कार्य-कारणयोः सारूप्यं वैरूप्यं च

विकिपुस्तकानि तः

कार्य-कारणयोः सारूप्यं वैरूप्यं वा? [सम्पाद्यताम्]

साङ्ख्यशास्त्रे सत्कार्यवादः अङ्गीकृतः।तदनुसारं कार्यकारणयोः अभेदः सम्मतः।इदानीं प्रश्नः उदेति यत् कार्यं कारणेन सदृशम् अस्ति न वा?यदि कार्यकारणयोः अत्यन्तं सारूप्यम् अस्ति, तर्हि कार्यकारणव्यवहारः एव न सम्भवति।यदि च कार्यकारणयोः अत्यन्तं वैरूप्यं मन्यामहे तर्हि सत्कार्यवादः बाधितः भवति।तत्र साङ्ख्यैः दत्तमुत्तरम् एतद् –
महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च।सां.का.८

प्रकृतिः इति मूलकारणम्।महदादिप्रपञ्चः तस्याः कार्यम्।एतत् कार्यं प्रकृत्या क्वचित् सदृशमस्ति, क्वचित् नास्ति इति अभिप्रायः।क्वचित् सादृश्यं तथा क्वचित् सादृश्याभावः कथम् इत्यपि अग्रे विवृतम्।तत्र -–

प्रकृतिप्रपञ्चयोः सादृश्यम् [सम्पाद्यताम्]

त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि।व्यक्तं तथा प्रधानम् .....॥सां.का.११
व्यक्तं महदादिप्रपञ्चः।स च कार्यम्।प्रधानं कारणम्।उभयोः सारूप्यमत्र उक्तम् यत् – उभे अपि तत्त्वे -

त्रिगुणमये, विवेकशून्ये, पुरुषस्य विषयभूते, सर्वेषां पुरुषाणां कृते साधारणे, जडे, प्रसवधर्मयुते

अस्य अर्थः एवं यत् कार्यकारणभूतयोः प्रधानप्रपञ्चयोः त्रिगुणमयत्वादिषु अंशेषु सारूप्यम् अस्ति।

प्रकृतिप्रपञ्चयोः वैरूप्यम् [सम्पाद्यताम्]

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्॥सां.का.१०

प्रधानम् (अव्यक्तं, कारणम्) महदादिप्रपञ्चः (व्यक्तं, कार्यम्)
हेतुः नास्ति हेतुः अस्ति
नित्यम् अनित्यम्
व्यापकम् अव्यापकम्
स्पन्दरूपक्रियाशून्यम् स्पन्दक्रियया सक्रियम्
एकम् अनेकम्
आश्रयभूतम् आश्रितम्
अलिङ्गम् लिङ्गम्
निरवयवम् अवयवयुतम्
स्वतन्त्रम् परतन्त्रम्

अस्यार्थः एवं यत् हेतुमत्त्वादिषु अंशेषु प्रधानप्रपञ्चयोः कार्यकारणभूतयोः वैरूप्यम् अस्ति।
सर्गे प्रप्रथमं विद्यमानः कार्यकारणभावः प्रधानमहतोः।प्रधानात् महदुत्पत्तिः इति सर्गे आदिमं कार्यम्।तत्र ‘कार्यकारणयोः क्वचित् सारूप्यं क्वचित् वैरूप्यम्’ इति व्यवस्था दृश्यते चेत्,सैव व्यवस्था अग्रे सर्वत्र अनुस्यूता भविष्यति इति स्वाभाविकम्।अतः अधुना जगति यत्र कुत्रापि कार्यकारणभावः दृश्यते, तत्र कार्यम् क्वचित् कारणेन सरूपं, क्वचिद् विरूपम् इति निष्कर्षः।

प्रकृतिसारूप्यवैरूप्यसिद्धान्तः आयुर्वेदे[सम्पाद्यताम्]

अयं निष्कर्षः आयुर्वेदे अनुमतः ‘कार्यकारणयोः क्वचित् सारूप्यम् अस्ति,क्वचिद् वैरूप्यम् अस्ति’ इति।कथम् एतद् वैषम्यं जायते? चक्रपाणिः अस्योत्तरं वदति-
…द्विविधो मेलको भवति रसानां दोषाणां च प्रकृत्यनुगुणः, प्रकृत्यननुगुणश्च; तत्र यो मिलितानां प्राकृतगुणानुपमर्देन मेलको भवति, स प्रकृतिसमसमवायशब्देनोच्यते; यस्तु प्राकृतगुणोपमर्देन भवति, स विकृतिविषमसमवायोऽभिधीयते; विकृत्या हेतुभूतया विषमः प्रकृत्यननुगुणः समवायो विकृतिविषमसमवाय इत्यर्थः। …-च.वि.१.१०चक्रपाणिः

कार्यस्य कारणसारूप्यं कारणवैरूप्यं चापि सम्भवति इति साङ्ख्ये उक्तम्।अस्य सिद्धान्तस्य उपपत्तिः अस्यां चक्रपाणिटीकायां प्राप्यते।तदेवम्-
कार्यं क्वचित् प्रकृतिसरूपं भवति यतो हि तत्र कारणीभूतद्रव्याणां प्रकृतिसमसमवायः अस्ति। कार्यं क्वचित् प्रकृतिविरूपं भवति, यतो हि तत्र कारणीभूतद्रव्याणां विकृतिविषमसमवायः अस्ति।

चक्रपाणिदत्ता उपपत्तिः साङ्ख्यसिद्धान्तः
कारणीभूतद्रव्याणां प्रकृतिसमसमवायः अस्ति चेत् ....... कार्यं प्रकृतिसरूपं भवति
कारणीभूतद्रव्याणां विकृतिविषमसमवायः अस्ति चेत्..... कार्यं प्रकृतिविरूपं भवति

प्रकृतिसमसमवायः (प्रकृतिसरूपं कार्यम्) – [सम्पाद्यताम्]

प्रकृत्या हेतुभूतया समः कारणानुरूपः समवायः कार्यकारणभावसम्बन्धः प्रकृतिसमसमवायः, कारण-अनुरूपं कार्यमित्यर्थः; यथा-शुक्लतन्तुसमवायारब्धस्य पटस्य शुक्लत्वम्।–मानि.२.१४ मधुकोशः

प्रकृतिसमसमवाये कार्याणां कारणसादृश्यम्[सम्पाद्यताम्]

प्रकृतिसमसमवाये अयं नियमः प्रवर्तते -
कारणानुविधायित्वात् कार्याणां तत्स्वभावता।अ.हृ.शा.१.४
स्वभावशब्दः सदृशार्थः।तच्छब्देन कारणं परामृश्यते।तस्य कारणस्य स्वभावता तत्सादृश्यम्।– अरुणदत्तः।
एवं कार्याणां सर्वथा कारणसादृश्यं प्रकृतिसमसमाये सम्भवति,न विकृतिविषमसमवाये।तर्हि किं प्रकृतिसमसमवाये सर्वे कार्यधर्माः प्रकृत्यनुरूपाः सन्ति वा? आम्। प्रकृतिसमसमवाये सर्वे कार्यधर्माः प्रकृत्यनुरूपाः सन्ति।एकोऽपि कार्यधर्मः प्रकृति-अननुरूपः दृश्यते चेत् सः विकृतिविषमसमवायः इत्येव अवगन्तव्यः।

प्रकृतिसमसमवाये समुदय-प्रभावनिश्चयः[सम्पाद्यताम्]

प्रकृतिसमसमवाये (प्रकृतिसरूपे कार्ये) समुदयस्य प्रभावः (कार्यधर्माः) कथमवगन्तव्यः इति चरकाचार्येण उक्तम् -
तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावमेकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत्।- च.वि.१.९
अथ कथं तर्हि संसृष्टानां रसानां दोषाणां च प्रभावो ज्ञेय इत्याह- तत्र खल्वित्यादि। तत्र च अनेक-रसद्रव्यस्यानेकदोषविकारस्य च प्रत्येकरसदोषप्रभावमेलकेन प्रभावं कथयन् रससंसर्गदोषसंसर्गयोः अपि तादृशमेव प्रभावं कथयति, यतो रसदोषसंसर्गप्रभावावत्र द्रव्यविकाराश्रयित्वाद्रसदोषयोर्द्रव्य-विकारप्रभावत्वेनोच्येते । …..एकैकश्येनाभिसमीक्ष्येति प्रत्येकमुक्तरसादिप्रभावेणानेकरसं द्रव्यम् अनेकदोषं च विकारं समुदितप्रभावमभिसमीक्ष्य॥-च.वि.१.९ चक्रपाणिः

अयमाशयः चक्रपाणेः- यस्मिन् द्रव्यसमुदये नाना द्रव्याणि सन्ति,तस्य समुदयस्य प्रभावः कथं ज्ञेयः?समुदय-घटकीभूतस्य प्रत्येकं द्रव्यस्य प्रभावं समीक्ष्य समुदयप्रभावः ज्ञेयः इति उत्तरम्।
यस्मिन् रोगे नाना दोषाः सन्ति, तस्य रोगस्य लक्षणानि कथं ज्ञेयानि? दोषसमुदयस्य ये घटकीभूतदोषाः, तेषां प्रत्येकं दोषस्य लक्षणानि समीक्ष्य दोषसमुदयस्य (संसर्गस्य सन्निपातस्य वा) लिङ्गानि ज्ञेयानि इति उत्तरम्।
एतत् सर्वं तदा एव शक्यं यदि समुदयः (कार्यम्) प्रकृतिसमसमवेतः (प्रकृतिसरूपः) अस्ति।

प्रकृतिसमसमवायस्य कानिचन उदाहरणानि -[सम्पाद्यताम्]

१ तैलं स्वयोनिवत्...। [सम्पाद्यताम्]

१ तैलं स्वयोनिवत्...। अ.हृ.सू.५.५५
सर्वं तैलं स्वकारणसमगुणं भवति।– अरुणदत्तः
स्वयोनिवत् स्वकारणवत्।यथा तिलतैलं तिलगुणं, सर्षपतैलं सर्षपगुणमिति।– हेमाद्रिः

अत्र कारणं तैलबीजम्।कार्यं तैलबीजात् निष्पीडितं तैलम्।एतत् कार्यभूतं तैलं, कारणेन तैलबीजेन सह गुणतः सरूपम् अस्ति।यथा तिलस्य धर्माः तथैव तिलोद्भवस्य तैलस्य धर्माः।अतः तैलं स्वयोनिवत् इति वक्तुं शक्यते।प्रकृतिसमसमवाये एव एतत् शक्यम्।

२ यथाद्रव्यगुणोऽरिष्टः [सम्पाद्यताम्]

२ यथाद्रव्यगुणोऽरिष्टः...।अ.हृ.सू.५.७०
अरिष्टो यो यैर्द्रव्यैः सिद्धः, स तद्गुणान् अनुगच्छति।–अरुणदत्तः

अत्र कारणं द्रव्यम्।कार्यम् अरिष्टः।अरिष्टगुणाः द्रव्यगुणान् अनुसरन्ति।अतः इदं वक्तुं शक्यते यत् अरिष्टः इति कारणद्रव्याणाम् प्रकृतिसमसमवायः अस्ति।

३ सर्वजे सर्वलिङ्गानि[सम्पाद्यताम्]

सर्वजे सर्वलिङ्गानि... ।सु.उ.३९.३८
.....प्रकृतिसमसमवेतस्य लक्षणमाह- सर्वजे इत्यादि। सर्वदोषजे सर्वलिङ्गानि प्रत्येकवातादि-ज्वरोक्तलक्षणानि। -डह्लणः

वातज्वरस्य लक्षणानि उक्तानि, पित्तज्वरस्य उक्तानि,कफज्वरस्य च उक्तानि।इदानीं सर्वजज्वरस्य लक्षणानि वक्तव्यानि।एतेषां वातपित्तकफज्वरलक्षणानां मेलकः एव सर्वजज्वरस्य लक्षणानि।यतो हि सर्वजज्वरः इति प्रकृतिसमसमवायः मतः।तत्र कार्यं कारणसरूपं विद्यते।अत्र कारणं वातपित्तकफज्वराः।कार्यं तेषां लक्षणानि।एतानि लक्षणानि वातपित्तकफसरूपाणि सन्ति।

४ लिङ्गसंसर्गे ज्वरः संसर्गजः..। [सम्पाद्यताम्]

४ यथास्वं लिङ्गसंसर्गे ज्वरः संसर्गजः..। अ.हृ.नि.२.२४
प्रकृतिसमसमवेतवातपित्तज्वरज्ञाने तल्लिङ्गसंसर्गस्योपयोगः।अ.हृ.नि.२.२४ हेमाद्रिः

वातजपित्तजकफजज्वराणां पृथक् पृथक् लक्षणानि उक्तानि।अथ द्वन्द्वजज्वरस्य लक्षणानि वक्तव्यानि।तत्र एतत् सूत्रम् उपस्थितं भवति।
स्वस्य स्वस्य दोषस्य लक्षणानां संसर्गः (मेलः) अस्ति चेत् सः ज्वरः दोषसंसर्गजः अस्ति इति ज्ञेयम्।सूत्रार्थः अयम्।
अत्र एतद् अङ्गीकृतं यद् वातपित्तज्वरः वा पित्तकफज्वरः वातकफज्वरः वा प्रकृतिसमसमवेतः (प्रकृतिसरूपः)अस्ति। ' ' ‘पृथग्दोषलक्षणानां मेलः एव संसृष्टदोषजव्याधिलक्षणानि’ इति तदानीम् एव वक्तुं शक्यते।
चक्रपाणिना अपि अयम् आशयः प्रतिपादितः -
तेन प्रकृतिसमसमवायरूपं सन्निपातं ज्वरनिदाने दोष-लिङ्गमेलकेनैवोक्तवान्। यदुक्तं- “पृथगुक्तलक्षणसंसर्गाद्द्वान्द्विकमन्यतमं सान्निपातिकं वा ज्वरं विद्यात्” (नि.अ.१) इति।-च.वि.१.११ चक्रपाणिः

विकृतिविषमसमवायः (प्रकृतिविरूपं कार्यम्) -[सम्पाद्यताम्]

…द्विविधो मेलको भवति रसानां दोषाणां च प्रकृत्यनुगुणः, प्रकृत्यननुगुणश्च; तत्र यो मिलितानां प्राकृतगुणानुपमर्देन मेलको भवति, स प्रकृतिसमसमवायशब्देनोच्यते; यस्तु प्राकृतगुणोपमर्देन भवति, स विकृतिविषमसमवायोऽभिधीयते; विकृत्या हेतुभूतया विषमः प्रकृत्यननुगुणः समवायो विकृतिविषमसमवाय इत्यर्थः। …-च.वि.१.१०चक्रपाणिः

साङ्ख्याः वदन्ति यत् क्वचित् प्रकृतिविरूपमपि कार्यं जायते।तस्य कारणमत्र ज्ञायते। विकृतिविषमसमवायः क्वचिदस्ति अतः प्रकृतिविरूपं कार्यं सम्भवति।तस्य व्यावहारिकम् उदाहरणमिदम्-
विकृत्या हेतुभूतया विषमः कारणाननुरूपः समवायो विकृतिविषमसमवायः, यथा- हरिद्राचूर्णसंयोगजं लौहित्यमिति॥मा.नि.२.१४मधुकोशटीका

अत्र हरिद्रा तथा चूर्णं (सुधाचूर्णं) कारणम्।तयोः एकतरस्मिन् अपि लोहितवर्णः नास्ति।हरिद्रा पीतवर्णा, सुधाचूर्णं श्वेतवर्णम्।परं तयोः संयोगे न पीतवर्णः विद्यते, न वा श्वेतवर्णः।तत्र तु लौहित्यम् आविर्भवति।अतः कारण-अननुरूपः अयं समवायः।एषः विकृतिविषमसमवायः
विकृतिविषमसमवाये सर्वे कार्यधर्माः कारण-अननुरूपाः सन्ति वा? न।केचन कार्यधर्माः प्रकृति-अनुरूपाः अपि सन्ति।यथा वातपैत्तिके ज्वरे

विकृतिविषमसमवाये समुदयप्रभावनिश्चयः- [सम्पाद्यताम्]

न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैः विकल्पितानामवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वमध्यवसातुं शक्यम्॥च.वि.१.१०
तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत् ॥-च.वि.१.११

तथायुक्ते हीत्यादि। तथायुक्ते समुदय इति विकृतिविषमसमवाये। समुदयप्रभावतत्त्वमिति मेलक-प्रभावतत्त्वम्। समधृते हि मधुसर्पिषि सूर्यावर्ताख्ये वा दोषसमुदये न संयुज्यमानमधुघृतगुणक्रमागतं मारकत्वं, न च वातादिदोषप्रभावगतं सूर्यवृद्ध्या वर्धिष्णुत्वं सूर्यावर्तस्य, किं तु संयोगमहिमकृतम् एवेत्यर्थः। यच्च गतिद्वयं दोषरसमेलकस्य, तेन प्रकृतिसमसमवायरूपं सन्निपातं ज्वरनिदाने दोष-लिङ्गमेलकेनैवोक्तवान्। यदुक्तं- “पृथगुक्तलक्षणसंसर्गाद्द्वान्द्विकमन्यतमं सान्निपातिकं वा ज्वरं विद्यात्” (नि.अ.१) इति।यस्तु विकृतिविषमसमवेतस्त्रिदोषकृतो ज्वरस्तस्य चिकित्सिते- “क्षणे दाहः क्षणे शीतं” (चि.अ.३) इत्यादिना लक्षणमुक्तम्। न हि श्यावरक्तकोठोत्पत्त्यादि तत्रोक्तं वातादिज्वरे क्वचिदस्ति। एवं रसेऽपि यत्राम्राते मधुरत्वं प्रकृतिसमसमवेतं, तत्राम्रातं मधुरमेतन्मात्रमेवोक्तं; तेन, मधुरसामान्यगुणागतं तस्य वातपित्तहरत्वमपि लभ्यत एव। यत्र वार्ताके कटुतिक्तत्वेन वातकरत्वं प्राप्तमपि च विकृतिविषमसमवायात्तन्न भवति, तत्राचार्येण “वार्ताकं वातघ्नं”(सू.अ.२७) इत्युक्तमेव। एवमित्यादि तत्तदुदाहरणं शास्त्रप्रसृतमनुसरणीयम्। यत्तु प्रकृतिसमसमवायकृतरसदोषगुणद्वारा प्राप्तम् अपि द्रव्यगुणं विकारलक्षणं च ब्रूते, तत् प्रकर्षार्थं स्पष्टार्थं चेति ज्ञेयम्।– चक्रपाणिः

अनयोः सूत्रटीकयोःसारः एवम् यत् विकृतिविषमसमवेतेषु कार्यद्रव्येषु कारणधर्ममेलकमात्रेण कार्यधर्मनिश्चयः न भवति।यतो हि कारणधर्मतः भिन्नः अपि कश्चिद् धर्मः विकृतिविषमसमवेतेषु कार्यद्रव्येषु उत्पद्यते।तस्य इमानि उदाहरणानि -

कारणम् कार्यम् (विकृतिविषमसमवेतम्)
मधु – अमारकम्

+
घृतम् - अमारकम्

मधुघृतसंयोगः मारकः
सूर्यावर्तजनकाः दोषाः-

सूर्यवृद्ध्या वर्धिष्णुत्वं न

सूर्यावर्तः

सूर्यवृद्ध्या वर्धिष्णुत्वम्

वातपित्तकफाः

श्यावरक्तकोठोत्पत्त्यादिलक्षणानि न

सान्निपातिकज्वरः

श्यावरक्तकोठोत्पत्त्यादिलक्षणानि सन्ति

कटुरसारम्भकभूते (वायुः+अग्निः)

वातकरत्वम्
+
तिक्तरसारम्भकभूते(वायुः+आकाशः)
वातकरत्वम्

वार्ताकम्

वातघ्नत्वम्

तस्मात् एतादृशेषु कार्यद्रव्येषु साक्षात् कार्यद्रव्यप्रभावं दृष्ट्वा एव निर्णयः कार्यः, न कारणधर्ममेलनेन।

विकृतिविषमसमवायस्य उदाहरणानि –[सम्पाद्यताम्]

१ संयोगः [सम्पाद्यताम्]

संयोगः पुनर्द्वयोर्बहूनां वा द्रव्याणां संहतीभावः, स विशेषमारभते, यं पुनर्नैकैकशो द्रव्याणि आरभन्ते; तद्यथा- मधुसर्पिषोः, मधुमत्स्यपयसां च संयोगः।च.वि.१.२२(३)
संयोगमाह - संयोगस्त्वित्यादि। स विशेषमारभत इति संयुज्यमानद्रव्यैकदेशेऽदृष्टं कार्यमारभत इत्यर्थः।यं नैकैकश इति यं विशेषं प्रत्येकमसंयुज्यमानानि द्रव्याणि नारभन्त इत्यर्थः। मधुसर्पिषी हि प्रत्येकम् अमारके मिलिते तु मारके भवतः, क्षीरमत्स्यादिसंयोगश्च कुष्ठादिकरो भवति। -चक्रपाणिः

अष्टसु आहारविधिविशेषायतनेषु संयोगः इति अन्यतमम् आयतनम्।तस्य लक्षणमत्र चरकाचार्येण कृतम्।प्रकृते द्रव्ययोः यः कोऽपि संहतीभावः संयोगसंज्ञकः न भवति।सः संहतीभावः विकृतिविषमसमवेतः अस्ति चेदेव तस्य संयोगसंज्ञा वक्तव्या।यदि सः संहतीभावः प्रकृतिसमसमवेतः अस्ति,तर्हि संयोगिद्रव्यप्रभावमेलनेन संयोगप्रभावस्य अनुमानं शक्यम्।तच्च स्वभावः इति प्रथमे एव आहारविधिविशेषायतने गतार्थम्।संयोगशब्देन तदेव उच्यते चेत् पुनरुक्तं स्यात्।संयोगे तस्य एव संहतीभावस्य अन्तर्भावः न्याय्यः, यत्र कारणधर्ममेलनमात्रेण कार्यधर्मनिश्चयः न भवति।तादृशः संहतीभावः इत्युक्ते विकृतिविषमसमवायः

२ पित्तज्वरलक्षणं भ्रमः- [सम्पाद्यताम्]

पैत्तिके भ्रम एव च॥ मा.नि.२.११

पित्तज्वरे भ्रमः इति अन्यतमं लक्षणं पठितम्।तद्विषये आक्षेपः तथा तस्य उत्तरम् अवलोकनीयम्।
ननु, भ्रमस्याशीतिवातविकारपठितस्य वातनानात्मजत्वात् कथं पित्तविकारे पाठः? उच्यते, ..... दोषदूष्यसम्मूर्छनप्रभावात् कारणादृष्टस्यापि रूपस्य कार्य उपलम्भः; यथा– अरूपवातारब्ध-अतिसारादौ इव अरुणत्वं, हरिद्राचूर्णसंयोग इव लौहित्यम्।- मधुकोशः

पित्तस्य नानात्मजविकारेषु अविद्यमानं लक्षणं पैत्तिकज्वरे कथं दृश्यते इति प्रश्नः। ‘कारणादृष्टस्यापि रूपस्य कार्य उपलम्भः’ इति तस्य उत्तरम्।अस्य वचनस्य अर्थः एवं यदयं विकृतिविषमसमवेतः अस्ति अतः कारणे पित्ते अनुपलभ्यमानमपि लक्षणं कार्ये पित्तज्वरे दृश्यते।

३ वातपित्तज्वरलक्षणानि[सम्पाद्यताम्]

अष्टाङ्गहृदये ज्वराध्याये प्रथमं पृथक् पृथक् वातज्वर-पित्तज्वर-कफज्वराणां लक्षणानि आचार्येण उक्तानि (अ.हृ.नि.२.१०-२२)।ततः द्वन्द्वज-ज्वरलक्षणानि वक्तव्यानि।तत्र इदं सूत्रं वर्तते –
यथास्वं लिङ्गसंसर्गे ज्वरः संसर्गजः...। अ.हृ.नि.२.२३

वातपित्तकफज्वराणां यानि पृथक् पृथक् लक्षणानि उक्तानि तेषां मेलः संसर्गजन्ये ज्वरे भवति इति सूत्रस्य आशयः।वस्तुतः अनेन संसर्गजन्यज्वरलक्षणानि उक्तानि भवन्ति।परम् आचार्यः पुनः
.....अपि च।अ.हृ.नि.२.२३
इति संसर्गज्वरलक्षणानि वक्तुम् आरभते।नैषः पुनरुक्तदोषः।तत्र टीकाकारौ स्पष्टीकुरुतः-

वातज्वरे शिरोऽर्त्यादीनि प्रायो दृष्टानि, कानिचित् तु पित्तज्वरे दृष्टानि, तानि च वातपित्तज्वरे दृश्यन्ते।तथा अन्यानि अपि अधिकानि अत्र वातपित्तज्वरे दृश्यन्ते, यानि न केवले वातज्वरे, नापि पित्तज्वरे दृष्टानि।एवम् अन्ययोः संसर्गज्वरयोः योज्यम्।अ.हृ.नि.२.२४ अरुणदत्तः।
विकृतिविषमसमवेत-वातपित्तज्वरज्ञानार्थम्।...प्रकृतिसमसमवेतवातपित्तज्वरज्ञाने तल्लिङ्गसंसर्गस्योपयोगः।अ.हृ.नि.२.२४ हेमाद्रिः

अनयोः टीकयोः सारः कोष्ठकरूपेण लिख्यते -

वातपित्तज्वरलक्षणानि= वातज्वरलक्षणानि+पित्तज्वरलक्षणानि प्रकृतिसमसमवेते (प्रकृतिसरूपे)वातपित्तज्वरे
वातपित्तज्वरलक्षणानि= वातज्वरलक्षणानि+पित्तज्वरलक्षणानि + अन्यानि अपि अधिकानि लक्षणानि विकृतिविषमसमवेते (प्रकृतिविरूपे)वातपित्तज्वरे
वातकफज्वरलक्षणानि= वातज्वरलक्षणानि+कफज्वरलक्षणानि प्रकृतिसमसमवेते (प्रकृतिसरूपे)वातकफज्वरे
वातकफज्वरलक्षणानि= वातज्वरलक्षणानि+कफज्वरलक्षणानि + अन्यानि अपि अधिकानि लक्षणानि विकृतिविषमसमवेते (प्रकृतिविरूपे)वातकफज्वरे
कफपित्तज्वरलक्षणानि= कफज्वरलक्षणानि+ पित्तज्वरलक्षणानि प्रकृतिसमसमवेते (प्रकृतिसरूपे)कफपित्तज्वरे
कफपित्तज्वरलक्षणानि= कफज्वरलक्षणानि+ पित्तज्वरलक्षणानि + अन्यानि अपि अधिकानि लक्षणानि विकृतिविषमसमवेते (प्रकृतिविरूपे)कफपित्तज्वरे

४ द्वन्द्वज-ज्वर-लक्षणानि[सम्पाद्यताम्]

द्वन्द्वजज्वरविषये मधुकोशकारः लिखति -
तृष्णा मूर्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा ।कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः ॥ मा.नि.२.१४
'पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः । मा.नि.२.१५

वातपित्तज्वरलक्षणमाह– ….एतानि च लिङ्गानि विकृतिविषमसमवायारब्धस्य बोद्धव्यानि। विकृतिविषमसमवायारब्धत्वं चैषां केवलवातिकपैत्तिकज्वरलक्षणानां मध्ये केषाञ्चिदेव नियमेन पाठात्तदतिरिक्तलक्षणपाठात् च बोद्धव्यम्। यथा- अत्रैव वातपैत्तिकेऽरुचिरोमहर्षौ, वक्ष्यमाणवातश्लैष्मिके स्वेदः सन्तापश्च, एवं कफपैत्तिके अनवस्थितशीतदाहौ, एवं सन्निपातजे सास्रकलुषादिनेत्रत्वं शिरोलोठनादि। प्रकृति-समवायारब्धे तु वातजादिज्वरलिङ्गान्येव समस्तानि कतिपयानि वा भवन्ति। अत एव चिकित्सिते चरकः विकृतिविषमसमवायारब्धानां द्वन्द्वसन्निपातज्वराणां लक्षणानि साक्षात् पठित्वा निदानस्थानोक्तवातादिज्वरलिङ्गातिदेशेन प्रकृतिसमसमवेतानां द्वन्द्वसन्निपातज्वराणां लक्षणमुक्तवान्। यदाह- “निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः। संसर्गसन्निपातानां तथा चोक्तं स्वलक्षणम्॥” (च.चि.अ.३)इति। एवं वक्ष्यमाणं द्वन्द्वसन्निपातलक्षणं व्याख्येयम्। - मा.नि.२.१४ मधुकोशः

द्वन्द्वज्वरलक्षणविषये उपरि यत् कोष्ठकं रचितं, तदस्याः टीकायाः आधारेण परिष्कुर्मः।

वातपित्तज्वरलक्षणानि= वातज्वरलक्षणानि+पित्तज्वरलक्षणानि प्रकृतिसमसमवेते (प्रकृतिसरूपे)वातपित्तज्वरे
वातपित्तज्वरलक्षणानि= वातज्वरलक्षणानि+पित्तज्वरलक्षणानि+ अरुचिरोमहर्षौ विकृतिविषमसमवेते (प्रकृतिविरूपे)वातपित्तज्वरे
वातकफज्वरलक्षणानि= वातज्वरलक्षणानि+कफज्वरलक्षणानि प्रकृतिसमसमवेते (प्रकृतिसरूपे)वातकफज्वरे
वातकफज्वरलक्षणानि= वातज्वरलक्षणानि+कफज्वरलक्षणानि + स्वेदः सन्तापश्च विकृतिविषमसमवेते (प्रकृतिविरूपे)वातकफज्वरे
कफपित्तज्वरलक्षणानि= कफज्वरलक्षणानि+ पित्तज्वरलक्षणानि प्रकृतिसमसमवेते (प्रकृतिसरूपे)कफपित्तज्वरे
कफपित्तज्वरलक्षणानि= कफज्वरलक्षणानि+ पित्तज्वरलक्षणानि + अनवस्थितशीतदाहौ विकृतिविषमसमवेते (प्रकृतिविरूपे)कफपित्तज्वरे

५ सन्निपातज्वरलक्षणानि -[सम्पाद्यताम्]

सुश्रुताचार्येण सन्निपातज्वरस्य लक्षणानि पृथगुक्तानि।एतावता सन्निपातलक्षणानि उक्तानि सन्ति। तथापि अन्ते सः लिखति-
सर्वजे सर्वलिङ्गानि... ।सु.उ.३९.३८

यदि नाम सर्वजे सर्वदोषाणां लिङ्गानि आविर्भवन्ति,तर्हि पूर्वं कानिचनलक्षणानि पृथक् किमर्थम् उक्तानि?अस्योत्तरं वदति टीकाकारः -
निद्रानाश इत्यादिपाठेन विकृतिविषमसमवेतस्य सन्निपातस्य लक्षणमभिधाय प्रकृतिसमसमवेतस्य लक्षणमाह- सर्वजे इत्यादि। सर्वदोषजे सर्वलिङ्गानि प्रत्येकवातादिज्वरोक्तलक्षणानि।-डह्लणः

निद्रानाशः…इत्यादीनि लक्षणानि= विकृतिविषमसमवेतस्य (प्रकृतिविरूपस्य)सन्निपातस्य लक्षणानि
सर्वजे सर्वलिङ्गानि= प्रकृतिसमसमवेतस्य (प्रकृतिसरूपस्य)सन्निपातस्य लक्षणानि

सन्निपातज्वरे चरकाचार्येण अपि एवं द्विविधानि लक्षणानि उक्तानि-
... सन्निपातज उच्यते॥८९
इत्यतः आरभ्य
...सन्निपातज्वराकृतिः।च.चि.३.१०९
इत्यन्तं सन्निपातज्वरस्य नैकानि लक्षणानि उक्तानि।तेषु कानिचन प्रकृतिसमसमवेतसन्निपातस्य (प्रकृतिसरूपस्य) सन्ति, कानिचन विकृतिविषमसमवेतसन्निपातस्य (प्रकृतिविरूपस्य) सन्ति इति चक्रपाणिः।
…..सामान्येन यान्यत्र प्रायः प्रादुर्भवन्ति तानि विकृतिविषमसमवायारब्धानि तथा प्रकृतिसम-समवाय-आरब्धानि च लक्षणान्युच्यन्ते; …।चक्रपाणिः

साङ्ख्यायुर्वेदयोः