवान् सन् यत् त्वया प्रार्थितं तत् उ मे-मम वचस: एकाग्रचित्तमना: सन् निबोध-बुध्यस्व, इत्यर्थ:। शिष्यबुद्धिसमानाधानार्थं वचनं प्रब्रवीमि तत् निबोध इति । अधुना अग्निं स्तौति । मया उच्यमानं तमेतम् अग्निम् अनन्तलोकाप्तिं - स्वर्गलोकफलप्राप्तिसाधनम् एतत् , प्रतिष्ठां-विराड्रूपेण जगत: आश्रयम् अथो-अपि निहितं-स्थितं-विदुषां बुद्धौ गुहायां निविष्टम् इत्यर्थ: ॥१४॥


         पृष्ठसंख्या १८,१९
           लोकादिमग्निं तमुवाच तस्मै, या इष्टका यावतीर्वा यथा वा ।
           स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्यु: पुनरेवाऽऽह तुष्ट: ॥१'१'१५॥
अन्वयक्रम:
तं लोकादिम् अग्निं या इष्टका, यावती: वा, यथा वा तस्मै उवाच । स: चापि तत् यथोक्तं प्रत्यवदत् ।अथ अस्य तुष्ट: मृत्यु: पुन: एव आह ।
सान्वयं भाष्यम्
इदं श्रुते: वचनम् । लोकादिं -लोकानाम् आदिं प्रथमशरीरित्वात्, अग्निं तं -प्रकृतं-नचिकेतसा प्रार्थितम् (अग्निम्) मृत्यु: तस्मै नचिकेतसे उवाच उक्तवान् । किञ्च (उक्तवान्?) या: इष्टका: स्वरूपेण चेतव्या:। सङ्ख्यया वा यावती: (चेतव्या:)? यथा - येन प्रकारेण वा अग्नि: चीयते एतत् सर्वम् उक्तवान् इत्यर्थ: । स: च नचिकेता: अपि तत्- मृत्युना (यथा) उक्तं (अग्निं) यथावत् प्रत्ययेन अवदत्-प्रत्युच्चारितवान् । अथ अस्य प्रत्युच्चारणेन तुष्ट: सन् वरत्रयव्यतिरेकेण अन्यं वरं दित्सु: मृत्यु: पुन: एव आह ॥१५॥
शब्दार्थ:
इदं=यह, श्रुते: वचनम्=श्रुति का वचन है । लोकादिं- लोकानाम् आदिं=लोकों के आदि कारण रूप, प्रथमशरीरित्वात्=प्रथम शरीरी होनें से आदि, अग्निं=आदि कारण रूप अग्नि को, तं -प्रकृतं- नचिकेतसा प्रार्थितम् (अग्निम्)=नचिकेता द्वारा प्रार्थित, मृत्यु:=यमदेव ने, तस्मै नचिकेतसे=उस नचिकेता के लिए, उवाच- उक्तवान्=कहा । किञ्च (उक्तवान्?)=क्या कहा?, या: इष्टका:=जिन ईंटों को, स्वरूपेण=रूप से,आकार से, चेतव्या:=चुननीं हैं । सङ्ख्यया वा=अथवा सङ्ख्या से, यावती:=जितनीं (चेतव्या:)? वा=अथवा, यथा - येन प्रकारेण=जिस प्रकार से, अग्नि: चीयते=अग्नि का चयन किया जाता है, एतत् सर्वम्=यह सब, उक्तवान्=कहा, इत्यर्थ: । स: च नचिकेता: अपि=और उस नचिकेता ने भी, तत्- मृत्युना उक्तं (अग्निं)=यमराज के द्वारा कही गई अग्निविद्या को, यथावत्=ज्यों की त्यों, प्रत्ययेन=निशचय पूर्वक, अवदत्-प्रत्युच्चारितवान्=यमराज को कह सुनायी, । अथ अस्य प्रत्युच्चारणेन एव =नचिकेता के द्वारा अग्निविद्या को यथावत् कहे जाने से ही, तुष्ट: सन्=प्रसन्न हो, वरत्रयव्यतिरेकेण=तीनों वरदानों के अलावा, अन्यं वरं दित्सु:=अन्य चौथा वरदान देनें की इच्छा वाले, मृत्यु:=यमराज, पुन: आह=फिर से बोले ॥१५॥


           

  पृष्ठसंख्या १९,२०
तमब्रवीत्प्रीयमाणो महात्मा, वरं तवेहाद्य ददामि भूय: ।
तवैव नाम्ना भवितायमग्नि:, सृङ्कां चेमामनेकरूपां गृहाण ॥१'१'१६॥
अन्वयक्रम:
प्रीयमाण: (महात्मा) यमराज: तम् अब्रवीत् , अद्य तव भूयः इह वरं ददामि, अयम् अग्नि: तव एव नाम्ना भविता इमाम् अनेकरूपां सृङ्कां च गृहाण ।
पदार्थ:
प्रीयमाण:स्नेहायमान, (महात्मा) यमराज:=महात्मा यमराज, तम्=नचिकेता को, अब्रवीत्=बोले, अद्य तव भूयः इह वरं=अभी यहां मैं तुम्हें एक और (चौथा) वरदान, ददामि=देता हुं, अयम् अग्नि:=यह अग्नि (जो मैनें अभी-अभी दूसरे वरदान में दी है) तव एव नाम्ना भविता=तुम्हारे नाम से ही जानीं जायगी, इमाम् च =और इस, अनेकरूपां=चित्र-विचित्र, सृङ्कां=मालाको, गृहाण=ग्रहण करो ।
सान्वयं भाष्यम्
कथम् ?
प्रीयमाण:-शिष्ययोग्यतां पश्यन् प्रीयमाण: - प्रीतिम् अनुभवन् महात्मा-अक्षुद्रबुद्धि: तं नचिकेतसम् अब्रवीत् इह - प्रीतिनिमित्तं तव अद्य-इदानीं भूय:-पुन: चतुर्थं वरं ददामि-प्रयच्छामि । मया उच्यमान: अयम् अग्नि: तव एव नचिकेतस: नाम्ना-अभिधानेन प्रसिद्ध: भविता । किञ्च शब्दवतीं अनेकरूपां विचित्रां रत्नमयीम् इमां सृङ्कां - मालां गृहाण-स्वीकुरु । यद्वा सृङ्काम्-अकुत्सितां कर्ममयीं गतिं गृहाण । अन्यदपि अनेकफलहेतुत्वात् कर्मविज्ञानं स्वीकुरु इत्यर्थ: ॥१६॥
शब्दार्थ:
कथम् ?=किस प्रकार बोले ?
प्रीयमाण:=प्रसन्न होकर, शिष्ययोग्यतां पश्यन्=शिष्य की योग्यता को देखते हुए, प्रीयमाण: - प्रीतिम् अनुभवन्=प्रीति अनुभव करते होए, महात्मा-अक्षुद्रबुद्धि:=न क्षुद्रा बुद्धि: यस्य स: अक्षुद्रबुद्धि:=विशाल बुद्धि वाले महात्मा, तं नचिकेतसम्=उस नचिकेता को, अब्रवीत्=कहा, इह - प्रीतिनिमित्तं=अभी इस विशेष प्रीति के कारण, तव=तुम्हारे लिए, अद्य-इदानीं=इसी समय, भूय:-पुन:, चतुर्थं वरं=चौथा वरदान, ददामि-प्रयच्छामि=दे रहा हूँ । मया=मेरे द्वारा, उच्यमान:=कहा जा रहा, अयम्=यह, अग्नि:=अग्नि विद्या, तव एव=तुम्हारे ही, नचिकेतस: नाम्ना-अभिधानेन=नचिकेता नाम से, प्रसिद्ध:=प्रसिद्ध, भविता=होने वाला है,अर्थात् यह विद्या “नचिकेताग्नि” मर्त्यलोक में जानी जायगी । किञ्च=और भी, शब्दवतीं=आवाज करने वाली, अनेकरूपां=अनेक रूपों वाली, विचित्रां=रंग-बिरंगी, रत्नमयीम्=रत्नोंवाली, इमां=इस, सृङ्कां - मालां=माला को, गृहाण-स्वीकुरु=ग्रहण करो । यद्वा=अथवा, सृङ्काम्-अकुत्सितां=अनिन्दित, कर्ममयीं गतिं=कर्ममयी गति को, गृहाण=स्वीकार करो । अन्यदपि=अथवा, अनेकफलहेतुत्वात्=अनेक फल का कारण रूप, कर्मविज्ञानं=कर्मविषयक विज्ञान को, स्वीकुरु=स्वीकार करो, इत्यर्थ: ॥१६॥


         पृष्ठसंख्या २०,२१
           त्रिणाचिकेतस्त्रिभिरेत्य संधिं, त्रिकर्मकृत्तरति जन्ममृत्यू ।
           ब्रह्मजज्ञं देवमीड्यं विदित्वा, निचाय्येमा˘ शान्तिमत्यन्तमेति ॥१'१'१७॥
अन्वयक्रम:
त्रिकर्मकृत् त्रिभि: सन्धिम् एत्य त्रिणाचिकेत: जन्ममृत्यू तरति, ईड्यं ब्रह्मजज्ञं देवं विदित्वा निचाय्य इमाम् अत्यन्तं शान्तिम् एति ।
शब्दार्थ:
त्रिकर्मकृत् =तीन प्रकार के कर्म “यज्ञ,अध्ययन,और दान करने वाला,
त्रिभि: सन्धिम् एत्य = तीन प्रकार से सम्बन्ध प्राप्तकर (माता,पिता और गुरु का अनुशासनात्मक सम्बन्ध प्राप्तकर)
त्रिणाचिकेत:=तीन प्रकार से अग्नि का चयन करने वाला, अथवा उस अग्नि को ज्ञात,अधीत और अनुष्ठित,
 जन्ममृत्यू=जन्म और मृत्यु को,
तरति=पार कर जाता है।
 ईड्यं=स्तुत्य को,
 ब्रह्मजज्ञं=ब्रह्मा से उत्पन्न और सर्वज्ञ को,
 देवं=देव को,
 विदित्वा=जानकर, प्राप्तकर,
 निचाय्य=निश्चय करके,
 इमाम् अत्यन्तं शान्तिम्=इस अतिशय शान्ति को,
एति =प्राप्त करता है ।
सान्वयं भाष्यम्
त्रिणाचिकेत: - त्रि: कृत्व: नाचिकेतोऽग्नि: चित: येन स: त्रिणाचिकेत:, वा तद्विज्ञान:,तदध्ययन:,तदनुष्ठानवान् (त्रिणाचिकेत:)।
त्रिभि:- मातृपित्राचार्यै: सन्धिं-सन्धानं-सम्बन्धम् एत्य-प्राप्य, मात्राद्यनुशासनं यथावत् प्राप्य इत्येतत् । तत् हि प्रामाण्यकारणं श्रुत्यन्तरात् अवगम्यते “यथा मातृमान्पितृमान्” (बृ.४.१.२) इत्यादे:। वेदस्मृतिशिष्टै: वा (सन्धिम् एत्य), प्रत्यक्षानुमागमै: वा (सन्धिम् एत्य)। तेभ्यः हि विशुद्धि: प्रत्यक्षा । (इत्थम्)
त्रिकर्मकृत्-इज्याध्ययनदानानां कर्ता जन्ममृत्यू तरति-अतिक्रामति । किञ्च ब्रह्मजज्ञं-ब्रह्मण: हिरण्यगर्भात् जात: ब्रह्मज:, ब्रह्मजश्च असौ ज्ञश्च इति ब्रह्मजज्ञ: असौ हि सर्वज्ञ:, देवं-द्योतनात् ज्ञानादिगुणवन्तम् ईड्यं-स्तुत्यं तं शास्त्रत: विदित्वा-गृहीत्वा आत्मभावेन च निचाय्य-दृष्ट्वा अत्यन्तम् एति-अतिशयेन इमां स्वबुद्धिप्रत्यक्षां शान्तिम्-उपरतिम् एति । ज्ञानकर्मसमुच्चयानुष्ठानेन वैराजं पदं प्राप्नोति इत्यर्थ: ।
शब्दार्थ:
त्रिणाचिकेत: - त्रि: कृत्व: नाचिकेतोऽग्नि: चित: येन स: त्रिणाचिकेत:=तीन प्रकार से नचिकेताग्नि का चयन किया है जिसने वह-त्रिनाचिकेता ।
वा=अथवा,
तद्विज्ञान:,तदध्ययन:,तदनुष्ठान: (त्रिणाचिकेत:)=उसे जानने वाला, उसका अध्ययन करने वाला और उसका अनुष्ठान करने वाला-त्रिनाचिकेता ।
त्रिभि:=इन तीनों के द्वारा,
मातृपित्राचार्यै:=माता,पिता और आचार्य से,
सन्धिं-सन्धानं-सम्बन्धम्=सम्बन्ध को,
एत्य-प्राप्य=प्राप्तकर,
मात्राद्यनुशासनं=माता,पिता और आचार्य का अनुशासन,
यथावत् प्राप्य=लालन,पालन और शिक्षा योग्य रूप से प्राप्तकर,
इत्येतत्=इसप्रकार ।
तत् हि=क्योंकि वह,
श्रुत्यन्तरात् प्रामाण्यकारणं अवगम्यते=अन्य श्रुति के प्रमाण से जाना जाता है,
“यथा मातृमान्पितृमान्”=“माता,पिता और आचार्य से शिक्षा प्राप्त पुरुष बोले” (बृ.४.१.२) इत्यादे:।
वा=अथवा,
वेदस्मृतिशिष्टै:=श्रुति,स्मृति और शिष्ट पुरुषों से,
(सन्धिम् एत्य)=सम्बन्ध प्राप्तकर,
वा=अथवा,
प्रत्यक्षानुमागमै:=प्रत्यक्ष,अनुमान और आगम प्रमाण से,
(सन्धिम् एत्य)=सम्बन्ध प्राप्तकर,
तेभ्यः हि=क्योंकि उनके द्वारा,
विशुद्धि: प्रत्यक्षा=विशुद्धि प्रत्यक्ष है ।
(इत्थम्)=इसप्रकार,
त्रिकर्मकृत्-इज्याध्ययनदानानां कर्ता=याग,अध्ययन और दान करने वाला त्रिकर्मकृत्,
जन्ममृत्यू=जन्म और मृत्यु रूप संसार को,
तरति-अतिक्रामति=तर जाता है ।
किञ्च=और,
ब्रह्मजज्ञं-ब्रह्मण: हिरण्यगर्भात् जात: ब्रह्मज:=ब्रह्म अर्थात् हिरण्यगर्भ से उत्पन्न हुए को ब्रह्मज कहते हैं, और-
ब्रह्मजश्च असौ ज्ञश्च इति ब्रह्मजज्ञ:=जो ब्रह्म से जन्मा है और उसे जानता भी है उसे-ब्रह्मजज्ञ कहते हैं,
असौ हि सर्वज्ञ:=क्योंकि यह सर्वज्ञ है,
देवं-द्योतनात् ज्ञानादिगुणवन्तं=प्रकाशमान और ज्ञानादि गुणों से युक्त होनें से उन्हें देव कहते हैं,
ईड्यं-स्तुत्यं=स्तुत्य,
तं शास्त्रत:=ऐसे देवको शास्त्र से,
विदित्वा-गृहीत्वा= जानकर,
आत्मभावेन च निचाय्य-दृष्ट्वा =और आत्मभाव से साक्षात् कर,
अत्यन्तम् एति-अतिशयेन=अतिशय,
 इमां बुद्धिप्रत्यक्षां शान्तिम्=बुद्धिप्रत्यक्ष ऐसी शान्ति को,
एति=प्राप्त करता है ।
ज्ञानकर्मसमुच्चयानुष्ठानेन=उपासना और कर्म के सम्मिलित अनुष्ठान से,
वैराजं पदं=विराड पदको,
प्राप्नोति=प्राप्त करता है, इत्यर्थ: ।


पृष्ठसंख्या २२
इदानीम् अग्निविज्ञानचयनफलम् उपसंहरति प्रकरणं च ।
            त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वा˘श्चिनुते नाचिकेतम् ।
            स मृत्युपाशान्पुरत:प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥१'१'१८॥
अन्वयक्रम:
त्रिणाचिकेत: एतत् त्रयम् (या: इष्टका: यावतीर्वा यथा वा) एवं विदित्वा च य: विद्वान् नाचिकेतं चिनुते स: मृत्युपाशान् पुरत: प्रणोद्य शोकातिग: स्वर्गलोके मोदते ।
शब्दार्थ:
त्रिणाचिकेत:=त्रिनाचिकेत विद्वान् है, त्रयम्=पूर्वोक्त अग्नित्रय को, (या: इष्टका: यावतीर्वा यथा वा=यज्ञ के लिए ईंटें,जितनी और जैसी) एतत्=इसे, एवं=आत्मरूपसे, विदित्वा=जानकर, च य:=जो, विद्वान्=जानने वाला, नाचिकेतं=नाचिकेत अग्नि को, चिनुते=चुनता है, स:=वह, मृत्युपाशान्=मृत्यु के बन्धनों को, पुरत:=पहले से,अर्थात् शरीर छोडने से पहले ही, प्रणोद्य=त्यागकर, शोकातिग:=शोक से पार होकर, स्वर्गलोके=स्वर्गलोक में, मोदते=आनन्द प्राप्तकरता है ।


पृष्ठसंख्या २२,२३
         एष तेऽग्निर्नचिकेत: स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।
         एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥१'१'१९॥
अन्वयक्रम:
हे नचिकेत:! ते एष: स्वर्ग्य: अग्नि: यं द्वितीयेन वरेण अवृणीथा:। जनास: एतम् अग्निं तव (नाम्ना) एव प्रवक्ष्यन्त्ति । हे नचिकेत:! (इदानीं) तृतीयं वरं वृणीष्व ।
सान्वयं भाष्यम्
त्रिणाचिकेत: त्रयं यथोक्तं या इष्टका यावतीर्वा यथा वा इति एतत् विदित्वा अवगम्य य: च एवम् अग्निम् आत्मरूपेण विद्वान् नाचिकेतम् अग्निं क्रतुं चिनुते निर्वर्तयति स: मृत्युपाशान् अधर्म-अज्ञान-राग-द्वैषादिलक्षणान् पुरत: अग्रत: शरीरपातात् पूर्वमेव इत्यर्थ:,प्रणोद्य अपहाय शोकातिग: मानसै: दु:खै: वर्जित: इत्येतत्,स्वर्गलोके वैराजे विराडात्मस्वरूपप्रतिप्त्या मोदते ।
शब्दार्थ:
हे नचिकेत:! ते तुभ्यं एष स्वर्ग्य: अग्नि: वर: यं अग्निं वरं द्वितीयेन वरेण अवृणीथा: प्रार्थितवान् असि स: अग्नि: वर: दत्त: इति उपसंहार: उक्त: । किञ्च जनास: जना: एतम् अग्निं तवैव नाम्ना प्रवक्ष्यन्ति इत्येतत् तुष्टेन मया एष: चतुर्थ: वर: दत्त: । नचिकेत: तृतीयं वरं वृणीष्व । हि तस्मिन् अदत्ते अहम् ऋणवान् इत्यभिप्राय: ।





पृष्ठसंख्या २३-२६
अग्रिममन्त्रस्य सङ्गति:
एतावत् हि अतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्राह्मणेन अवगन्तव्यं यत् वरद्वयसूचितं वस्तु आत्मतत्वविषयं याथात्म्यविज्ञानं न । अत: विधिप्रतिषेधार्थविषयस्य आत्मनि क्रियाकारकफलाद्यध्यारोपलक्षणस्य स्वाभाविकस्य अज्ञानस्य संसारबीजस्य निवृत्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफलाध्यारोपलक्षणशून्यं आत्यन्तिकनि:श्रेयसप्रयोजनं वक्तव्यम् इति उत्तर: ग्रन्थ: आरभ्यते । द्वितीयवरप्राप्त्या अपि तृतीयवरगोचरम् आत्मज्ञानमन्तरेण अकृतार्थत्वं, इति तम् एतम् अर्थम् आख्यायिकया प्रपञ्चयति -
    यत: पूर्वस्मात् कर्मगोचरात् साध्यसाधनलक्षणात् अनित्यात् विरक्तस्य आत्मज्ञाने अधिकार: इति तत् निन्दनार्थं पुत्रादि उपन्यासेन प्रलोभनं क्रियते । हे नचिकेत:! “तृतीयं वरं वृणीष्व” इति उक्त: सन् -नचिकेता उवाच ।
शब्दार्थ:
अतिक्रान्तेन=पूर्ववर्णित, विधिप्रतिषेधार्थेन=विधिनिषेधप्रयोजन वाले, मन्त्रब्राह्मणेन=मन्त्र ब्राह्मण द्वारा, हि=वस्तुत:, एतावत्=इतना, अवगन्तव्यं=जानना चाहिए, यत्=कि, वरद्वयसूचितं=दोनों वरदानों से सूचित ज्ञातव्य, वस्तु=तत्व, आत्मतत्वविषयं=आत्मतत्वविषयक, याथात्म्यविज्ञानं=यथार्थ ज्ञान, न=नही है । अत:=इसलिए,इस हेतु से,आत्मज्ञान कृतकृत्यता हेतु, विधिप्रतिषेधार्थविषयस्य=पूर्वकाण्ड में प्रतिपाद्य, आत्मनि=आत्मा में, क्रियाकारकफलाद्यध्यारोपलक्षणस्य=क्रिया और उसके लिए आवश्यक कर्ता,कर्म,करण आदि कारक और उसके फल अध्यारोपित, स्वाभाविकस्य=स्वाभाविक, अज्ञानस्य=अज्ञान (जो की संसार का बीज है उस), संसारबीजस्य=संसार बीज की, निवृत्यर्थं=निवृत्ति के लिए, तद्विपरीतब्रह्मात्मैकत्वविज्ञानं=उससे(विधिप्रतिषेधार्थ विषय से) विपरीत ब्रह्मात्मैकत्व विज्ञान, क्रियाकारकफलाध्यारोपलक्षणशून्यं=क्रिया कारक और उसके फल के अध्यारोप लक्षण से शून्य, आत्यन्तिकनि:श्रेयसप्रयोजनं=आत्यन्तिक नि:श्रेयस जिसका प्रयोजन है उसे, वक्तव्यम्=बताना चाहिए, इति=अत:, उत्तर:=उत्तर, ग्रन्थ:=ग्रन्थ, आरभ्यते=आरम्भ हो रहा है । द्वितीयवरप्राप्त्या=द्वितीय वर की प्राप्ति से, अपि=भी, तृतीयवरगोचरम्=तृतीय वरदान का विषय, आत्मज्ञानमन्तरेण=आत्मज्ञान के विना, अकृतार्थत्वं=कृतार्थत्व नही है, तम् एतम् अर्थम्=इसी प्रयोजन की सिद्धि के लिए, आख्यायिकया=आख्यायिका के द्वारा, प्रपञ्चयति=वर्णन किया जा रहा है।
    यत: पूर्वस्मात् कर्मगोचरात् साध्यसाधनलक्षणात् अनित्यात् विरक्तस्य आत्मज्ञाने अधिकार: इति तत् निन्दनार्थं पुत्रादि उपन्यासेन प्रलोभनं क्रियते । हे नचिकेत:! “तृतीयं वरं वृणीष्व” इति उक्त: सन् -नचिकेता उवाच ।
              येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके।
              एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीय: ॥१'१'२०॥
अन्वय:
मनुष्ये प्रेते या इयं विचिकित्सा अयम् अस्ति इति एके, नास्ति इति एके, त्वया अनुशिष्ट: अहम् एतत् विद्याम् । वाराणां एष: तृतीय: वर: ।
सान्वयं भाष्यम्
मनुष्ये प्रेते मृते या इयं विचिकित्सा संशय: अयम् अस्ति इति एके शरीरेन्द्रियमनोबुद्धिव्यतिरिक्त: देहान्तरसम्बन्धी आत्मा अस्ति इति एके, नास्ति इति च एके न अयम् एवंविध: अस्ति इति च एके अत: अस्माकं न प्रत्यक्षेण नापि अनुमानेन वा निर्णयविज्ञानम्, एतद्विज्ञानाधीन: हि पर: पुरुषार्थ: इत्यत: त्वया अनुशिष्ट: ज्ञापित: अहम् एतद् विद्याम् विजानीयाम् । एष: वराणां तृतीय: वर: य: अवशिष्ट: (स: अस्ति इति )।
शब्दार्थ:
मनुष्ये प्रेते मृते=मनुष्य के मरने पर, या=जो, इयं=यह, विचिकित्सा संशय:=संशय,(बना रहता है कि) अयम्=यह आत्मा, अस्ति=है(रहता है) इति एके=इस प्रकार से कुछ लोग मानते हैं, शरीरेन्द्रियमनोबुद्धिव्यतिरिक्त:=शरीर इन्द्रिय मन और बुद्धि से पृथक्, देहान्तरसम्बन्धी=अन्य देह में गमनागमन करने वाला, आत्मा=जीव, अस्ति इति एके=है ऐसा कुछ लोग कहते हैं, नास्ति इति च एके=और नहीं है ऐसा कहने वाले कुछ लोग हैं, न अयम् एवंविध: अस्ति इति च एके=शरीर इन्द्रिय और मन से पृथक् अन्य देह में गमनागमन करने वाला यह नहीं है इसप्रकार कुछ लोग कहते हैं, अत: अस्माकं=अत: हमारे लिए, न प्रत्यक्षेण नापि अनुमानेन वा=न तो प्रत्यक्ष और न ही अनुमान प्रमाण से इसका, निर्णयविज्ञानम्= निश्चित ज्ञान हो पाता है, पर: पुरुषार्थ:=परम पुरुषार्थ मोक्ष, हि=क्योंकि, एतद्विज्ञानाधीन:=इस आत्मविज्ञान के आधीन है, इत्यत:=इसलिए, त्वया अनुशिष्ट: ज्ञापित:=आपके द्वारा अनुशिक्षित, अहम्=मैं, एतद् विद्याम्=इस आत्मज्ञान को जानूं । एष:=यह, वराणां तृतीय:=वरदानों में तीसरा, वर:=वरदान है, य: अवशिष्ट:= जो शेष था । (स: अस्ति इति )।
पृष्ठसंख्या २६,२७
सङ्गति:
किम् अयम् एकान्तत: नि:श्रेयससाधनात्मज्ञानार्ह: न वा इत्येतत् परीक्षणार्थम् आह -
शब्दार्थ:
किम्=क्या, अयम्=यह नचिकेता, एकान्तत:=पूर्णरूप से, नि:श्रेयससाधनात्मज्ञानार्ह:=मोक्षसाधनरूप आत्मज्ञान के योग्य है?, न वा= या नहीं, इत्येतत्=इसप्रकार यह, परीक्षणार्थम्=जानने के लिए, इसी की परीक्षा हेतु, आह=यमराज बोले।
           देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्म: ।
           अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥१'१'२१॥
अन्वय:
पुरा देवै: अपि अत्र विचिकित्सितम् । अणु: एष: धर्म: न हि सुविज्ञेयम् । हे नचिकेत:! अन्यं वरं वृणीष्व, मा मोपरोत्सी: एनं मा अतिसृज ।
पुरा देवै: अपि अत्र विचिकित्सितं अणु: एष: धर्म: न हि सुविज्ञेयम् । हे नचिकेत: ! अन्यं वरं वृणीष्व मा मोपरोत्सी: एनं मा अतिसृज ।
सान्वयं भाष्यम्
पुरा पूर्वं देवै: अपि अत्र एतस्मिन् वस्तुनि विचिकित्सितं संशयितं, प्राकृतै: जनै: श्रुतमपि न हि सुविज्ञेयं सुष्ठु विज्ञेयं यत: अणु: सूक्ष्म: एष: आत्माख्य: धर्म: अत: हे नचिकेत:! अन्यम् असन्धिग्धफलं वरं वृणीष्व, मा मां उत्तमर्ण: अधर्मणमिव मा उपरोत्सी: उपरोधं मा कार्षी: । एनं वरं मा मां प्रति अतिसृज विमुञ्च ।



पृष्ठसंख्या २७,२८
एवम् उक्त: नचिकेता: आह-
        देवैरत्रापि विचिकित्सितं किल! त्वं च मृत्यो यन्न सुविज्ञेयमात्थ ।
        वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥१'१'२२॥
अन्वय:
देवै: अपि अत्र विचिकित्सितं किल! हे मृत्यो ! त्वं च यत् सुविज्ञेयं न आत्थ । त्वादृक् अन्य: वक्ता च अस्य न लभ्य:, न कश्चित् अन्य: वर: एतस्य तुल्य: ।
सान्वयं भाष्यम्
देवै: अपि अत्र एतस्मिन् वस्तुनि विचिकित्सितं किल! इति भवत: एव न: श्रुतम् । त्वं च (हे) मृत्यो ! यत् यस्मात् न सुविज्ञेयम् आत्मतत्वम् आत्थ कथयसि अत: पण्डितै: उपदेशनीयत्वात् वक्ता च अस्य धर्मस्य त्वादृक् त्वत्तुल्य: अन्य: पण्डित: च अन्विष्यमाण: अपि न लभ्य: । अयं वर: तु नि:श्रेयसप्राप्तिहेतु: अत: न अन्य: वर: तुल्य: सदृश: कश्चिदपि एतस्य अस्ति, अन्यस्य सर्वस्य अनित्यफलत्वात् एव इति अभिप्राय: ।



पृष्ठसंख्या २८,२९
एवं उक्त: अपि पुन: प्रलोभयन् मृत्यु: उवाच-
           शतायुष: पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान् ।
           भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥१'१'२३॥
अन्वय:
(हे नचिकेत:!) शतायुष: पुत्रपौत्रान् वृणीष्व, बहून् पशून् हस्तिहिरण्यम् अश्वान् भूमे: महद् आयतनं वृणीष्व, स्वयं च यावत् इच्छसि शरद: जीव ।
सान्वयं भाष्यम्
शतायुष: शतं वर्षाणि आयूंषि येषां तान् शतायुष: पुत्र-पौत्रान् वृणीष्व । किञ्च गवादि लक्षणान् बहून् पशून्, हस्ति-हिरण्यं हस्ती च हिरण्यं च हस्तिहिरण्यम्, अश्वान् च, किञ्च भूमे: पृथिव्या: महद्-विस्तीर्णम् आयतनम् आश्रयं मण्डलसाम्राज्यं वृणीष्व । किञ्च स्वयम् अल्पायु: चेत् एतत् सर्वमपि अनर्थकम् इत्यत: आह-स्वयं च जीव शरद:- वर्षाणि यावत् जीवितुम् इच्छसि जीव त्वं समग्रेन्द्रियकलापं शरीरं धारय ।


          पृष्ठसंख्या २९,३०
           एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।
           महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥१'१'२४॥
अन्वय:
यदि एतत्तुल्यं वरं मन्यसे (तर्हि) वृणीष्व, वित्तं चिरजीविकां च (वृणीष्व)। हे नचिकेत: ! महाभूमौ त्वम् एधि, त्वा कामानां कामभाजं करोमि ।
सान्वयं भाष्यम्
एतत्तुल्यम् एतेन यथोपदिष्टेन सदृशम् अन्यदपि वरं यदि मन्यसे (तर्हि) तमपि वृणीष्व । किञ्च वित्तं प्रभूतं हिरण्यरत्नादि, वृत्तेन सह चिरजीविकां च वृणीष्व इत्येतत् । किं बहुना हे नचिकेत:! महाभूमौ मह्त्यां भूमौ त्वम् राजा एधि भव । किञ्च अन्यत्, त्वा त्वां कामानां दिव्यानां मानुषाणां च त्वा त्वां कामभाजं कामभागिनं कामार्हं करोमि, अहं हि सत्यसंकल्पः देवः।
पृष्ठसंख्या ३०,३१
ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामा˘ छन्दत: प्रार्थयस्व ।
           इमा रामा: सरथा: सतूर्या नहीदृशा लम्भनीया मनुष्यै: ।
           आभिर्मत्प्रत्ताभि: परिचायस्व नचिकेतो मरणं माऽनुप्राक्षी:॥१'१'२५॥
अन्वय:
मर्त्यलोके ये ये कामा: दुर्लभा: (तान्) सर्वान् कामान् छन्दत: प्रार्थयस्व । इमा: सतूर्या: सरथा: रामा: मनुष्यै: ईदृशा: न हि लम्भनीया:, मत् प्रत्ताभि: आभि: परिचारयस्व । हे नचिकेत:! मरणं मा अनुप्राक्षी: ।

सान्वयं भाष्यम्
मर्त्यलोके ये ये कामा: प्रार्थनीया: दुर्लभाश्च तान् सर्वान् कामान् छन्दत: इच्छात: प्रार्थयस्व । किञ्च इमा: दिव्या: अप्सरस: रमयन्ति पुरुषान् इति रामा: रथै: सह वर्तन्ते इति सरथा:,सतूर्या: सवादित्रा: ताश्च (इति) अस्मादादिप्रसादमन्तरेण मनुष्यै: मर्त्यै: ईदृशा: एवंविधा: न हि लम्भनीया: प्रापनीया: । मत्प्रत्ताभि: मया दत्ताभि: आभि: परिचारिणीभि: आत्मानं परिचारयस्व आत्मन: पादप्रक्षालनादि शुश्रूषां कारय इत्यर्थ: । हे नचिकेत:! मरणं मरणसम्बद्धं प्रश्नं “प्रेतेऽस्ति नास्तीति” काकदन्तपरीक्षारूपं मा अनुप्राक्षी: मा एवं प्रष्टुम् अर्हसि ।
पृष्ठसंख्या ३२
सङ्गति:
एवं मृत्युना प्रलोभ्यमान: अपि नचिकेता महाह्रदवद् अक्षोभ्य: आह-
             
 श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेज: ।
              अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥१'१'२६॥
अन्वय:
मर्त्यस्य अन्तक ! श्वोभावाः यदेतत् सर्वेन्द्रियाणां तेज: जरयन्ति, सर्वं अपि जीवितम् अल्पमेव, तव वाहा: नृत्यगीते तव एव ।
सान्वयं भाष्यम्
मर्त्यस्य मनुष्यस्य अन्तक हे मृत्यो ! त्वया उपन्यस्तानां भोगानां श्वोभावा: श्व: भविष्यन्ति न भविष्यन्ति वा इति सन्दिह्यमान: एव येषां भावः भवनं ते श्वोभावा:, किञ्च अप्सर: प्रभृतय: हि एते भोगा: अनर्थाय एव यदेतत् सर्वेन्द्रियाणां तेज: तत् जरयन्ति अपक्षयन्ति । धर्म-वीर्य-प्रज्ञा-तेज:-यशः-प्रभृतीनां क्षपयितृत्वात् । अपि च यां दीर्घजीविकां त्वं दित्ससि तत्रापि शृणु । सर्वं यद् ब्रह्मण: अपि जीवितम् आयुः अल्पमेव किमुत अस्मदादिदीर्घजीविका । अतः वाहा: रथादयः तथा नृत्यगीते च तव एव तिष्ठन्तु ।

पृष्ठसंख्या २७
            न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
            जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीय: स एव ॥१'१'२७॥
अन्वय:
मनुष्य: न वित्तेन तर्पणीय:, त्वा अद्राक्ष्म चेत् वित्तं लप्स्यामहे । यावत् त्वम् ईशिष्यसि जीविष्याम: (अपि), वरस्तु मे स: एव वरणीय: ।
सान्वयं भाष्यम्
किञ्च न प्रभूतेन वित्तेन मनुष्यः तर्पणीय: । न हि वित्तलाभ: लोके कस्यचित् तृप्तिकर: दृष्टः। यदि नाम अस्माकं वित्ततृष्णा स्यात् चेत् इत्येतत् वित्तं त्वा त्वाम् अद्राक्ष्म दृष्टवन्तः वयं लप्स्यामहे प्राप्स्यामहे । जीवितेऽपि तथैव यावत् याम्ये पदे त्वम् ईशिष्यसि त्वम् ईशिष्यसे प्रभु: स्या: (वयं)जीविष्याम:। मर्त्यः त्वया समेत्य कथं हि अल्पधनायु: भवेत्? वरस्तु मे स: एव वरणीय: यद् आत्मविज्ञानम् (अस्ति)।


पृष्ठसंख्या ३४,३५
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्य: क्वध:स्थ: प्रजानन् ।
   अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥१'१'२८॥
अन्वय:
क्वधस्थ: जीर्यन्मर्त्य: क: प्रजानन् अजीर्यताम् अमृतानाम् उपेत्य वर्णरतिप्रमोदान् अभिध्यायन् अतिदीर्घे जीविते
रमेत ?
सान्वयं भाष्यम्
यत: च अजीर्यतां वयोहानिं अप्राप्नुवताम् अमृतानां सकाशम् उपेत्य उपगम्य तेभ्यः आत्मनः उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं प्रजानन् उपलभमानः स्वयं तु जीर्यन्मर्त्य: जरामरणवान् क्वधस्थः - कु पृथवी, अधः च अन्तरिक्षादिलोकापेक्षया तस्यां तिष्ठति इति क्वधस्थः सन् कथम् एवं पुत्रवित्तहिरण्यादि-अस्थिरम् अविवेकिभिः प्रार्थनीयं वृणीते ।
क्व तदास्थः इति वा पाठान्तरम् । अस्मिन् पक्षे च अक्षरयोजना -
तेषु पुत्रादिषु आस्था-आस्थितिः तात्पर्येण वर्तनं यस्य सः तदास्थः, ततः अधिकतरं दुष्पापमपि पुरुषार्थं प्रापिपयिषुः तदास्थः क्व भवेत् ? न कश्चित् तत् असारज्ञः तदर्थी स्यात् इत्यर्थः। सर्वः हि लोकः उपर्युपरि एव बुभूषति तस्मात् पुत्रवित्तादिलाभैः नाऽहं प्रलोभ्यः। किञ्च अप्सरःप्रमुखान् वर्णरतिप्रमोदान् अनवस्थितरूपतया अभिध्यायन् यथावत् निरूपयन् अतिदीर्घे जीविते कः विवेकी रमेत् ?

पृष्ठसंख्या ३५,३६
सङ्गति:
अतः अनित्यै: कामैः प्रलोभनं विहाय मया यत् प्रार्थितम्-
   यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥१'१'२९॥
अन्वयः
हे मृत्यो ! यस्मिन् इदं विचिकित्सन्ति यत् सांपराये महति तद् नः ब्रूहि, यः अयं गूढम् अनुप्रविष्ट: वर: तस्मात् अन्यं नचिकेता न वृणीते ।
सान्वयं भाष्यम्
हे मृत्यो ! यस्मिन् प्रेते इदं विचिकित्सनं अस्ति नास्तीति एवं प्रकारं विचिकित्सन्ति । यत् सांपराये परलोकविषये महति महत् प्रयोजननिमित्तः आत्मनः निर्णयविज्ञानं तद् नः अस्मभ्यं ब्रूहि कथय । किं बहुना यः अयं वरः प्रकृतः आत्मविषयः गूढं गहनं दुर्विवेचनं प्राप्तः अनुप्रविष्टः तस्मात् वरात् अन्यम् अविवेकिभिः प्रार्थनीयम् अनित्यविषयं वरं नचिकेता मनसा अपि न वृणीते इति श्रुतेः वचनम् ।
॥ इति प्रथमा वल्ली ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवद्पूज्यपादशिष्यश्रीमदाचार्यश्रीशङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमाध्याये प्रथमवल्लीभाष्यं समाप्तम् ॥१॥
इति श्रीमत्परमहंसपरिव्राजकाचायश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने प्रथमा वल्ली समाप्ता ॥१॥
प्रथमवल्ल्याः सारांशः
नचिकेतसः पिता वाजश्रवसः विश्वजित् यागं करोति, तस्मिन् सः सर्वस्वं ब्राह्मणेभ्यः आचार्येभ्यः ऋत्विग्भ्यः
ददाति । दानसमये नचिकेता पश्यति यत् याः धेनवः दीयमानाः सन्ति ताः वृद्धाः दुग्धदोहनाय अयुक्ताः। तदा सः विचारयति यत् योग्यतया दानेन विना यज्ञस्य फलं न भवति यतः यज्ञः अपूर्णः इति मन्यते,पुनश्च विश्वजित्यागे तु सर्वस्वं समर्पणीयम् इति विधानम् अस्ति । पुत्रोऽपि पितुः सम्पत्तिरेव इति पितुः हितं कायन् सः पितुः समीपम् उपगम्य “तत कस्मै मां दास्यसीति” द्वित्रिवारम् उक्तवान् । तदा कोपेन पिता “मृत्यवे त्वा ददामीति” उक्तवान् । सम्यक् सविमर्शं निर्णीय पितरं च “अनुपश्य यथापूर्वे प्रति तथापरे” इति बोधयित्वा यमलोकं प्राप्नोति । यमश्च प्रवासं गतः तस्मात् त्रीणि दिनानि यावत् “यमाय दत्तः यमस्य अहम्” इति स्वामिनः अनुज्ञां विना मया न किमपि स्वीकर्तुं शक्यते प्रतीक्षाम् अकरोत् ।
   प्रवासात् प्रत्यागतं यमराजं यमभार्याः मन्त्रिणः वा सर्वं वृत्तं विनिवेद्य यथाशीघ्रं तस्य आतिथ्याय उपस्थातुम् उक्तवन्तः। सोऽपि यथाशीघ्रं नचिकेतसं प्राप्य “तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः” इत्यादिरीत्य प्रणम्य त्रीन् वरान् वक्तुम् उकतवान् । नचिकेता च प्रथमं वरं पितृपरितोषाय, द्वितीयञ्च सृष्टिहिताय सर्वमानवानां कण्याणाय याचितवान् । तस्य मेधया प्रसन्नः यमराजः एषा अग्निविद्या इतःपरं नाचिकेताग्निनाम्ना ख्याता भवेत् इति अतिरिक्तं वरं प्रदत्तवान् । ततः सः नचिकेता स्वात्मसुखाय यदा तृतीय-वरत्वेन “येयं प्रेते विचिकित्सा मनुष्ये..एतद्विद्यामनुशिष्टस्त्वयाऽहम्” इति आत्मज्ञानम् अभीष्टवान् तदा देवैः अपि विचिकित्सितं पुरा नहि सुविज्ञेयमणुरेष धर्मः इति उक्त्वा विरम एतस्मात् अन्यत् सुखं वभवं यदिच्छति तत् स्वीकरोतु, वृथा वरं न नाशयतु इति । देवैः अपि विचिकित्सितं खलु ! अतः अवश्यमेव एतद् इच्छामीति नचिकेतसः वचनं श्रुत्वा तं परीक्षितुं यमदेवः “शतायुषः पुत्रपौत्रान्...इत्यादीन् अथवा एतत्तुल्यं यदिच्छति तत् स्वीकरोतु “कामानां कामभाजं करोमि” मृत्युलोके सर्वथा दुर्लभं तत् सर्वं स्वीकरोतु, “नहीदृशा लम्भनीया मनुष्यैः” अप्सराः नर्तक्यः “इमा रामाः सरथाः सतूर्याः” कतिविधं प्रलोभनं दर्शितवान् परन्तु धीरः नचिकेता “....तवैव वाहास्तव नृत्यगीते” इति उक्त्वा सर्वमपि परित्यक्तवान् । “न वित्तेन तर्पणीयो मनुष्यः .. ..वरस्तु मे वरणीयः स एव” इति हे मृत्यो ! “यस्मिन्निदं विचिकित्सन्ति, यत्सांपराये महति तत् नः ब्रूहि इति ।

अथ द्वितीया वल्ली
पृष्ठसंख्या ३७,३८
सङ्गति:
शिष्यं परीक्ष्य विद्यायोग्यतां च अवगम्य आह--
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुष˘ सिनीत: ।
तयो: श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥१'२'१॥

अन्वय:
श्रेयः अन्यत् प्रेयः उत अन्यत् एव नानार्थे उभे ते पुरुषं सिनीतः,तयो: श्रेयः आददानस्य साधु भवति, यः उ प्रेयः वृणीते (स:) अर्थात् हीयते ।

सान्वयं भाष्यम्
श्रेयः निःश्रेयसं अन्यत् पृथग् एव, तथा प्रेय: उत अपि - प्रियतरम् अपि अन्यद् एव ते उभे प्रेयःश्रेयसी नानार्थे भिन्न-प्रयोजने सती पुरुषं वर्णाश्रमादिविशिष्टम् अधिकृतं सिनीतः बध्नीतः, सर्वः पुरुष: ताभ्यां विद्याऽविद्याभ्याम् आत्मकर्तव्यतया प्रयुज्यते । श्रेयःप्रेयसो: हि अभ्युदयामृतत्वार्थी पुरुषः प्रवतर्ते । अतः सर्वः पुरुषः श्रेयःप्रेयःप्रयोजनकर्तव्यतया ताभ्यां (विद्याऽविद्यारूपाभ्यां) बद्ध: इत्युच्यते । यद्यपि ते एकैकपुरुषार्थसम्बन्धिनी (तथापि) विद्याऽविद्यारूपत्वात् विरुद्धे इति हेतो: अन्यतरापरित्यागेन एकेन पुरुषेण सहानुष्ठातुम् अशक्यत्वात् तयोः अविद्यारूपं प्रेयः हित्वा केवलं श्रेयः एव आददानस्य उपादानं कुर्वतः साधु शोभनं शिवं भवति । य: तु अदूरदर्शी विमूढः (सः) हीयते वियुज्यते । कस्मात् ? अर्थात् पुरुषार्थात् पारमार्थिकात् प्रयोजनात् नित्यात् प्रच्यवते इत्यर्थ:। कः असौ ? य उ प्रेयः वृणीते उपादत्ते इत्येतत् ।

पृष्ठसंख्या ३८-४०
सङ्गतिः
यदि पुरुषेण उभे अपि कर्तुं स्वायत्ते (तर्हि) किमर्थं लोके बाहुल्येन प्रेयः एव आदत्ते इति उच्यते --
                     श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते ॥१'२'२॥
अन्वयः
श्रेयश्च प्रेयश्च मनुष्यम् आ इतः, धीरः तौ संपरीत्य विविनक्ति । धीर: हि प्रेयसः श्रेयः अभिवृणीते, मन्दः योगक्षेमात् प्रेयः वृणीते ।
सान्वयं भाष्यम्
सत्यं श्रेयश्च प्रेयश्च स्वायत्ते तथापि साधनतः फलतश्च मन्दबुद्धीनां दुर्विवेकरूपे सती व्यामिश्रीभूते इव मनुष्यं पुरुषं आ इतः प्राप्नुतः। अतः धीरः धीमान् हंसः इव अम्भसः पयः तौ श्रेयः प्रेयः पदार्थौ संपरीत्य सम्यक्परिगम्य मनसा आलोच्य गुरुलाघवम् विविनक्ति पृथक्‌करोति । विविच्य च प्रेयसः अभ्यर्हितत्वात् श्रेयो हि श्रेयः एव अभिवृणीते । असौ क:? धीरः। यस्तु मन्दः अल्पबुद्धिः सः विवेकासामर्थ्यात् योगक्षेमात् योगक्षेमनिमित्तं शरीराद्युपचयरक्षणनिमित्तं पशुपुत्रादिलक्षणम् इत्येतत् प्रेयः वृणीते ।
धातवः
आदत्ते=डुदाञ् दाने,सकर्म.,अनिट्,उभय.आत्मनेपदि आ+दत्ते,प्र.पु.एकव.।
इत:=इण् गतौ,सक.अनिट्.परस्मै. एति इतः यन्ति ।
संपरीत्य=इण् गतौ,सम्बधकभूतकृदन्तं ल्यबन्तं सम् उपसर्गपूर्वकं संपरीत्य इति ।
विविनक्ति=विचिर् पृथग्‌भावे, सकर्म.,अनिट्,उभय. विनक्ति-विङ्क्ते ।
अभिवृणीते=वॄञ् वरणे,सकर्म.,सेट्.,उभय.(वृणाति-वृणीते)लट्,आत्म.प्र.पु.एकव.अभि उपसर्गपूर्वकं वॄञ् अभि+वृणीते । वृणीते
विविच्य,आलोच्य,परिगम्य,प्राप्नुतः
धीर:=
Ø 5?�>09G$L 8$? ( 5?�M0@/(M$G �G$>�8? /G7>� $G �5 '@0>�d
Ø 5?7/�M09#G '?/� 0>$? �$? '@0�d
Ø '$M$G �$? '@0�d(&G9G(M&M0?/.(>&?�.M)d
Ø '@.>(M �$? '@0�d(*M0�M�>5>(M/'M/>(5>(M)d


  • C7M 8��M/>-jf-jg

           स त्वं प्रियान् प्रियरूपा्ँश्च कामानभिध्यायन् नचिकेतोऽत्यस्राक्षीः ।
           नैता सृङ्कां˘ वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्या: ॥१'२'३॥
अन्वयः
हे नचिकेतः! सः त्वं प्रियान् प्रियरूपान् च कामान् अभिध्यायन् अत्यस्राक्षीः। एतां वित्तमयीं सृङ्कां न अवाप्तः। यस्यां बहवः मनुष्याः मज्जन्ति ।
सान्वयं भाष्यम्
हे नचिकेतः! अहो तव बुद्धिमत्ता ! पुनः पुनः मया प्रलोभ्यमानः अपि सः त्वं प्रियान् पुत्रादीन् प्रियरूपान् अप्सरःप्रभृतिलक्षणान् कामान् तेषाम् अनित्यत्वासारत्वादिदोषान् अभिध्यायन् चिन्त्ययन् अत्यस्राक्षीः अतिसृष्टवान् परित्यक्तवान् असि । मूढजनप्रवृत्तां वित्तमयीं धनप्रायां कुत्सिताम् एतां सृङ्कां सृतिं न अवाप्तवान् असि । यस्यां सृतौ बहवः अनेके मूढाः मनुष्याः मज्जन्ति सीदन्ति ।
पृष्ठसंख्या-४१-४२
सङ्गतिः
तयोः श्रेयः आददानस्य साधु भवति, यः उ प्रेयः वृणीते (स:)अर्थात् हीयते इत्युक्तं तत् कस्मात् यतः-
 
             दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
             विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥१'२'४॥
अन्वयः
दूरम् एते विपरीते विषूची या च अविद्या विद्या इति ज्ञाता । (त्वां) नचिकेतसं विद्याभीप्सिनं मन्ये,बहवः कामाः त्वा न अलोलुपन्त ।


सान्वयं भाष्यम्
दूरं दूरेण महता अन्तरेण विवेकाविवेकात्मकत्वात् तमः प्रकाशौ इव एते विपरीते अन्योन्यव्यावृत्तरूपे विषूची विषूच्यौ नानागती संसारमोक्षहेतुत्वेन भिन्नफले (स्तः)इत्येतत् । के ते ? इत्युच्यते-- या च अविद्या प्रेयोविषया विद्येति च श्रेयोविषया पण्डितै: ज्ञाता निर्ज्ञाता अवगता तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वामहं मन्ये । कस्माद् यस्माद् अविद्वद्बुद्धिप्रलोभिनः बहवः कामाः अप्सरःप्रभृतयः अपि आत्मोपभोगाभिवाञ्छासंपादनेन श्रेयोमार्गात् त्वा त्वां न आलोलुपन्त विच्छेदं न कृतवन्तः। अतः विद्यार्थिनं श्रेयोभाजनं मन्ये इत्यर्थः।
        मूढा हि मुह्यन्ति वित्तम्- जन्तूनां नरजन्मदुर्लभमतः पुंस्त्वं ततो विप्रता ।
                               तस्माद्वैदिकधर्ममार्गपरता विद्वत्वमस्मात्परमिति ॥
पृष्ठसंख्या-४३-४४
           अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः ।
            दन्द्रम्यमाणाः परियन्ति मूढाः अन्धेनैव नीयमाना यथाऽन्धाः ॥१'२'५॥

अन्वयः
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः दन्द्रम्यमाणाः मूढाः (तथा) परियन्ति यथा अन्धेन एव नीयमानाः अन्धाः।
सान्वयं भाष्यम्
ये तु संसारभाजनाः अविद्यायामन्तरे मध्ये घनीभूते तमसि इव वर्तमानाः पुत्रपश्वादितृष्णापाशशतैः वेष्ट्यमानाः स्वयं वयं धीराः प्रज्ञावन्तः पण्डिताः शास्त्रकुशलाः च इति मन्यमानाः ते मूढाः अविवेकिनः दन्द्रम्यमाणाः अत्यर्थं कुटिलाम् अनेकरूपां गतिं गच्छन्तः जरामरणरोगादिदुःखैः तद्वत् परियन्ति परिगच्छन्ति यथा अन्धेन एव दृष्टिविहीनेन एव विषमे पथि नीयमानाः बहवः अन्धाः महान्तम् अनर्थम् ऋच्छन्ति ।
धातवः
वर्तमानाः=वृतु वर्तने,अकर्म. सेट,आत्मने.,कृत्सु मानप्रत्ययेन सह पुल्लिं.,प्र.बहुव.।
दन्द्रम्यमाणाः=द्रम गतौ, सकर्म.,सेट,परस्मै.,कृत्सु मानप्रत्ययेन सह पुल्लिं.,प्र.बहुव.।
परियन्ति=परि+यन्ति, इण् गतौ, (चारों ओर घुमाना, प्रदक्षिणा) सकर्म.,अनिट,परस्मै.,लटि प्र.पु.ब.व.।
नीयमानाः=नी नये,उभय.,कृत्सु मानप्रत्ययेन सह पुल्लिं.,प्र.बहुव.।
वेष्ट्यमानाः=वेष्ट वेष्टने,सकर्म.,सेट,आत्मने.,कृत्सु मानप्रत्ययेन सह पुल्लिं.,प्र.बहुव.।
मन्यमानाः=मन ज्ञाने,सकर्म.,अनिट्,आत्मने.,कृत्सु,मानप्रत्ययेन सह पु.प्र.विभ.बहुव.।
परिगच्छन्ति=गम्लृ गतौ,परि उपसर्गपूर्वकं, सकर्म.,अनिट्,परस्मै,लट्,प्र.पु.बहुव.।
ऋच्छन्ति=ऋ गतौ,सकर्म.,अनिट्,परस्मै,लट्,प्र.पु.बहुव. ।
     
     पृष्ठसंख्या-४४-४६
            न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
            अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥१'२'६॥
अन्वयः
वित्तमोहेन मूढं प्रमाद्यन्तं बालं सांपरायः न प्रतिभाति । अयं लोकः, नास्ति परः (अयं लोकः अस्ति, नास्ति परः) इति मानी पुनः पुनः मे वशम् आपद्यते ।
शब्दार्थः
वित्तमोहेन=धन के मोह से, मूढं= मूढ को,मोहग्रस्त को, प्रमाद्यन्तं=प्रमाद करने वाले को, पुत्रादि में आसक्त मन वाले ऐसे प्रमादी को, बालं= अविवेकी को, सांपरायः=परलोक प्राप्ति का साधन विशेष, न प्रतिभाति=नही दिखाई देता । अयं लोकः=यही लोक है, नास्ति परः=दूसरा नही है, (स्वर्गादि अन्य लोकों को नहीं मानता) (अयं लोकः अस्ति नास्ति परः=केवल यही लोक है,अन्य दूसरा कोई लोक नहीं है) इति=इसप्रकार, मानी= मानने वाला, पुनः पुनः=वारंवार, मे=मुझ यम के, वशम्=वश में, आपद्यते=आता है,प्राप्त होता रहता है, ।

सान्वयं भाष्यम्
अतएव मूढत्त्वात् सांपरायः न प्रतिभाति । संपरेयते इति संपरायः परलोकः तत्प्राप्तिप्रयोजनः शास्त्रीयः साधनविशेषः सांपरायः। स च बालम् अविवेकिनं प्रति न भाति न प्रकाशते न उपतिष्ठत इत्येतत् । प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्रपश्वादिप्रयोजनेषु आसक्तमनसं तथा वित्तमोहेन वित्तनिमित्तेन अविवेकेन मूढं तमसा आच्छन्नं सन्तम्,अयमेव लोकः यः अयं स्त्र्यन्नपानादिविशिष्टः दृष्यमानः, परः अदृष्टः लोकः नास्ति इत्येवं मननशील: मानी पुनः पुनः जनित्वा मे मृत्योः मम वशं मदधीनम् आपद्यते,जननमरणादिलक्षणदुःखप्रबन्धारूढः भवति एव इत्यर्थः। प्रायेण हि लोकः एवंविधः एव ।
शब्दार्थः
अतएव= इसीलिए, मूढत्त्वात्=मूढतावश, सांपरायः=परलोक प्राप्तिके लिए शास्त्रीय ऐसा साधन विशेष, न प्रतिभाति=नहीं दीखता । संपरेयते (सम्पर+ईयते इङ् गतौ,सक.अनिट,आत्मने.दिवादौ) =देहपात के पश्चात् जिसके प्रति गमन हो, इति सांपरायः=उसे साम्पराय कहते हैं, परलोकः=स्वर्गादि परलोक, तत्प्राप्तिप्रयोजनः=उसकी प्राप्ति का प्रयोजनरूप, शास्त्रीयः साधनविशेषः=शास्त्रोक्त साधन विशेष । स च=वह साम्पराय,साधन विशेष, बालम् अविवेकिनं प्रति=अविवेकी को, न भाति=नहीं दीखता, न प्रकाशते=ज्ञान नहीं होता, न उपतिष्ठत=(चित्त के सम्मुख)उपस्थित नहीं होता, इत्येतत् । प्रमाद्यन्तं प्रमादं कुर्वन्तं=प्रमाद करने वाले को, पुत्रपश्वादिप्रयोजनेषु=पुत्रपशु आदि विषयों में, आसक्तमनसं=आसक्त मन वाले को, तथा=तथा, वित्तमोहेन=वित्त मोह के कारण से, वित्तनिमित्तेन अविवेकेन=वित्त के कारण अविवेक होने से, मूढं=अविवेकी को, तमसा आच्छन्नं सन्तम्=अज्ञान से आवृत्त हुये को,अयमेव लोकः=बस यही लोक है, यः अयं=जो यह, स्त्र्यन्नपानादिविशिष्टः=स्त्री-अन्नपानादि से विशिष्ट है, दृष्यमानः=नजर समक्ष है, परः=अन्य,अदृष्टः=अदृष्ट स्वर्गादि, लोकः नास्ति=लोक जैसा कुछ नहीं है, इत्येवं=इसप्रकार से, मननशील:=मननशील, मानी=मानने वाला, पुनः पुनः=वारंवार, जनित्वा=जन्म लेकर, मे मृत्योः मम= मुझ यमराज के, वशं=वश हो, मदधीनम्=मेरे अधीन बन, आपद्यते= प्राप्त होता रहता है, जननमरणादिलक्षणदुःखप्रबन्धारूढः=जननमरणरूप दुःख परंपरापर आरूढ, भवति एव=होता ही है, इत्यर्थः। प्रायेण हि=प्राय:, लोकः=लोक (सभी प्राणी), एवंविधः एव=ऐसा ही है,(ऐसे ही हैं) ।


धातवः
प्रतिभाति=भा दीप्तौ,अकर्म.,अनिट.परस्मै.लट्,प्र.पु.एकव.प्रति-उपसर्गपूर्वकम् ।
आपद्यते= पद गतौ, आ+पद्यते,सकर्म.आत्मने.कर्मणि,लटि प्र.पु.एकव.
प्रकाशते=काशृ दीप्तौ,अकर्म.,सेट,आत्मने.,लटि प्र.पु.एकव. प्र+काशते ।

पृष्ठसंख्या-४६&४७
                 श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
                 आश्चर्यो वक्ता कुशलोस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः ॥१'२'७॥
अन्वयः
यः बहुभिः श्रवणाय अपि न लभ्यः, शृण्वन्तः अपि बहवः यं न विद्युः। अस्य वक्ता आश्चर्यः लब्धा कुशलः, कुशलानुशिष्टः ज्ञाता आश्चर्यः॥७॥

सान्वयं भाष्यम्
यः तु श्रेयोऽर्थी सः सहस्रेषु कश्चिद् एव त्वद्विधः आत्मविद् भवति यस्मात् -- यः आत्मा बहुभिः अनेकैः श्रवणाय अपि श्रवणार्थं श्रोतुम् अपि न लभ्यः, शृण्वन्तः अपि बहवः अनेके अन्ये यं आत्मानं न विद्युः न विदन्ति अभागिनः असंस्कृतात्मानः न विजानीयुः। किञ्च अस्य वक्ता अपि अनेकेषु आश्चर्यः अद्भुतवत एव कश्चिद् एव भवति । तथा श्रृत्वा अपि अस्य आत्मनः अनेकेषु कश्चिदेव कुशल: निपुणः एव लब्धा भवति । यस्मात् कुशलानुशिष्टः कुशलेन निपुणेन आचार्येण अनुशिष्टः सन् कश्चित् एव ज्ञाता आश्चर्यः (भवति)।
शब्दार्थ:
यः तु=किन्तु जो, श्रेयोऽर्थी=श्रेय को चाहने वाला है, सः=वह, सहस्रेषु=हजारों में, कश्चिद् एव=कोई ही, त्वद्विधः=तुम्हारे जैसा, आत्मविद्=आत्मविद्, भवति=होता है, यस्मात्=क्योंकि - यः=जो, आत्मा=आत्मा,आत्मज्ञान, बहुभिः अनेकैः=बहुत लोगों को,(उनके द्वारा), श्रवणाय अपि श्रवणार्थं श्रोतुम् अपि==श्रवण करने के लिए भी, न लभ्यः=उपलब्ध नही है, शृण्वन्तः अपि=श्रवण करते हुए भी, बहवः अनेके अन्ये=कई ऐसे सुनने वाले लोग, यं=जिस(को) आत्मानं=आत्माको(आत्मतत्व को), न विद्युः-न विदन्ति =नहीं जान पाते,अभागिनः=ऐसे अभागी, असंस्कृतात्मानः=संस्कार रहित लोग, न विजानीयुः=नही जान सकते । किञ्च=और फिर, अस्य=इस आत्मतत्व का, वक्ता=वक्ता,बताने वाला, अपि=भी, अनेकेषु कश्चिद् एव =बहुतों में कोई ही, आश्चर्यः अद्भुतवत एव=अद्भुत सा ही, भवति=होता है ।
धातवः
लभ्यः=डुलभष् प्राप्तौ,सक.अनि.आत्म.कृत्सु पुं.प्र.एकव.।
शृण्वन्तः=श्रु श्रवणे,सकर्म.अनि.परस्मै.कृत्सु शतरि पुं.प्र.ब.व.।
विद्युः=विद ज्ञाने,सक.सेट.परस्मै.विधिलिङ्लकारे प्र.पु.ब.व.।
वक्ता=वच परिभाषणे,द्विक,अनि.पर.कृत्सु पुं.प्र.एकव.।
लब्धा= डुलभष् प्राप्तौ,सक.अनि.आत्म.कृत्सु पुं.प्र.एकव.।
ज्ञाता= ज्ञा अवबोधने,सक.अनि.परस्मै.कृत्सु पुं.प्र.एकव.।
अनुशिष्टः=शासु अनुशिष्टौ,द्विकर्म.सेट्,परस्मै.कृत्सु निष्ठायां पुं.प्र.एकव.।
विदन्ति= विद ज्ञाने,सक.सेट.परस्मै.लटि(वैकल्पिकं रूपम्) प्र.पु.ब.व.।
विजानीयुः=ज्ञा अवबोधने,सक.अनि.परस्मै.विधिलिङ्लकारे (वि+जानीयुः) प्रथमपु.ब.व.।


पृष्ठसंख्या-४६
मन्त्रेऽस्मिन् ब्रह्मविद्यायाः दुर्लभता प्रदर्श्यते ।
साम्परायम् अनवगच्छन्तः मोहेन मूढाः बालाः अज्ञानिनः एतं लोकं विहाय अन्यः लोकः नास्ति इति मन्तारः पुनः पुनः मम एव वशम् आपतिताः भवन्ति- इति नास्तिवादं निरसन्तः आचार्याः यमदेवाः आत्मविद्यायाः श्रवणादिदुर्लभतां निर्दिशन्तः सन्ति ।
“श्रवणाय अपि बहुभिः यो न लभ्यः” इति पादेस्मिन् षड्ल्लिङ्गतात्पर्यनिश्चयात्मकस्य श्रवणसाधनस्य दुर्लभतां सूचयति ।
“शृण्वन्तोऽपि बहवो यं न विद्युः” इत्यनेन पादेन सूचितार्थं प्रति “कुशलोऽस्य लब्धा” इत्यनेन श्रोतु: धीनैपुण्यविरलतां निर्दिशति ।
“आश्चर्यो वक्ता” इत्यनेन वक्तुः विरलतापि प्रथमपादार्थे हेतुः इत्याशयः।
“कुशलानुशिष्टः”-कुशल: इति निपुणधियः, निपुणधीमात्रमेव आत्मज्ञानाय न पर्याप्तं, तदर्थं कुशलैः आचार्यैः तस्य निपुणधियस्य अनुशासनमपि अपेक्षितम् इति निपुणधियः अपि आश्चर्यज्ञातृत्वकत्वे हेतुगर्भविशेषणं कुशलानुशिष्टत्वमिति ।

पृष्ठसङ्ख्या ४७-४८
            न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः।
            अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान्ह्यतर्क्यमणुप्रमाणात् ॥१'२'८॥
अन्वयः
अवरेण नरेण प्रोक्तः एषः न सुविज्ञेयः बहुधा चिन्त्यमान:,
अथवा
अवरेण नरेण प्रोक्तः एषः बहुधा चिन्त्यमानः न सुविज्ञेयः। अनन्यप्रोक्ते अत्र गतिः नास्ति,अणुप्रमाणात् अणीयान् हि अतर्क्यम् ।
(अवर अर्थात् किसी निकृष्ट व्यक्त्ति केद्वारा निकृष्ट व्यक्त्ति को दियाजाने वाला आत्मज्ञान का उपदेश सुविज्ञेय नहीं होता क्योंकि अनेक तर्क-वितर्कों से युक्त होकर संशय मात्र को उत्पन्न होने वाला होता है।)
अथवा
निकृष्ट व्यक्ति केद्वारा कहा गया यह आत्मज्ञान सुविज्ञेय नहीं है,क्योंकि अनेक वादियों नें अस्ति-नास्ति,कर्ता-अकर्ता इत्यादि रूप अनेक प्रकार से विचार किया है। परन्तु अभेददर्शी आचार्य के द्वारा उपदेश करने पर किसीभी प्रकार के संशय की गति नहीं रहती क्योंकि यह आत्मा सूक्ष्म प्रमाण वाले अणु से भी सूक्ष्म और अतर्क्य है।
सान्वयं भाष्यम्
नरेण मनुष्येण= अवरेण प्रोक्तः = अवरेण हीनेन प्राकृतबुद्धिना उक्तः एष आत्मा नहि (सुविज्ञेय:) यं त्वं मां पृच्छसि, नहि सुष्ठु सम्यक् विज्ञेयः विज्ञातुं शक्यः यस्मात् वादिभिः बहुधा अस्ति-नास्ति, कर्ता-अकर्ता, शुद्धः-अशुद्धः, इत्यादि अनेकधा चिन्त्यमानः (अस्ति)। कथं पुनः सुविज्ञेयः इति उच्यते-
अनन्यप्रोक्ते अनन्येन अपृथक्दर्शिना प्रतिपाद्यब्रह्मात्मभूतेन आचार्येण प्रोक्ते उक्ते आत्मनि गतिः-अनेकधा अस्ति नास्ति इत्यादिलक्षणा चिन्ता गतिः, अत्र-अस्मिन् आत्मनि नास्ति न विद्यते आत्मनः सर्वविकल्पगतिप्रत्यस्तमितत्वात् ।
अथवा ः- अनन्यप्रोक्ते स्वात्मभूते अनन्यस्मिन् आत्मनि प्रोक्ते अत्र गतिः अन्या अवगतिः नास्ति ज्ञेयस्यान्यस्य अभावात् । यत् आत्मैकत्वविज्ञानं हि एषा ज्ञानस्य पराकाष्ठा । अतः अवगन्तव्याभावात् अत्र गतिः न अवशिष्यते ।
वा ः- अनन्यात्मनि प्रोक्ते तद्विज्ञानफलस्य मोक्षस्य नान्तरायितत्वात् संसारगतिः अत्र नास्ति ।
अथवा ः- प्रोच्यमानब्रह्मात्मभूतेन आचार्येण प्रोक्ते आत्मनि अत्र अगतिः अनवबोधः अपरिज्ञानं नास्ति ।
          आचार्यस्य इव श्रोतुः (अपि) “तद् अहम् अस्मि” इति तद्विषया अवगतिः भवत्येव इत्यर्थः। एवम् आगमवता आचार्येण अनन्यतया प्रोक्तः आत्मा सुविज्ञेयः। इतरथा हि आत्मा अणुप्रमाणादपि अणीयान् संपद्यते । अतर्क्यम् अतर्क्यः स्वबुद्ध्या अभ्यूहेन केवलेन तर्केण तर्क्यमाणे आत्मनि केनचित् अणुपरिमाणे स्थापिते ततः हि अन्यः अणुतरम् अभ्यूहति, ततोऽपि अन्यः अणुतमम् (अभ्यूहति) इति न हि कुतर्कस्य निष्ठा क्वचित् विद्यते ।


शब्दार्थः
नरेण मनुष्येण=मनुष्य के द्वारा, अवरेण प्रोक्तः = अवरेण हीनेन प्राकृतबुद्धिना उक्तः=निकृष्ट,हीन,असंस्कृत बुद्धिवाले व्यक्ति केद्वारा कहा गया, एष आत्मा=यह आत्मा, नहि (सुविज्ञेय:)=सुविज्ञेय नही है, यं=जिस आत्मतत्व को, त्वं=तुम, मां=मुझे, पृच्छसि=पूछ रहे हो, नहि सुष्ठु सम्यक् विज्ञेयः विज्ञातुं शक्यः=भलीभांति विज्ञेय नही है, जानना संभव नही है, यस्मात्=क्योंकि, वादिभिः=विचार विमर्शकों के द्वारा,वाद विवाद करने वालों के द्वारा, बहुधा=विविध प्रकार से, अस्ति-नास्ति=(आत्मा के बारे में)है-नहीं है, कर्ता-अकर्ता=कर्ता-अकर्ता, शुद्धः-अशुद्धः=शुद्ध-अशुद्ध, इत्यादि अनेकधा=इत्यादि अनेक प्रकार से, चिन्त्यमानः=चिन्त्यमान,(अस्ति=है)। कथं पुनः सुविज्ञेयः=तो फिर कैसे सुविज्ञेय है? इति उच्यते=उसे कहते हैं, अनन्यप्रोक्ते अनन्येन अपृथक्दर्शिना=अनन्य अभेददर्शी के द्वारा, प्रतिपाद्यब्रह्मात्मभूतेन=प्रतिपाद्य वस्तु ब्रह्मात्मस्वरूप वाले, आचार्येण=आचार्य के द्वारा, प्रोक्ते उक्ते=कहे जाने पर, आत्मनि=आत्मा के विषय में, गतिः=अवस्था,स्थितिः,अनेकधा=अनेक प्रकार से, अस्ति नास्ति इत्यादिलक्षणा गतिः=है,नहीं है इत्यादि रूप से की गई चिन्ता को गति कहते हैं, अत्र-अस्मिन् आत्मनि=इस आत्मतत्व के विषय में, नास्ति न विद्यते=नहीं है, आत्मनः=आत्मा के अन्दर, सर्वविकल्पगतिप्रत्यस्तमितत्वात्=अस्ति नास्ति इत्यादि सभी विकल्परूप गति अस्त (अभाव) होने से ।

धातवः
प्रोक्तः=वच् परिभाषणे,द्विकर्मक,अनिट्,परस्मै.कृत्सु कर्मणि भूतकृदन्ते “प्र+उक्तः” पुं.प्र.वि.एकव.।
सुविज्ञेयः=सकर्म.अनि.परस्मै.कृत्सु “सु वि+ज्ञेयः”पुं.प्रथमावि.एकव.।
चिन्त्यमानः=चिन्त् विचारे,उभय.कृत्सु पुं.प्र.वि.एकव.।
गतिः=गम्लृ गतौ,सकर्म.अनिट्,परस्मै,स्त्री.(गम्+क्तिन्)=गतिः।



पृष्ठसङ्ख्या ४९-५०
         नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ ।
         यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥१'२'९॥
अन्वयः
हे प्रेष्ठ ! सत्यधृतिः त्वं यां बत आप: असि, एषा मतिः तर्केण न आपनेया, अन्येनैव प्रोक्ता सुज्ञानाय । हे नचिकेतः! त्वादृङ् प्रष्टा नः भूयात् ।
सान्वयं भाष्यम्
अतः-अनन्यप्रोक्ते आत्मनि उत्पन्ना या इयम् आगमप्रतिपाद्यात्ममतिः न एषा तर्केण स्वबुद्ध्यभ्यूहमात्रेण आपनेया न प्रापणीया इत्यर्थः। न अपनेतव्या वा न हातव्या । अनागमज्ञः तार्किकः हि स्वबुद्धिपरिकल्पितं यत्किञ्चित् एव कथयति । अतएव च हे प्रेष्ठ ! हे प्रियतम ! या इयम् आगमप्रसूता मतिः तार्किकात् अन्येनैव आगमाभिज्ञेन आचार्येण एव, प्रोक्ता सती सुज्ञानाय भवति । का पुनः सा तर्कागम्या मतिः इति उच्यते ? यां मतिं त्वं मद्वरप्रदानेन आपः प्राप्तवान् असि । सत्याऽवितथविषया धृतिः यस्य तव स त्वं सत्यधृतिः बत असि इति वक्ष्यमाणविज्ञानस्तुतये अनुकम्पयन् मृत्युः नचिकेतसं आह । त्वादृक् त्वत्तुल्यः अन्यः पुत्रः शिष्यः वा नः अस्मभ्यं प्रष्टा भूयात् भवतु । कीदृक् ? हे नचिकेतः यादृक् त्वं प्रष्टा (असि)।
धातवः
असि=अकर्म.परस्मै.लटि म.पु.एकव.।
आपनेया(प्रापणीया)=आप्लू लम्भने,सकर्म. उभय.स्त्री.प्रथमा एकव.।
        प्रोक्ता= वच् परिभाषणे,द्विकर्मक,अनिट्,परस्मै.कृत्सु कर्मणि भूतकृदन्ते “प्र+उक्त” स्त्री.प्र.एकव.।
        प्रष्टा =प्रच्छ ज्ञीप्सायाम्,सकर्म.परस्मै.कृत्सु कर्मणिभूतकृ.पुं.प्रथमा एकव.।
       भूयात्=भू सत्तयाम्,अकर्म.परस्मै.आ.लि.प्र.पु.एकव.
       अपनेतव्या=नी नये,उभय. तव्यत् अप उपसर्गपूरवकम्,स्त्री.प्र.वि.एकव.।
       हातव्या=
       कथयति=कथ वाक्यप्रबन्धने,सकर्म.उभय.लटि प्र.पु.एकव.।
      आपः
      प्राप्तवान्





पृष्ठसङ्ख्या ५१

सङ्गतिः -
पुनरपि तुष्ट आह-
जानाम्यह˘ शेवधिरित्यनित्यं नह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥१'२'१०॥

अन्वयः
शेवधिः अनित्यम् इति अहं जानामि, नहि अध्रुवैः हि तत् ध्रुवं प्राप्यते (इति अहं जानामि) । ततः हि मया नाचिकेताग्निः चितः, अनित्यैः द्रव्यैः नित्यं प्राप्तवान् अस्मि ।
सान्वयं भाष्यम्
शेवधिः निधिः कर्मफललक्षणः निधिः इव प्रार्थ्यते इति अहं जानामि । असौ अनित्यम् अनित्यः इति जानामि, हि यस्मात् अनित्यैः ध्रुवैः तत् नित्यं ध्रुवं परमात्माख्यः शेवधिः न प्राप्यते । यस्तु अनित्यसुखात्मकः शेवधिः सः एव अनित्यैः द्रव्यैः प्राप्यते। हि यतः नित्यम् अनित्यसाधनैः न प्राप्यते इति जानता अपि मया नाचिकेताऽग्निः चितः ततः तस्माद् अनित्यैः द्रव्यैः पश्वादिभिः स्वर्गसुखसाधनभूतः अग्निः निर्वर्तितः इत्यर्थः। तेन अधिकारापन्नः अहं स्वर्गाख्यम् आपेक्षिकं नित्यं, नित्यं याम्यं स्थानं प्राप्तवान् अस्मि ।

पृष्ठसङ्ख्या ५२

कामस्याऽऽप्तिं जगतः प्रतिष्ठां क्रतोरनन्त्यमभयस्य पारम् ।
            स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः॥१'२'११॥
अन्वयः
हे नचिकेत! कामस्य आप्तिं, जगतः प्रतिष्ठां, क्रतोः अनन्त्यं,अभयस्य पारं, स्तोमं महदुरुगायं (तथा) प्रतिष्ठां दृष्ट्वा धृत्या धीरः अत्यस्राक्षीः ।
सान्वयं भाष्यम्

हे नचिकेत! धीरः धीमान् सन् त्वं तु कामस्य आप्तिं समाप्तिम्, अत्र हि सर्वे कामाः परिसमाप्ताः, सर्वात्मकत्वात् जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठाम् आश्रयं,क्रतोः फलं हैरण्यगर्भं पदम् अनन्त्यम् आनन्त्यम्,अभयस्य च पारं परां निष्ठां,स्तोमं स्तुत्यं महदणिमादि-ऐश्वर्यादि-अनेकगुणसंहतं स्तोमं च तन्महच्च निरतिशयत्वात् स्तोममहत्,उरुगायं विस्तीर्णगतिं,प्रतिष्ठाम् आत्मनः अनुत्तमां स्थितिम् अपि दृष्ट्वा धृत्या धैर्येण अत्यस्राक्षीः परमेवाऽऽकाङ्क्षन् एतत्‌सर्वं संसारभोगजातम् अतिसृष्टवान् असि ।अहो बत अनुत्तमगुणोऽसि ।

अस्य मन्त्रस्य अपरः अर्थः टिप्पणीकारस्य अनुसारेण-
कामस्याप्तिम्-मुक्तिपदं विशुद्धं ब्रह्मविवक्षितं “सोऽश्नुते सर्वान् कामान्” इत्यादि श्रुतेः। जगतः प्रतिष्ठां-जगतः अधिष्ठानं ब्रह्म एव इति, क्रतोः अनन्त्यम्-अत्यन्ते बध्यते इति अन्त्यं फलं क्रतोः यज्ञादिकर्मणोः यत् न फलम् । अभयस्य पारं स्तोममहदुरुगायमिति समञ्जसमेव ब्रह्मणि तद् ब्रह्मात्मनः प्रतिष्ठां दृष्ट्वा आत्मनः अतदात्मनावस्थितिं सम्पाद्यां निश्चित्य इति अत्यस्राक्षीः हे नचिकेतः त्वं तु तद् यदहं प्राप्तवान् अस्मि अनित्यमेव पदम् इति ।
    एवञ्च पूर्ववाक्यान्ते पठितं नित्यमिति पदम् अस्मिन्नेव वाक्ये ब्रह्मविशेषणत्वेन योजनीयम् । प्राप्तवान् अस्मि इत्यस्य तु तत्र अनित्यम् इत्येतदेव कर्मपदं भविष्यति । “ध्रुवं ध्रुवः शेवधिर्मोक्षः अध्रुवैः न प्राप्यते इति अहं जानामि इति योज्यम् ।


पृष्ठसङ्ख्या ५३

सङ्गति: - यम् आत्मानं त्वं ज्ञातुम् इच्छसि-
तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥१'२'१२॥
अन्वयः
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणं देवम् अध्यात्मयोगाधिगमेन मत्वा धीरः हर्षशोकौ जहाति ।
सान्वयं भाष्यम्
तं दुर्दर्शं दु:खेन दर्शनम् अस्य इति, अतिसूक्ष्मत्वात् तं दुर्दर्शं,गूढं गहनम् अनुप्रविष्टं प्राकृतविषयविकारविज्ञानैः प्रच्छन्नम् इत्येतत् । गुहाहितं गुहायां बुद्धौ स्थितं तत्रोपलभ्यमानत्वात्,गह्वरेष्ठं गह्वरे विषमे अनेकार्थसङ्कटे तिष्ठति इति गह्वरेष्ठम् । यतः एवम् गूढम् अनुप्रविष्टः गुहाहितश्च अतः गह्वरेष्ठः, अतः दुर्दशः। तं पुराणं पुरातनं देवम् आत्मानं अध्यात्मयोगाधिगमेन विषयेभ्यः प्रतिसंहृत्य चेतसः आत्मनि समाधानम् अध्यात्मयोगः तस्य अधिगम: (अध्यात्मयोगाधिगमः) तेन (अध्यात्मयोगाधिगमेन) मत्वा धीरः धीमान् आत्मनः उत्कर्षापकर्षयो: अभावात् हर्षशोकौ जहाति ।


किञ्च-
एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य ।
             स मोदते मोदनीय˘ हि लब्ध्वा विवृत˘ सद्म नचिकेतसं मन्ये ॥१'२'१३॥
अन्वयः
एतत् श्रुत्वा संपरिगृह्य धर्म्यं अणुं प्रवृह्य एतम् आप्य सः मर्त्यः मोदनीयं हि लब्ध्वा मोदते । विवृतं सद्म नचिकेतसं मन्ये ।
सान्वयं भाष्यम्
एतत् आत्मतत्वं यदहं वक्ष्यामि आचार्यप्रसादात् तत् श्रुत्वा सम्यक् आत्मभावेन परिगृह्य उपादाय मर्त्यः मरणधर्मा धर्मादनपेतं धर्म्यं अणुं सूक्षमं प्रवृह्य उद्यम्य शरीरादेः पृथक्‌कृत्य एतम् आत्मानं आप्य प्राप्य सः मर्त्यः विद्वान् मोदनीयं हर्षणीयम् आत्मानं लब्ध्वा मोदते । तदेवंविधं ब्रह्मसद्म भवनं नचिकेतसं त्वां प्रति आवृतद्वारं विवृतम् अभिमुखीभूतं मन्ये त्वां मोक्षार्हं मन्ये इत्यभिप्रायः।
पृष्ठसङ्ख्या ५५
सङ्गतिः
यदि अहं योग्यः भगवन् प्रसन्नश्च असि (तर्हि) मां प्रति-
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥१'२'१४॥
अन्वयः
धर्मात् अन्यत्र, अधर्मात् अन्यत्र, अस्मात् कृताकृतात् अन्यत्र, भूताच्च भव्याच्च अन्यत्र तत् यत् पश्यसि तद्वद ।
सान्वयं भाष्यम्
धर्माद् अन्यत्र शास्त्रीयात् धर्मानुष्ठानात् तत्फलात् तत्कारकेभ्यश्च पृथक्भूतम् इत्यर्थः। तथा अधर्मात् अन्यत्र तथा अस्मात् कृताकृतात् अन्यत्र कृतं कार्यम् अकृतं कारणम् अस्माद् अन्यत्र, किञ्च भूतात् च अतिक्रान्तात् कालात् भव्याच्च भविष्यतश्च तथा वर्तमानात् अन्यत्र, कालत्रयेण यत् न परिच्छिद्यते इत्यर्थः। यद् ईदृशं सर्वव्यहारगोचरातीतं वस्तु पश्यसि जानासि तत् मह्यं वद ।
सङ्गतिः
इत्येवं पृष्टवते पृष्टं वस्तु विशेषणान्तरं च विवक्षन् मृत्युः उवाच-
(इत्येवं=इसप्रकार, पृष्टवते=पूछने वाले नचिकेता केलिए, पृष्टं=पूछी गई, वस्तु=ब्रह्मतत्व को, विशेषणान्तरं=अन्य विशेषण से, च=और, विवक्षन्=कहने की इच्छा से, मृत्युः=आचार्य यमदेव, उवाच=बोले)
सर्वे वेदा यत्पदमामनन्ति तपा˘सि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति त्तते पद˘ सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥१'२'१५॥
अन्वयः
सर्वे वेदाः यत् पदम् आमनन्ति, सर्वाणि तपांसि च यत् वदन्ति,यत् इच्छन्तः ब्रह्मचर्यं चरन्ति तत् पदं ते सङ्ग्रहेण ब्रवीमि-ॐ इति एतत् पदम् ।
(तत् ॐ इति एतत् पदं सङ्ग्रहेण ब्रवीमि इति)
सान्वयं भाष्यम्
सर्वे वेदाः यत् पदं पदनीयं गमनीयम् अविभागेन आमनन्ति प्रतिपादयन्ति, सर्वाणि च तपांसि यत् वदन्ति यत् प्राप्त्यर्थानि (वदन्ति) इत्यर्थः। यद् इच्छन्तः ब्रह्मचर्यं गुरुकुलवासलक्षणम् अन्यद् वा ब्रह्मप्राप्त्यर्थं (ब्रह्मचर्यं) चरन्ति, यत् ज्ञातुम् इच्छसि तत् पदं ते तुभ्यं सङ्ग्रहेण संक्षेपतः ब्रवीमि-ॐ इति एतत् ।
यदेतत् त्वया यत् बुभुत्सितं तदेतत् ॐ इति पदं ॐ शब्दवाच्यम् ॐ शब्दप्रतीकं च इति ।
शब्दार्थः
सर्वे वेदाः=सभी वेद,(सभी उपनिषद्), यत्=जिस, पदं=पदको, पदनीयं=प्राप्त करने योग्य, गमनीयम्=गन्तव्य,लक्ष्यरूप, अविभागेन=अभेदरूप से, आमनन्ति=वर्णन करते हैं, प्रतिपादयन्ति=प्रतिपादन करते हैं, सर्वाणि च=और सभी, तपांसि=तप,उपासना को, यत् वदन्ति=जिसकी प्राप्ति केलिए कहते हैं, यत् प्राप्त्यर्थानि=जो प्राप्ति का प्रयोजन है, (वदन्ति=कहते हैं) इत्यर्थः। यद् इच्छन्तः=जिसकी चाहना करते हुए, ब्रह्मचर्यं=ब्रह्मचर्यको, गुरुकुलवासलक्षणम्=गुरुकुलवास लक्षणरूप ब्रह्मचर्य का पालन, अन्यद् वा=अथवा, ब्रह्मप्राप्त्यर्थं=ब्रह्मकी प्राप्ति केलिए, (ब्रह्मचर्यं=ब्रह्मचर्य का पालन) चरन्ति=करते हैं, यत् ज्ञातुम् इच्छसि=तुम जो जानना चाहते हो, तत् पदं=उस ब्रह्मपदको, ते तुभ्यं=तुम्हारे लिए, सङ्ग्रहेण=सङ्ग्रहरूप से, संक्षेपतः=संक्षेप से, ब्रवीमि=कहता हूं,-ॐ इति एतत्=यह ॐ पद है ।
यदेतत्=जो यह, त्वया=तुम्हारे द्वारा, यत् बुभुत्सितं=जिसकी इच्छा कीगई, तदेतत्पदं=वह यह पद, ॐ शब्दवाच्यम्=ॐकार पदवाच्य है, ॐ शब्दप्रतीकं च=और ॐकार प्रतीकरूप है, इति ।
सङ्गतिः
अतः-इसलिये,
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥१'२'१६॥
अन्वयः
एतदेव हि अक्षरं ब्रह्म, एतदेव हि अक्षरं परं, एतदेव हि अक्षरं ज्ञात्वा यः यद् इच्छति तत् तस्य (भवति)।
सान्वयं भाष्यम्
एतदेव हि अक्षरम् अपरं ब्रह्म, एतदेव हि च अक्षरं परं ब्रह्म । तयोः हि प्रतीकम् एतद् अक्षरम् (इति)। एतदेव हि अक्षरं ब्रह्म इति ज्ञात्वा उपास्य परम् अपरं वा यः यत् इच्छति तत् तस्य भवति । परं चेत् ज्ञातव्यम् अपरं चेत् प्राप्तव्यम् इति ।
शब्दार्थः

एतदेव हि अक्षरम्=यही अक्षर ॐकार, अपरं ब्रह्म=सगुण साकार ब्रह्म है, एतदेव हि च=और यही, अक्षरं=अक्षर ॐकार, परं ब्रह्म=निर्गुण निराकार ब्रह्म है । तयोः हि=उन दोनों ही सगुण और निर्गुण ब्रह्मका, प्रतीकम्=प्रतीक, एतद् अक्षरम्=यह अक्षर ॐकार है, (इति)। एतदेव हि अक्षरं=और इसी अक्षर ॐकार को, ब्रह्म=ब्रह्मको, इति,ज्ञात्वा=जानकर, उपास्य=उपासनाकर, परम्=निर्गुण, अपरं=सगुण, वा=अथवा, यः=जो, यत्=जिस ब्रह्मको, इच्छसि=चाहता है, तत्=वह ब्रह्म, तस्य=उसका, भवति=होता है,उसे प्राप्त करता है । परं चेत्=यदि परं ब्रह्म है तो, ज्ञातव्यम्=ज्ञातव्य है, अपरं चेत्=और यदि अपरं ब्रह्म है तो, प्राप्तव्यम्=प्राप्तव्य है, इति ।

सङ्गतिः
यतः एवम् अतः-
एतदालम्बन˘ श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥१'२'१७॥
अन्वयः
एतदालम्बनं श्रेष्ठम्, एतदालम्बनं परम्, एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ।
सान्वयं भाष्यम्
एतदालम्बनं ब्रह्मप्राप्त्यालम्बनानाम् एतत् श्रेष्ठं प्रशस्यतमम् । एतदालम्बनं परापरब्रह्मविषयत्वात् परमपरं च । एतदालम्बनं ज्ञात्वा ब्रह्मलोके परस्मिन् ब्रह्मणि महीयते अपरस्मिंश्च ब्रह्मभूतः ब्रह्मवदुपास्यः भवति इत्यर्थः।

सङ्गतिः
(नचिकेतसा) अन्यत्र धर्मादित्यादिना पृष्टस्य अशेषविशेषरहितस्य आत्मनः मन्दमध्यमप्रतिपत्तॄन्प्रति अपरस्य च ब्रह्मणः प्रतीकत्वेन आलम्बनत्वेन च ओंकारः निर्दिष्टः। अथ इदानीं तस्य ओंकारालम्बनस्य आत्मनः साक्षात्स्वरूपनिर्दिधारयिषया इदम् उच्यते-
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शास्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥१'२'१८॥
अन्वयः
विपश्चित् न जायते म्रियते वा, अयं न कुतश्चित् बभूव,न (अस्मात्) कश्चित् (बभूव)। अजः नित्यः शाश्वतः पुराणः अयं हन्यमाने शरीरे न हन्यते ।
सान्वयम् भाष्यम्
न जायते न उत्पद्यते,म्रियते वा न म्रियते च, उत्पत्तिमतः अनित्यस्य वस्तुनः अनेकविक्रियाः तासाम् आद्यन्ते जन्मविनाशलक्षणे विक्रिये इह आत्मनि सर्वविक्रियाप्रतिषेधार्थं न जायते म्रियते वा इति प्रथमं प्रतिषिध्येते । विपश्चिन् मेधावी,अविपरिलुप्तचैतन्यस्वभावत्वात् । किञ्च अयम् आत्मा न कुतश्चित् कारणान्तरात् बभूव । स्वस्मात् च आत्मनः अर्थान्तरभूतः न च कश्चित् बभूव । अतः अयम् आत्मा अजः नित्यः शाश्वतः अपक्षयविवर्जितः। यः हि अशाश्वतः सः अपक्षीयते । अयं तु शाश्वतः अतः एव पुराणः पुरा अपि नव एव इति । यः हि अवयवोपचयद्वारेणाभिनिर्वर्त्यते सः इदानीं नवः यथा कुम्भादिः, तद्विपरीतस्तु आत्मा पुराणः वृद्धिविवर्जितः इत्यर्थः। यतः एवम् अतः शस्त्रादिभिः हन्यमाने शरीरे न हन्यते न हिंस्यते । तत्स्थः अपि आकाशवदेव (निर्लिप्तः इत्यर्थः)।

सङ्गतिः
एवंभूतमपि आत्मानं शरीरमात्रात्मदृष्टिः-
हन्ता चेन्मन्यते हन्तु˘ हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नाय˘ हन्ति न हन्यते ॥१'२'१९॥
अन्वयः
हन्ता हन्तुं मन्यते चेत्, हतः(च) हतं मन्यते चेत् तौ उभौ न विजानीतः अयं न हन्ति न हन्यते ।
सान्वयं भाष्यम्
यदि हन्ता हन्तुम् एनं हनिष्यामि इति मन्यते चिन्तयति चेत्, अन्यः अपि यः हतः सः अपि आत्मानं हतम् अहं हतः इति मन्यते चेत् तौ उभौ अपि स्वात्मानं न विजानीतः यतः आत्मनः अविक्रियत्वात् अयं न हन्ति, तथा आकाशवद् अविक्रियत्वादेव न हन्यते । अतः धर्माधर्मादिलक्षणः संसारः अनात्मज्ञविषयः एव, न ब्रह्मज्ञस्य श्रुतिप्रामाण्यात् न्यायात् च धर्माधर्माद्यनुपपत्तेः।

सङ्गतिः
कथं पुनः आत्मानं जानाति इति उच्यते-
अणोरणीयान्महतो महीयानात्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः॥१'२'२०॥
अन्वयः
अणोः अणीयान् महतः महीयान् आत्मा अस्य जन्तोः गुहायां निहितः। अक्रतुः धातुप्रसादात् तम् आत्मनः महिमानं पश्यति वीतशोकः (भवति)।
सान्वयं भाष्यम्
अणोः सूक्ष्मात् अणीयान् श्यामाकादेः अणुतरः, महतः मह्त्परिमाणात् महीयान् पृथिव्यादेः महत्तरः। लोके वस्तु अणुः महद् वा यदस्ति तत् तेन एव नित्येन आत्मना आत्मवत् सम्भवति । आत्मना विनिर्मुक्तं तत् असत् संपद्यते । तस्मात् सर्वनामरूपवस्तुपाधिकत्वात् असौ एव आत्मा अणोः अणीयान् महतो महीयान् ।
सः च आत्मा अस्य जन्तोः ब्रह्मादिस्तम्बपर्यंतस्य प्राणिजातस्य गुहायां हृदये निहितः आत्मभूतः स्थितः इत्यर्थः। तं दर्शनश्रवणमननविज्ञानलिङ्गम् आत्मानं अक्रतुः अकामः दृष्टादृष्टबाह्यविषयोपरतबुद्धिः इत्यर्थः। यदा च एवं तदा शरीस्य धारणात् मन आदीनि करणानि धातवः प्रसीदन्ति इति येषां धातूनां प्रसादात् आत्मनः कर्मनिमित्तवृद्धिक्षयरहितं महिमानं पश्यति अहम् अस्मीति साक्षात् विजानाति ततः वीतशोकः भवति ।

सङ्गतिः
अन्यथा अयम् आत्मा कामिभिः प्राकृतपुरुषैः दुर्विज्ञेयः, यस्मात्
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥१'२'२१॥
अन्वयः
आसीनः दूरं व्रजति, शयानः सर्वतः याति । तं मदामदं देवं मदन्यः कः ज्ञातुमर्हति ।
सान्वयं भाष्यम्
आसीनः अवस्थितः अचलः एव सन् दूरं व्रजति, शयानः सर्वतः याति एवम् असौ आत्मा देवः मदामदः समदः अमदश्च सहर्षः अहर्षश्च विरुद्धधर्मवान् अतः ज्ञातुम् अशक्यत्वात् तं मदामदं देवं मदन्यः कः ज्ञातुम् अर्हति ? अस्मदादेः एव कस्यचिद् सूक्ष्मबुद्धेः पण्डितस्य विज्ञेयः।
अयम् आत्मा स्थितिगतिनित्यानित्यादिविरुद्धानेकधर्मोपाधिकत्वात् विरुद्धधर्मवत्वात् विश्वरूपः इव चिन्तामणिवत् अवभासते । अतः दुर्विज्ञेयत्वं दर्शयति कः तं मदन्यः ज्ञातुम् अर्हति? इति ।
करणानाम् उपशमः शयनं,करणजनितस्य एकदेशविज्ञानस्य उपशमः शयानस्य भवति । यदा च एवं (शयानः भवति तदा) केवलसामान्यविज्ञानत्वात् सर्वतः याति इव, यदा विशेषविज्ञानस्थः (तदा) स्वेन रूपेण स्थितः सन् इव मन-आदिगतिषु तदुपाधिकत्वात् दूरं व्रजति इव च सः इह एव वर्तते ।

तद्विज्ञानात् च शोकात्ययः इत्यपि दर्शयति-
अशरीर˘शरीरेष्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥१'२'२२॥
अन्वयः
धीरः शरीरेषु अशरीरम् अनवस्थेषु अवस्थितं महान्तं विभुम् आत्मानं मत्वा न शोचति ।
सान्वयं भाष्यम्
अशरीरं स्वेन रूपेण आत्मा आकाशकल्पः तम् अशरीरं, शरीरेषु देवपितृमनुष्यादिशरीरेषु, अनवस्थेषु अवस्थितिरहितेषु अनित्येषु अवस्थितं नित्यम् अविकृतम् इत्येतत् । महान्तं महत्वस्य आपेक्षिकत्वशङ्कायाम् आह-विभुं व्यापिनम् आत्मानम् । आत्मग्रहणं स्वतः अनन्यत्वप्रदर्शनार्थम् । आत्मशब्दः प्रत्यगात्मविषयः एव मुख्यः तम् ईदृशम् आत्मानं मत्वा अयम् अहम् इति धीरः धीमान् न शोचति । नहि एवंविधस्य आत्मविदः शोकोपपत्तिः ।
सङ्ग्‌तिः
यद्यपि अयम् आत्मा दुर्विज्ञेयः तथापि उपायेन सुविज्ञेयः एव इत्याह-
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू˘ स्वाम् ॥१'२'२३॥
अन्वयः
अयम् आत्मा प्रवचनेन न लभ्यः, न मेधया, न बहुना श्रुतेन (लभ्यः)। एषः यम् एव वृणुते तेन लभ्यः, एष आत्मा तस्य स्वां तनूं विवृणुते ।
सान्वयं भाष्यम्
अयम् आत्मा केवलेन प्रवचनेन अनेकवेदस्वीकरणेन न लभ्यः ज्ञेयः, केवलया मेधया ग्रन्थार्थधारणशक्त्या अपि न (लभ्यः), केवलेन बहुना श्रुतेन अपि न (लभ्यः)। केन तर्हि लभ्यः इति उच्यते । एषः साधकः यं स्वात्मानम् एव वृणुते प्रार्थयते तेन एव वरित्रा आत्मना आत्मा स्वयं लभ्यः ज्ञायते इत्येतत् । एवम् आत्मानम् एव निष्कामस्य प्रार्थयतः आत्मना एव आत्मा लभ्यः इत्यर्थः। कथं लभ्यः इत्युच्यते । तस्य आत्मकामस्य एषः आत्मा स्वां स्वकीयां स्वयाथात्म्यं पारमार्थिकीं तनूं विवृणुते प्रकाशयति इत्यर्थः।

किञ्चान्यत्
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥१'२'२४॥
अन्वयः
दुश्चरितात् न अविरतः, न अशान्तः, न असमाहितः, अशान्तमानसः वाऽपि प्रज्ञानेन एनं न आप्नुयात् ।
सान्वयं भाष्यम्
दुश्चरितात् प्रतिषिद्धात् श्रुति-स्मृति-अविहितात् पापकर्मणः न अविरतः अनुपरतः, नापि इन्द्रियलौल्यात् अशान्तः अनुपरतः,नापि असमाहितः अनेकाग्रमना विक्षिप्तचित्तः, समाहितचित्तः अपि सन् समाधानफलार्थित्वात् नापि अशान्तमानसः व्यापृतचित्तः, प्रज्ञानेन ब्रह्मविज्ञानेन एनं प्रकृतम् आत्मानं न आप्नुयात् । यस्तु दुश्चरितात् इन्द्रियलौल्यात् च विरतः समाहितचित्तः समाधानफलादपि उपशान्तमानसश्च आचार्यवान् (सः) प्रज्ञानेन यथोक्तम् आत्मानं प्राप्नोति इत्यर्थः।

यस्तु अनेवंभूतः-

यस्य ब्रह्म च क्षत्त्रं च उभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः॥१'२'२५॥
अन्वयः
ब्रह्म च क्षत्त्रं च उभे यस्य ओदनः भवतः, मृत्युः यस्य उपसेचनं, यत्र सः (वर्तते) क इत्था वेद ।
सान्वयं भाष्यम्
यस्य आत्मनः ब्रह्म च क्षत्त्रं च ब्रह्मक्षत्त्रे सर्वधर्मविधारके अपि सर्वत्राणभूते उभे ओदनः अशनं भवतः स्याताम्, सर्वहरः अपि मृत्युः यस्य ओदनस्य उपसेचनम् इव अशनत्वे अपि अपर्याप्तः यथोक्तसाधनरहितः सन् कः प्राकृतबुद्धिः तं इत्था इत्थम् एवं यथोक्तसाधनवान् इत्यर्थः यत्र सः आत्मा इति वेद विजानाति ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमदाचार्यश्रीशङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमाध्याये द्वितीयावल्लीभाष्यं समाप्तम् ॥
द्वितीयवल्ल्याः सारांशः
एवं सर्वथा परीक्ष्य दृष्टं यमराजेन यत् नचिकेता ऐहिक-पारलौकिकविषयेभ्यः सर्वथा उदासीनः साधनचतुष्टयसम्पत्तिवान् मुमुक्षुः अधिकारी अस्तीति विद्यायोग्यताम् अवगम्य आह- “अन्यच्छ्रेयोऽन्यदुतैव..” श्रेयप्रेययोः अन्तरं यदुभे नानार्थे भिन्नप्रयोजने विद्याऽविद्यारूपत्वात् विरुद्धे स्तः, कश्चन् यः धीमान् सः एव विविच्य श्रेयसः चयनं करोति इति वदन् यमदेवः नचिकेतसः प्रशंसां कुर्वन् “दूरमेते विपरीते विषूची” इत्येवं विद्याऽविद्ययोः नानाफलस्वरूपं दर्शयित्वा मूढाः दन्द्रम्यमाणाः परियन्ति । वित्तमोहेन मूढाः प्रमादिनः एते पुनः पुनः मे वशम् आपद्यन्ते ।
इत्येवं अविद्यां विनिंद्य श्रेयसः विद्यायाः ग्रहणाय प्रशंसन् यमः नचिकेतसः अभीष्टायाः एतस्याः श्रवनादिसाधनानां दुर्लभतां दर्शयति । कुशलानुशिष्टः अनन्यप्रोक्ते गतिरत्र नास्ति इत्यादिभिः श्रोत्रियब्रह्मनिष्ठाचार्यदुर्लभतां दर्शयति ।आचार्यं विना आचार्यनिर्दिष्टसाधनैः विना स्वयमेव एतत् सध्यं नास्ति “अतर्क्यमणुप्रमाणात्..नैषा तर्केण मतिरापनेया, न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्, इत्येवम् आत्मज्ञानस्य दुर्लभतां प्रदर्श्य स्वशिष्यं नचिकेतसं “कामस्याप्तिं जगतः प्रतिष्ठां..नचिकेतोत्यस्राक्षीः” इति प्रशंस्य आत्मज्ञानस्य फलं निरूप्यति ।
  “अन्यत्र धर्मादन्यत्राधर्माद्.. .. यत्तत्पश्यसि तद्वद ।” इति नचिकेतसि पृष्टे सति आचार्याः यमदेवाः ॐकारालम्बनरूपं सगुणनिर्गुणयोः श्रेष्ठं साधनम् उपदिश्य “न जायते म्रियते वा विपश्चित्..,हन्ता चेन्मन्यते हन्तुम्..इत्येताभ्याम् आत्मस्वरूपस्य निरूपणं कृत्वा धातुप्रसादात् आत्मनः महिमानम् अभिजानाति अन्यथा प्राकृतपुरुषैः कामिभिः तु अयमात्मा सर्वथा दुर्विज्ञेयः एव इति आत्मकृपां विना न सम्भवति । नायमात्मा प्रवचनेन लभ्यः इत्यनेन मन्त्रेण आचार्याः स्पष्टं सूचयन्ति यत् सद्भाग्येन वेदान्तशास्त्रश्रवणाय वातावरणं श्रोत्रियब्रह्मनिष्ठाः आचार्याः अन्यविधसौलभ्यमपि सर्वं प्राप्तं चेदपि यदि आत्मश्रद्धा, आत्मकृपा नास्ति तर्हि एषः आत्मा दुर्लभः एव “यमेवैष वृणुते तेन लभ्यः, तस्यैष आत्मा विवृणुते तनूं स्वाम्” इति उक्त्वा अन्ते आत्मज्ञानस्य यः अधिकाकारी कीदृशः इति निर्दिश्य यमदेवः “अन्यत्र धर्मादन्यत्राधर्माद्..” इत्यस्य समाधानं ब्रह्मणः सर्वोपरितां एतस्याः वल्ल्याः अन्तिमेन मन्त्रेण उपदिशति । इति ।
…………………………………………………………………………………………………………………………………………............
अथ तृतीया वल्ली
सङ्गतिः
ऋतं पिबन्तौ इत्यस्याः वल्ल्याः सम्बन्धः (इत्थम्)-
नानाविरुद्धफले विद्याविद्ये इति उपन्यस्ते । न तु ते यथावत् सफले निर्णीते । तन्निर्णयार्था रथरूपककल्पना तथा च प्रतिपत्तिसौकर्यम् । एवं च प्राप्तृप्राप्यगन्तृगन्तव्यविवेकार्थं द्वौ आत्मानौ उपन्यस्येते ।
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । ( र्ध्ये)
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः॥१'३'१॥
अन्वयः
सुकृतस्य ऋतं पिबन्तौ लोके परमे परार्धे गुहां प्रविष्टौ छायातपौ (इव तौ इति) ब्रह्मविदः वदन्ति, ये त्रिणाचिकेताः पञ्चाग्नयः च (ते अपि वदन्ति)।
सान्वयं भाष्यम्
ऋतं सत्यम् अवश्यंभावित्वात्कर्मफलं पिबन्तौ, तत्र एकः कर्मफलं पिबति भुङ्क्ते न इतरः तथापि छत्रिन्यायेन पातृसम्बन्धात् पिबन्तौ इति उच्यते । सुकृतस्य स्वयंकृतस्य कर्मणः ऋतम् इति पूर्वेण सम्बन्धः। लोके अस्मिन् शरीरे, गुहां गुहायां बुद्धौ प्रविष्टौ । परमे बाह्यपुरुषाकाशसंस्थानापेक्षया परमम् । परस्य ब्रह्मणः अर्धं स्थानं परार्धम् । तस्मिन् हि परं ब्रह्म उपलभ्यते अतः तस्मिन् परमे परार्धे हार्दाकाशे प्रविष्टौ इत्यर्थः। तौ च संसारित्व-असंसारित्वेन छायातपौ इव विलक्षणौ (इति) ब्रह्मविदः वदन्ति कथयन्ति । न केवलम् अकर्मिणः एव, ये त्रिणाचिकेताः त्रिःकृत्वः नाचिकेतः अग्निः चितः यैः ते त्रिणाचिकेताः, पञ्चाग्नयः गृहस्थाः च वदन्ति ।

        गुहा =
१. हृद्पुण्डरीकम् - शरीरे वक्षे दक्षिणभागे, हृदयं वामे भवति । (उपासनार्थम्)
२. बुद्धिः - बुद्धिगुहा इति शास्त्रेषु बुद्धिनिमित्तमपि उच्यते । (ज्ञानप्राप्त्यर्थम्)
सर्वपदार्थानाम् अवभासनं बुद्धिवृत्तिद्वारा भवति । यथा घटज्ञानम्- वृत्यारूढचैतन्येन घटावच्छिन्नस्य चैतन्यस्य ऐक्यसम्पादनेन घटः प्रकाशितः भवति ।
३. पञ्चकोशाः -इत्यपि शास्त्रेषु उक्तं गुहानिमित्तम् । (साधनानिमित्तम्)
१. प्रतिबिम्बवादः - यथा एकस्य सूर्यस्य अनेकानि प्रतिबिम्बानि ह्रदेषु सरोवरेषु घटेषु इतिवत् ।
प्रश्नः - सूर्यस्तु एकत्र स्थितः भवति न तथा ब्रह्म एकत्रस्थितमिति तत्तु सर्वव्याप्तं खलु ! अतः सूर्यवत् प्रतिबिम्बनं कथं सम्भवति ? तदा उच्च्यते-
२. अवच्छेदवादः - यथा घटाकाशः महाकाशः इति । घटावच्छिन्नः आकाशः,मठावच्छिन्नः आकाशः महाकाशश्च ।
प्रश्नः - एकस्मिन् घटे ज्ञाने सञ्जाते सति सर्वत्र सर्वघटेषु ज्ञानं भवेत् खलु ?
उत्तरम् - न तथा यथा एकस्मिन् घटे अगरुवर्तिका प्रज्ज्वालिता चेत् सर्वेषु घटेषु तस्य सुगन्धः प्रसृतः न भवति खलु! तद्वत् । अतः एषा शङ्का वृथा एव इति । उपाध्यनुगुणमेव उच्चावच्चं तेषु इति ।
३. आभासवादः सर्वमपि आभासमात्रम् । यथा एकस्मिन् वस्त्रे चित्रिताः विविधाः आकृतयः। चित्रिते मनुष्ये चित्रिता: याः विविधाः वेशभूषाः तानि वस्त्राणि कुतः आनीतानि ? तत् वस्त्रं मूलभूतवस्त्रात् अभिन्नमेव खलु! तूलिकया वर्णेन च चित्रितं तत् सर्वमपि भिन्नवस्त्रत्वेन आभासमात्रमेव इति तद्वत् ।
छाया+आतपौ इव
१. छाया - जीवः। सगुणम् ।
   आतपः - चैतन्यम् । निर्गुणम् ।
२. छाया - ईश्वरः । सगुणम् ।
आतपः - चैतन्यम् । निर्गुणम् ।
बुभुक्षुः - अपरब्रह्मोपासना कर्मलोकं स्वर्गादिकं फलं प्राप्तुम् ।
मुमुक्षुः - परब्रह्मसाधनं ज्ञानप्राप्त्यर्थम् ।

यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।
अभयं तितीर्षतां पारं नाचिकेत˘ शकेमहि ॥१'३'२॥
अन्वयः
यः ईजानानां सेतुः (तं) नाचिकेतं (शकेमहि) यत् अभयं पारं तितीर्षतां परं (तत्) अक्षरं ब्रह्म (ज्ञातुं) शकेमहि ।
सान्वयं भाष्यम्
ईजानानां यजमानानां कर्मिणां दुःखसन्तरणार्थत्वात् यः नाचिकेतः अग्निः सेतुः सेतुः इव तं वयं ज्ञातुं चेतुं शकेमहि शक्नुवन्तः। किञ्च, यत् च अभयं भयशून्यं संसारस्य पारं तितीर्षतां तर्तुम् इच्छतां ब्रह्मविदां यत् परमाश्रयम् अक्षरम् आत्माख्यं ब्रह्म तत् च ज्ञातुं शकेमहि शक्नुवन्तः। कर्मब्रह्मविदाश्रये परापरे ब्रह्मणी वेदितव्ये इति वाक्यार्थः। एतयोः एव हि उपन्यासः “ऋतं पिबन्तौ” इति कृतः।
(कर्मविदाश्रयम् अपरं ब्रह्म, ब्रह्मविदाश्रयं परं ब्रह्म वेदितव्ये इति वाक्यार्थः)।
बुभुक्षोः - अपरब्रह्मोपासना कर्मलोकं स्वर्गादिकं फलं प्राप्तुम् ।
मुमुक्षोः - परब्रह्मोपासना ज्ञानप्राप्त्यर्थम् ।

सङ्गतिः
तत्र यः उपाधिकृतः संसारी मोक्षगमनाय संसारगमनाय च विद्याविद्ययोः अधिकृतः तस्य तदुभयगमने साधनः रथः कल्प्यते । तत्र तं -
आत्मान˘ रथिनं विद्धि शरीर˘ रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥१'३'३॥

अन्वयः
आत्मानं रथिनं विद्धि, शरीरम् तु रथम् एव विद्धि, बुद्धिं तु सारथिं विद्धि, मनः च प्रग्रहम् एव विद्धि ।
सान्वयं भाष्यम्
आत्मानम् ऋतपं संसारिणं रथिनं रथस्वामिनं विद्धि जानीहि, शरीरं तु रथबद्धहयस्थानीयैः इन्द्रियैः शरीस्य आकृष्यमाणत्वात् रथमेव विद्धि, बुद्धिं तु अध्यवसायलक्षणां शरीरस्य बुद्धिनेतृप्रधानत्वात् सारथिं विद्धि । सारथिनेतृप्रधानः इव रथः। सर्वं हि देहगतं कार्यं प्रायेण बुद्धिकर्तव्यम् एव । मनः सङ्कल्पविकल्पादिलक्षणं प्रग्रहं रशनां विद्धि । रशनया अश्वाः इव मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते ।

इन्द्रियाणि हयानाहुर्विषया˘ स्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥१'३'४॥
अन्वयः
मनीषिणः इन्द्रियाणि हयान् आहुः तेषु विषयान् गोचरान् (आहुः) आत्मेन्द्रियमनोयुक्तम् (आत्मानं) भोक्ता (च) इति आहुः।
सान्वयं भाष्यम्
रथकल्पनाकुशलाः (मनीषिणः) शरीररथाकर्षणसामान्यात् इन्द्रियाणि चक्षुरादीनि हयान् आहुः, तेषु हयत्वेन परिकल्पितेषु इन्द्रियेषु रूपादीन् विषयान् गोचरान् मार्गान् विद्धि । आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुक्तम् आत्मानं भोक्ता इति - संसारी इति मनीषिणः विवेकिनः आहुः। न हि केवलस्य आत्मनः भोक्तृत्वम् अस्ति, बुद्ध्याद्युपाधिकृतम् एव तस्य भोक्तृत्वम् (इति) । तथा च श्रुत्यन्तरम्-“ध्यायतीव लेलायतीव” (बृ.४-३-७) इत्यादि केवलस्य अभोक्तृत्वम् एव दर्शयति । एवं च सति वक्ष्यमाणरथकल्पनया वैष्णवस्य पदस्य आत्मतया पतिपत्तिः उपपद्यते न अन्यथा स्वभावानतिक्रमात् ।

तत्र एवं सति-
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः॥१'३'५॥
अन्वयः
यः तु (रथचर्यायाम्) अविज्ञानवान् सदा अयुक्तेन मनसा भवति तस्य इन्द्रियाणि सारथेः दुष्टाश्वाः इव अवश्यानि (भवन्ति)।
सान्वयं भाष्यम्
यस्तु बुद्ध्याख्यः सारथिः रथचर्यायाम् अविज्ञानवान् अनिपुणः अविवेकी यथा इतरः (सारथिः रथचर्यायां) प्रवृत्तौ च निवृत्तौ च भवति । अयुक्तेन अप्रगृहीतेन असमाहितेन प्रग्रहस्थानीयेन मनसा सदा युक्तः भवति तस्य अकुशलस्य बुद्धिसारथेः अश्वस्थानीयानि इन्द्रियाणि अवश्यानि अशक्यानि अनिवारणीयानि इतरसारथेः दुष्टाश्वाः अदन्ताश्वाः इव भवन्ति ।

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥१'३'६॥
अन्वयः
यः तु (रथचर्यायाम्) विज्ञानवान् सदा युक्तेन मनसा (युक्तः) भवति तस्य इन्द्रियाणि सारथेः सदश्वाः इव वश्यानि भवन्ति ।
सान्वयं भाष्यम्

यः तु पुनः पूर्वोक्तविपरीतः सारथिः विज्ञानवान् निपुणः विवेकवान् सदा युक्तेन मनसा प्रगृहीतमनाः समाहितचित्तः भवति तस्य अश्वस्थानीयानि इन्द्रियाणि प्रवर्तयितुं निवर्तयितुं वा शक्यानि वश्यानि इतरसारथेः दान्ताः सदश्वाः इव (भवन्ति)।
विशेषः
[ दीक्षा = दीयते इति दी, क्षीयते (क्षपणम्)इति क्षा ।
दीयते ज्ञानसद्भावः क्षीयते पशुभावना ।
दानक्षपणसंयोगात् दीक्षेति विनिगद्यते ॥
नृदेहमाद्यं सुलभं सुदुर्लभं गुरुकर्णधारम् ॥
जन्मान्तरकृतसंस्कारः “स्वभावः” इति ।
न विषं विषमित्याहुः विषयो विषमुच्यते ।
सकृद् विषं हन्ति विषयं तु पुनः पुनः॥ ]

सङ्गतिः-
तत्र पूर्वोक्तस्य अविज्ञानवतः बुद्धिसारथेः इदं फलम् आह-
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः।
न स तत्पदमाप्नोति स˘ सारं चाधिगच्छति ॥१'३'७॥
अन्वयः
यस्तु अविज्ञानवान् अमनस्कः सदा अशुचिः भवति सः तत् पदं न आप्नोति संसारं च अधिगच्छति ।
सान्वयं भाष्यम्
यस्तु अविज्ञानवान् अमनस्कः अप्रगृहीतमनस्कः(सारथिः) सः ततः एव सदैव अशुचिः भवति, तेन सारथिना सः रथी तत् पूर्वोक्तं अक्षरं यत् परं पदं(तत्) न प्राप्नोति । न केवलं कैवल्यं नाप्नोति (अपितु) जन्ममरणलक्षणं संसारं च अधिगच्छति ।
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥१'३'८॥
अन्वयः
यस्तु विज्ञानवान् समनस्कः सदा शुचिः भवति स तु तत्पदम् आप्नोति यस्माद् भूयः न जायते ।
विशेषः
 [असेवयाऽयं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन ।
योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे ॥
“अहन्यहनि वेदान्तश्रवणात् भक्तिसंयुतात् अविद्या विलयं याति परं ब्रह्म प्रकाशते ।”
सङ्गं त्यजेत् मिथुनव्रतिनां मुमुक्षुः सर्वात्मना न विसृजेत् बहिरेन्द्रियाणि ।
एकश्चरेत् रहसि चित्तमनन्त ईशे युञ्जीत तत् व्रतिषु साधुषु चेत् प्रसङ्गः॥
मिथुनम्=उभयम् (विषय-इन्द्रिययोः संयोगः)]
सान्वयं भाष्यम्
यः तु द्वितीयः विज्ञानवान् विज्ञानवत्सारथ्युपेतः रथी विद्वान् इत्येतत्, उक्तमनाः समनस्कः सः ततः एव सदा शुचिः सः तु तत्पदम् आप्नोति यस्मात् आप्तात् पदात् प्रच्युतः सन् भूयः पुनः संसारे न जायते ।

किं तत्पदम् इति आह-
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥१'३'९॥
अन्वयः
यः नरः तु विज्ञानसारथिः मनः प्रग्रहवान् सः अध्वनः पारं विष्णोः तत् परमं पदम् आप्नोति ।
सान्वयं भाष्यम्
यस्तु पूर्वोक्तः विज्ञानसरथिः यः विवेकबुद्धिसारथिः मनः प्रग्रहवान् प्रगृहीतमनाः समाहितचित्तः सन् शुचिः नरः विद्वान् सः अध्वनः संसारगतेः पारं परमेवाधिगन्तव्यम् इत्येतत् आप्नोति संसारबन्धनैः मुच्यते । तद्विष्णोः व्यापनशीलस्य ब्रह्मणः परमात्मनः वासुदेवाख्यस्य परमं प्रकृष्टं पदं स्थानं सतत्वम् इति यत् तत् असौ विद्वान् आप्नोति ।


विशेषः
नरः= कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥२॥ ईशावास्यम् ॥
२.नयति इति नरः। नामरूपादिकं सर्वमपि जगत् पृष्ठतः त्यक्त्वा अग्रे एव गच्छति । प्रत्यगात्माभिमुखिनं करोति इत्यर्थः।

  • प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः॥
  • अनध्वगः=गच्छति इति गः,अध्वं गच्छतीति अध्वगः, अन अध्वगः अनध्वगः।

“अनध्वगाः अध्वसु पारयिष्णवः”
· 5>8A&G5� = 58(M$? �8M.?(M 80M5>#? -B$>(? �$? 5>8A&G5�d

सङ्गतिः
अधुना यत् पदं गन्तव्यं तस्य स्थूलानि इन्द्रियाणि आरभ्य सूक्ष्मतारतम्यक्रमेण प्रत्यगात्मतया अधिगमः कर्तव्यः इत्येवमर्थम् इदम् आरभ्यते-
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः॥१'३'१०॥
अन्वयः
इन्द्रियेभ्यः परा हि अर्थाः अर्थेभ्यश्च परं मनः मनसस्तु परा बुद्धिः बुद्धेः आत्मा महान् परः।
सान्वयं भाष्यम्
इन्द्रियाणि तावत् स्थूलानि, यैः अर्थैः (शब्दस्पर्शादिविषयैः) आत्मप्रकाशनाय तानि (इन्द्रियाणि) आरब्धानि, ते हि अर्थाः स्वकार्येभ्यः तेभ्यः इन्द्रियेभ्यः पराः सूक्ष्माः महान्तश्च प्रत्यगात्मभूताश्च (सन्ति)। तेभ्यः अर्थेभ्यः चापि परं सूक्ष्मतरं महत्प्रत्यगात्मभूतं च मनः (अस्ति)। मनः शब्दवाच्यं संकल्पविकल्पाद्यारम्भकत्वात् मनसः आरम्भकं भूतसूक्ष्मम् (अस्ति)। मनसः अपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धिः (अस्ति),बुद्धिशब्दवाच्यम् अध्यवसायाद्यारम्भकं भूतसूक्ष्मम् (अस्ति)। बुद्धेः आत्मा सर्वप्राणिबुद्धीनां प्रत्यगात्मभूतत्वात् आत्मा महान् सर्वमहत्त्वात् अव्यक्तात् यत् प्रथमं जातं हैरण्यगर्भं तत्त्वं बोधबोधात्मकं महानात्मा बुद्धेः परः इति उच्यते ।

महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्नपरं किञ्चित्सा काष्ठा सा परा गतिः॥१'३'११॥
अन्वयः
महतः परम् अव्यक्तम्, अव्यक्तात् परः पुरुषः, पुरुषात् परं न किञ्चित् (अस्ति),सा काष्ठा सा परा गतिः (इति)।
सान्वयं भाष्यम्
महतः अपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं च अव्यक्तं सर्वस्य जगतः बीजभूतम् अव्याकृतनामरूपसतत्त्वं सर्वकार्यकारणशक्तिसमाहाररूपम् अव्याकृताकाशादिनामवाच्यं वटकणिकायां वटवृक्षशक्तिः इव ओतप्रोतभावेन परमात्मनि समाश्रितम् । तस्मात् अव्यक्तात् सर्वकारणत्वात् प्रत्यगात्मत्वात् च सूक्ष्मतरः महान् च अतः एव सर्वपूरणात् पुरुषः परः । ततः अन्यस्य परस्य प्रसङ्गं निवारयन् आह- पुरुषात् परं न किञ्चित् (अस्ति) इति । यस्मात् चिन्मात्रघनात् पुरुषात् परं किञ्चिदपि वस्त्वन्तरं नास्ति तस्मात् सूक्ष्मत्व-महत्व-प्रत्यगात्मत्वानां सा काष्ठा निष्ठा पर्यवसानम्। अत्र हि इन्द्रियेभ्यः आरभ्य सूक्ष्मत्वादि-परिसमाप्तिः । अतः एव च गन्तॄणां सर्वगतिमतां संसारिणां सा परा प्रकृष्टा गतिः। (यथा) “यद्गत्वा न निवर्तन्ते” (भ.गी. १५/६) इति स्मृतेः ॥

सङ्गतिः
ननु गतिश्चेत् आगत्या अपि भवितव्यं कथं “यस्मादभूयो न जायते” इति । न एष दोषः। सर्वस्य प्रत्यगात्मत्वात् अवगतिः एव गतिः इति उपचर्यते । प्रत्यगात्मत्वं च इन्द्रियमनोबुद्धिपरत्वेन दर्शितम् । यः हि गन्ता सः अगतम् अप्रत्यग्-रूपम् अनात्मभूतं न विपर्ययेण गच्छति । तथा च श्रुतिः-“अनध्वगा अध्वसु पारयिष्णवः” इत्याद्या । तथा च (अग्रिमा श्रुतिः अपि) सर्वस्य प्रत्यगात्मत्वं दर्शयति ।
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः॥१'३'१२॥
अन्वयः
सर्वेषु भूतेषु गूढः एषः आत्मा न प्रकाशते, सूक्ष्मदर्शिभिः तु अग्र्यया सूक्ष्मया बुद्ध्या दृश्यते ।
सान्वयं भाष्यम्
एषः पुरुषः सर्वेषु ब्रह्मादिस्तम्बपर्यन्तेषु भूतेषु गूढः संवृतः दर्शनश्रवणादिकर्मा अविद्यामाया-आच्छन्नः आत्मा, अतः एव न कस्यचित् आत्मत्वेन प्रकाशते । अहो ! इयं माया अतिगम्भीरा दुरवगाह्या विचित्रा च यत् अयं सर्वः जन्तुः परमार्थतः परमार्थसतत्वः “अहं परमात्मा” इति एवं बोध्यमानः अपि न गृह्णाति, अनात्मानं देहेन्द्रियादिसङ्घातं घटादिवद् आत्मनः दृश्यमानम् अपि “अहम् अमुष्य पुत्रः” इति अनुच्यमानः अपि आत्मत्वेन गृह्णाति । नूनं परस्य मायया एव मोमुह्यमानः सर्वः लोकः बंभ्रमीति । तथा च स्मरणम्-“नाहं प्रकाशः सर्वस्य योगमाया समावृतः”(भ.गी. ७/२५) इत्यादि ।
ननु विरुद्धम् इदम् उच्यते ‘मत्वा धीरो न शोचति’ ‘न प्रकाशते इति च’ । न एतद् एवम् । असंस्कृतबुद्धेः अविज्ञेयत्वात् न प्रकाशते इति उक्तम् । दृश्यते तु संस्कृतया अग्र्यया अग्रम् इव अग्र्या तया एकाग्रतया उपेतया इत्येतत् सूक्ष्मया सूक्ष्मवस्तुनिरूपणपरया । कैः? सूक्ष्मदर्शिभिः इन्द्रियेभ्यः परा ह्यर्था इत्यादिप्रकारेण सूक्ष्मतापारम्पर्यदर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्मदर्शिनः तैः सूक्ष्मदर्शिभिः पण्डितैः इत्येतत् (दृश्यते) ।

तत्प्रतिपत्युपायम् आह-
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥१'३'१३॥
अन्वयः
प्राज्ञः वाक् मनसी यच्छेत् , तत् ज्ञाने आत्मनि यच्छेत् , ज्ञानम् आत्मनि महति नियच्छेत् , तत् शान्ते आत्मनि यच्छेत् ।
सान्वयं भाष्यम्
प्राज्ञः विवेकी यच्छेत् नियच्छेत् उपसंहरेत्, किम्? वाग् वाचम्, अत्र वाक् सर्वेषाम् इन्द्रियाणाम् उपलक्षणार्था । क्व? (प्राज्ञः वाचं सर्वाणि इन्द्रियाणि कुत्र उपसंहरेत् ?) मनसी मनसि ईति च्छान्दसं दैर्घ्यम् । तच्च मनः ज्ञाने प्रकाशस्वरूपे बुद्धौ आत्मनि यच्छेत्, बुद्धिः हि तेषां प्रत्यक् आत्मा-मन आदिकरणानि आप्नोति इति आत्मा । ज्ञानं बुद्धिम् आत्मनि महति प्रथमजे नियच्छेत्, आत्मनः प्रथमजवत् स्वच्छस्वभावकम् विज्ञानम् आपादयेत् इत्यर्थः। तं च महान्तम् आत्मानं शान्ते सर्वविशेषप्रत्यस्तमितस्वरूपे अविक्रिये सर्वान्तरे सर्वबुद्धिप्रत्ययसाक्षिणि मुख्ये आत्मनि यच्छेत् ।

सङ्गतिः
एवं पुरुषे आत्मनि सर्वं प्रविलाप्य यत् मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं नामरूपकर्मत्रयं स्वात्मयाथात्म्यज्ञानेन एव मरीच्युदकरज्जुसर्पगगनमलानि मरीचिरज्जुगगनस्वरूपदर्शनेन इव प्रशान्तात्मा स्वस्थः कृतकृत्यः भवति यतः अतः तद्दर्शनार्थम्-
एवं मरीचिरज्जुगगनस्वरूपदर्शनेन एव मरीच्युदकरज्जुसर्पगगनमलानि इव मिथ्याज्ञानविजृम्भितं यत् क्रियाकारकफललक्षणं नामरूपकर्मत्रयं स्वात्मयाथात्म्यज्ञानेन पुरुषे आत्मनि सर्वं प्रविलाप्य प्रशान्तात्मा स्वस्थः कृतकृत्यः भवति यतः अतः तद्दर्शनार्थम्-

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया,
दुर्गं पथस्तत्कवयो वदन्ति ॥१'३'१४॥
अन्वयः
        उत्तिष्ठत जाग्रत वरान् प्राप्य निबोधत । क्षुरस्य धारा निशिता दुरत्यया, तत् दुर्गं पथः (इति) कवयः वदन्ति ।
सान्वयं भाष्यम्
अनाद्यविद्याप्रसुप्ताः हे जन्तवः! उत्तिष्ठत ! आत्मज्ञानाभिमुखाः भवत ! जाग्रत ! घोररूपायाः सर्वानर्थबीजभूतायाः अज्ञाननिद्रायाः क्षयं कुरुत । कथम् ? वरान् प्रकृष्टान् तद्विदः आचार्यान् प्राप्य उपगम्य तदुपदिष्टं सर्वान्तरम् आत्मानम् अहम् अस्मीति निबोधत अवगच्छत । ज्ञेयस्य अतिसूक्ष्मबुद्धिविषयत्वात् नहि उपेक्षितव्यम् इति श्रुतिः मातृवत् अनुकम्पया आह । किम् इति सूक्ष्मबुद्धिः इति उच्यते, क्षुरस्य निशिता तीक्ष्णीकृता धारा अग्रं दुरत्यया दुःखेन अत्ययः यस्याः सा दुरत्यया । यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दुःसंपाद्यम् इत्येतत् पथः पन्थानं तत्वज्ञानलक्षणं मार्गं कवयः मेधाविनः वदन्ति, ज्ञेयस्य अतिसूक्ष्मत्वात् तद्विषयस्य ज्ञानमार्गस्य दुःसंपाद्यत्वं वदन्ति इति अभिप्रायः।

सङ्गतिः
तत् ज्ञेयस्य अतिसूक्ष्मत्वं कथम् इति उच्यते । शब्दस्पर्शरूपरसगन्धोपचिता सर्वेन्द्रियविषयभूता इयं मेदिनी तावत् स्थूला, तथा शरीरम् (अपि स्थूलम् इति) । तत्र गन्धादीनाम् एकैकगुणापकर्षेण अबादिषु आकाशं यावत् सूक्ष्मत्व-महत्त्व-विशुद्धत्व-नित्यत्वादितारतम्यम् इति दृष्टम् । स्थूलत्वात् एव ते सर्वे शब्दान्ताः गन्धादयः विकाराः यत्र न सन्ति तस्य सूक्ष्मत्वादिनिरतिशयत्वं किमु वक्तव्यम् इति एतत् श्रुतिः दर्शयति-
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्प्रमुच्यते ॥१'३'१५॥
अन्वयः
यत् अशब्दम् अस्पर्शम् अरूपम् अरसम् अगन्धवत् तथा च नित्यम् अव्ययम् अनादिः अनन्तं महतः परं ध्रुवं तत् निचाय्य मृत्युमुखात् प्रमुच्यते ।


सान्वयं भाष्यम्
   यत् अशब्दम् अस्पर्शम् अरूपम् अरसम् अगन्धवत् तथा नित्यम् अव्ययं च । एतद् व्याख्यातं ब्रह्म अव्ययम् । यत् हि शब्दादिमत् तद् व्येति इदं तु अशब्दादिमत्त्वात् अव्ययं न व्येति न क्षीयते, अत एव च नित्यं यत् हि व्येति तद् अनित्यम् इदं तु न व्येति अतः नित्यम् । इतः च नित्यम् अनादि अविद्यमानः आदिः कारणम् अस्य तद् इदम् अनादि । यत् हि आदिमद् तत् कार्यत्वात् अनित्यं कारणे प्रलीयते यथा पृथिव्यादि । इदं तु सर्वकारणत्वात् अकार्यम् अकार्यत्वात् नित्यं, न तस्य कारणं अस्ति यस्मिन् प्रलीयते ।
तथा अनन्तम् अविद्यमानः अन्तः कार्यम् अस्य तत् अनन्तम् । यथा कदल्यादेः फलादिकार्योत्पादनेन अपि अनित्यत्वं दृष्टं न च तथा ब्रह्मणः अपि अन्तवत्वम्, अतः अपि नित्यम् । महतः मह्त्तत्वात् बुद्ध्याख्यात् परं विलक्षणं नित्यविज्ञप्तिस्वरूपत्वात् हि सर्वसाक्षि सर्वभूतात्मत्वाद् ब्रह्म । उक्तं हि ‘एषः सर्वेषु भूतेषु..’ इत्यादि । ध्रुवं च कूटस्थं नित्यं, न पृथिव्यादिवद् आपेक्षिकं नित्यत्वम् । एवं भूतं तद् ब्रह्मात्मानं निचाय्य अवगम्य तम् आत्मानं मृत्युमुखात् मृत्युगोचरात् अविद्याकामकर्मलक्षणात् प्रमुच्यते वियुज्यते ।

सङ्गतिः
प्रस्तुतविज्ञानस्तुत्यर्थं श्रुतिः आह-
नाचिकेतमुपाख्यानं मृत्युप्रोक्त˘ सनातनम् ।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥१'३'१६॥
अन्वयः
      नाचिकेतं मृत्युप्रोक्तं सनातनं (वल्लीत्रयात्मकम्) उपाख्यानम् उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ।
सान्वयं भाष्यम्
नाचिकेतं नचिकेतसा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं मृत्युप्रोक्तम् इदं वल्लीत्रयलक्षणं सनातनं वैदिकत्वात् चिरन्तनम् आख्यानम् उपाख्यानं ब्राह्मणेभ्यः उक्त्वा आचार्येभ्यः श्रुत्वा मेधावी ब्रह्म एव लोकः ब्रह्मलोकः तस्मिन् आत्मभूते (ब्रह्मलोके) महीयते उपास्यः भवति इत्यर्थः।

य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ॥
              तदानन्त्याय कल्पत इति ॥१'३'१७॥
अन्वयः
यः प्रयतः (सन्) इमं परमं गुह्यं ब्रह्मसंसदि श्राद्धकाले वा श्रावयेद्, तत् आनन्त्याय
कल्पते । तत् आनन्त्याय कल्पते ।
सान्वयं भाष्यम्
यः कश्चित् प्रयतः शुचिः भूत्वा परमं प्रकृष्टं गुह्यं गोप्यम् इमं ग्रन्थं ग्रन्थतः अर्थतश्च ब्राह्मणानां संसदि ब्रह्मसंसदि श्रावयेत् श्राद्धकाले वा भुञ्जानानां श्रावयेत् अस्य तत् श्राद्धम् आनन्त्याय अनन्तफलाय कल्पते संपद्यते ।
इति काठकोपनिषदि प्रथमाध्याये तृतीयवल्लीभाष्यं समाप्तम् ॥३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमदाचार्यश्रीशङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमोध्यायः समाप्तः ॥१॥

अथद्वितीयाध्याये प्रथमवल्ली
अध्यायसङ्गतिः
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते, दृश्यते त्वग्र्यया बुद्ध्या इति उक्तम् । कः पुनः अग्र्यायाः बुद्धेः प्रतिबन्धः येन तद् अभावात् आत्मा न दृश्यते इति तद्दर्शनकारणप्रदर्शनार्था वल्ली आरभ्यते । हि श्रेयःप्रतिबन्धकारणे विज्ञाते तद् अपनयनाय यत्नः आरब्धुं शक्यते, न अन्यथा इति-
पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥२'१'१॥
अन्वयः
स्वयंभूः खानि पराञ्चि व्यतृणत्, तस्मात् परान् पश्यति न अन्तरात्मन् । अमृतत्वम् इच्छन् आवृत्तचक्षुः कश्चित् धीरः प्रत्यगात्मानम् ऐक्षत् ।
सान्वयं भाष्यम्
पराक् अञ्चन्ति गच्छन्ति इति पराञ्चि खानि तदुपलक्षितानि श्रोत्रादीनि इन्द्रियाणि खानि इति उच्यन्ते । तानि पराञ्चि एव शब्दादिविषयप्रकाशनाय प्रवर्तन्ते । यस्माद् एवं स्वाभाविकानि तानि व्यतृणत् हिंसितवान् हननं कृतवान् इत्यर्थः। कः असौ ? स्वयंभूः परमेश्वरः स्वयम् एव सर्वदा स्वतन्त्रः भवति न परतन्त्रः इति । तस्मात् परान् पराग्रूपान् अनात्मभूतान् शब्दादीन् उपलब्धा पश्यति उपलभते, न अन्तरात्मन् न अन्तरात्मानम् इत्यर्थः। एवं लोकस्य स्वभावे सति अपि नद्याः प्रतिश्रोतःप्रवर्तनम् इव कश्चित् धीरः धीमान् विवेकी प्रत्यगात्मानं प्रत्यक् च असौ आत्मा च इति प्रत्यगात्मा । लोके आत्मशब्दः प्रतीचि एव रूढः न अन्यस्मिन् । व्युत्पत्तिपक्षे अपि तत्र एव आत्मशब्दः वर्तते ।
       यच्चाऽऽप्नोति यदादत्ते यच्चात्ति विषयानिह ।
       यच्चास्य संततो भावस्तस्मादात्मेति कीर्त्यते ॥ (*विष्णुपुराणे)
{ यत् च आप्नोति=आप् लृ व्यापतौ इति धात्वर्थानुसारेण व्यापकः आत्मशदार्थः।
यत् आदत्ते= यत् यस्मात् आदत्ते संहरति स्वात्मनि एव सर्वम् इति जगदुपादानं लभ्यते ।
यत् च अत्ति विषयान् इह=विषयान् अत्ति इति आत्मा इति व्युत्पत्त्या स्वचैतन्याभासेन उपलब्धृत्वम् आत्मशब्दार्थः।
यत् च अस्य संततो भावः तत् आत्मा इति कीर्त्यते= येन कारणेन अस्य आत्मनः संततः निरन्तरः भावः कल्पितस्य अधिष्ठानसत्ताम् अन्तरेण सत्ताभावात् यथा रज्ज्वाम् अध्यस्ते सर्पे रज्ज्वाः सातत्यं तथा कल्पितं सर्वं येन स्वस्वरूपवत् सः आत्मा इत्यर्थः }
इति आत्मशब्दव्युत्पत्तिस्मरणात् । तं प्रत्यगात्मानं स्वं स्वभावम् ऐक्षत् अपश्यत् पश्यति इत्यर्थः। छन्दसि काल-अनियमात् । कथं पश्यति इति उच्यते । आवृत्तचक्षुः श्रोत्रादिकम् इन्द्रियजातम् अशेषविषयात् आवृत्तं व्यावृत्तं चक्षुः यस्य सः आवृत्तचक्षुः। एवं संस्कृतः सः प्रत्यगात्मानम् पश्यति । एकस्य हि बाह्यविषयालोचनपरत्वं प्रत्यगात्मेक्षणं च न सम्भवति । किमर्थं पुनः धीरः इत्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा प्रत्यगात्मानं पश्यति इति उच्यते । अमृतत्वम् अमरणधर्मत्वम् आत्मनः नित्यस्वभावताम् इच्छन् इत्यर्थः।




सङ्गतिः
यत् तावत् स्वाभाविकं पराक् एव अनात्मदर्शनं तत् तत्प्रतिकूलत्वात् तत् आत्मदर्शनस्य प्रतिबन्धकारणम् अविद्या, या च अविद्योपदर्शितेषु दृष्टादृष्टेषु पराक्षु भोगेषु एव तृष्णा, ताभ्यां विद्यातृष्णाभ्यां प्रतिबद्धात्मदर्शनाः-
पराचः कामाननुयन्ति बालास्तेमृत्योर्यन्ति विततस्य पाशम् ।
अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थथयन्ते ॥२'१'२॥
अन्वयः
१. बालाः पराचः कामान् अनुयन्ति, ते मृत्योः विततस्य पाशं यन्ति । अथ धीराः अमृतत्वं ध्रुवं विदित्वा इह अध्रुवेषु न प्रार्थयन्ते ।
[मूढाः अज्ञानिनः काम्यान् बाह्यविषयान् अनुसरन्ति विवशाः सन्तः अनुगच्छन्ति, तादृशाः सर्वेऽपि मृत्योः वितते व्याप्ते पाशे बन्धने बद्धाः भवन्ति । परन्तु ये धीराः ते प्रत्यगात्मस्वरूपभूतं अमृतत्वं ध्रुवं नित्यस्वरूपं विदित्वा अध्रुवेषु अनित्येषु आनर्थक्येषु मह्त्वबुद्धयः न भवन्ति ।
२. बालाः पराचः कामान् अनुयन्ति, ते मृत्योः विततस्य पाशं यन्ति । अथ धीराः अमृतत्वं विदित्वा इह अध्रुवेषु ध्रुवं न प्रार्थयन्ते ।
[मूढाः अज्ञानिनः बाह्यविषयाणां पृष्ठतः पृष्ठतः गच्छन्ति एतादृशाः ते सर्वेऽपि मृत्योः सर्वतः व्याप्तस्य पाशबद्धाः भवन्ति परन्तु ये धीराः ते अमृतत्वं विदित्वा ज्ञात्वा इह लोके अध्रुवेषु अनित्येषु सर्वेषु पदार्थेषु ध्रुवं नित्यत्वं न प्रार्थयन्ते न पश्यन्ति इत्यर्थः।
सान्वयं भाष्यम्
बालाः अल्पप्रज्ञाः ते पराचः बहिर्गतान् एव कामान् काम्यान् विषयान् अनुयन्ति अनुगच्छन्ति, तेन कारणेन मृत्योः अविद्याकामकर्मसमुदायस्य विततस्य विस्तीर्णस्य सर्वतः व्याप्तस्य पाशं पाश्यन्ते बध्यन्ते येन तं देहेन्द्रियादिसंयोगवियोगलक्षणं पाशं यन्ति गच्छ्न्ति । अनवरतजन्ममरणजरारोगाद्यनेकार्थव्रातं प्रतिपद्यन्ते इत्यर्थः। यतः एवम् अथ तस्मात् धीराः विवेकिनः प्रत्यगात्मस्वरूपावस्थानलक्षणम् अमृतत्वं ध्रुवं विदित्वा- देवाद्यमृतत्वं हि अध्रुवम् इदं तु प्रत्यगात्मस्वरूपावस्थानलक्षणं “न कर्मणा वर्धते नो कनीयान्” (बृ.४.४.२३) इति ध्रुवम् । तद् एवंभूतम् कूटस्थम् अविचाल्यम् अमृतत्वं विदित्वा निर्धार्य इह संसारे अनर्थप्राये अध्रुवेषु अनित्येषु सर्वपदार्थेषु प्रत्यगात्मदर्शनप्रतिकूलत्वात् ब्राह्मणाः न किञ्चिदपि प्रार्थयन्ते । पुत्रवित्तलोकैषणाभ्यः व्युत्तिष्ठन्ति एव इत्यर्थः।

सङ्गतिः
यत् विज्ञानात् ब्राह्मणाः न किञ्चित् अन्यद् प्रार्थयन्ते तत् कथम् अधिगमः इति उच्यते-
येन रूपं रसं गन्धं शब्दान्स्पर्शा˘श्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते ॥ एतद्वै तत् ॥२'१'३॥
अन्वयः
येन रूपं रसं गन्धं शब्दान् स्पर्शान् मैथुनान् च विजानाति । एतेन एव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ।
 
सान्वयं भाष्यम्
येन विज्ञानस्वभावेन आत्मना सर्वः लोकः रूपं रसं गन्धं शब्दान् स्पर्शान् मैथुनान् मिथुननिमित्तान् सुखप्रत्ययान् च विजानाति विस्पष्टं जानाति ।
        ननु न एवं लोकस्य प्रसिद्धिः, देहादिविलक्षणेन आत्मना अहं विजानामि इति । सर्वः लोकः तु देहादिसङ्घातः अहं विजानामि इति अवगच्छति ।
        न तु एवम् । शब्दादिस्वरूपत्वाविशेषात् विज्ञेयत्वाविशेषात् च देहादिसङ्घातस्य अपि विज्ञातृत्वं न युक्तम् । यदि हि देहादिसङ्घातः रूपाद्यात्मकः सन् रूपादीन् विजानीयात् (तर्हि) बाह्याः रूपादयः अपि अन्योन्यं स्वं स्वं रूपं च विजानीयुः। न च एतद् अस्ति । तस्माद् च देहादिलक्षणान् रूपादीन् एतेन एव देहादिव्यतिरिक्तेन एव विज्ञानस्वभावेन आत्मना लोकः विजानाति । यथा येन लोहः दहति सः अग्निः इति तद्वत् ।
    आत्मनः अविज्ञेयं किमत्र अस्मिन् लोके परिशिष्यते, न किञ्चित् परिशिष्यते । सर्वम् एव तु आत्मना विज्ञेयम् । यस्य आत्मनः अविज्ञेयं न किञ्चित् परिशिष्यते सः आत्मा सर्वज्ञः। एतद्वै तत् । किं तत् यत् नचिकेतसा पृष्टं देवादिभिरपि विचिकित्सितं धर्मादिभ्यः अन्यद् विष्णोः परमं पदं यस्मात्परं नास्ति तद्वा एतद् अधिगतम् इत्यर्थः।

सङ्गतिः
अतिसूक्ष्मत्वात् दुर्विज्ञेयम् इति मत्वा एतम् एव अर्थं पुनः पुनः आह-

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मात्मानं मत्वा धीरो न शोचति ॥२'१'४॥
अन्वयः
स्वप्नान्तं जागरितान्तं उभौ च येन (आत्मना) अनुपश्यति (तं) महान्तं विभुम् आत्मानं मत्वा धीरः न शोचति ।
सान्वयं भाष्यम्
स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयम् इत्यर्थः। तथा जागरितान्तं जागरितमध्यं जागरितविज्ञेयं च । उभौ स्वप्नजागरितान्तौ लोकः येन आत्मना अनुपश्यति (इति सर्वं पूर्ववत्) तं महान्तं विभुम् आत्मानं मत्वा साक्षात् परमात्मा अहम् अस्मि इति आत्मभावेन अवगम्य धीरः न शोचति ।

किञ्च-
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥२'१'५॥
अन्वयः
यः इमं मध्वदं जीवम् आत्मानम् अन्तिकात् भूतभव्यस्य ईशानं वेद ततः न विजुगुप्सते । एतद्वै तत् ।
यः कश्चिद् इमं मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्य धारयितारम् आत्मानम् अन्तिकात् अन्तिके समीपे भूतभव्यस्य कालत्रयस्य ईशानम् ईशितारं वेद विजानाति ततः तद्विज्ञानात् ऊर्ध्वम् आत्मानं न विजुगुप्सते न गोपायितुम् इच्छति अभयप्राप्तत्वात् । यावत् हि भयमध्यस्थः आत्मानम् अनित्यं मन्यते तावद् आत्मानं गोपायितुम् इच्छति । यदा तु नित्यम् अद्वैतम् आत्मानं विजानाति तदा किं कः कुतः वा गोपायितुम् इच्छेत् । एतद्वै तदिति
पूर्ववत् ।
सङ्गतिः
यः प्रत्यगात्मेश्वरभावेन निर्दिष्टः सः सर्वात्मा इत्येतत् दर्शयति-
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत् ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत् ॥२'१'६॥
अन्वयः
यः अद्भ्यः पूर्वम् अजायत तपसः पूर्वं जातं भूतेभिः (सह) गुहां प्रविश्य तिष्ठन्तं यः व्यपश्यत । सः व्यपश्यत । एतद्वै
तत् ।
सान्वयं भाष्यम्
यः कश्चित् मुमुक्षुः तपसः ज्ञानादिलक्षणाद् ब्रह्मणः इत्येतत् पूर्वं प्रथमं हिरण्यगर्भम् जातम् उत्पन्नम् । किम् अपेक्ष्य पूर्वम् इति आह-अद्भ्यः पूर्वं अप्सहितेभ्यः पञ्चभूतेभ्यः न केवलाभ्यः अद्भ्यः इत्यभिप्रायः। अजायत उत्पन्नः, यः तं प्रथमजं देवादिशरीराणि उत्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीन् उपलभमानं भूतेभिः कार्यकारणलक्षणैः भूतैः सह तिष्ठन्तं यः व्यपश्यत यः पश्यति इत्येतत् । यः एवं पश्यति सः एतदेव पश्यति यत् तत् प्रकृतं ब्रह्म ।
किञ्च-
या प्राणेन संभवत्यदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥२'१'७॥
अन्वयः
या देवतामयी अदितिः प्राणेन संभवति । या भूतेभिः व्यजायत । गुहां प्रविश्य तिष्ठन्तीं (ताम् एव व्यपश्यत)। एतद्वै तत् ।
सान्वयं भाष्यम्
या सर्वदेवतामयी सर्वदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण परस्माद् ब्रह्मणः सम्भवति शब्दादीनाम् अदनात् अदितिः तां ‘पूर्ववत्’ (देवादिशरीराणि उत्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य) तिष्ठन्तीं ताम् अदितिम् एव विशिनष्टि-या भूतेभिः भूतैः समन्विता व्यजायत,उत्पन्ना इत्येतत् ।

किञ्च-
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥२'१'८॥
अन्वयः
गर्भिणीभिः सुभृतः गर्भ इव अरण्योः निहितः जातवेदा अग्निः जागृवद्भिः हविष्मद्भिः मनुष्येभिः दिवे दिवे ईड्यः । एतद् वै तत् ।
सान्वयं भाष्यम्
यः अधियज्ञः उत्तराधरारण्योः निहितः स्थितः जातवेदा अग्निः पुनः सर्वहविषां भोक्ता अध्यात्मं च योगिभिः गर्भ इव (सुभृतः), लोके यथा गर्भिणीभिः अन्तर्वत्नीभिः अगर्हितान्नपानभोजादिना गर्भः सुभृतः सुष्ठु सम्यग्भृतः इति इत्थम् एव ऋत्विग्भिः योगिभिश्च सुभृतः इत्येतत् ।
किञ्च कर्मिभिः योगिभिश्च अध्वरे हृदये च जागृवद्भिः जागरणशीलवद्भिः अप्रमत्तैः इत्येतत् हविष्मद्भिः आज्यादिमद्भिः ध्यानभावनावद्भिश्च मनुष्येभिः मनुष्यैः (एषः) अग्निः दिवे दिवे अहनि अहनि ईड्यः स्तुत्यः वन्द्यश्च । एतद्वै तत्तदेव प्रकृतं ब्रह्म ।


किञ्च-
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।
तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥२'१'९॥
अन्वयः
यतश्च सूर्यः उदेति, यत्र च अस्तं गच्छति । तं देवाः सर्वे अर्पिताः, तद् उ कश्चन न अत्येति । एतद्वै तत् ।
सान्वयं भाष्यम्
यतश्च् यस्मात् प्राणात् सूर्यः उदेति उत्तिष्ठति यत्र यस्मिन् एव च प्राणे अहन्यहनि अस्तं निम्लोचनं गच्छति तं प्राणम् आत्मानं देवाः अग्न्यादयः अधिदैवं वागादयश्च आध्यात्मं सर्वे रथनाभौ अराः इव विश्वे स्थितिकाले अर्पिताः संप्रवेशिताः। सः अपि ब्रह्म एव । तत् एतत् सर्वात्मकं ब्रह्म । तदु तदात्मकतां तदन्यत्वं कश्चन कश्चिदपि न अत्येति अतीत्य न गच्छति । एतद्वै तत् ।

सङ्गतिः
यद् ब्रह्मादिस्थावरान्तेषु वर्तमानं तत् तदुपाधिकत्वात् अब्रह्मवत् अवभासमानं (चैतन्यं जीवः सः) संसारी परस्माद् ब्रह्मणः अन्यत् इति कस्यचित् आशङ्का मा भूत् इति इदम् आह-

यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥२'१'१०॥
अन्वयः
यद् इह एव तद् अमुत्र, यद् अमुत्र तद् अनु इह । यः इह नाना इव पश्यति सः मृत्योः मृत्युम् आप्नोति ।
सान्वयं भाष्यम्
यद् एव इह अविवेकिनां कार्यकरणोपाधिसमन्वितं संसारधर्मवद् अवभासमानं तद् एव स्वात्मस्थम् अमुत्र नित्यविज्ञानघनस्वभावं सर्वसंसारधर्मवर्जितं ब्रह्म, यत् च अमुत्र अमुष्मिन् आत्मनि स्थितं तद् एव इह नामरूपकार्यकरणोपाधिम् अनु विभाव्यमानं न अन्यत् । तत्र एवं सति उपाधिस्वभावभेददृष्टिलक्षणया अविद्यया मोहितः सन् यः इह अनानाभूते ब्रह्मणि ‘परस्मात् अन्यः अहं, मत्तः अन्यत् परं ब्रह्म इति’ नाना एव भिन्नम् इव पश्यति उपलभते सः मृत्योः मरणात् मृत्युं मरणं पुनः पुनः जन्ममरणभावम् आप्नोति प्रतिपद्यते । तस्मात् तथा न पश्येत् । विज्ञानैकरसं नैरन्तर्येण आकाशवत् परिपूर्णं ब्रह्म एव अहम् अस्मि इति पश्येत् इति वाक्यार्थः।
जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा ।
अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥

सङ्गतिः
     एकत्वविज्ञानात् प्राक् आचार्यागमसंस्कृतेन-
मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥२'१'११॥
अन्वयः
मनसा एव इदम् आप्तव्यम् इह किञ्चन नाना नास्ति । यः इह नाना इव पश्यति सः मृत्योः मृत्युं गच्छति ।
सान्वयं भाष्यम्
एकत्वविज्ञानात् प्राक् आचार्यागमसंस्कृतेन मनसा इदं ब्रह्मैकरसम् आत्मा एव आप्तव्यं न अन्यद् अस्ति इति । आप्ते च नानात्वप्रत्युपस्थापिकायाः अविद्यायाः निवृतत्वात् इह ब्रह्मणि किञ्चन अणुमात्रम् अपि नाना नास्ति । यस्तु पुनः अविद्यातिमिरदृष्टिं न मुञ्चति, इह ब्रह्मणि नाना इव पश्यति स्वल्पमपि भेदम् अध्यारोपयन् सः मृत्योः मृत्युं गच्छति एव इत्यर्थः।
सङ्गतिः
     पुनरपि तदेव प्रकृतं ब्रह्म आह-
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥२'१'१२॥
अन्वयः
अङ्गुष्ठमात्रः पुरुषः आत्मनि मध्ये तिष्ठति । भूतभव्यस्य ईशानं (विदित्वा) ततः न विजुगुप्सते । एतद्वै तत् ।
सान्वयं भाष्यम्
अङ्गुष्ठमात्रः अङ्गुष्ठपरिमाणः, अङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छिद्रवर्ती अन्तःकरणोपाधिः अङ्गुष्ठमात्रः, अम्बरवत् अङ्गुष्ठमात्रवंशपर्वमध्यवर्ती । पुरुषः पूर्णमनेन सर्वम् इति । यः आत्मनि मध्ये शरीरे तिष्ठति तं भूतभव्यस्य ईशानम् आत्मानं विदित्वा ततः न विजुगुप्सते न गोपायितुम् इच्छति अभयप्राप्तत्वात् । यावत् हि भयमध्यस्थः आत्मानम् अनित्यं मन्यते तावद् आत्मानं गोपायितुम् इच्छति । यदा तु नित्यम् अद्वैतम् आत्मानं विजानाति तदा किं कः कुतः वा गोपायितुम् इच्छेत् । एतद्वै तत् ।
किञ्च-
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वै तत् ॥२'१'१३॥
अन्वयः
अङ्गुष्ठमात्रः पुरुषः ज्योतिः इव अधूमकः (अस्ति) । भूतभव्यस्य ईशानः सः एव अद्य सः उ श्वः (वर्तिष्यते)। एतद्वै तत् ॥
सान्वयं भाष्यम्
अङ्गुष्ठमात्रः पुरुषः ज्योतिः इव अधूमकः, ज्योतिष्परत्वात् अधूमकम् इति युक्तम् । यः तु एवं योगिभिः हृदये लक्षितः भूतभव्यस्य ईशानः सः एव नित्यः कूटस्थः अद्य इदानीं प्राणिषु वर्तमानः सः उ श्वः अपि वर्तिष्यते, तत्समः न अन्यः (अस्ति) अन्यश्च न जनिष्यते इत्यर्थः। अनेन ‘नायमस्तीति चैके’ इति न्यायतः अप्राप्तः अपि अयं पक्षः तथा क्षणभङ्गवादश्च श्रुत्या स्ववचनेन प्रत्युक्तः ।
सङ्गतिः
पुनरपि ब्रह्मणः भेददर्शनापवादम् आह-
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥२'१'१४॥
यथा दुर्गे वृष्टम् उदकं पर्वतेषु विधावति एवं धर्मान् पृथक् पश्यन् तान् एव अनुधावति ।
सान्वयं भाष्यम्
यथा दुर्गे दुर्गमे देशे उच्छ्रिते वृष्टं सिक्तम् उदकं पर्वतेषु पर्ववत्सु निम्नप्रदेशेषु विधावति विकीर्णं सत् विनश्यति एवं धर्मान् आत्मनः भिन्नान् पृथक् पश्यन् पृथगेव प्रतिशरीरं पश्यन् तान् एव शरीरभेदानुवर्तिनः अनुविधावति । पुनः पुनः पृथक् शरीरभेदम् एव प्रतिपद्यते इत्यर्थः।
सङ्गतिः
यस्य पुनः विध्वस्तोपाधिकृतभेददर्शनस्य विद्यावतः विशुद्धविज्ञानघनैकरसम् अद्वयम् आत्मानं पश्यतः विजानतः मुनेः मननशीलस्य आत्मस्वरूपं कथं भवति-
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥२'१'१५॥
अन्वयः
यथा शुद्धे आसिक्तम् उदकं तादृग् एव शुद्धं भवति, एवं हे गौतम ! विजानतः मुनेः आत्मा भवति ।
यथा शुद्धे प्रसन्ने आसिक्तं प्रक्षिप्तम् उदकं तादृगेव शुद्धं प्रसन्नम् एकरसमेव भवति नान्यथा, एवमेव हे गौतम ! विजानतः मुनेः मननशीलस्य आत्मा अपि एकत्वं भवति ।
तस्मात् शान्तदर्पैः कुतार्किकभेददृष्टिं नास्तिककुदृष्टिं च उज्झित्वा मातृपितृसहस्रेभ्यः अपि हितैषिणा वेदेन उपदिष्टम् आत्मैकत्वदर्शनं आदरणीयम् इत्यर्थः।
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवद्पूज्यपादशिष्यश्रीमदाचार्यश्रीशङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये द्वितीयाध्याये प्रथमवल्लीभाष्यं समाप्तम् ॥१॥
इति श्रीमत्परमहंसपरिव्राजकाचायश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्याये प्रथमा वल्ली समाप्ता ॥१॥

अथद्वितीया वल्ली
सङ्गतिः
पुनरपि ब्रह्मणः दुर्विज्ञेयत्वात् प्रकारान्तरेण ब्रह्मतत्वनिर्धारणार्थः अयम् आरम्भः-
पुरमेकादशद्वारमजस्यावक्रचेतसः ।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥२'२'१॥
अन्वयः
अवक्रचेतसः अजस्य एकादशद्वारं पुरम् अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ।
सान्वयं भाष्यम्
पुरं पुरम् इव पुरम् । द्वारपालाधिष्ठात्रादि-अनेकपुरोपकरणसंपत्तिदर्शनात् शरीरं पुरम् । पुरं च सोपकरणं स्वात्मना असंहतस्वतन्त्रस्वाम्यर्थं दृष्टम् । तथा पुरसामान्यात् अनेकोपकरणसंहतम् इदं शरीरं स्वात्मना असंहतराजस्थानीयस्वाम्यर्थं भवितुम् अर्हति । तत् च इदं शरीराख्यम् एकादशद्वारं पुरम् अस्य एकादशद्वाराणि - शीषर्ण्यानि सप्त नाभ्या सह अर्वाञ्चि त्रीणि शिरसि एकं तैः एकादशद्वारं पुरम् । कस्य? अजस्य जन्मादिविक्रियारहितस्य राजस्थानीयस्य पुरधर्मविलक्षणस्य आत्मनः। अवक्रचेतसः अवक्रम् अकुटिलम् आदित्यप्रकाशवत् नित्यमेव अवस्थितम् एकरूपं चेतः विज्ञानम् अस्य इति अवक्रचेताः तस्य अवक्रचेतसः राजस्थानीयस्य ब्रह्मणः। यस्य इदं पुरं तं परमेश्वरं पुरस्वामिनम् अनुष्ठाय ध्यात्वा- सम्यग्विज्ञानपूर्वकं ध्यानं हि तस्य अनुष्ठानम् । सर्वैषणाविनिर्मुक्तः सन् तं समं सर्वभूतस्थं ध्यात्वा न शोचति । तद्विज्ञानात् अभयप्राप्तेः शोकावसराभावात् कुतः भयेक्षा । इह एव अविद्याकृतकामकर्मबन्धनैः विमुक्तः भवति । विमुक्तः सन् च विमुच्यते पुनः शरीरं न गृह्णाति इत्यर्थः।
सङ्गतिः
किं तर्हि एकशरीरपुरवर्ती एव आत्मा ? न, सः तु सर्वपुरवर्ती । कथम्-
ह˘ सः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥२'२'२॥
अन्वयः
शुचिषद् हंसः अन्तरिक्षसद् वसुः वेदिषद् होता दुरोणसत् अतिथिः नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।
 सान्वयं भाष्यम्
हंसः हन्ति गच्छति इति हंसः, शुचिषत् शुचौ दिव्यादित्यात्मना सीदति इति शुचिषत्, वसुः वासयति सर्वान् इति वसुः, वाय्वात्मना अन्तरिक्षे सीदति इति अन्तरिक्षसत् । होता अग्निः “अग्निर्वै होते”ति श्रुतेः । वेद्यां पृथिव्यां सीदति इति वेदिसत्, “इयं वेदिः परोऽन्तः पृथिव्याः” (ऋ.वेद) इत्यादिमन्त्रवर्णात् । अतिथिः सोमः सन् दुरोणे कलशे सीदति इति दुरोणसत् । अतिथिरूपेण वा ब्राह्मणः दुरोणेषु गृहेषु सीदति इति । नृषत् नृषु मनुष्येषु सीदति इति नृषत् । वरसद् वरेषु देवेषु सीदति इति । ऋतसद् ऋतं सत्यं यज्ञः वा तस्मिन् सीदति इति । व्योमसद् व्योम्नि आकाशे सीदति इति व्योमसत् । अब्जा अप्सु शङ्खशुक्तिमकरादिरूपेण जायते इति । गोजा गवि पृथिव्यां व्रीहियवादिरूपेण जायते इति । ऋतजा यज्ञाङ्गरूपेणजायते इति । अद्रिजाः पर्वतेभ्यः नद्यादिरूपेण जायते इति । सर्वात्मा अपि सन् ऋतम् अवितथस्वभावः एव । बृहत् सर्वकारणत्वात् महान् । यदापि आदित्यः एव मन्त्रेण उच्यते तदापि अस्य आदित्यस्य आत्मस्वरूपत्वम् अङ्गीकृतत्वात् ब्राह्मणव्याख्याने अपि अविरोधः। जगतः एक एव सर्वव्यापी आत्मा न आत्मभेदः इति मन्त्रार्थः।
सङ्गतिः
आत्मनः स्वरूपाधिगमे लिङ्गम् उच्यते-
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥२'२'३॥
अन्वयः
यः प्राणम् ऊर्ध्वम् उन्नयति अपानं प्रत्यग् अस्यति, तं मध्ये आसीनं वामनं विश्वे देवाः उपासते ।
सान्वयं भाष्यम्
यः हृदयात् ऊर्ध्वं प्राणं प्राणवृत्तिं वायुम् उन्नयति ऊर्ध्वं गमयति । तथा अपानं प्रत्यक् अधः अस्यति क्षिपति यः इति वाक्यशेषः। तं मध्ये हृदयपुण्डरीकाकाशे आसीनं बुद्धौ अभिव्यक्तविज्ञानप्रकाशं वामनं संभजनीयं विश्वे सर्वे देवाः चक्षुरादयः प्राणाः रूपादिविज्ञानं बलिम् उपहरन्तः विशः इव राजानम् उपासते । तादर्थ्येन अनुपरतव्यापाराः भवन्ति इत्यर्थः। यत्प्रयुक्ताः वायुकरणव्यापाराश्च सर्वे यदर्थाः सः अन्यः सिद्धः इति वाक्यार्थः।
किञ्च-
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥२'२'४॥
-अन्वयः
अस्य शरीरस्थस्य विस्रंसमानस्य देहात् विमुच्यमानस्य देहिनः अत्र किं परिशिष्यते, अर्थात् किमपि न परिशिष्यते । एतद्वै तत् ।


सान्वयं भाष्यम्
अस्य शरीरस्थस्य आत्मनः विस्रंसमानस्य अवस्रंसमानस्य भ्रंशमानस्य देहिनः देहवतः। विस्रंसनशब्दार्थम् आह- देहात् विमुच्यमानस्य इति । किमत्र परिशिष्यते, अत्र देहे प्राणादिकलापे न किञ्चन परिशिष्यते । पुरस्वामिनः विद्रवणे पुरवासिनाम् इव (सर्वं हतबलं विध्वस्तं विनष्टं भवति) यस्य आत्मनः अपगमे क्षणमात्रात् कार्यकरणकलापरूपम् इदं सर्वं हतबलं विध्वस्तं भवति विनष्टं भवति (तस्मात्) सः अन्यः सिद्धः इति ।
 सङ्गतिः
मर्त्यः प्राणादिभिः एव हि जीवति, प्राणापानाद्यपगमाद् एव इदं विध्वस्तं भवति न तु तद्व्यतिरिक्तात् आत्मापगमात्, इति मतं स्यात् । एतद् नास्ति
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥२'२'५॥
अन्वयः
न प्राणेन न अपानेन मर्त्यः कश्चन जीवति । यस्मिन् एतौ उपाश्रितौ (तेन) इतरेण तु जीवन्ति ।
सान्वयं भाष्यम्
मर्त्यः मनुष्यः देहवान् कश्चन न प्राणेन न अपानेन चक्षुरादिना वा जीवति । न कोऽपि जीवति । एषां हि परार्थानां संहत्यकारित्वात् जीवनहेतुत्वं न उपपद्यते । स्वार्थेन असंहतेन केनचित् परेण अप्रयुक्तं संहतानां गृहादीनाम् अवस्थानं लोके न दृष्टम्, तथा प्राणादीनाम् अपि संहतत्वात् भवितुम् अर्हति ।
      अतः इतरेण संहतप्राणादिविलक्षणेन एव तु सर्वे संहताः सन्तः जीवन्ति प्राणान् धारयन्ति । यस्मिन् संहतविलक्षणे परस्मिन् आत्मनि सति एतौ प्राणापानौ चक्षुरादिभिः संहतौ उपाश्रितौ, यस्य असंहतस्यार्थे प्राणापानादिः संहतः सन् स्वव्यापारं कुर्वन् वर्तते, ततः सः अन्यः सिद्धः इत्यभिप्रायः।

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्मसनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥२'२'६॥
अन्वयः
हन्त ! हे गौतम ! ते इदं गुह्यं सनातनं ब्रह्म प्रवक्ष्यामि, मरणं प्राप्य आत्मा यथा भवति (तत्) च (प्रवक्ष्यामि) ।
सान्वयं भाष्यम्
हन्त ! हे गौतम ! इदानीं पुनरपि ते तुभ्यम् इदं गुह्यं गोप्यं ब्रह्मसनातनं चिरन्तनं प्रवक्ष्यामि यत् विज्ञानात् सर्वसंसारोपरमः भवति, अविज्ञानात् च यस्य मरणं प्राप्य यथा आत्मा भवति यथा संसरति तथा शृणु ।

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥२'२'७॥

अन्वयः
यथाकर्म यथाश्रुतम् अन्ये देहिनः शरीरत्वाय योनिं प्रपद्यन्ते, अन्ये स्थाणुं अनुसंयन्ति ।
सान्वयं भाष्यम्
अन्ये अविद्यावन्तः केचित् मूढाः शुक्रबीजसमन्विताः सन्तः देहिनः देहवन्तः शरीरत्वाय शरीरग्रहणार्थं योनिं योनिद्वारं प्रपद्यन्ते, योनिं प्रविशन्ति इत्यर्थः। अन्ये अत्यन्ताधमाः मरणं प्राप्य स्थाणुं वृक्षादिस्थावरभावम् अनुसंयन्ति अनुगच्छन्ति । यथाकर्म यत् यस्य कर्म तत् यथा कर्म इह जन्मनि यैः यादृशं कर्म कृतं तद् वशेन इत्येतत् । तथा च यथाश्रुतं यादृशं च विज्ञानम् उपार्जितं तदनुरूपमेव शरीरं प्रतिपद्यन्ते इत्यर्थः। “यथाप्रज्ञं हि संभवाः” (ऐ.आरण्यकं २-३-२) इति श्रुत्यन्तरम् ।

सङ्गतिः
      यत् प्रतिज्ञातं गुह्यं ब्रह्म वक्ष्यामि इति तद् आह-
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥२'२'८॥

अन्वयः
यः एषः पुरुषः सुप्तेषु कामं कामं निर्मिमाणः जागर्ति तदेव शुक्रं तद्ब्रह्म तदेव अमृतम् उच्यते । सर्वे लोकाः तस्मिन् श्रिताः तदु कश्चन् न अत्येति । एतद्वै तत् ।
सान्वयं भाष्यम्
यः एषः सुप्तेषु प्राणादिषु जागर्ति न स्वपिति । कथम्? कामं कामं तं तम् अभिप्रेतं स्त्र्याद्यर्थं अविद्यया निर्मिमाणः निष्पादयन् यः पुरुषः जागर्ति तदेव शुक्रं शुभ्रं शुद्धं तद्ब्रह्म न अन्यद् गुह्यं ब्रह्म अस्ति । तदेव सर्वशास्त्रेषु अमृतम् अविनाशी उच्यते । किञ्च पृथिव्यादयः सर्वे लोकाः तस्य सर्वलोककारणत्वात् तस्मिन् एव ब्रह्मणि आश्रिताः।
तदु न अत्येति कश्चन इत्यादि पूर्ववत् एव ।
       (तदु तदात्मकतां तदन्यत्वं कश्चन कश्चिदपि न अत्येति अतीत्य न गच्छति । एतद्वै तत् ।)

सङगतिः
प्रमाणोपपन्नमपि आत्मैकत्वविज्ञानम् असकृत उच्यमानम् अपि अनेकतार्किककुबुद्धिविचालितान्तःकरणानां अनृजुबुद्धीनां ब्राह्मणानां चेतसि न आधीयते इति (हेतोः) तत्प्रतिपादने आदरवती श्रुतिः पुनः पुनः आह-

टीका
अनेकतार्किकेत्यादिना- जन्ममरणकरणानां प्रतिप्राणि नियमात्, अयुगपत्प्रवृत्तेः, त्रैगुण्यविपर्ययात् च पुरुषबहुत्वं सिद्धं, नानात्मानः व्यवस्थिताः इति अनेकतार्किकबुद्धिविरोधात् सर्वपुरवर्ती एक एव आत्मा इत्यत्र न चित्तस्थैर्यं संभवति इति आशङ्क्य औपाधिकभेदसाधने सिद्धसाधनं स्वाभाविकभेदसाधने च अनैकान्तिकत्वं दर्शयितुं प्रक्रमते इति ।
१. जन्ममरणकरणानां प्रतिप्राणि नियमात्
आत्मनः एकत्वे सति एकस्मिन् जाते मृते वा सर्वे एव जाताः मृताः वा स्युः। एकस्मिन् सचक्षुसि सर्वे एव सचक्षुषः स्युः, एकेन दृष्टे सर्वे द्रष्टारः स्युः न च तथा तस्माद् बहवः पुरुषाः इति भावः।
२. अयुगपत्प्रवृत्तेः
किञ्च एकस्य धर्मे, अन्यस्य ज्ञाने, अपरस्य वैराग्ये, इतरस्य ऐश्वर्ये, परस्य कामादौ इति एवं प्रवृत्तिभेदात् अपि आत्मनानात्वम् अन्यथा हि सर्वेषाम् एकस्मिन् एव अर्थे युगपत्प्रवृत्तिः स्यात् इति ।
३. त्रैगुण्यविपर्ययात्
त्रयः गुणाः त्रैगुण्यं तस्य विपर्ययः परिणामभेदः सत्वरजस्तमात्मकाः सुखदुःखमोहाः क्वचित् सुखमेव, क्वचिद्दुःखमेव, क्वचिन्मोह एव इति एवंविधः तस्मात् ।
यद्वा-त्रैगुण्येन विपर्ययो भेदः सात्विकराजसतामसानां पुरुषाणां तस्मात् । एकत्वे हि सर्वे सुखिनः दुःखिनः वा स्युः। एवं त्रैगुण्यभेदेन नीच-उत्तम-मध्यमव्यवस्था अपि न स्यात् । न च अन्तःकरणभेदात् तथा इति वाच्यम् अन्तःकरणभेदे पुरुषभेदस्यैव बीजत्वाद् अन्यथा तद् भेदस्य अप्रमाणकत्वादिति सांख्यवचनार्थः ।
वेदान्तिनः प्रश्नः- आत्मभेदः औपाधिकः वा स्वाभाविकः ? । औपाधिकः चेत् सिद्धसाधनम् । स्वाभाविकश्चेत् अनैकान्तिकत्वम् इति ।
नैयायिकानामनुसारेण -
प्रतिज्ञा- आत्मानः भिन्नाः।
साध्यम्- भिन्नत्वम् ।
पक्षः- आत्मा ।
हेतुः- भिन्नत्वेन प्रतीयमानत्वात् । यथा घटपटादयः।
(साङ्ख्यानां कारिकया- जन्ममरणकरणानां प्रतिप्राणि नियमात् । अयुगपत्प्रवृत्तेः । त्रैगुण्यविपर्ययात्)
  अग्रिमेन “अग्निर्यथैको भुवनं प्रविष्टम्” इत्यनेन मन्त्रेण अनैकान्तिकत्वं दशर्यति । यथा अग्निः रूपं रूपं प्रतिरूपः बभूव इत्यत्र नैयायिकानुसारं स्वाभाविकमिति स्वीकरणेन अनैकान्तिकः हेत्वाभासः तिष्ठति । तथैव वायोरपि, द्वयोः अपि प्रतीयमानः भेदः स्वाभविकः नास्ति तथापि तत्र हेतुः तिष्ठति इति ।

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥२'२'९॥
अन्वयम्
यथा भुवनं प्रविष्टः एकः अग्निः रूपं रूपं प्रतिरूपः बभूव तथा एकः सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपः बभूव बहिश्च ।
सान्वयं भाष्यम्
यथा एकः एव अग्निः प्रकाशात्मा सन् भुवनं भवन्ति अस्मिन् भूतानि इति भुवनम् अयं लोकः तम् इमं प्रविष्टः
अनुप्रविष्टः । रूपं रूपं प्रति दार्वादिदाह्यभेदं प्रति इत्यर्थः । प्रतिरूपः तत्र तत्र दाह्यभेदेन बहुविधः प्रतिरूपवान् बभूव । तथा एकः एव सर्वभूतान्तरात्मा सर्वेषां भूतानाम् आभ्यन्तरः आत्मा अतिसूक्ष्मत्वात् दार्वादिषु इव सर्वदेहं प्रति प्रविष्टत्वात् प्रतिरूपः बभूव, बहिश्च स्वेन अविकृतेन स्वरूपेण आकाशवत् (बभूव इति)।
तथा अन्यः दृष्टान्तः-
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥२'२'१०॥
अन्वयः
यथा भुवनं प्रविष्टः एकः वायुः रूपं रूपं प्रतिरूपः बभूव तथा एकः सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपः बभूव बहिश्च ।
सान्वयं भाष्यम्
यथा एकः वायुः इत्यादि । प्राणात्मना देहेषु अनुप्रविष्टः रूपं रूपं प्रतिरूपः बभूव इति समानम् ।

सङ्गतिः
एकस्य सर्वात्मत्वे संसारदुःखित्वम् इति तत् परस्य एव प्राप्तम् अतः इदम् उच्यते-
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥२'२'११॥

अन्वयः
सर्वलोकस्य चक्षुः सूर्यः यथा चाक्षुषैः बाह्यदोषैः न लिप्यते तथा एकः सर्वभूतान्तरात्मा बाह्यः लोकदुःखेन न लिप्यते ।
सान्वयं भाष्यम्
चषुषः आलोकेन मूत्रपुरीषाद्यशुचिप्रकाशनेन उपकारं कुर्वन् तद्दर्शिनः सर्वलोकस्य चक्षुः अपि सन् सूर्यः यथा चाक्षुषैः अशुच्यादिदर्शननिमित्तैः आध्यात्मिकैः पापदोषैः बाह्यैः अशुच्यादिसंसर्गदोषैः च न लिप्यते तथा एकः सन् सर्वभूतान्तरात्मा बाह्यः लोकदुःखेन न लिप्यते । लोकः हि स्वात्मनि अध्यस्तया अविद्यया कामकर्मोद्भवं दुःखम् अनुभवति । न तु सा स्वात्मनि परमार्थतः (भवति)। यथा रज्जुशुक्तिकोखरगगनेषु सर्परजतोदकमलानि रज्ज्वादीनां स्वतः दोषरूपाणि न सन्ति । (अपितु) संसर्गिणि विपरीतबुद्ध्यध्यासनिमित्तात् तत् दोषवत् विभाव्यन्ते । तद्दोषैः न तेषां लेपः, ते हि विपरीतबुद्ध्यध्यासबाह्याः। तथा सर्वः लोकः सर्पादिस्थानीयं क्रियाकारकफलात्मकं विज्ञानम् आत्मनि विपरीतम् अध्यस्य तन्निमित्तं जन्ममरणादिदुःखम् अनुभवति । सर्वलोकात्मा सन् अपि आत्मा तु विपरीताध्यारोपनिमित्तेन लोकदुःखेन न लिप्यते । कुतः? बाह्यः, स: हि रज्ज्वादिवत् विपरीतबुद्ध्यध्यासबाह्यः एव इति ।
टीका- एकस्य सर्वात्मत्वे-
परमात्मा दुःखी स्यात् दुःखाभिन्नत्वात्, यथा लोकवत् ।
अविद्यायां प्रतिबिम्बितः चिद्धातुः (प्रतिबिम्बितचैतन्यं) अज्ञः भ्रान्तः भवति । भ्रान्तश्च कामादिदोषप्रयुक्तः कर्म कुरुते तन्निमित्तं च दुःखं स्वात्मनि अध्यस्यति । परमात्मा तु निरविद्यत्वात् (अविद्या रहितत्वात्) दुःखसाधनशून्यत्वात् न दुःखी, ततः न प्रयोजकः हेतुः इति ।
लोकः हि अविद्यया-
रज्ज्वादीनां स्वरूपेण भ्रम-अविषयत्वं विपरीतबुद्ध्यध्यासबाह्यत्वं यथा तथा चैतन्यस्य उपाधिस्वरूपेण अध्यासाश्रयत्वे अपि निरुपाधिकबिम्बकल्पब्रह्मरूपेण अध्यास-अनाश्रयत्वात् न दुःखित्वप्राप्तिः इत्यर्थः ।

किञ्च-
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥२'२'१२॥

अन्वयः-
एकः वशी सर्वभूतान्तरात्मा यः एकं रूपं बहुधा करोति, तम् आत्मस्थं ये धीराः अनुपश्यन्ति तेषां शाश्वतं सुखं भवति, न इतरेषाम् ।
सान्वयं भाष्यम्
सः हि परमेश्वरः सर्वगतः स्वतन्त्रः एकः न तत्समः अभ्यधिकः अन्यः वा अस्ति । वशी सर्वं हि जगत् अस्य वशे वर्तते । कुतः ? सर्वभूतान्तरात्मा । यतः यः अचिन्त्यशक्तित्वात् स्वात्मसत्तमात्रेण एकमेव सदा एकरसं विशुद्धविज्ञानरूपम् आत्मानं नामरूपाद्यशुद्धोपाधिभेदवशेन बहुधा अनेकप्रकारं करोति । तम् आत्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याकारेण अभिव्यक्तम् इत्येतत् । आकाशवत् अमूर्तत्वात् आत्मनः न हि शरीरस्य आधारत्वं, यद्वत् आदर्शस्थं मुखम् इति । तम् एतम् ईश्वरम् आत्मानं ये निवृत्तबाह्यवृत्तयः धीराः विवेकिनः अनुपश्यन्ति आचार्यागमोपदेशमनु साक्षात् अनुभवन्ति तेषां परमेश्वरभूतानां शाश्वतं नित्यम् आनन्दलक्षणं सुखं भवति, इतरेषां बाह्यासक्तबुद्धीनाम् अविवेकिनां स्वात्मभूतम् अपि अविद्याव्यवधानात् न (भवति इति) ।

किञ्च-
नित्योऽनित्यानां चेतश्चेतनानामेको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥२'२'१३॥
अन्वयः
यः अनित्यानां नित्यः, चेतनानां चेतनः, एकः बहूनां कामान् विदधाति । तम् आत्मस्थं ये धीराः अनुपश्यन्ति तेषां शान्तिः शाश्वती, न इतरेषाम् ।
सान्वयं भाष्यम्
(यः) अनित्यानां विनाशिनां नित्यः अविनाशी, चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनां चेतनः, अनग्नीनाम् उदकादीनां दाहकत्वम् अग्निनिमित्तम् इव अन्येषां चेतयितॄत्वम् आत्मचैतन्यनिमित्तम् एव । किञ्च सः सर्वज्ञः सर्वेश्वरः यः एकः बहूनाम् अनेकेषां कामिनां संसारिणां कर्मानुरूपं कामान् कर्मफलानि, स्वानुग्रहनिमित्तान् च कामान् (भोगान्) अनायासेन विदधाति प्रयच्छति इत्येतत् । तम् आत्मस्थं ये धीराः अनुपश्यन्ति तेषां शाश्वती नित्या स्वात्मभूता शान्तिः उपरतिः एव स्यात् न इतरेषाम् अनेवंविधानाम् ।

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥२'२'१४॥
अन्वयः
१. तत् अनिर्देश्यं (विद्वान्सः) एतत् इति परमं सुखं मन्यन्ते । तत् कथं नु विजानीयाम्? किमु भाति विभाति वा ?
२. तदेतत् (आत्मविज्ञानं विद्वान्सः) अनिर्देश्यं परमं सुखम् इति मन्यन्ते । तत् कथं नु विजानीयाम्? किमु भाति विभाति वा ?
सान्वयं भाष्यम्
यत् तदात्मविज्ञानं सुखम् अनिर्देश्यं निर्देष्टुम् अशक्यं परमं प्रकृष्टं प्राकृतपुरुषवाङ्मनसयोः अगोचरम् अपि सत् ये निवृत्तैषणाः ब्राह्मणाः ते तदेतत् प्रत्यक्षम् एव इति मन्यन्ते, कथं नु केन प्रकारेण तत् सुखम् अहं विजानीयाम् । यथा निवृत्तैषणाः यतयः इति इदम् आत्मबुद्धिविषयम् आपदयेयम् । किमु तद्भाति दीप्यते, यतः तत् प्रकाशात्मकम् अतः अस्मद्बुद्धिगोचरत्वेन विभाति विस्पष्टं किं दृश्यते न वा इति ।

सङ्गतिः
अत्र इदम् उत्तरं भाति च विभाति च इति । कथम् ?-
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥२'२'१५॥
अन्वयः
तत्र न सूर्यः भाति न चन्द्रतारकं, न इमाः विद्युतः भान्ति कुतः अयम् अग्निः ? तमेव भान्तं सर्वम् अनुभाति, इदं सर्वं तस्य भासा विभाति ।
सान्वयं भाष्यम्
तत्र तस्मिन् स्वात्मभूते ब्रह्मणि सर्वावभासकः अपि सूर्यः न भाति तद्ब्रह्म न प्रकाशयति इत्यर्थः। तथा न चन्द्रतारकं न इमाः विद्युतः भान्ति कुतः अयम् अस्मद्गोचरः अग्निः (प्रकाशेत्)। किं बहुना यदिदम् आदित्यादिकं सर्वं भाति तत् तमेव परमेश्वरं भान्तं दीप्यमानम् अनुभाति अनुदीप्यते । यथा जलोल्मुकादिः अग्निसंयोगात् दहन्तम् अग्निम् अनुदहति न स्वतः तद्वत् । तस्य एव भासा दीप्त्या सर्वम् इदं सूर्यादिः विभाति । यतः एवम् (अतः) तदेव ब्रह्म भाति च विभाति च । तस्य ब्रह्मणः भारूपत्वं कार्यगतेन विवेधेन भासा स्वतः अवगम्यते । स्वतः अविद्यमानं भासनम् अन्यस्य न हि कर्तुं शक्यम् । घटादीनाम् अन्यावभासकत्वादर्शनात् भासनरूपाणाम् आदित्यादीनां च तत् दर्शनात् । (अन्यावभासकत्वदर्शनात् च इत्यर्थः)।

 इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवद्पूज्यपादशिष्यश्रीमदाचार्यश्रीशङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये द्वितीयाध्याये द्वितीयवल्लीभाष्यं समाप्तम् ॥१॥
इति श्रीमत्परमहंसपरिव्राजकाचायश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्याये द्वितीयवल्ली समाप्ता ॥१॥


अथ तृतीया वल्ली
सङ्गतिः
यथा लोके वृक्षस्य तूलावधारणेन एव मूलावधारणं क्रियते एवं संसारकार्यवृक्षावधारणेन तन्मूलस्य ब्रह्मणः स्वरूपावदिधारयिषया इयं षष्ठी वल्ली आरभ्यते-
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥२'३'१॥


अन्वयः
ऊर्ध्वमूलः अवाक्शाखः अश्वत्थः एषः सनातनः। तदेव शुक्रं तद्ब्रह्म तदेव अमृतम् उच्यते । सर्वे लोकाः तस्मिन् श्रिताः, न कश्चन तद् उ अत्येति । एतद्वै तत् ।
सान्वयं भाष्यम्
ऊर्ध्वमूलः ऊर्ध्वं मूलम् अस्य सः इति ऊर्ध्वमूलः यत् विष्णोः परमं पदं तत्, अव्यक्तादिस्थावरान्तः अयं संसारवृक्षः ऊर्ध्वमूलः । व्रश्चनात् च वृक्षः । जन्मजरामरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणम् अन्यथा स्वभावः मायामरीच्युदकगन्धर्वनगरादिवत् दृष्टनष्टस्वरूपत्वात् अवसाने च वृक्षवत् अभावात्मकः कदलीस्तम्भवत् निःसारः अनेकशतपाखण्डबुद्धिविकल्पास्पदः तत्वविजिज्ञासुभिः अनिर्धारितेदंतत्वः वेदान्तनिर्धारितपरब्रह्ममूलसारः अविद्याकामकर्माव्यक्तबीजप्रभवः अपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्धः तत्तृष्णाजलासेकोद्भूतदर्पः बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदेशपलाशः यज्ञदानतपाद्यनेकक्रियासुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजीव्यानन्तफलः तत्तत्तृष्णासलिलावसेकप्ररूढजडीकृतदृढबद्धमूलः सत्यनामादिसप्तलोकब्रह्मादिभूतपक्षिकृतनीडः प्राणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्रक्ष्वेलितास्फोटितहसिताकृष्टरुदितहाहामुञ्चमुञ्चेत्याद्यनेकशब्दकृत-तुमुलीभूतमहारवः वेदान्तविहितब्रह्मात्मदर्शनासङ्गशस्त्रकृतोच्छेदः एषः संसारवृक्षः अश्वत्थः अश्वत्थवत् कामकर्मवातेरितनित्यप्रचलितस्वभावः । स्वर्गनरकतिर्यक्प्रेतादिभिः शाखाभिः अवाक्शाखः। सनातनः अनादित्वात् चिरं प्रवृत्तः। अस्य संसारवृक्षस्य यत् मूलं तदेव शुक्रं शुभ्रं शुद्धं ज्योतिष्मत् चैतन्यात्मज्योतिःस्वभावं तदेव सर्वमहत्त्वात् ब्रह्म । सत्यत्वात् तदेव अमृतम् अविनाशस्वभावम् उच्यते कथ्यते । वाचारम्भणं विकारो नामधेयम् अनृतम् अतः अन्यत् मर्त्यम् । तस्मिन् परमार्थसत्ये ब्रह्मणि सर्वे समस्ताः लोकाः गन्धर्वनगरमरीच्युदकमायासमाः परमार्थदर्शनाभावावगमनाः उत्पत्ति-स्थितिलयेषु श्रिताः आश्रिताः। तदु तद्ब्रह्म कश्चन कश्चिद् अपि विकारः मृदादिम् घटादिकार्यम् इव न अत्येति नातिवर्तते । एतद्वै तत् तत् ।
अव्यक्तादिस्थावरान्तः=अव्यक्तः आदौ स्थावरश्च अन्ते अस्य इति,
संसारवृक्षः=संसारस्य वृक्षः/संसारः एव वृक्षः इति,
ऊर्ध्वमूलः=ऊर्ध्वं मूलं यस्य सः,
जन्मजरामरणशोकाद्यनेकानर्थात्मकः=जन्म च जरा च मरणं च शोकादयश्च,अनेकाः अनर्थाः यस्मिन् सः। प्रतिक्षणम्=क्षणं क्षणं प्रतिक्षणम्,
मायामरीच्युदकगन्धर्वनगरादिवत्=माया च मरीच्युदकं च गंधर्वनगरादिश्च तानि मायामरीच्युदकगन्धर्वनगरादीनि तद्वत्,
अथवा मायावत् मरीच्युदकवत् गन्धर्वनगरादिवत् च इति मायामरीच्युदकगन्धर्वनगरादिवत ।
दृष्टनष्टस्वरूपत्वात्=दृष्टं च नष्टं च दृष्टनष्टे तदेव स्वरूपं दृष्टनष्टस्वरूपं तस्यभावः तस्मात् ।
कदलीस्तम्भवत्=कदल्याः स्तम्भः, कदलीस्तंभः तद्वत् ।
अनेकशतपाखण्डबुद्धिविकल्पास्पदः=अनेकशतं पाखण्डाः अनेकशतपाखण्डाः तेषां बुद्धेः विकल्पः अनेकशतपाखण्डबुद्धिविकल्पः तस्य आस्पदः अनेकशतपाखण्डबुद्धिविकल्पास्पदः।
 तत्वविजिज्ञासुभिः= तत्वस्य विजिज्ञासा तत्वविजिज्ञासा तैः।
 अनिर्धारितेदंतत्वः=न निर्धारितम् इति अनिर्धारितम् इदंतया तत्वं येन सः अनिर्धारितेदंतत्वः।
 वेदान्तनिर्धारितपरब्रह्ममूलसारः= वेदान्तैः निर्धारितं वेदान्तनिर्धारितं, परब्रह्मणः मूलं परब्रह्ममूलं, वेदान्तनिर्धारितं परब्रह्ममूलं वेदान्तनिर्धारितपरब्रह्ममूलं तस्य सारः वेदान्तनिर्धारितपरब्रह्ममूलसारः।
 अविद्याकामकर्माव्यक्तबीजप्रभवः= अविद्याकामकर्माणि अव्यक्तानि यस्मिन् बीजे
 अपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्धः तत्तृष्णाजलासेकोद्भूतदर्पः बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदेशपलाशः यज्ञदानतपाद्यनेकक्रियासुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजीव्यानन्तफलः तत्तत्तृष्णावसेकप्ररूढजडीकृतदृढबद्धमूलः सत्यनामादिसप्तलोकब्रह्मादिभूतपक्षिकृतनीडः प्राणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्रक्ष्वेलितास्फोटितहसिताकृष्टरुदितहाहामुञ्चमुञ्चेत्याद्यनेकशब्दकृत-तुमुलीभूतमहारवः वेदान्तविहितब्रह्मात्मदर्शनासङ्गशस्त्रकृतोच्छेदः एषः संसारवृक्षः अश्वत्थः अश्वत्थवत् कामकर्मवातेरितनित्यप्रचलितस्वभावः ।
       
सङ्गतिः
यद् विज्ञानात् अमृताः भवन्ति इति उच्यते तत् जगतः मूलं ब्रह्म नास्ति एव, (इदं जगत्) असतः एव निःसृतम् इति ; तन्न -
यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥२'३'२॥
अन्वयः
यत् किञ्च इदं जगत् सर्वं प्राणे निःसृतम् एजति । ये एतद् महद्भयं वज्रमुद्यतं विदुः ते अमृताः भवन्ति ।
सान्वयं भाष्यम्
यदिदं किञ्च यत् किञ्च इदं जगत्सर्वं प्राणे परस्मिन्ब्रह्मणि सति एजति कम्पते, ततः एव निःसृतं निर्गतं सत् प्रचलति नियमेन चेष्टते । यत् एवं जगदुत्पत्त्यादिकारणं ब्रह्म तत् महद्भयम् । महत् च तद् भयं च बिभेति अस्मात् इति महद्भयम् । वज्रमुद्यतम् उद्यतमिव वज्रम् । यथा वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्याः नियमेन तच्छासने वर्तन्ते तथा चन्द्रादित्यग्रहनक्षत्रतारकादिलक्षणम् इदं जगत् सेश्वरं क्षणम् अपि अविश्रान्तं नियमेन वर्तते इति उक्तं भवति । ये एतत् स्वात्मप्रवृत्तिसाक्षिभूतम् एकं ब्रह्म विदुः ते अमृताः अमरणधर्माणः भवन्ति ॥२॥
         कथम् तत् भयात् जगत् वर्तते इति आह-
भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः॥२'३'३॥
अन्वयः
अस्य भयात् अग्निः तपति, भयात् सूर्यः तपति, इन्द्रश्च वायुश्च पञ्चमः मृत्युः (अपि) भयात् धावति ।
सान्वयं भाष्यम्
अस्य परमेश्वरस्य भयात् भीत्या अग्निः तपति, भयात् सूर्यः तपति, भयात् इन्द्रश्च वायुश्च पञ्चमः मृत्युः धावति । समर्थानां लोकपालानाम् ईश्वराणां सतां हि वज्रोद्यतकरवत् नियन्ता न स्यात् चेत् स्वामिभयभीतानां भृत्यानाम् इव नियता प्रवृत्तिः न उपपद्यते ॥३॥
तच्च-
इह चेदशकद्बोद्धुं प्राक्शरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु शरीत्वाय कल्पते ॥२'३'४॥
अन्वयः
इह शरीरस्य विस्रसः प्राक् बोद्धुम् अशकत् चेत् (सः मुक्तः भवति । यदि न जानाति) ततः सर्गेषु लोकेषु शरीत्वाय कल्पते ।


सान्वयं भाष्यम्
इह जीवन् एव शरीरस्य विस्रसः अवस्रंसनात् पतनात् प्राक् पूर्वम् एतद् भयकारणं ब्रह्म बोद्धुम् अवगन्तुम् अशकत् शक्नोति शक्तः सञ्जानाति चेत् यदि (सः) संसारबन्धनात् विमुच्यते, बोद्धुं न अशकत् चेत् ततः अनवबोधात् सर्गेषु सृज्यन्ते येषु स्रष्टव्याः प्राणिनः इति सर्गाः पृथिव्यादयः लोकाः तेषु सर्गेषु लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थः भवति शरीरं गृह्णाति इत्यर्थः। तस्मात् शरीरविस्रंसनात् प्राक् आत्मबोधाय यत्नः आस्थेयः ॥४॥

सङ्गतिः
यस्मात् इह एव आदर्शस्थस्य मुखस्य इव आत्मनः दर्शनं स्पष्टम् उपपद्यते न लोकान्तरेषु ब्रह्मलोकात् अन्यत्र । सः दुष्प्रापः। कथम् इति उच्यते-
यथाऽऽदर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके ।
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥२'३'५॥
अन्वयः
यथा आदर्शे तथा आत्मनि, यथा स्वप्ने तथा पितृलोके,यथा अप्सु तथा गन्धर्वलोके परिददृशे इव, छायातपयोः इव ब्रह्मलोके परिददृशे ।
सान्वयं भाष्यम्
लोकः यथा आदर्शे प्रतिबिम्बभूतम् आत्मानम् अत्यन्तविविक्तम् पश्यति तथा इह आदर्शवत् आत्मनि निर्मलीभूतायाम् स्वबुद्धौ आत्मनः दर्शनं विविक्तम् भवति इत्यर्थः। यथा स्वप्ने जाग्रद्वासनोद्भूतम् अविविक्तं तथा पितृलोके कर्मफलोपभोगासक्तत्वात् अविविक्तम् एव आत्मनः दर्शनम् । यथा च अप्सु अविभक्तावयवम् आत्मरूपं परीव ददृशे परिदृश्यते इव तथा गन्धर्वलोके अविविक्तम् एव आत्मनः दर्शनम् । एवं च शास्त्रप्रामाण्यात् लोकान्तरेषु अपि अवगम्यते । एकस्मिन् ब्रह्मलोके एव छायातपयोः इव अत्यन्तविविक्त म् आत्मनः दर्शनम् । स च अत्यन्तविशिष्टकर्मज्ञानसाध्यत्वात् दुष्प्रापः। तस्मात् इह एव आत्मदर्शनाय यत्नः कर्तव्यः इत्यभिप्रायः ॥५॥
सङ्गतिः
असौ कथं बोद्धव्यः तदवबोधे किं वा प्रयोजनम् इति उच्यते-
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
पृथगुत्पद्यमानां मत्वा धीरो न शोचति ॥२'३'६॥
अन्वयः
 पृथगुत्पद्यमानानाम् इन्द्रियाणां यत् पृथग्भावम् उदयास्तमयौ च मत्वा धीरः न शोचति ।
 सान्वयं भाष्यम्
स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्यः आकाशादिभ्यः पृथगुत्पद्यमानानाम् इन्द्रियाणां श्रोत्रादीनाम् अत्यन्तविशुद्धात् केवलात् चिन्मात्रात्मस्वरूपात् पृथग्भावं स्वभावविलक्षणात्मकतां तथा तेषाम् एव इन्द्रियाणां जाग्रत्स्वापावस्थापेक्षया उदयास्तमयौ उत्पत्तिप्रलयौ च, न आत्मनः इति मत्वा ज्ञात्वा विवेकतः धीरः धीमान् न शोचति ।आत्मनः नित्यैकस्वभावस्य अव्यभिचारात् शोककारणत्वानुपपत्तेः । तथा च श्रुत्यन्तरं “तरति शोकमात्मवित्” (छां. ७-३-१) इति। ॥६॥
सङ्गतिः
यस्मात् आत्मनः इन्द्रियाणां पृथग्भावः उक्तः, असौ न बहिः अधिगन्तव्यः,यस्मात् सः सर्वस्य प्रत्यगात्मा । तत् कथम् इति उच्यते-
.
इन्द्रियेभ्यः परं मनो मनसः सत्वमुत्तमम् ।
सत्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥२'३'७॥
अन्वयः
   इन्द्रियेभ्यः परं मनः, मनसः सत्वम् उत्तमम् सत्वादधि महानात्मा महतः अव्यक्तम् उत्तमम् ।
सान्वयं भाष्यम्
इन्द्रियेभ्यः परं मनः इत्यादि । इह इन्द्रियसमानजातीयत्वात् इन्द्रियग्रहणेन एव अर्थानां ग्रहणम् । अन्यत् पूर्ववत् । सत्वशब्दात् इह बुद्धिः उच्यते ॥७॥
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥२'३'८॥
अन्वयः
अव्यक्तात् तु पुरुषः परः व्यापकः अलिङ्गः एव च, यं ज्ञात्वा जन्तुः मुच्यते अमृतत्वं च गच्छति ।
अव्यक्तात् तु परः पुरुषः व्यापकः, व्यापकस्य सर्वस्य अपि आकाशादेः कारणत्वात् (व्यापकः इति) । अलिङ्गः लिङ्ग्यते गम्यते येन तत् बुद्ध्यादि लिङ्गं तत् अविद्यमानम् अस्य इति सः अयम् अलिङ्गः एव । सर्वसंसारधर्मवर्जितः इत्येतत् । यम् आचार्यतः शास्त्रतः च ज्ञात्वा जन्तुः जीवन् एव अविद्यादिहृदयग्रन्थिभिः मुच्यते शरीरे पतिते अपि अमृतत्वं च गच्छति । सः अव्यक्तात् परः पुरुषः अलिङ्गः इति पूर्वेण एव सम्बन्धः ॥८॥

तर्हि अलिङ्गस्य दर्शनं कथम् उपपद्यते इति उच्यते-
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥२'३'९॥
अन्वयः
अस्य रूपं संदृशे न तिष्ठति, न कश्चन एनं चक्षुषा पश्यति । हृदा मनीषा मनसः अभिक्लृप्तः आत्मा ज्ञातुं शक्यते । (इत्थं) ये एतद् विदुः ते अमृताः भवन्ति ।
सान्वयं भाष्यम्
न संदृशे अस्य प्रत्यगात्मनः रूपं सन्दर्शनविषये न तिष्ठति । अतः कश्चन कश्चिदपि एनं प्रकृतम् अत्मानं चक्षुषा सर्वेन्द्रियेण, ग्रहणस्य उपलक्षणार्थत्वात् चक्षुः, न पश्यति न उपलभते । कथं तर्हि तं पश्येत् इति उच्यते । हृदा हृत्स्थया बुद्ध्या, मनीषा मनसः सङ्कल्पादिरूपस्य इष्टे नियन्तृत्वेन इति मनीट् तया हृदा मनीषा अविकल्पयित्र्या । मनसा मननरूपेण सम्यग्दर्शनेन । अभिक्लृप्तः अभिसमर्थितः अभिप्रकाशितः इत्येतत् । आत्मा ज्ञातुं शक्यते इति वाक्यशेषः। तम् आत्मानम् एतद् ब्रह्म ये विदुः ते अमृताः भवन्ति ॥९॥

सङ्गतिः
सा हृन्मनीट् कथं प्राप्यते इति तदर्थः योगः उच्यते-
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥२'३'१०॥

अन्वयः
यदा पञ्चज्ञानानि मनसा सह अवतिष्ठन्ते बुद्धिश्च न विचेष्टति (तदा) तां परमां गतिम् आहुः ।
सान्वयं भाष्यम्
यदा यस्मिन् काले स्वविषयेभ्यः आत्मनि एव निवर्तितानि पञ्चज्ञानानि ज्ञानार्थत्वात् श्रोत्रादीनि इन्द्रियाणि ज्ञानानि उच्यन्ते मनसा सह अवतिष्ठन्ते यद् अनुगतानि तेन सङ्कल्पादिव्यावृत्तेन अन्तःकरणेन अवतिष्ठन्ते । बुद्धिश्च अध्यवसायलक्षणा बुद्धिः न विचेष्टति स्वव्यापारेषु न विचेष्टते न व्याप्रियते तां परमां गतिम् आहुः॥१०॥

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥२'३'११॥
अन्वयः
योगिनः तां स्थिराम् इन्द्रियधारणां योगम् इति मन्यन्ते, तदा साधकः अप्रमत्तः भवति । योगः हि प्रभवाप्ययौ ।
सान्वयं भाष्यम्
ताम् ईदृशीम् अवस्थां वियोगं सन्तम् एव योगम् इति मन्यन्ते । योगिनः हि सर्वानर्थसंयोगवियोगलक्षणा इयम् अवस्था, एतस्यां हि अवस्थायाम् आत्मा अविद्याध्यारोपणवर्जितः स्वरूपप्रतिष्ठः भवति । स्थिराम् इन्द्रियधारणां स्थिराम् अचलाम् इन्द्रियधारणां बाह्यन्तःकरणानां धारणम् इत्यर्थः। यदैव प्रवृत्तयोगः भवति तदा तस्मिन् काले अप्रमत्तः प्रमादवर्जितः समाधानं प्रति नित्यं यत्नवान् भवति इति सामर्थ्यात् अवगम्यते । न हि बुद्ध्यादिचेष्टाभावे प्रमादसंभवः अस्ति । तस्माद् बुद्ध्यादिचेष्टोपरमात् प्राक् एव अप्रमादः विधीयते । अथवा यदा एव इन्द्रियाणां स्थिरा धारणा तदानीम् एव निरङ्कुशम् अप्रमत्तत्वम् इत्यतः तदा अप्रमत्तः भवति इति अभिधीयते । कुतः? योगः हि यस्मात् प्रभवाप्ययौ उपजनापायधर्मकः इत्यर्थः अतः अपायपरिहाराय अप्रमादः कर्तव्यः इत्यभिप्रायः ॥११॥


सङ्गतिः
ब्रह्म बुद्ध्यादिचेष्टाविषयं चेत् तदिदम् इति विशेषतः गृह्येत, बुद्ध्याद्युपरमे च ग्रहणकारणाभावात् अनुपलभ्यमानं ब्रह्म नास्ति एव । लोके च यत् हि करणगोचरं तद् अस्ति इति प्रसिद्धं, विपरीतं च असत्, इत्यतः योगः अनर्थकः, अनुपलभ्यमानत्वात् वा ब्रह्म नास्ति इति उपलब्धव्यम् इति एवं प्राप्ते इदम् उच्यते-
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥२'३'१२॥
अन्वयः
न वाचा न मनसा न चक्षुषा एव प्राप्तुं शक्यः। अस्ति इति ब्रुवतः अन्यत्र तत् कथम् उपलभ्यते ? अर्थात् नास्ति इति ब्रुवतः न उपलभ्यते ।
सान्वयं भाष्यम्
(अयम् आत्मा ब्रह्म) नैव वाचा न मनसा न चक्षुषा नापि अन्यैः इन्द्रियैः प्राप्तुं शक्यत इत्यर्थः। तथापि सर्वविशेषरहितः अपि जगतः मूलम् इति अवगतत्वात् कार्यप्रविलापनस्य अस्तित्वनिष्ठत्वात् (च) अस्ति एव । तथा सूक्ष्मतारतम्यपारम्पर्येण अनुगम्यमानम् इदं कार्यं हि सद्बुद्धिनिष्ठाम् एव अवगमयति । विषयप्रविलापेन प्रविलाप्यमाना बुद्धिः यदाऽपि (विलीयते) तदाऽपि सा सत्प्रत्ययगर्भा एव विलीयते । सदसतोः याथात्म्यावगमे हि बुद्धिः नः
प्रमाणम् ।
जगतः मूलम् एव न स्यात् चेत् असदन्वितम् इदं कार्यम् असत् इत्येव गृह्येत न तु एतद् अस्ति, सत् सत् इत्येव गृह्यते । यथा मृदादिकार्यं घटादि मृदाद्यन्वितं तथा । तस्मात् जगतः मूलम् आत्मा अस्ति इत्येव उपलब्धव्यः । कस्मात् ? अस्तीति ब्रुवतः अस्तित्ववादिनः आगमार्थानुसारिणः श्रद्दधानात् अन्यत्र नास्तित्ववादिनि जगतः मूलम् आत्मा नास्ति, निरन्वयम् एव इदं कार्यम् अभावान्तं प्रविलीयते इति मन्यमाने विपरीतदर्शिनि कथं तद् ब्रह्म तत्वतः उपलभ्यते ? न कथञ्चन उपलभ्यते इत्यर्थः॥१२॥
सङ्गतिः
तस्मात् असद्वादिपक्षम् आसुरम् अपोह्य-
अस्तीत्येवोपलब्धव्यस्तत्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य तत्वभावः प्रसीदति ॥२'३'१३॥
अन्वयः
आत्मा अस्ति इत्येव उपलब्धव्यः, तत्वभावेन च उपलब्धव्यः, उभयोः अस्ति इत्येव उपलब्धस्य तत्वभावः प्रसीदति ।
सान्वयं भाष्यम्
सत्कार्यः बुद्ध्याद्युपाधिः आत्मा अस्ति इत्येव उपलब्धव्यः । यदा तु आत्मा तद्रहितः अविक्रियः कार्यं च कारणव्यतिरेकेण नास्ति “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमि”ति श्रुतेः तदा तस्य निरुपाधिकस्य अलिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्य आत्मनः तत्वभावः भवति । तेन च रूपेण आत्मा उपलब्धव्यः इत्यनुवर्तते । उभयोः सोपाधिकनिरुपाधिकयोः अस्तित्वतत्वभावयोः। निर्धारणार्था षष्ठी । तत्रापि पूर्वम् अस्ति इति एव उपलब्धस्य आत्मनः सत्कार्योपाधिकृत-अस्तित्वप्रत्ययेन उपलब्धस्य इत्यर्थः। पश्चात् विदिताविदिताभ्यामन्योऽद्वयस्वभावो “नेति नेति” (बृ.२.३.६) इति “अस्थूलमनण्वह्रस्वम्” (बृ.३.८.८) “अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने” (तै.२.५) इत्यादिश्रुतिनिर्दिष्टः प्रत्यस्तमितसर्वोपाधिरूपः आत्मनः तत्वभावः प्रसीदति अभिमुखी भवति । पूर्वम् अस्तीति उपलब्धवतः आत्मप्रकाशनाय (भवति) इत्येतत् ॥१३॥

एवं परमार्थदर्शिनः-
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्मसमश्नुते ॥२'३'१४॥
अन्वयः
अस्य हृदि श्रिताः ये सर्वे कामाः यदा प्रमुच्यन्ते अथ मर्त्यः अमृतः भवति, अत्र ब्रह्मसमश्नुते ।
सान्वयं भाष्यम्
प्रतिबोधात् प्राक् अस्य विदुषः हृदि बुद्धौ श्रिताः आश्रिताः सर्वे कामाः कामयितव्यस्य अन्यस्य अभावात् यदा यस्मिन्काले प्रमुच्यन्ते विशीर्यन्ते-
कामानाम् आश्रयः हि बुद्धिः न आत्मा । “कामः सङ्कल्पः” ( बृ.१.५.३) इत्यादिश्रुत्यन्तरात् च ।
-अथ तदा मर्त्यः प्रबोधात् प्राक् आसीत् सः प्रबोधोत्तरकालम् अविद्याकामकर्मलक्षणस्य मृत्योः विनाशाद् अमृतः भवति, गमनप्रयोजकस्य मृत्योः विनाशाद् गमनानुपपत्तेः अत्र इह एव प्रदीपनिर्वाणवत् सर्वबन्धनोपशमात् ब्रह्म समश्नुते ब्रह्म एव भवति इत्यर्थः ।
सङ्गतिः
कामानां पुनः मूलतः विनाशः कदा इति उच्यते-
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥२'३'१५॥
अन्वयः
यदा इह हृदयस्य सर्वे ग्रन्थयः प्रभिद्यन्ते अथ मर्त्यः अमृतः भवति । एतावत् हि अनुशासनम् ।
सान्वयं भाष्यम्
यदा इह जीवतः एव हृदयस्य बुद्धेः सर्वे ग्रन्थयः ग्रन्थिवत् दृढबन्धनरूपाः अविद्याप्रत्ययाः प्रभिद्यन्ते भेदम् उपयान्ति विनश्यन्ति इत्यर्थः। अहम् इदं शरीरं, मम इदं धनम् अहं सुखी दुःखी च इत्येवमादिलक्षणाः (अविद्याप्रत्ययाः) तद्विपरीतब्रह्मात्मप्रत्ययोपजननाद् असंसारी ब्रह्म एव अहम् अस्मि इति विनष्टेषु अविद्याग्रन्थिषु तन्निमित्ताः कामाः मूलतः विनश्यन्ति । अथ मर्त्यः अमृतः भवति एतावत् हि एतावदेव एतन्मात्रं, न अधिकम् अस्ति इति आशङ्का कर्तव्या । अनुशासनम् अनुशिष्टिः उपदेशः सर्ववेदान्तानाम् इति वाक्यशेषः॥१५॥
सङ्गतिः
निरस्त-अशेषविशेष-व्यापि-ब्रह्मात्म-प्रतिपत्या जीवतः एव प्रभिन्नसमस्त-अविद्यादिग्रन्थेः ब्रह्मभूतस्य विदुषः गतिः न विद्यते इति उक्तम् “अत्र ब्रह्म समश्नुते” इति उक्तत्वात् “न तस्य प्राणाः उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति” (बृ.४.४.६) इति श्रुत्यन्तरात् च । ये पुनः मन्दब्रह्मविदः विद्यान्तरशीलिनश्च (ते) ब्रह्मलोकभाजः, ये च तद्विपरीताः (ते) संसारभाजः, तेषाम् एषः गतिविशेषः प्रकृतोत्कृष्टब्रह्मविद्याफलस्तुतये उच्यते । किञ्च अन्यद् अग्निविद्या पृष्टा प्रत्युक्ता च । तस्याः च फलप्राप्तिप्रकारः वक्तव्यः इति मन्त्रारम्भः । तत्र-
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विश्वङ्ङन्या उत्क्रमणे भवन्ति ॥२'३'१६॥
अन्वयः
शतं च एका च हृदयस्य नाड्यः (सन्ति) तासाम् एका मूर्धानं (भित्वा) अभिनिःसृता, तया ऊर्ध्वम् आयन् (पुरुषः) अमृतत्वम् एति । अन्याः (नाड्यः) विश्वङ् उत्क्रमणे भवन्ति ।
सान्वयं भाष्यम्
शतं च शतसंख्याका एका च सुषुम्ना नाम (नाडी), नाड्यः शिराः पुरुषस्य हृदयात् विनिःसृताः, तासां मध्ये सुषुम्ना नाम (नाडी) मूर्धानं भित्वा अभिनिःसृता निर्गता । अन्तकाले तया आत्मानं हृदये वशीकृत्य योजयेत् । तया नाड्या ऊर्ध्वम् उपरि आयन् गच्छन् आदित्यद्वारेण अमृतत्वम् आपेक्षिकम् अमरणधर्मत्वम्-“आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते” (वि.पु.२.८.९७) इति स्मृतेः, कालान्तरेण ब्रह्मणा सह वा अनुपमान् ब्रह्मलोकगतान् भोगान् भुक्त्वा मुख्यम् अमृतत्वम् एति । विश्वङ्नानाविधगतयः अन्याः नाड्यः उत्क्रमणे निमित्तं भवन्ति संसारप्रतिपत्यर्थाः एव भवन्ति इत्यर्थः ॥१७॥

सङ्गतिः
इदानीं सर्ववल्ल्यर्थोपसम्हारार्थम् आह-
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।

तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादीवेषीकां धैर्येण ।
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥२'३'१७॥

अन्वयः
अङ्गुष्ठमात्रः पुरुषः अन्तरात्मा जनानां हृदये सदा सन्निविष्टः । तं स्वात् शरीरात् मुञ्जात् इषीकाम् इव धैर्येण
प्रवृहेत् । तं शुक्रम् अमृतं विद्यात् । तं शुक्रम् अमृतं विद्यात् । इति ।
सान्वयं भाष्यम्
अङ्गुष्ठमात्रः पुरुषः अन्तरात्मा जनानां सम्बन्धिनि हृदयेव सदा सन्निविष्टः यथा व्याख्यातः तं स्वात् आत्मीयात् शरीरात् प्रवृहेत् उद्यच्छेत् निष्कर्षेत् पृथक्‌कुर्यात् इत्यर्थः। किम् इव इति उच्यते । धैर्येण अप्रमादेन मुञ्जात् अन्तस्थाम् इषीकाम् इव (प्रवृहेत्) । शरीरात् निष्कृष्टं तं चिन्मात्रं शुक्रम् अमृतं यथोक्तं ब्रह्म इति विद्यात् विजानीयात् । द्विर्वचनम् इति शब्दश्च उपनिषत्परिसमाप्त्यर्थम् (उक्तम्)।
सङ्गतिः
अधुना अयम् आख्यायिकार्थोपसंहारः विद्यास्तुत्यर्थः उच्यते-
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥२'३'१८॥
अन्वयः
अथ नचिकेता मृत्युप्रोक्ताम् एतां विद्यां कृत्स्नं योगविधिं च लब्ध्वा ब्रह्मप्राप्तः विरजः विमृत्युः अभूत् । अन्यः अपि यः अध्यात्मम् एव (विजानाति) एवंवित् (सोऽपि ब्रह्मप्राप्त्या विमृत्युः भवति इति)।
सान्वयं भाष्यम्
(अथ) नचिकेता मृत्योः वरप्रदानात् मृत्युप्रोक्तां यथोक्ताम् एतां ब्रह्मविद्यां कृत्स्नं समस्तं सोपकरणं सफलं योगविधिं च इत्येतत् लब्ध्वा प्राप्य इत्यर्थः । किम्? ब्रह्मप्राप्तः अभूत् मुक्तः अभवत् इत्यर्थः। कथम्? पूर्वं विद्याप्राप्त्या विरजः विगतधर्माधर्मः विमृत्युः विगतकामः अविद्यश्च सन् (विमृत्युः अभवत्) इत्यर्थः। न केवलं नचिकेता एव अन्यः अपि नचिकेतोवत् आत्मवित् अध्यात्मम् एव निरुपचरितं प्रत्यक्स्वरूपं तत्वम् एव प्राप्य इति अभिप्रायः। न अन्यत् रूपं अप्रत्यग्रूपम् । तद् एवम् उक्त प्रकारेण अध्यात्मम् एव यः वेद विजानाति एवंवित् सः अपि ब्रह्मप्राप्त्या विरजः सन् विमृत्युः भवति इति वाक्यशेषः।
सङ्गतिः
शिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपादननिमित्तदोषप्रशमनार्था इयं शान्तिः उच्यते-
सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥२'३'१९॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति काठकोपनिषदि द्वितीयोध्यायः समाप्तः ।
सान्वयं भाष्यम्
सह नौ आवाम् विद्यास्वरूपप्रकाशनेन अवतु पालयतु । कः? सः एव उपनिषत्प्रकाशितः परमेश्वरः। किञ्च सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु । सह एव आवां विद्याकृतं वीर्यं सामर्थ्यं करवावहै निष्पादयावहै । किञ्च तेजस्विनौ तेजस्विनोः आवयोः यत् अधीतं तत् स्वधीतम् अस्तु । अथवा तेजस्वि नौ आवाभ्यां यत् अधीतं तत् अतीव तेजस्वि वीर्यवत् अस्तु इत्यर्थः। मा विद्विषावहै शिष्याचार्यौ अन्योन्यं प्रमादकृतान्यायाध्ययनाध्यापनदोषनिमित्तं द्वैषं मा करवावहै इत्यर्थः। शान्तिः शान्तिः शान्तिः इति त्रिर्वचनं सर्वदोषोपशमनार्थम् इति ॐ इति ।

षड्लिङ्गनिर्णयः
उपक्रमोपसंहारः-द्वितीयवल्ल्याः प्रथमः श्लोकः-अन्यच्छ्रेयो..,
उपसंहारः-अङ्गुष्ठमात्रः ..अन्तिमवल्ली,१७ मन्त्रः।

"https://sa.wikibooks.org/w/index.php?title=कठ_उपनिषद्&oldid=6472" इत्यस्माद् पुनः प्राप्तिः