काव्यप्रकाश

विकिपुस्तकानि तः
Jump to navigation Jump to search

ॐ नमः शिवाय

काव्यप्रकाशकारिकावली

नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचितां निर्मितिमादधती भारती कवेर्जयति ॥ काप्र-१ ॥

काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ काप्र-२ ॥

शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ काप्र-३ ॥

तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि ।
इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥ काप्र-४ ॥

अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ।
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ काप्र-५ ॥

स्याद्वाचको लाक्षणिकः शब्दो ऽत्र व्यञ्जकस्त्रिधा ।
वाच्यादयस्तदर्थाः स्युस्तात्पर्यार्थो ऽपि केषुचित् ॥ काप्र-६ ॥

सर्वेषां प्रायशो ऽर्थानां व्यञ्जकत्वमपीष्यते ।
साक्षात्संकेतितं यो ऽर्थमभिधत्ते स व्=अचकः ॥ काप्र-७ ॥

सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा ।
स मुख्यो ऽर्थस्तत्र मुख्यो व्यापारो ऽस्याभिधोच्यते ॥ काप्र-८ ॥

मुख्यार्थबाधे तद्योगे रूढितो ऽथ प्रयोजनात् ।
अन्यो ऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ काप्र-९ ॥

स्वासिद्धये पराक्षेपः परार्थं स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ काप्र-१० ॥

सारोपान्या तु यत्रोक्तौ विष्यी विषयस्तथा ।
विष्यय्यन्तःकृतेन्यस्मिन् सा स्यात्साध्यवसानिका ॥ काप्र-११ ॥

भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा ।
गौणौ शुद्धौ च विज्ञेयौ लक्षणा तेन षड्विधा ॥ काप्र-१२ ॥

व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने ।
तच्च गूढमगूढं वा तदेषा कथिता त्रिधा ॥ काप्र-१३ ॥

तद्भूलक्षिणिकस्तत्र व्यापारो व्यञ्जनात्मकः ।
यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ काप्र-१४ ॥

फले शब्दैकगम्ये ऽत्र व्यञ्जनान्नापरा क्रिया ।
नाभिधा समयाभावाद्धेत्वभावान्न लक्षणा ॥ काप्र-१५ ॥

लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो ।
न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः ॥ काप्र-१६ ॥

एवमप्यनवस्था स्याद् या मूलक्षयकारिणी ।
प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ काप्र-१७ ॥

ज्ञानस्य विष्यो ह्यन्यः फलमन्यदुदाहृतम् ।
विशिष्टे लक्षणा नैवं विशेषाः स्युस्तु लक्षिते ॥ काप्र-१८ ॥

अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ काप्र-१९ ॥

तद्युक्तो व्यञ्जकः शब्दो यत्सो ऽर्थान्तरयुक् तथा ।
अर्थो ऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥ काप्र-२० ॥

अर्थाः प्रोक्ताः पुरा तेषामर्ह्तव्यञ्जकतोच्यते ।
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ॥ काप्र-२१ ॥

प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम् ।
यो ऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥ काप्र-२२ ॥

शब्दप्रमाणवेद्योर्ऽर्थो व्यनक्त्यर्थान्तरं यतः ।
अर्थस्य व्य्ञ्जकत्वे तच्छब्दस्य सहकारिता ॥ काप्र-२३ ॥

अविवक्षितवाच्यो तस्तत्र वाच्यं भवेद्ध्वनौ ।
अर्थान्तरे सङ्क्रिमितमत्यन्तं वा तिरस्कृतम् ॥ काप्र-२४ ॥

विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः ।
पो ऽप्यलक्ष्यक्रमव्यञ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः ॥ काप्र-२५ ॥

रसभावतदाभावभावशान्त्यादिरक्रमः ।
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥ काप्र-२६ ॥

कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ काप्र-२७ ॥

विभावा अबुभावास्तत् कथ्यन्ते व्यभिचारिणः ।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ काप्र-२८ ॥

सृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ काप्र-२९ ॥

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ काप्र-३० ॥

निर्वेदग्लानिशङ्काख्यास्तथासूया मदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ काप्र-३१ ॥

व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ काप्र-३२ ॥

सुप्तं प्रबोधोमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ काप्र-३३ ॥

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रिंस्त्रिशदमी भावाः समाख्यातास्तु नामतः ॥ काप्र-३४ ॥

निर्वेदस्थायिभावो ऽस्ति शान्तो ऽपि नवमो रसः ।
रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ॥ काप्र-३५ ॥

भावः प्रोक्तस्तदाभासा अनौचित्यप्रवर्त्तिताः ।
भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥ काप्र-३६ ॥

मुख्ये रसे ऽपि तेङ्गित्वं प्राप्नुवन्ति कदाचन ।
अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ॥ काप्र-३७ ॥

शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः ।
अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते ॥ काप्र-३८ ॥

प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ।
अर्थशक्त्युद्भवो ऽप्यर्थो व्यञ्जकः संभवी स्वतः ॥ काप्र-३९ ॥

प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा ।
वस्तु वालङ्कृतिर्वेत्य् षड्भेदो ऽसौ व्यनक्ति यत् ॥ काप्र-४० ॥

वस्त्वलङ्कारमथवा तेनायं द्वादशात्मकः ।
शब्दार्थोभयभूरेको भेदा अष्टादशास्य तत् ॥ काप्र-४१ ॥

रसादीनामनन्तत्वाद्भेद एको हि गण्यते ।
वाक्ये द्व्युत्थः पदे ऽप्यन्ये प्रबन्धे ऽप्यर्थशक्तिभूः ॥ काप्र-४२ ॥

पदैकदेशरचनावर्णेष्वपि रसादयः ।
भेदास्तदेकपञ्चाशत्तेषां चान्योन्ययोजने ॥ काप्र-४३ ॥

संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया ।
वेदखाब्धिवियच्चन्द्राः शरेषुयुगखेन्दवः ॥ काप्र-४४ ॥

अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गम्स्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ काप्र-४५ ॥

व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ।
एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ॥ काप्र-४६ ॥

सालङ्कारैर्ध्वनेस्तैश्च योगः ससृष्टिसङ्करैः ।
अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी ॥ काप्र-४७ ॥

शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् ।
गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ॥ काप्र-४८ ॥

मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः ।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ काप्र-४९ ॥

दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् ।
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाश्लीलम् ॥ काप्र-५० ॥

सन्दिग्धमप्रत्=इतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् ।
अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥ काप्र-५१ ॥

अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
वाक्ये ऽपि दोषाः सन्त्येते पदस्यांशे ऽपि केचन ॥ काप्र-५२ ॥

प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् ।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥ काप्र-५३ ॥

अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् ।
अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिहतम् ॥ काप्र-५४ ॥

भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा ।
अर्थोपुष्टः कष्टो व्याहतपुनरेक्तदुष्क्रमग्राम्याः ॥ काप्र-५५ ॥

संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ।
अनवीकृतः सनियमानियमविशेषा विशेषपरिवृत्ताः ॥ काप्र-५६ ॥

साकाङ्क्षोपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्धः ।
विध्यनुवादायुक्तत्यक्तपुनःस्वीकृतोश्लीलः ॥ काप्र-५७ ॥

कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः ।
संनिधानादिबोधार्थं स्थितेष्वेतत्समर्थनम् ॥ काप्र-५८ ॥

ख्याते ऽर्थे निर्हेतोरदुष्टतानुक्रणे तु सर्वेषाम् ।
वक्त्राद्यौचित्यवशाद्दोषो ऽपि गुणः क्वचित्क्वचिन्नोभौ ॥ काप्र-५९ ॥

व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥ काप्र-६० ॥

प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ।
अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥ काप्र-६१ ॥

अङ्गिनोननुसंधानं प्रकृतीनां विपर्ययः ।
अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥ काप्र-६२ ॥

न दोषः स्वपदेनोक्तावपि संचारिणः क्वचिद् ।
संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ काप्र-६३ ॥

आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः ।
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ काप्र-६४ ॥

स्मर्यमाणो विरुद्धो ऽपि साम्येनाथ विवक्षितः ।
अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥ काप्र-६५ ॥

ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ काप्र-६६ ॥

उपकुर्वन्ति तं सन्तं येङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्तेनप्रासोपमादयः ॥ काप्र-६७ ॥

माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश ।
आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥ काप्र-६८ ॥

करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ काप्र-६९ ॥

बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च ।
शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ॥ काप्र-७० ॥

व्याप्नोत्यन्यत् प्रसादो ऽसौ सर्वत्र विहितस्थितिः ।
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ काप्र-७१ ॥

केचिदन्तर्भवब्त्येषु दोषत्यागात्परे श्रिताः ।
अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ काप्र-७२ ॥

तेन नार्थगुणा वाच्याः प्रोक्ताः शब्दगुणाश्च ये ।
वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥ काप्र-७३ ॥

मुर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू ।
आवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥ काप्र-७४ ॥

योग आद्यतृतीयाम्यामन्त्ययो रेण तुल्ययोः ।
टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धृत ओजसि ॥ काप्र-७५ ॥

श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणो मतः ॥ काप्र-७६ ॥

वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ काप्र-७७ ॥

यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्त्रोक्तिस्तथा द्विधा ॥ काप्र-७८ ॥

वर्णसाम्यमनुप्रासश् छेकवृत्तिगतो द्विधा ।
सो ऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥ काप्र-७९ ॥

माधुर्यव्य्ञ्जकैर्वर्णैरुपनागरिकोच्यते ।
ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ॥ काप्र-८० ॥

केषाञ्चिदेता वैदर्भीप्रमुखा रीतयो मताः ।
शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥ काप्र-८१ ॥

पदानां सः पदस्यापि वृत्तावन्यत्र तत्र वा ।
नाम्नः स वृत्त्यवृत्त्योश्च तदेवं पञ्चधा मतः ॥ काप्र-८२ ॥

अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः ।
यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ काप्र-८३ ॥

वाच्यभेदेन भिन्ना तद् युगपद्भाषणस्पृशः ।
श्लिष्यन्ति शब्दाः श्लेषोसावक्षरादिभिरष्टधा ॥ काप्र-८४ ॥

भेदाभावात्प्रकृत्यादेर्भेदो ऽपि नवमो भवेत् ।
तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ॥ काप्र-८५ ॥

पुनरेक्तवदाभासो विभिन्नाकारशब्दगा ।
एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् ॥ काप्र-८६ ॥

साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा ।
श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥ काप्र-८७ ॥

तद्वद् धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः ।
उपमानानुपादाने वाक्यगाथ समासगा ॥ काप्र-८८ ॥

वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि ।
कर्मकर्त्रोर्णमुल्येतद्द्विलोपे क्विप्समासगा ॥ काप्र-८९ ॥

धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते ।
क्यचि वाद्युपमेयासे त्रिलोपे च समासगा ॥ काप्र-९० ॥

उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ।
अनन्वयो विपर्यास उपमेयोपमा तयोः ॥ काप्र-९१ ॥

संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।
ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ काप्र-९२ ॥

तद्रूपकमभेदो य उपमानोपमेययोः ।
समस्तवस्तुचिष्यं श्रौता आरोपिता यदा ॥ काप्र-९३ ॥

श्रौता आर्थश्च ते यस्मिन्नेकदेशशविवर्ति तत् ।
साङ्गमेतन् निरङ्गं तु शुद्धं माला तु पूर्ववत् ॥ काप्र-९४ ॥

नियतारोपणोपायः स्यादारोपः परस्य यः ।
तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥ काप्र-९५ ॥

प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः ।
श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ॥ काप्र-९६ ॥

परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर्निदर्शना ।
अभवन्वस्तुसंबन्ध उपमापरिकल्पकः ॥ काप्र-९७ ॥

स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा ।
अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ काप्र-९८ ॥

कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ काप्र-९९ ॥

निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् ।
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ काप्र-१०० ॥

कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः ।
विज्ञेयातिशयोक्तिः सा प्रतिवस्तूपमा तु सा ॥ काप्र-१०१ ॥

सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः ।
दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥ काप्र-१०२ ॥

सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ काप्र-१०३ ॥

मालादीपकमाद्यं चेत्यथोत्तरगुणावहम् ।
नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥ काप्र-१०४ ॥

उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।
हेत्वोर्कुतावनुक्तीनां त्रये साम्ये निवेदिते ॥ काप्र-१०५ ॥

शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् ।
निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ काप्र-१०६ ॥

वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ।
क्रियायाः प्रतिषेधे ऽपि फलव्यक्तिर्विभावना ॥ काप्र-१०७ ॥

विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।
यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ काप्र-१०८ ॥

सामान्यं वा विशेषो वा तदन्येन समर्थ्यते ।
यत्तु सो ऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ काप्र-१०९ ॥

विरोधः सोविरोधे ऽपि विरुद्धत्वेन यद्वचः ।
जातिश्चतुर्भिजात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः ॥ काप्र-११० ॥

क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश ।
स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥ काप्र-१११ ॥

व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा ।
सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ काप्र-११२ ॥

विनोक्तिः सा बिनान्येन यत्रान्यः सन्न नेतरः ।
परिवृत्तिर्विनिमयो यो ऽर्थानां स्यात्समासमैः ॥ काप्र-११३ ॥

प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।
तद्भाविकं काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ काप्र-११४ ॥

पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः ।
उदात्तं वस्तुनः संपत् महतां चोपलक्षणम् ॥ काप्र-११५ ॥

तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् ।
समुच्चयो ऽसौ स त्वन्यो युगपद् या गुणक्रियाः ॥ काप्र-११६ ॥

एकं क्रमेणानेकस्मिन् पर्यायो ऽन्यस्ततो ऽन्यथा ।
अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ॥ काप्र-११७ ॥

विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः ।
व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥ काप्र-११८ ॥

किञ्चित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते ।
तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ काप्र-११९ ॥

यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता ।
तदा कारणमाला स्यात् क्रियया तु परस्परम् ॥ काप्र-१२० ॥

वस्तुनोर्जनने ऽन्योन्यमुत्तरश्रुतिमात्रतः ।
प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥ काप्र-१२१ ॥

असकृद् यदसंभाव्यमुत्तरं स्यात् तदुत्तरम् ।
कुतो ऽपि लक्षितः सूक्ष्मो ऽप्यर्थो ऽन्यस्मै प्रकाश्यते ॥ काप्र-१२२ ॥

धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते ।
उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥ काप्र-१२३ ॥

भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः ।
युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥ काप्र-१२४ ॥

समाधिः सुकरं कार्यं कारणान्तरयोगतः ।
समं योग्यतया योगो यदि संभावितः क्वचित् ॥ काप्र-१२५ ॥

क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् ।
कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ॥ काप्र-१२६ ॥

गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये ।
क्रमेण च विरुद्धे यत् स एष विषमो मतः ॥ काप्र-१२७ ॥

महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् ।
आश्रयाश्रयिणौ स्यातां तनुत्वे ऽप्यधिकं तु तत् ॥ काप्र-१२८ ॥

प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया ।
या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥ काप्र-१२९ ॥

समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते ।
निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ काप्र-१३० ॥

स्थाप्यतेपोह्यते वापि यथापूर्वं परं परम् ।
विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ काप्र-१३१ ॥

यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः ।
स्मरणं भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने ॥ काप्र-१३२ ॥

आक्षेप उपमानस्य प्रतीपमुपमेयता ।
तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥ काप्र-१३३ ॥

प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया ।
ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥ काप्र-१३४ ॥

विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः ।
एकात्मा यगपद्दृत्तिरेकस्यानेकगोचरा ॥ काप्र-१३५ ॥

अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः ।
तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥ काप्र-१३६ ॥

स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् ।
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ काप्र-१३७ ॥

तद्रूपाननुहारश्चेदस्य तत् स्यादतद्गुणः ।
यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ काप्र-१३८ ॥

तथैव यद्विधीयेत स व्याघात इति स्मृतिः ।
सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ काप्र-१३९ ॥

अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः ।
एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ काप्र-१४० ॥

स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयम् ।
व्यवस्थितं च तेनासौ त्रिरूपः परिकीर्तितः ॥ काप्र-१४१ ॥

एषां दोषा यथायोगं संभवन्तो ऽपि केचन ।
उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ॥ काप्र-१४२ ॥


इति काव्यप्रकाशीयकारिकावली समाप्ता


सन्दर्भ[सम्पाद्यताम्]

उपरोक्त सामग्री यहाँ से रोमन यूनिकोड में ली गयी
और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (30-01-2008)

"https://sa.wikibooks.org/w/index.php?title=काव्यप्रकाश&oldid=5168" इत्यस्माद् पुनः प्राप्तिः