किमर्थं शब्दानुशासनम्?
किमर्थं शब्दानुशासनम्?(व्याकरणशास्र्तस्य प्रयोजनं किम्?)
रक्षा-ऊह-आगम-लघु-असन्देहा: प्रयोजनानि।एतदर्थं शब्दानुशासनम्।
रक्षा।
व्याकरणस्य अध्ययनेन वेदानां रक्षा भवति अत: व्याकरणम् अध्येयम्।
ऊह:।
वेदमन्त्रेषु सर्वेषां लिङ्गानां वचनानां साक्षाद् निर्देश: नास्ति।सन्दर्भानुसारं लिङ्गे वचने वा परिवर्तनं कृत्वा मन्त्र: पठनीय:।एतत् परिवर्तनं व्याकरणज्ञानं विना न शक्यम्।अत: व्याकरणम् अध्येयम्।अत्र एतद् उदाहरणम्- पुत्र: अपेक्षित: चेत् पुंसवनकर्मणि ...वीरं ददतु मे सुतम्। इत्यन्त: मन्त्र: वक्तव्य:।कन्या अपेक्षिता चेत् स्वतन्त्र: मन्त्र: नास्ति।एतस्मिन् मन्त्रे तथा परिवर्तनं स्वयं करणीयम् – वीरां ददतु मे सुताम् इति।एतदर्थं
सुतशब्दस्य सुतम् इति द्वितीयाविभक्तिरूपम् अस्ति,
सुतशब्दस्य स्त्रीलिङ्गं सुता भवति,
सुताशब्दस्य अपि अत्र द्वितीया विभक्ति: योजनीया,
सुता इति शब्दस्य द्वितीयायाम् एकवचनस्य रूपम् सुताम् इति भवति,
वीरशब्द: सुतशब्दस्य विशेषणम् अस्ति अत: सुतस्य स्थाने भिन्नलिङ्ग: शब्द: योजित: चेत् तदनुकूलं वीरशब्दस्य अपि लिङ्गपरिवर्तनं कार्यम्,
वीरशब्दस्य स्त्रीलिङगे द्वितीयायाम् एकवचनं वीराम् इति भवति,
इति एतावद् व्याकरणज्ञानम् आवश्यकम्।तद्विना ऊह: न शक्य:।एवमूहसामर्थ्यम् अस्माकं भवेदिति अध्येयं व्याकरणम्।
आगम:
आगम: नाम वेद:।वेदाज्ञा एवमस्ति यद् ब्राह्मणेन षडङ्गाध्ययनं फलाशारहितं करणीयम्।षडङ्गे व्याकरणस्य समावेश: अस्ति अत: अध्येयं व्याकरणम्।
लघु:।
भाषाध्ययनस्य व्याकरणमिति लघुमार्ग:।अतोऽध्येयं व्याकरणम्।
असन्देह:।
व्याकरणज्ञानेन विना वाक्यस्य सन्देहरहितं ज्ञानं न सम्भवति।अत: व्याकरणमध्येयम्।
व्याकरणाध्ययनस्य इमानि अन्यानि प्रयोजनानि सन्ति-
तेऽसुरा:।
असुरा: ‘हेऽरय: हेऽरय:’ इत्यस्य स्थाने ‘हेलय: हेलय:’ इति उक्तवन्त:।अशुद्धोच्चारणेन देवेभ्य: ते पराभूता: इति अस्ति पुराकथा।एवमस्माकमपि पराभव: न भवेदिति अध्येयं व्याकरणम्।
दुष्ट: शब्द:
दुष्ट: शब्द: स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह|स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रु: स्वरतोऽपराधात्॥
कश्चिद् याजक: इन्द्रस्य घातकं पुत्रम् ऐच्छत्।घातक: नाम शत्रु:।तदर्थं स: यज्ञं चकार।यज्ञे ऋत्विग्भि: इन्द्रशत्रु: इति शब्दस्य उच्चार: तत्पुरुषसमासानुकूल: (इन्द्रस्य शत्रु:) न कृत:, बहुव्रीहि-समासानुकूल: (इन्द्र: शत्रु: यस्य स:) कृत:।पुत्र: जात:।स: अग्रे युद्धे इन्द्रेण घातित:।तथैव प्रार्थितम् आसीद् ऋत्विग्भि:।व्याकरणज्ञानाभावाद् याजक: वञ्चित:।एतादृशं वञ्चनम् अस्माकं न भवेदिति अध्येयं व्याकरणम्।
यदधीतम्-
यदधीतमविज्ञातं निगदेनैव शब्द्यते।अनग्नौ इव शुष्कैधो न तद् ज्वलति कर्हिचित्॥
अधीतं कण्ठगतम्। अधीतस्य अर्थबोध: नास्ति चेत् तत्सर्वं व्यर्थम्।काष्ठमस्ति परमग्नि: नास्ति चेत् ज्वलनं न भविष्यति, प्रकाश: न भविष्यति।एवम् अधीतमस्ति परं व्याकरणज्ञानं नास्ति चेत् अधीतस्यार्थप्रकाश: न भविष्यति। अधीतस्यार्थप्रकाश: भवेदिति अध्येयं व्याकरणम्।
यस्तु प्रयुङ्क्ते।–
यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले।सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दै:॥
य: व्यवहारकाले शब्दान् योग्यरीत्या प्रयुङ्क्ते, स: जयं प्राप्नोति।य: अपशब्दान् प्रयुङ्क्ते, स: पापं प्राप्नोति।अस्माकं जय: भवेत्, न तु पापमिति अध्येयं व्याकरणम्।
अविद्वांस:।-
आचार्य: यदा आशीर्वचनं वदति, तदा शिष्यस्य नामोच्चारं करोति।तत्र नामोच्चारेऽन्तिम: स्वर: प्लुत: भवेदिति सङ्केतोऽस्ति।ये आचार्या: व्याकरणं न जानन्ति, ते स्वरं प्लुतं कर्तुं न शक्नुवन्ति।शिष्यवृन्दे एतादृशाम् आचार्याणाम् अवहेलना भवति।अस्माकमेवमवहेलना न भवेदिति अध्येयं व्याकरणम्।
विभक्तिं कुर्वन्ति।–
प्रयाजा नाम केचन मन्त्रा:।तेषामुच्चारणकाले सन्दर्भानुसारं विभक्ति: स्वयं योजनीया।व्याकरणज्ञानं विना एतद् न शक्यम्।अस्माकं स्वयं विभक्तिसामर्थ्यं भवेदिति अध्येयं व्याकरणम्।
यो वा इमाम्-
य: इमां वाणीं पदश: अक्षरश: स्वरश: च सम्यग्वदति, स: आर्त्वीजीन:।आर्त्वीजीन: नाम उत्तम: याजक:।वयमार्त्वीजीना: भवेम इति अध्येयं व्याकरणम्।
चत्वारि-
महत: देवस्य वर्णनमेवम्-
चत्वारि शृङ्गा त्रयो अस्य पादा:, द्वे शीर्षे सप्त हस्तासो अस्य।त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश॥
महत: देवस्य चत्वारि शृङ्गानि (नाम-आख्यात-उपसर्ग-निपाता:)
त्रय: पादा: (भूत-वर्तमान-भविष्यत्काला:)
द्वे शीर्षे (नित्य-अनित्यशब्दौ)
सप्त हस्ता: (सप्त विभक्तय:)
देव: त्रिषु स्थानेषु बद्ध: (उरसि कण्ठे शिरसि)
देव: मानवान् प्रविशति
स: महान् देव: अस्माकं शरीरं प्रविशेत् , तेन सहास्माकं साम्यं भवेद् इति अध्येयं व्याकरणम्।
उत त्व:
उत त्व: पश्यन् न ददर्श वाचम् उत त्व: शृण्वन् न शृणोत्येनाम्।उतो तु अस्मै तन्वं विसस्रे जाया इव पत्ये उशती सुवासा॥
अज्ञा: वाणीं शृण्वन्ति, न च सम्यक् शृण्वन्ति।ते वाणीं पश्यन्ति, न च सम्यक् पश्यन्ति(जानन्ति)।ज्ञानिभ्य: तु वाणी देवी स्वयं स्वरूपं विवृत्य दर्शयति। वाणीदेवता अस्मभ्यं स्वयं स्वरूपं दर्शयेदिति अध्येयं व्याकरणम्॥
सक्तुमिव
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत।अत्रा सखाय: सख्यानि जानते भद्रा एषां लक्ष्मी: निहिता अधिवाचि॥
मोक्षमार्गे वैयाकरणा: बुद्धिरूपचालन्या वाणीं शुद्धां कृत्वा परस्परं स्नेहं दृढं कुर्वन्ति।एतेषां वाण्यां कल्याणकारिणी लक्ष्मी: निवसति।अस्माकमपि वाचि लक्ष्मी: निवसेदिति अध्येयं व्याकरणम्।
सारस्वतीम्।–
आहिताग्ने: मुखाद्यदि अपशब्द: नि:सरति, तर्हि तेन प्रायश्चित्तं करणीयम्।तदर्थं स: सारस्वतीम् इष्टिं कुर्यादिति याज्ञिका: वदन्ति।एष: प्रायश्चित्तप्रसङ्ग: अस्माकं न भवेदिति अध्येयं व्याकरणम्।
दशम्यां पुत्रस्य।–
याज्ञिका: एवं वदन्ति यद् जातस्य दशमदिनाद् ऊर्ध्वं पुत्रस्य नामकरणसंस्कार: करणीय:। नाम एवं भवेत्- आदिममक्षरं घोषव्यञ्जनं स्यात्।मध्यममक्षरम् अन्त:स्थव्यञ्जनं स्यात्,नाम कृदन्तं स्यात्, तद्धितान्तं न स्यात्, वृद्धं न स्यात्। एतत् सर्वं व्याकरणज्ञानं विना न शक्यमत: अध्येयं व्याकरणम्।
सुदेवोऽसि-
सुदेवोऽसि वरुण यस्य ते सप्त सिन्धव:।अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव॥
वरुणदेव: सुदेव: अस्ति यत: यथा (अग्नि:)सुषिरां सुन्दरमूर्तिं तथा सप्तविभक्तय: तस्य तालुप्रदेशं (काकुदं) सततं शुद्धं कुर्वन्ति।वयमपि सत्यदेवा: भवेम इति अध्येयं व्याकरणम्।
पस्पशाह्निक-प्रश्नोत्तरसङ्ग्रह: