कषायरसविज्ञानम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

॥ कषायरसः ॥
१] पाञ्चभौतिकत्वम् -
अस्मिन् जगति सर्वं द्रव्यं पञ्चभिः महाभूतैः आरब्धम्। कषायरसात्मकं द्रव्यमपि पाञ्चभौतिकं तथापि तेषु पृथ्वी तथा वायुः इति एतयोः प्राबल्यम् अस्ति।
२] कषायरसस्य अभिज्ञानम् -
कषायरसः जिह्वां जडयति, कण्ठे विबन्धं च जनयति।
३] कषायरसस्य विपाकः -
कटुतिक्तकषायाणां विपाकः प्रायशः कटुः। इति एतेन नियमेन कषायरसस्य विपाकः कटुः भवति।
४] वीर्यम् -
कषायरसस्य द्रव्यं प्रायः शीतवीर्यं भवति।
५] शरीरे परिणामाः -
कषायरसात्मकं द्रव्यं शरीरे वातं वर्धयति, पित्तं शमयति। कफं च शमयति। तत् रक्तस्य प्रसादनं करोति। धातुषु यदि जलांशः अधिकः भवति तर्हि तस्य शोषणं कषायरसः करोति। मेदोधातोः शोषणं करोति। उद्वर्तने कषायरसः अस्ति चेत् त्वक् कान्तिमती भवति। व्रणे सञ्चितं दुष्टरक्तं निराकर्तुं कषायद्रव्यस्य लेपः प्रयुज्यते। सः व्रणं निष्पीडयति। शुध्दव्रणस्य रोहणमपि कषायरसस्य लेपेन आशु भवति। अन्नवहस्रोतसि क्वचित् अपक्वम् अन्नं सञ्चितं भवति। एतदेव ’आमः’ इति कथ्यते। आमस्य स्तम्भनं कषायरसेन भवति। अतीसारे अतिरिक्तद्रवः मलः कषायरसस्य प्रयोगेण शोष्यते।
कषायरसस्य अतियोगः -
अतिमात्रोपयोगेन कषायरसः मलविबन्धं जनयति। मलगतजलं यदि कषायरसेन शोषितं भवति तदा मलः पिण्डितः भवति। क्वचिद् मलस्य ग्रन्थयः अपि सम्भवन्ति। एतादृशः पिण्डितः ग्रन्थिलः मलः बहिः न गच्छति। सः पुरीषवहस्रोतसि सञ्चितः भवति। ततः उदरम् आध्मातं भवति। उदरे वायुः सञ्चितः भवति। तेन हृदये पीडा जायते। हृदि शूलं जायते। कषायः जलांशं शोषयति। अतः तस्य अतियोगेन तृष्णा वर्धते। धातुगतः स्नेहः अपि कषायातियोगेन शुष्यति। तेन मनुष्यः कृशः भवति। कषायरसः अतिमात्रया भक्षितः सन् शुक्रधातोः क्षयं जनयति। विविधेषु स्रोतःसु अवरोधान् करोति।
कषायद्रव्याणि -
हरीतकी, विभीतकं, शिरीषः, खदिरः, मधु, कदम्बः, उदुम्बरः, बालकपित्थफलम्, खर्जूरं, कमलं, लोध्रः इत्येतानि प्रसिध्दानि कषायद्रव्याणि।
कषायरसापवादः -
कषायद्रव्यं प्रायशः शीतं भवति। शरीरे स्रावाणां स्तम्भनं करोति। हरीतकी कषायरसा अपि उष्णा तथा अनुलोमनी अस्ति, न तु स्तम्भनी। अतः हरीतकी कषायरसस्य अपवादः।
भोजने स्थानम् -
कषायरसः कफं न्यूनीकरोति। भोजनोत्तरं शरीरे कफस्य निर्मितिः भवति। सा अतिमात्रा न भवेदिति भोजनान्ते कषायरसः सेव्यः।भोजनोत्तरं ताम्बूलभक्षणं जनाः कुर्वन्ति।तत्र खदिरः इति कषायरसात्मकं द्रव्यम् अस्ति।तस्य प्रयोजनम् एतद् एव।
कषायरसः ऋतुः च -
कषायरसः शीतः पित्तघ्नः च। अतः सः शरदि अधिकमात्रया सेवनीयः। शरदि कालस्वभावतः पित्तं वर्धते। तस्य नियमनं कषायरसेन भवति।
कषायरसः प्रकॄतिः च -
कषायरसः वातवर्धकः, पित्तकफशामकः च। अत वातलेन न्यूनमात्रया सेव्यः। श्लेष्मलेन पित्तलेन च अधिकं सेव्यः।


षड्रसविज्ञानम्
"https://sa.wikibooks.org/w/index.php?title=कषायरसविज्ञानम्&oldid=6235" इत्यस्माद् पुनः प्राप्तिः