करौ सीतापतिः ...जाम्बवदाश्रयः

विकिपुस्तकानि तः

मूलम्
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥७॥

पदच्छेदः
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।मध्यं पातु खरध्वंसी नाभिं जाम्बवद्-आश्रयः ॥७॥

अन्वयः
सीतापतिः करौ पातु। जामदग्न्यजित् हृदयं (पातु) ।खरध्वंसी मध्यं पातु। जाम्बवद्-आश्रयः नाभिं (पातु) ॥७॥

सरलार्थः
सीतायाः पतिः मम करयोः रक्षां करोतु।परशुरामः येन जितः, सः रामः मम हृदयं रक्षतु।खरनाम्नः राक्षसस्य नाशः येन कृतः, सः रामः मम मध्यदेहं रक्षतु।जाम्बवते येन आश्रयः दत्तः, सः रामः मम नाभिं रक्षतु॥७

समासविग्रहः
सीतापतिः
सीतायाः पतिः। षष्ठी ।२.२.८

जामदग्न्यजित्
जामदग्न्यं जयति ।... उपपदमतिङ् ।२.२.१९

खरध्वंसी
खरस्य ध्वंसी।...षष्ठी ।२.२.८

जाम्बवदाश्रयः
जाम्बवतः आश्रयः।...षष्ठी ।२.२.८

रामरक्षास्तोत्रम् - सान्वयं सार्थम्