कामाद्यधिकरण...

विकिपुस्तकानि तः
Jump to navigation Jump to search

कामाद्यधिकरणमारचयत।(३.३.३९) अधिकरण-सङ्गति:-
पूर्वाधिकरणे वेद्ययो: अभेदात् विद्ययो: अभेद: प्रतिपादित:।अत्र वेद्यभेदात् विद्याभेद: मन्तव्य: इति प्रत्युदाहरणसङ्गत्या तृतीयाध्याये तृतीयपादे एतदधिकरणमारब्धम्।तत्र एतत् सूत्रम्-
कामादीतरत्र तत्र चायतनादिभ्य:।
विषय:-
१ दहरोऽस्मिन् आकाश:।छा.८.१.१
२ य एषोऽन्तर्हृदये आकाश: ।बृ.४.४.२२
विशय:-
छान्दोग्ये सत्यकाम: सत्यसङ्कल्प: इति उक्तम्।बृहदारण्यके सर्वस्य वशी इत्युक्तम्। एतयो: विद्यैकत्वं परस्परं गुणयोग: च वा न वा?
पूर्वपक्ष:-
विद्याभेद: अत: उपसंहार: न।बृहदारण्यके निर्गुणविद्या उक्ता।छान्दोग्ये सगुणविद्या उक्ता अत: विद्यैक्यं न सम्भवति।
उत्तरपक्ष:-
कामादि इति सत्यकामादि। इतरत्र इति बृहदारण्यके।सत्यकामादयो धर्मा: ये छान्दोग्ये उक्ता: ते इतरत्र ग्राह्या:। तथैव तत्र इति बृहदारण्यके ये सर्ववशित्वादयो धर्मा: उक्ता: ते च छान्दोग्ये ग्राह्या:।यतो हि आयतनादय: उभयत्र समाना:।ते समानधर्मा: एवम्-
१ आयतनमुभयत्र हृदयम्।
२ वेद्य: उभयत्र ईश्वर:।
३ तस्य सेतुरूपेण वर्णनमुभयत्र समानम्।
यद्यपि बृहदारण्यके निर्गुणविद्या उक्ता।छान्दोग्ये सगुणविद्या उक्ता तथापि तेन उपासनार्थ: उपसंहार: न स्यात्।स्तुत्यर्थ: भविष्यति।
निर्णय:-
इह विद्यैकत्वात् उपसंहार: भवति।

३.३ ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:

"https://sa.wikibooks.org/w/index.php?title=कामाद्यधिकरण...&oldid=5717" इत्यस्माद् प्रतिप्राप्तम्