काव्यप्रकाशः

Wikibooks तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

मम्मटभट्टविरचितः काव्यप्रकाशः

प्रथमोल्लासः[सम्पाद्यताम्]

ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत्परामृशति -

नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।

नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।। 1 ।।

नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षट्रसा न च हृद्यैव तैः तादृशी ब्रह्मणो निर्मितर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यत इति तां प्रत्यस्मि प्रणत इति लभ्यते ।

इहाभिधेयं सप्रयोजनमित्याह-

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये |

सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे || 2 ||

कालिदासादीनामिव यशः, श्रीहर्षादेः धावकादीनामिव धनम्, राजादिगतोचिताचारपरिज्ञानम्, आदित्यादेः मयूरादीनामिव अनर्थनिवारणम्, सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वदनसमुद्भूतं विगलितवेद्यान्तरम् आनन्दम्, प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्च शब्दार्थयोः गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म, तत् कान्तेव सरसतापादनेन अभिमुखीकृत्य रामादिवत् वर्तितव्यं न रावणादिवत् इत्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् ।।

शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् |

काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे || 3 ||


तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि |

इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः || 4 ||


अतादृशी गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ।

शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ।। 5 ।।


इति प्रथमोल्लासः ।।


द्वितीयोल्लासः[सम्पाद्यताम्]

तृतीयोल्लासः[सम्पाद्यताम्]

चतुर्थोल्लासः[सम्पाद्यताम्]

यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणालंकाराणां स्वरूपमभिधानीयम्‌ तथापि धर्मिणि प्रदर्शिते धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदान्‌ आह।

(सू ३९)  अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्‌ध्वनौ।  

अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्‌ ॥ २४ ॥

लक्षणामूलगूढव्यङ्‌ग्यप्राधान्ये सत्येव,  विवक्षितं वाच्यं यत्र स ध्वनौ' इत्यनुवादात्‌ ध्वनिरिति ज्ञेय। तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम्‌। यथा -

त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति। आात्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्‌॥२३॥

अत्र वचनादि, उपदेशादिरूपतया परिणमति। क्वचिदनुपपद्यमानतया, अत्यन्तं तिरस्कृतम्‌। यथा -

उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्‌। विदधदीदृशमेव सदा सखे सुखितमास्स्व तत शरदां शतम्‌॥२४॥

एतद्‌ अपकारिणं प्रति विपरीतलक्षणया कश्चिद्वक्ति॥

(सू ४०) विवक्षितं चान्यपरं वच्यं यत्रापरस्तु सः। अन्यपरं व्यङ्‌ग्यनिष्ठम्‌॥ एष च (सू ४१) कोऽप्यलक्ष्यक्रमव्यङ्‌ग्यो लक्ष्यव्यङ्‌ग्यक्रमः परः॥ २५ ॥ अलक्ष्येति। न खलु विभावानुभावव्यभिचारिण एब रसः। अपि तु रसस्तैः, इत्यस्तिक्रमः। स तु लाघवान्न लक्ष्यते॥ अत्र (सू ४२) रसभावतदाभासभावशान्त्यादिरक्रमः। भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ॥ २६ ॥ आदिग्‌हणाद्‌भावोदयभावसंधिभावशबलत्वानि। प्रधानतया यत्र स्थितो रसादिस्तत्रालंकार्यः, यथोदाहरिष्यते। अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्‌गभूतो रसादिस्तत्र गुणीभूतव्यङ्‌गये रसवत्प्रेयऊर्जस्विसमाहितादयोऽलंकाराः। ते च गुणीभूतव्यङ्‌ग्याभिधाने, उदाहरिष्यन्ते॥ तत्र रसस्वरूपमाह (सू ४३) कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादे स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ २७ ॥ विभावा अनुभावास्तत्‌ कथ्यन्ते व्यभिचारिण। व्यक्त स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ २८ ॥ उक्तं हि भरतेन - विभावानुभावव्यमिचारिसंयोगाद्‌ रसनिष्पत्तिः इति। एतदि्‌ववृण्वते - विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैः, स्थायी रत्यादिको भावो जनितः, अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यै प्रतीतियोग्यः कृतः, व्यभिचारिभिर्निर्वेदादिभिः सहकारिभिरुपचितः, मुख्यया वृत्या रामादावनुकार्ये तद्रूपतानुसंधानान्नर्तकेऽपि प्रतीयमानो रसः इति भट्‌टलोल्लटप्रभृतयः। राम एवायम्‌ अयमेव राम इति न रामोऽयम्‌' इत्यौत्तरकालिके बाधे रामोऽयमिति राम स्याद्वा न वायमिति रामसदृशोऽयमिति च सम्यङि्‌मथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्रतिपत्या ग्राह्ये नटे - सेयं ममाङ्‌गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः। मनोरथश्रीर्मनसश्शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥२५॥ दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्च। अविरलविलोलजलदः कालः समुपागतश्चायम्‌'॥२६॥ इत्यादिकाव्यानुसंधानबलाच्छिक्षाभ्यासनिर्वर्तितस्वकार्यप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः संयोगात्‌' गम्यगमकभावरूपात्‌ अनुमीयमानोऽपि वस्तुसौन्दर्यबलाद्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्‌कुकः। न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नामिव्यज्यते, अपि तु काव्ये नाटये चाभिधातो द्वितीयेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सत्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतत्वेन भोगेन भुज्यते, इति भट्‌टनायकः। लोके प्रमदादिभिः स्थाय्यनुमानेऽभ्यासपाटववतां काव्ये नाटये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारवत्वादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते न शत्रोरेवैते न तटस्थस्यैवैते, इति संबन्धविशेषस्वीकारपरिहारनियमानध्यवसायात्‌ साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात्‌ तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतः चर्व्यमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्फुरन्‌ हृदयमिव प्रविशन्‌ सर्वाङ्‌गीणमिवालिङ्‌गन्‌ अन्यत्‌ सर्वमिव तिरोदधत्‌ ब्रह्मानन्दास्वादमिवानुभावयन्‌ अलौकिकचमत्कारकारी शृङ्‌गारादिको रसः। स च न कार्यः। विभावादिविनाशेऽपि तस्य सम्भवप्रसङ्‌गात्‌। नापि ज्ञाप्यः सिद्धस्य तस्यासम्भवात्‌। अपि तु विभावादिभिर्व्यञ्जितः चर्वणीयः। कारकज्ञापकाभ्यामन्यत्‌ क्व दृष्टमिति चेत्‌, न क्वचिद्दृष्टमित्यलौकिकसिद्धेर्भूषणमेतन्न दूषणम्‌। चर्वणानिष्पत्या तस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम्‌। लौककिप्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंवेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्येयोऽप्यभिधीयताम्‌। तद्‌ग्राहकं च प्रमाणं न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात्‌। नापि सविकल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात्‌। उभयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः॥


पञ्चमोल्लासः[सम्पाद्यताम्]

षष्ठोल्लासः[सम्पाद्यताम्]

सप्तमोल्लासः[सम्पाद्यताम्]

अष्टमोल्लासः[सम्पाद्यताम्]

नवमोल्लासः[सम्पाद्यताम्]

दशमोल्लासः[सम्पाद्यताम्]

"http://sa.wikibooks.org/w/index.php?title=काव्यप्रकाशः&oldid=5087" इत्यस्माद् पुनः प्राप्तिः