कर्तृत्वादिबन्ध: ब्रह्मात्मैक्यविरुद्ध:?

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.- जीवस्य कर्तृत्वादिबन्ध: ब्रह्मात्मैक्यविरुद्ध: अस्ति न वा ? सविस्तरं चर्चां कुरुत।

उ.-
सन्दर्भ:-
अथातो ब्रह्मजिज्ञासा इत्यस्य सूत्रस्य व्याख्याने अप्पयदीक्षितेन उक्तं यद् ‘ब्रह्मात्मैक्यविरुद्धस्य बन्धस्य अध्यासात्मकतां प्रदर्श्य शास्त्रारम्भ: समर्थ्यते’। अस्मिन् वचने पूर्वपक्ष: आक्षिपति –
१ व्यर्थोऽयं प्रयास: यतो हि जीवस्य कर्तृत्वादिबन्ध: ब्रह्मात्मैक्यविरुद्ध: नास्ति। भवतु जीवो बद्ध:। तथापि मुक्तेन ब्रह्मणा सह तस्य ऐक्यमस्ति।
२ बन्धमोक्षौ मिथ: विरुद्धौ धर्मौ। तयो: आक्रान्तयो: एकत्रावस्थानं कथं सम्भवेत्? इति आशङ्का न कार्या। विरुद्धधर्माक्रान्तयो: जीवब्रह्मणो: अभेद: श्रुत्या प्रतिपादित:।अत: स्वीकार्य:।
३ विरुद्धधर्माक्रान्तयो: अभेद: प्रत्यक्षेण बाधित:। अत: श्रुतिरपि तादृशमभेदं न बोधयेत् इति अपि वचनं नोचितम्।बन्ध: सर्वलोकानां प्रत्यक्ष:। तथापि तस्य बाधकानि श्रुतिवचनानि सन्ति। अद्वैतिभि: च ‘सर्वलोकानुभवस्यापेक्षया श्रुतिवचनानां प्रामाण्यं प्रबलम्’ इति तत्र समर्थ्यते।तथैव अत्र अपि किमिति न उच्यते? श्रुति: प्रबलं प्रमाणम्। तेन यदि जीवब्रह्मण: अभेद: बोध्यते, तर्हि भवतु बद्धस्यापि जीवस्य ब्रह्मणा सह अभेद:

अत्र अप्पयदीक्षितेन उत्तरमुक्तम्-
श्रुतिप्राबल्यमुरुद्ध्य यद्यपि बद्धस्यापि जीवस्य ब्रह्मणा सह अभेद: समर्थयितुं शक्यते, तथापि तत् समर्थनं वादिजयमात्रं स्यात्, न तु वस्तुस्थित्यनुसारम्। वस्तुस्थिति: तु एषा यद् श्रुति: तत्त्वमसि इत्यदिभि: वाक्यै: यथा ब्रह्मात्मैक्यं बोधयति, तथा त्वंपदार्थशोधकवाक्यानि बन्धमिथ्यात्वबोधकवाक्यानि अपि सन्ति। अत: बन्धमिथ्यात्वं सिद्धान्तमते वस्तुस्थिति:।वादकथायां वस्तुस्थितिमनुसृत्य एव वाद: करणीय: अत: बन्धमिथ्यात्वं प्रतिपादनीयम्।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह: