कासिने च्छर्दनं दद्यात्...

विकिपुस्तकानि तः
Jump to navigation Jump to search

विषयः-
कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान्।वातश्लेष्महरैर्युक्तं तमके तु विरेचनम्।च. चि. १७.१२१

विशयः- पूर्वपद्यस्यान्तिमं पदद्वयमत्र योजनीयं न योजनीयं वा?

पूर्वपक्षः-
नायं परिपूर्णः श्लोकः इति मन्ये।अर्थपूर्त्यर्थं पूर्वपद्यस्यान्तिमं पदद्वयमत्र योजनीयम् यथा-
एते हि कफसंरुद्धगतिप्राणप्रकोपजाः।तस्मात्तन्मार्गशुद्ध्यर्थं देया लेहा न निष्कफे॥१२०
कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान्।वातश्लेष्महरैर्युक्तं तमके तु विरेचनम्।१२१
उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्।यथा तथानिलस्तस्य मार्गं नित्यं विशोधयेत्॥१२२
तेनान्वय एवं भविष्यति –
निष्कफे तमके कासिने स्वरभङ्गे च च्छर्दनं न दद्यात् ,
(अपि) तु बुद्धिमान् वातश्लेष्महरैर्विरेचनं दद्यात्।
वस्तुतः कफप्रधानावस्थायां विरेचनं सम्यङ्न भवति, विरेचनद्रव्येणापि वमनमेव भवति (च.क. १.१२)। तथापि निष्कफे विरेचनं दद्यादिति वचनस्य किं वा प्रयोजनमिति चेद् उच्यते। अत्र वातश्लेष्महरैर्द्रव्यैर्विरेचनं दातव्यमिति ग्रन्थकारस्याशयः।एतादृशानि वातश्लेष्महराणि विरेचनद्रव्याणि कल्पस्थाने सप्तमे द्वादशे चाध्याये वर्णितानि सन्ति।

उत्तरपक्षः-
१ पूर्वतनैराधुनिकैश्चापि कृतोऽर्थः अपूर्णोऽस्तीति उक्तम्।तत्र अपूर्णता का इति नैव दर्शिता।
२ निष्कफे तमके कासिने स्वरभङ्गे च च्छर्दनं न दद्यात् इति अन्वयमुचितं मन्यते पूर्वपक्षः। इदं तु निषेधवाक्यम्। मीमांसादृष्ट्या निषेधः प्राप्तिपूर्वको भवति।यत्र प्राप्तिरेव नास्ति तत्र निषेधेन किं वा प्रयोजनम्? प्रकृते निष्कफे कासे वमनस्य प्राप्तिः कुत: विद्यते ?वमनं कफप्रधाने रोगे विहितम्। अत्र तु कासः निष्कफः। तत्र वमनस्य प्राप्तिरेव नास्ति, किं निषेधेन? अत पूर्वपक्षाभिमतः अन्वयः न शास्त्रीयः।
३ निष्कफे कासिने - - - बुद्धिमान् वातश्लेष्महरैर्विरेचनं दद्यात् इत्यस्मिन् अन्वयेऽपि दोषो विद्यते।कासो यदि निष्कफः: तर्हि श्लेष्महरं विरेचनं किमर्थम्?
४ तमके तु विरेचनम् इत्यत्र तुकारेण पक्षव्यावृत्तिH सूच्यते।यदि
निष्कफे तमके कासिने स्वरभङ्गे च च्छर्दनं न दद्यात् ,(अपि) तु बुद्धिमान् सर्वत्र वातश्लेष्महरैर्विरेचनं दद्यात्। तर्हि तुशब्देन किं व्यावृत्तं कुतः व्यावृत्तम् ?

निर्णयः-
अतः पूर्वसूरिभिः कृतोऽन्वय एव साधुत्वं भजते।

भिषग् भिषजा सह